भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 1.2

1.2.1

ननु स्वलक्षणाभासं ज्ञानम् एकं परं पुनः
साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् ॥

1.2.2

नित्यस्य कस्य चिद् द्रष्टुस् तस्यात्रानवभासतः
अहंप्रतीतिर् अप्य् एषा शरीराद्यवसायिनी ॥

1.2.3

अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी
कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥

1.2.4

सत्याप्य् आत्मनि दृङ्नाशात् तद्द्वारा दृष्टवस्तुषु
स्मृतिः केनाथ यत्रैवा -नुभवस् तत्पदैव सा ॥

1.2.5

यतो हि पूर्वानुभव संस्कारात् स्मृतिसंभवः
यद्य् एवम् अन्तर्गडुना को ऽर्थः स्यात् स्थायिनात्मना ॥

1.2.6

ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह्
संस्कारात् स्मृइतिसिद्धौ स्यात् स्मर्ता द्रष्टेव कल्पितः ॥

1.2.7

ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किम् आत्मवत्
अथापि जडम् एतस्य कथम् अर्थप्रकाशता ॥

1.2.8

अथार्थस्य यथा रूपं धत्ते बुद्धिस् तथात्मनः
चैतन्यम् अजडा सैवं जाड्ये नार्थप्रकासता ॥

1.2.9

क्रियाप्य् अर्थस्य कायादेस् तत्तद्देशादिजातता
नान्यादृष्टेर् न साप्य् एका क्रमिकैकस्य चोचिता ॥

1.2.10

तत्र तत्र स्थिते तत् तद् भवतीत्य् एव दृश्यते
नान्यन् नान्यो ऽस्ति संबन्धः कार्यकारणभावतः ॥

1.2.11

द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात्
पारतन्त्र्याद्ययोगाच् च तेन कर्तापि कल्पितः ॥

मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc