भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 2.1

2.1.1

अत एव यद् अप्य् उक्तं क्रिया नैकस्य सक्रमा
एकेत्यादि प्रतिक्षिप्तं तद् एकस्य समर्थनात् ॥

2.1.2

सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः
घटते न तु शाश्वत्याः प्राभव्याः स्यात् प्रभोर् इव ॥

2.1.3

कालः सूर्यादिसंचारस् तत्तत्पुष्पादिजन्म वा
शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥

2.1.4

क्रमो भेदाश्रयो भेदो ऽप्य् आभाससदसत्त्वतः
आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥

2.1.5

मूर्तिवैचित्र्यतो देश क्रमम् आभासयत्य् असौ
क्रियावैचित्र्यनिर्भासात् कालक्रमम् अपीश्वरः ॥

2.1.6

सर्वत्राभासभेदो ऽपि भवेत् कालक्रमाकरः
विच्छिन्नभासः शून्यादेर् मातुर् भातस्य नो सकृत् ॥

2.1.7

देशक्रमो ऽपि भावेषु भाति मातुर् मितात्मनः
स्वात्मेव स्वात्मना पूर्णा भावा भान्त्य् अमितस्य तु ॥

2.1.8

किं तु निर्माणशक्तिः साप्य् एवं विदुष ईशितुः
तथा विज्ञातृविज्ञेय भेदो यद् अवभास्यते ॥

मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc