ईशोपनिषद (टीका सहित) · श्लोक 11-18
विद्यां चाविद्यां च यस् तद् वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते
यत एवमतो विद्यां चाविद्यां च देवताज्ञानं कर्म चेत्यर्थः ।
यस्तदेतदुभयं सहैकेन पुरुषेण अनुष्ठेयं वेद तस्यैवं समुच्चयकारिण एव एकपुरुषार्थसम्बन्धः क्रमेण स्यादित्युच्यते ।
अविद्यया कर्मणा अग्निहोत्रादिना मृत्युं स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यमुभयं तीर्त्वा अतिक्रम्य विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते प्राप्नोति ।
तद्ध्यमृतमुच्यते यद्देवतात्मगमनम्
अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते ।
अन्धं तमः प्रविशन्ति ये ऽसम्भूतिम् उपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः
अन्धं तमः प्रविशन्ति ये असम्भूतिं सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः तस्या अन्या असम्भूतिः प्रकृतिः कारणमविद्या अव्याकृताख्या तामसम्भूतिमव्याकृताख्यां प्रकृतिं कारणमविद्यां कामकर्मबीजभूतामदर्शनात्मिकामुपासते ये ते तदनुरूपमेवान्धं तमो ऽदर्शनात्मकं प्रविशन्ति ।
ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति य उ सम्भूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः
अधुनोभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह--
अन्यद् एवाहुः संभवाद् अन्यद् आहुर् असंभवात् ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे
अन्यदेव पृथगेवाहुः फलं सम्भवात्सम्भूतेः कार्यब्रह्मोपासनादणिमाद्यैश्वर्यलक्षणं व्याख्यातवन्त इत्यर्थः ।
तथा चान्यदाहुः असम्भवादसम्भूतेख्याकृताद् अव्याकृतोपासनात् ।
यदुक्तमन्धन्तमः प्रविशन्तीति प्रकृतिलय इति च पौराणिकैरुच्यत इत्येवं शुश्रुम धीरणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्त इत्यर्थः
यत एवमतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्त एवैकपुरुषार्थत्वाच्चेत्याह--
संभूतिं च विनाशं च यस् तद् वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेन उच्यते विनाश इति, तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्युं तीर्त्वा-- हिरण्यगर्भोपासनेनाप्ति ह्याणिमादिप्राप्तिः फलम्, तेनानैश्वर्यादिमृत्युमतीत्य असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयलक्षणमश्नुते ।
सम्भूतिं च विनाशं चेत्यत्रावर्णलोपेन निर्देशो द्रष्टव्यः प्रकृतिलयफलश्रुत्यनुरोधात्
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् ।
एतावती संसारगतिः ।
अतः परं पूर्वोक्तमात्मैवाभूद्विजानत इति सर्वात्मभाव एव सर्वेषणासंन्यासज्ञाननिष्ठाफलम् ।
एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थो ऽत्र प्रकाशितः ।
तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् ।
निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशने ऽत ऊर्ध्वं बृहदारण्यकमुपयुक्तम् ।
तत्र निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया तदुक्तं ऽविद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमस्नुतेऽ इति ।
तत्र केन मार्गेणामृतत्वमश्नुत इत्युच्यते ।
तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुष एतदुभयं सत्यम् ।
ब्रह्मोपासीनो यथोक्तकर्मकृच्च यः सो ऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते ऽहिरण्मयेन पात्रेणऽ इति ।
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत् त्वं पूषन्न् अपावृणु सत्यधर्माय दृष्टये
हिरण्मयमिव हिरण्मयं ज्योतिर्मयमित्येतत् ।
तेन पात्रेणेव अपिधानभूतेन सत्यस्यैवादित्यमण्डलस्थस्य ब्राह्मणो ऽपिहितम् आच्छादितं मुखं द्वारम् ।
तत्त्वं हे पूषन्नपावृण्वपसारय सत्यस्य उपासनात्सत्यं धर्मो यस्य मम सो ऽहं सत्यधर्मा तस्मै मह्यमथवा यथाभूतस्य धर्मस्यानुष्ठात्रे दृष्टये तव सत्यात्मन उपलब्धये
पूषन्न् एकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
यत् ते रूपं कल्याणतमं तत् ते पश्यामि यो ऽसाव् असौ पुरुषः सो ऽहम् अस्मि
हे पूषन्! जगतः पोषणात्पूषा रविस्तथैक एव ऋषति गच्छति इत्येकर्षिः-- हे एकर्षे! तथा सर्वस्य संयमनाद्यमः-- हे यम! तथा रश्मीनां प्राणानां रसानाञ्च स्वीकरणात् सूर्यः-- हे सूर्य! प्रजापतेरपत्यं प्राजापत्यः-- हे प्राजापत्य! व्यूह विगमय रश्मीन्स्वान् ।
समूह एकीकुरु उपसंहरते तेजस्तापकं ज्योतिः ।
यत्ते तव रूपं कल्याणतमम् अत्यन्तशोभनं तत्ते तवात्मनः प्रसादात् पश्यामि ।
किञ्चाहं न तु त्वां भृत्यवद्याचे यो ऽसावादित्यमण्डलस्थो व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात्पूर्णं वानेन प्राणबुद्धयात्मना जगत्समस्तमिति पुरुषः पुरि शयनाद्वा पुरुषः सो ऽहमस्मि भवामि
वायुर् अनिलम् अमृतम् अथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर
अथेदानीं मम मरिष्यतो वायुः प्राणो ऽध्यात्मपरिच्छेदं हित्वाधिदैवतात्मानं सर्वात्मकमनिलममृतं सूत्रात्मानं प्रतिपद्यतामिति वाक्यशेषः ।
लिङ्गं चेदं ज्ञानकर्मसंस्कृतमुत्क्रामत्विति द्रष्टव्यम्, मार्गयाचनसामर्थ्यात् ।
अथेदं शरीरमग्नौ हुतं भस्मान्तं भूयात् ।
ओम् इति यथोपासनम् ओंप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते ।
हे क्रतो! सङ्कल्पात्मक! स्मर यन्मम स्मर्तव्यं तस्य कालो ऽयं प्रत्युपस्थितो ऽतः स्मर ।
एतावन्तं कालं भावितं कृतमग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर ।
क्रतो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम्
पुनरन्येन मन्त्रेण मार्गं याचते--
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम उक्तिं विधेम
हे अग्ने! नय गमय सुपथा शोभनेन मार्गेण ।
सुप्रथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् ।
निर्विण्णो ऽहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः पुनर्गमनागमनवर्जितेन शोभनेन पथा नय ।
राये धनाय कर्मफलभोगायेत्यर्थः, अस्मान्यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव! वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन् ।
किञ्च युयोधि वियोजय विनाशय अस्मदस्मत्तो जुहुराणं कुटिलं वञ्चनात्मकमेनः पापम् ।
ततो वयं विशुद्धाः सन्त इष्टं प्राप्स्याम इत्यभिप्रायः ।
किन्तु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम् ।
भूयिष्ठां बहुतरां ते तुभ्यं नम उक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ।
ऽअविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ।ऽ (ई.उ.11) ऽविनाशेन मृत्युं तीर्त्वासम्भूत्यामृतमश्नुतेऽ (ई.उ.14) इति श्रुत्वा केचित्संशयं कुर्वन्ति ।
अतस्तन्निराकरणार्थं संक्षेपतो विचारणां करिष्यामः ।
तत्र तावक्तिन्निमित्तः संशय इत्युच्यते ।
विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते ऽमृतत्वञ्च ।
नानुक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः ।
सत्यम् ।
विरोधस्तु नावगम्यते विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् ।
यथाविद्यानुष्ठानं विद्योपासनञ्च शास्त्रप्रमाणकं तथा तद्विरोधाविरोधावपि ।
यथा च न हिंस्यात्सर्वा भूतानीति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ऽध्वरे पशुं हिंस्यादिति ।
एवं विद्याविद्ययोरपि स्यात् ।
विद्याकर्मणोश्च समुच्चयः ।
न"दूरमेते विपरीते विषूची अविद्या या च विद्या"(क.उ.1 । 2 । 4) इति श्रुतेः ।
विद्यां चाविद्यां चेति वचनादविरोध इति चेत्?
न ; हेतुस्वरूपफलविरोधात् ।
विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात्समुच्चयविधानादविरोध एवेति चेत्?
न? सहसम्भवानुपपत्तेः ।
क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत्?
न ; विद्योत्पत्तौ अविद्याया ह्यास्तत्वात्तदाश्रये ऽविद्यानुपपत्तेः ।
न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नं तस्मिन्नेवाश्रये शीतो ऽग्निरप्रकाशो वेत्यविद्याया उत्पत्तिर्नापि संशयो ऽज्ञानं वा"यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः"(ई.उ.7) इति शोकमोहाद्यसम्भवश्रुतेः ।
अविद्यासम्भवात्तदुपादानस्य कर्मणो ऽप्यनुपपत्तिम् अवोचाम ।
अमृतमश्नुत इत्यापेक्षिकम् अमृतम् ।
विद्याशब्देन परमात्मविद्याग्रहणे हिरण्मयेनेत्यादिना द्वारमार्गादियाचनमनुपपन्नं स्यात् ।
तस्मादुपासनया समुच्चयो न परमात्मविज्ञानेनेति यथास्माभिर्व्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते
मूल पाठ: Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0