ईशोपनिषद (टीका सहित) · श्लोक 1-10
ईश-उपनिषद् (ईशोपनिषद् ओर् ईशावास्योपनिसद्), काण्व रेचेन्सिओन् wइथ् थे चोम्मेन्तर्य् अस्च्रिबेद् तो शंकर
ओं
तत् सद् ब्राह्मणे नमः
ईशावास्योपनिषद्
ओं पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते ।
पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥
ओं शान्तिः शान्तिः शान्तिः ।
ईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्ताः ।
तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् ।
याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् ।
तच्च कर्मणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः ।
न ह्येवं लक्षणमात्मनो याथात्म्यमुत्पाद्यं विकार्यमाप्यं संस्कार्यं कर्तृभोक्तृरूपं वा येन कर्मशेषता स्यात् ।
सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैव उपक्षयात् ।
गीतानां मोक्षधर्माणां चैवं परत्वात् ।
तस्मादात्मनो ऽनेकत्वकर्तृत्वभोक्तृत्वादि चाशुद्धत्वापापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धकर्माणि विहितानि ।
यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिनादृष्टेन स्वर्गादिना च द्विजातिरहं न काणकुब्जत्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सो ऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति ।
तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेन आत्मविषयं स्वाभाविकमज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्ति ।
इत्येवमुक्ताधिकार्यभिधेयसम्बन्धप्रयोजनान्मन्त्रान्संक्षेपतो व्याख्यास्यामः ।
ओं
ईशा वास्यम् इदं सर्वं यत् किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्
ईशा ईष्ट इतीट् तेनेशा ।
ईशिता परमेश्वरः परमात्मा सर्वस्य ।
स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन्प्रत्यगात्मतया तेन स्वेन रूपेणात्मनेशा वास्यमाच्छादनीयम् ।
किम्? इदं सर्व यत्किञ्च यत्किञ्चिज्जगत्यां पृथिव्यां जगत्तत्सर्वं स्वेनात्मना ईशेन प्रत्यगात्मतयाहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं स्वेन परमात्मना ।
यथा चन्दनागर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेन आच्छाघते स्वेन पारमार्थिकेन गन्धेन ।
तद्वदेव हि स्वात्मनि अध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगदद्वैतरूपं जगत्यां पृथिव्याम्, जगत्यामिति उपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् ।
एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यास एवाधिकारो न कर्मसु ।
तेन त्यक्तेन त्यागेनेत्यर्थः ।
न हि त्यक्तो मृतः पुत्रो वा भृत्यो वा आत्मसम्बन्धिताया अभावात् आत्मानं पालयति अतस्त्यागेन इत्ययमेव वेदार्थः-- भुञ्जीथाः पालयेथाः ।
एवं त्यक्तैषणस्त्वं मा गृधः गृधिमाकाङ्क्षां मा कार्षीर्धनविषयाम् कस्यस्विद्धनं कस्यचित्परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः ।
स्विदित्यनर्थको निपातः ।
अथवा मा गृधः ।
कस्मात्? कस्यस्विद्धनमित्याक्षेपार्थो न कस्यचिद्धनमस्ति यद्गृध्येत ।
आत्मैवेदं सर्वमितीश्वरभावनया सर्वं त्यक्तमत आत्मन एवेदं सर्वमात्मैव च सर्वमतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः
एवमात्मविदः पुत्राद्येषणात्रयसंन्यासेनात्मज्ञाननिष्ठतयात्मा रक्षितव्य इत्येष वेदार्थः ।
अथ इतरस्यानात्मज्ञतया आत्मग्रहणाय अशक्तस्येदमुपदिशति मन्त्रः--
कुर्वन्न् एवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे
कुर्वन्नेव इह निवर्तयन्नेव कर्माण्यग्निहोत्रादीनि जिजीविषेज्जीवितुमिच्छेच्छतं शतसङ्ख्याकाः समाः संवत्सरान् ।
तावद्धि पुरुषस्य परमायुर्निरूपितम् ।
तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत् कुर्वन्नेव कर्माणीत्येतद्विधीयते ।
एवमेवम्प्रकारेण त्वयि जिजीविषति नरे नरमात्राभिमानिनीत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः ।
अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ।
कथं पुनरिदमवगम्यते पूर्वेण संन्यासिनो ज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेति ।
उच्यतेः ज्ञानकर्मणोर्विरोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम् ।
इहाप्युक्तं ऽयो हि जिजीविषेत् स कर्म कुर्वन्ऽ ऽईशावास्यमिदं सर्वम्ऽ ऽतेन त्यक्तेन भुञ्जीथाःऽ ऽमा गृधः कस्यस्विद्धनम्ऽ इति च ।
ऽन जीविते मरणे वा गृधिं कुर्वीतारण्यमियादिति च परम् ; ततो न पुनरियात्ऽ इति संन्यासासनात् ।
उभयोः फलभेदं च वक्ष्यति ।
इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्चोत्तरेण ।
निवृत्तिमार्गेण एषणात्रयस्य त्यागः ।
तयोः संन्यासपथ एवातिरेचयति ।
"न्यास एवात्यरेचयत्"इति च तैत्तिरीयके ।
"द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तश्च विभावितः" ॥
इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता विभागञ्चानयोः दर्शयिष्यामः
अथेदानीमविद्वन्निन्दार्थो ऽयं मन्त्र आरभ्यते --
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः
असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयो ऽप्यसुरास्तेषाञ्च स्वभूता लोका असुर्या नाम ।
नामशब्दो ऽनर्थको निपातः ।
ते लोकाः कर्मफलानि ।
लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि ।
अन्धेनादर्शनात्मकेनाज्ञानेन तमसावृता आच्छादिताः तांस्थावरान्तान्प्रेत्य त्यक्त्वेमं देहमभिगच्छन्ति यथाकर्म यथाश्रुतम् ।
आत्मानं घ्नन्तीत्यात्महनाः ।
के ते जनाः ये ऽविद्वांसः ।
कथं त आत्मानं नित्यं हिंसन्ति ।
अविद्यादोषेण विद्यमानस्यात्मनः तिरस्करणात् विद्यमानस्य आत्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनलक्षणं तद्धतस्येव तिरोभूतं भवतीति प्राकृताविद्वांसो जनाः जनाः आत्महन उच्यन्ते ।
तेन ह्यात्महननदोषेण संसरन्ति ते
यस्यात्मनो हननादविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांसो जना मुच्यन्ते ते नात्महनः तत् कीघ्शमात्मतच्वमित्युच्यते--
अनेजद् एकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतो ऽन्यानत्येति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति
अनेजत् न एजत् ।
एजृ कम्पने, कम्पनं चलनं स्वावस्थाप्रच्युतिस्तद्वर्जितं सर्वदैकरूपमित्यर्थः ।
तच्चैकं सर्वभूतेषु मनसः सङ्कल्पादिलक्षणाद् जवीयो जववत्तरम् ।
कथं विरुद्धमुच्यते ध्रुवं निश्चलमिदं मनसो जवीय इति च ।
नैष दोषः ।
निरुपाध्युपाधिमत्त्वेनोपपत्तेः तत्र निरुपाधिकेन स्वेन रूपेणोच्यते अनेजदेकमिति मनसो ऽन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्योपाधेरनुवर्त्तनाद् इह देहस्थस्य मनसो ब्रह्मलोकादिदूरगमनं सङ्कल्पेन क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् ।
तस्मिन् मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति प्रथमं प्राप्त इवात्मचैतन्यावभासो गृह्यते ऽतो मनसो जवीय इत्याह ।
नैनद्देवा द्योतनाद्देवाश्चक्षुरादीनीन्द्रियाण्येतत्प्रकृतमात्मतत्त्वं नाप्नुवन्न प्राप्तवन्तः ।
तेभ्यो मनो जवीयः मनोव्यापारव्यवहितत्वाद् आभासमात्रमपि आत्मनो नैव देवानां विषयीभवति ।
यस्माज्जवनान्मनसो ऽपि पूर्वमर्षत् पूर्वमेव गतं व्योमवद्व्यापित्वात् सर्वव्यापि तदात्मतत्त्व सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सदुपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीत्यविवेकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह ।
तद्धावतो द्रुतं गच्छतो ऽन्यानात्मविलक्षणान्मनोवागिन्द्रियप्रभृतीनत्येति अतीत्य गच्छति इव ।
इवार्थं स्वयमेव दर्शयति तिष्ठदिति स्वयमविक्रियमेव सदित्यर्थः ।
तस्मिन्नात्मतत्त्वे सति नित्यचैतन्यस्वभावे मातरिश्वा वायुः सर्वप्राणभृत् क्रियात्मको यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगतो विघारयितृ स मातरिश्वा; अपः कर्माणि प्राणिनां चेष्टालक्षणानि, अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि दधाति विभजति इत्यर्थः ।
धारयतीति वा"भीषास्माद्वातः पवते" (तै. उ. 2 । 8 । 1) इत्यादि श्रुतिभ्यः ।
सर्वा हि कार्यकरणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः
न मन्त्राणां जामितास्तिति पूर्वमन्त्रोक्तमप्यर्थ पुनराह--
तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके ।
तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः
तदात्मतत्त्वं यत्प्रकृतं तदेजति चलति तदेव च नैजति स्वतो नैव चलति स्वतो ऽचलमेव सत्
चलतीवेत्यर्थः ।
किञ्च तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद् दूर इव ।
तद् उ अन्तिके इति च्छेदः ।
तद्वन्तिके समीपे ऽत्यन्तमेव विदुषामात्मत्वान्न केवलं दूरे ऽन्तिके च ।
तदन्तरभ्यन्तरे ऽस्य सर्वस्य"य आत्मा सर्वान्तरः"(बृ. उ. 3 । 4 । 1) इति श्रुतेः अस्य सर्वस्य जगतो नाम रूपक्रियात्मकस्य तदु अपि सर्वस्य अस्य बाह्यतो व्यापकत्वादाकाशवन्निरतिशयसूक्ष्मत्वाद् अन्तः ।
"प्रज्ञानघन एव"(बृ. उ. 4 । 5 । 13) इति च शासनान्निरन्तरं च
यस् तु सर्वाणि भूतान्य् आत्मन्य् एवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते
यः परिव्राड् मुमुक्षुः सर्वाणि भूतान्यव्यक्तादीनि स्थावरान्तानि आत्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीत्यर्थः, सर्वभूतेषु च तेष्वेव चात्मानं तेषाम् अपि भूतानां स्वमात्मानमात्मत्वेन यथास्य देहस्य कार्यकरणसङ्धातस्यात्मा अहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणो ऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मेति सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति स ततस्तस्मादेव दर्शनान्न विजुगुप्सते विजुगुप्सां घृणां न करोति ।
प्राप्तस्यैवानुवादो ऽयम् ।
सर्वा हि घृणात्मनो ऽन्यद्दुष्टं पश्यतो भवति, आत्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तम् अर्थान्तरमस्तीति प्राप्तमेव ।
ततो न विजुगुप्सत इति
इममेवार्थमन्यो ऽपि मन्त्र आह--
यस्मिन् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः
यस्मिन्काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनादात्मैवाभूद् आत्मैव संवृतः परमार्थवस्तु विजानतः तत्र तस्मिन्काले तत्रात्मनि वा को मोहः कः शोकः ।
शोकश्च मोहश्च कामकर्मबीजम् अजानतो भवति ।
न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः को मोहः कः शोक इति शोकमोहयोरविद्याकार्ययोराक्षेपेण असम्भवप्रदर्शनात् सकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति
यो ऽयमतीतैर्मन्त्रैरुक्त आत्मा स स्वेन रूपेण किंलक्षण इत्याहायं मन्त्रः--
स पर्यगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरं शुद्धम् अपापविद्धम् ।
कविर् मनीषी परिभूः स्वयम्भूर् याथातथ्यतोर् ऽथान् व्यदधाच् छाश्वतीभ्यः समाभ्यः
स यथोक्त आत्मा पर्यगात् परि समन्तादगाद्गतवानाकाशवद्व्यापी इत्यर्थः ।
शुक्रं शुद्धं ज्योतिष्मद्दीप्तिमानित्यर्थः ।
अकायमशरीरो लिङ्गशरीरवर्जित इत्यर्थः ।
अव्रणम् अक्षतम् ।
अस्नाविरं स्नावाः शिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् ।
अव्रणमस्नाविरमित्याभ्यां स्थूलशरीरप्रतिषेधः ।
शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः ।
अपापविद्धं धर्माधर्मादिपापवर्जितम् ।
शुक्रमित्यादीनि वचांसि पुल्लिङ्गत्वेन परिणेयानि ।
स पर्यगादित्युपक्रम्य कविर्मनीषीत्यादिना पुल्लिङ्गत्वेनोपसंहारात् ।
कविः क्रान्तदर्शी सर्वादृक् ।
"नान्यो ऽतो ऽस्ति द्रष्टा"(बृ. उ. 3 । 8 । 11) इत्यादिश्रुतेः ।
मनिषी मनस ईषिता सर्वज्ञ ईश्वर इत्यर्थः ।
परिभूः सर्वेषां पर्युपरि भवतीति परिभूः ।
स्वयम्भूः स्वयमेव भवतीति ।
येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः ।
स नित्यमुक्त ईश्वरो याथातथ्यतः सर्वज्ञत्वाद्यथातथाभावो याथातथ्यं तस्माद्यथाभूतकर्मफलसाधनतोर्ऽथान् कर्त्तव्यपदार्थान् व्यदधाद्विहितवान् यथानुरूपं व्यभजदित्यर्थः, शाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः
अत्राद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः"ईशा वास्यमिदं सर्वं...मा गृधः कस्यस्विद्धनम्"इति ।
अज्ञानां जिजीविषूणां ज्ञाननिष्ठासम्भवे"कुर्वन्नेवेह कर्माणि...जिजीविषेत्"इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः ।
अनयोश्व निष्ठयोर्विभागो मन्त्रप्रदर्शितयोर्बृहदारण्यके ऽपि प्रदर्शितः "सो ऽकामयत जाया मे स्यात्"(बृ. उ. 1 । 4 । 17) इत्यादिना अज्ञस्य कामिनः कर्माणीति ।
"मन एवास्यात्मा वाग्जाया"(बृ. उ. 1 । 4 । 17) इत्यादिवचनाद् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते ।
तथा च तत्फलं सप्तान्नसर्गस्तेष्वात्मभावेनात्मस्वरूपावस्थानम् ।
जायाद्येषणात्रयसंन्यासेन च आत्मविदां कर्मनिष्ठाप्रातिकूल्येनात्मस्वरूपनिष्ठैव दर्शिता"किं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकः"(बृ. उ. 4 । 4 । 22) इत्यादिना ।
ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्यो ऽसुर्या नाम त इत्यादिना अविद्वन्निन्दाद्वारेण आत्मनो याथात्म्यं स पर्यगात् इत्येतदन्तैर्मन्त्रैरुपदिष्टम् ।
ते ह्यत्राधिकृता न कामिन इति ।
तथा च श्वेताश्वतराणां मन्त्रोपनिषदि"अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्"(श्वे. उ. 6 । 21) इत्यादि विभज्योक्तम् ।
ये तु कर्मिणः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते--
अन्धं तमः प्रविशन्ति ये ऽविद्याम् उपासते ।
ततो भूय इव ते तमो य उविद्यायां रताः
कथं पुनरेवमवगभ्यते न तु सर्वेषाम् इति ।
उच्यते--अकामिनः साध्यसाधनभेदोपमर्देन ऽयस्मिन् सर्वाणि भूतान्यात्मैवाभूद्धिजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ऽ इति यदात्मैकत्वविज्ञानम्[उक्तम् टतन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति ।
इह तु समुच्चिचीषया अविद्वदादिनिन्दा क्रियते ।
तत्र च यस्य येन समुच्चयः सम्भवति न्यायतः शास्त्रतो वा तदिहोच्यते यद्दैवं वित्तं देवताविषयं ज्ञानं कर्मसम्बन्धित्वेनोपन्यस्तं न परमात्मज्ञानम् ।
"विद्यया देवलोकः"(बृ.उ.1 । 5 । 16) इति पृथक्फलश्रवणात् ।
तयोर्ज्ञानकर्मणोरिह एकैकानुष्ठाननिन्दा समुच्चिचीषया न निन्दापरैव एकैकस्य पृथक्फलश्रवणात्"विद्यया तदारोहन्ति" "विद्यया देवलोकः"(बृ.उ.1 । 5 । 16) "न तत्र दक्षिणा यन्ति" "कर्मणा पितृलोकः"(बृ.उ.1 । 8 । 16) इति ।
न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् ।
तत्र अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति ।
के? ये ऽविद्यां विद्याया अन्या अविद्या तां कर्म इत्यर्थः,
कर्मणो विद्याविरोधित्वात् ; तामविद्यामग्निहोत्रादिलक्षणामेव केवलामुपासते तत्पराः सन्तो ऽनुतिष्ठन्तीत्यभिप्रायः ।
ततस्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति, के? कर्म इत्वा ये उ ये तु विद्यायामेव देवताज्ञान एव रताः अभिरताः ।
तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह ; अन्यथा फलवदफलवतोः सन्निहितयोरङ्गाङ्गितैव स्यात् इत्यर्थः
अन्यद् एवाहुर् विद्ययान् यद् आहुर् अविद्यया ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे
अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुर्वदत्ति"विद्यया देवलोकः"(बृ.उ.1 । 6 । 16) "कर्मणा क्रियते कर्मणा पितृलोकः"(बृ.उ.1 । 5 । 16) इति श्रुतेः ।
इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् ।
ये आचार्या नो ऽस्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पारम्पर्यागत इत्यर्थः
मूल पाठ: Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0