ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 1.5
वर्तमानावभासानां भावानाम् अवभासनम्
अन्तःस्थितवताम् एव घटते बहिर् आत्मना ॥
प्रागिवार्थो ऽप्रकाशः स्यात् प्रकाशात्मतया विना
न च प्रकाशो भिन्नः स्याद् आत्मार्थस्य प्रकाशता ॥
भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत्
प्रकाशात्मा प्रकाश्यो ऽर्थो नाप्रकाशश् च सिद्ध्यति ॥
तत्तदाकस्मिकाभासो बाह्यं चेद् अनुमापयेत्
न ह्य् अभिन्नस्य बोधस्य विचित्राभासहेतुता ॥
न वासनाप्रबोधो ऽत्र विचित्रो हेतुताम् इयात्
तस्यापि तत्प्रबोधस्य वैचित्र्ये किम् निबन्धनम् ॥
स्याद् एतद् अवभासेषु तेष्व् एवावसिते सति
व्यवहारे किम् अन्येन बाह्येनानुपपत्तिना ॥
चिदात्मैव हि देवो ऽन्तः स्थितम् इच्छावशाद् बहिः
योगीव निरुपादानम् अर्थजातं प्रकाशयेत् ॥
अनुमानम् अनाभात पूर्वे नैवेष्टम् इन्द्रियम्
आभातम् एव बीजादेर् आभासाद् धेतुवस्तुनः ॥
आभासः पुनराभासद् बाह्यस्यासीत् कथं चन
अर्थस्य नैव तेनास्य सिद्धिर् नाप्य् अनुमानतः ॥
स्वामिनश् चात्मसंस्थस्य भावजातस्य भासनम्
अस्त्य् एव न विना तस्माद् इच्छामर्शः प्रवर्तते ॥
स्वभावम् अवभासस्य विमर्शं विदुर् अन्यथा
प्रकाशो ऽर्थोपरक्तो ऽपि स्फटिकादिजडोपमः ॥
आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता
तात्पर्येणोदितस् तेन जडात् स हि विलक्षणः ॥
चितिः प्रत्यवमर्शात्मा परा वाक् स्वरसोदिता
स्वातन्त्र्यम् एतन् मुख्यं तद् ऐश्वर्यं परमात्मनः ॥
सा स्फुरत्ता महासत्ता देशकालाविशेषिनी
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥
आत्मानम् अत एवायं ज्ञेयीकुर्यात् पृथक्स्थिति
ज्ञेयं न तु तदौन्मुख्यात् खण्ड्येतास्य स्वतन्त्रता ॥
स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्याद् अद्वयात्मनः
प्रभुर् ईशादिसंकल्पैर् निर्माय व्यवहारयेत् ॥
नाहन्तादिपरामर्श भेदाद् अस्यानयतात्मनः
अहंमृश्यतयाइवास्य सृष्तेस् तिङ्वाच्यकर्मवत् ॥
मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा
कथिता ज्ञानसंकल्पा -ध्यवसायादिनामभिः ॥
साक्षात्कारक्षणे ऽप्य् अस्ति विमर्शः कथम् अन्यथा
धावनाद्य् उपपद्येत प्रतिसंधानवर्जितम् ॥
घटो ऽयम् इत्य् अध्यवसा नामरूपातिरेकिणी
परेशशक्तिर् आत्मेव भासते न त्व् इदन्तया ॥
केवलं भिन्नसम्वेद्य देशकालानुरोधतः
ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥
मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0