भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 1.3

1.3.1

सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः
जातम् अप्य् आत्मनिष्ठं तन् नाद्यानुभववेदकम् ॥

1.3.2

दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक्
रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥

1.3.3

अथातद्विषयत्वे ऽपि स्मृतेस् तदवसायतः
दृष्टालम्बनता भ्रान्त्या तद् एतद् असमञ्जसम् ॥

1.3.4

स्मृतितैव कथं तावद् भ्रान्तेश् चार्थस्थितिः कथम्
पूर्वानुभवसंकारा -पेक्षा च किम् इतीष्यते ॥

1.3.5

भ्रान्तित्वे चावसायस्य न जडाद् विषयस्थितिः
ततो ऽजाड्ये निजोल्लेख निष्ठान् नार्थस्थितिस् ततः ॥

1.3.6

एवम् अन्योन्यभिन्नानाम् अपरस्परवेदिनाम्
ज्ञानानाम् अनुसंधान जन्मा नश्येज् जनस्थितिः ॥

1.3.7

न चेद् अन्तःकृतानन्त विश्वरूपो महेश्वरः
स्याद् एकश् चिद्वपुर् ज्ञान स्मृत्यपोहनशक्तिमान् ॥

मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc