ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 1.5
वर्तमानावभासानां भावानामवभासनम् ।
अन्तःस्थितवतामेव घटते बहिरात्मना ॥
प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना ।
न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥
भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् ।
प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिद्ध्यति ॥
तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् ।
न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता ॥
न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् ।
तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम् ॥
स्यादेतदवभासेषु तेष्वेवावसिते सति ।
व्यवहारे किमन्येन बाह्येनानुपपत्तिना ॥
चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः ।
योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥
अनुमानमनाभातपूर्वे नैवेष्टमिन्द्रियम् ।
आभातमेव बीजादेराभासाद्धेतुवस्तुनः ॥
आभासः पुनराभासद्बाह्यस्यासीत्कथंचन ।
अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः ॥
स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥
स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥
आत्मात एव चैतन्यं चित्क्रियाचितिकर्तृता ।
तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः ॥
चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता ।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥
सा स्फुरत्ता महासत्ता देशकालाविशेषिनी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥
आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति ।
ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता ॥
स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्यादद्वयात्मनः ।
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥
नाहन्तादिपरामर्शभेदादस्यानयतात्मनः ।
अहंमृश्यतयाइवास्य सृष्तेस्तिङ्वाच्यकर्मवत् ॥
मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।
कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः ॥
साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा ।
धावनाद्युपपद्येत प्रतिसंधानवर्जितम् ॥
घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
परेशशक्तिरात्मेव भासते न त्विदन्तया ॥
केवलं भिन्नसम्वेद्यदेशकालानुरोधतः ।
ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥
मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0