भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 1.4

1.4.1

स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् ।
विमृशन्स इति स्वैरी स्मरतीत्यपदिश्यते ॥

1.4.2

भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन् ।
स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ॥

1.4.3

न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् ।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥

1.4.4

नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् ।
प्रागन्वभूवमहमित्यात्मारोहणभासनात् ॥

1.4.5

योगिनामपि भासन्ते न दृशो दर्शनान्तरे ।
स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा ॥

1.4.6

स्मर्यते यद्दृगासीन्मे सैवमित्यपि भेदतः ।
तद्व्याकरणमेवास्या मया दृष्टमिति स्मृतेः ॥

1.4.7

या च पश्याम्यहमिमं घटोऽयमिति वावसा ।
मन्यते समवेतं साप्यवसातरि दर्शनम् ॥

1.4.8

तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि ।
ग्राह्यग्राहकताभिन्नावर्थौ भातः पमातरि ॥

मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc