भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 1.4

1.4.1

स हि पूर्वानुभूतार्थो -पलब्धा परतो ऽपि सन्
विमृशन् स इति स्वैरी स्मरतीत्य् अपदिश्यते ॥

1.4.2

भासयेच् च स्वकाले ऽर्थात् पूर्वाभासितम् आमृशन्
स्वलक्षणं घटाभास मात्रेणाथाखिलात्मना ॥

1.4.3

न च युक्तं स्मृतेर् भेदे स्मर्यमाणस्य भासनम्
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥

1.4.4

नैव ह्य् अनुभवो भाति स्मृतौ पूर्वो ऽर्थवत् पृथक्
प्राग् अन्वभूवम् अहम् इत्य् आत्मारोहणभासनात् ॥

1.4.5

योगिनाम् अपि भासन्ते न दृशो दर्शनान्तरे
स्वसंविदेकमानास् ता भान्ति मेयपदे ऽपि वा ॥

1.4.6

स्मर्यते यद् दृग् आसीन् मे सैवम् इत्य् अपि भेदतः
तद् व्याकरणम् एवास्या मया दृष्टम् इति स्मृतेः ॥

1.4.7

या च पश्याम्य् अहम् इमं घटो ऽयम् इति वावसा
मन्यते समवेतं साप्य् अवसातरि दर्शनम् ॥

1.4.8

तन् मया दृश्यते दृष्टो ऽयं स इत्य् आमृशत्य् अपि
ग्राह्यग्राहकताभिन्नाव् अर्थौ भातः पमातरि ॥

मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc