ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 1.1
कथं चिद् आसाद्य महेश्वरस्य दास्यं जनस्याप्य् उपकारम् इच्छन्
समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयामि ॥
कर्तरि ज्ञातरि स्वात्मन्य् आदिसिद्धे महेश्वरे
अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ॥
किं तु मोहवशाद् अस्मिन् दृष्टे ऽप्य् अनुपलक्षिते
शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ॥
तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥
तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती
परैर् अप्य् उपलक्ष्येत तयान्यज्ञानम् ऊह्यते ॥
मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0