भाषा

ENहिગુ
ग्रंथ पाठ

हितोपदेश · अध्याय 2

2.1

--ओ)0(ओ--
इइ.
सुहृद्-भेदः
अथ राज-पुत्रा ऊचुः-आर्य ! मित्रलाभः श्रुतस् तावद् अस्माभिः । इदानीं सुहृद्-भेदं श्रोतुम् इच्छामः ।
विष्णुशर्मोवाच-सुहृद्-भेदं तावच् छृणुत, यस्यायम् आद्यः श्लोकः-
वर्धमानो महान् स्नेहो मृगेन्द्र-वृषयोर् वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः

2.2

राज-पुत्रैर् उक्तम्-कथम् एतत् ?
विष्णुशर्मा कथयति-अस्ति दक्षिणा-पथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग् निवसति । तस्य प्रचुरेऽपि वित्तेऽ परान् बन्धून् अतिसमृद्धान् समीक्ष्य पुनर् अर्थ-वृद्धिः करणीयेति मतिर् बभूव । यतः,
अधो ऽधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति

2.3

अपरं च-
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
शशिनस् तुल्य-वंशो ऽपि निर्धनः परिभूयते

2.4

अन्यच् च-
अव्यवसायिनम् अलसं दैव-परं सहसाच् च परिहीणम् ।
प्रमदेव हि वृद्ध-पतिं नेच्छत्य् अवगूहितुं लक्ष्मीः

2.5

किं च-
आलस्यं स्त्री-सेवा स-रोगता जन्म-भूमि-वात्सल्यम् ।
सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य

2.6

यतः-
सम्पदा सुस्थिरं-मन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर् मन्ये न वर्धयति तस्य ताम्

2.7

अपरं च-
निरुत्साहं निरानन्दं निर्वीर्यम् अरि-नन्दनम् ।
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम्

2.8

तथा चोक्तम्-
अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत्

2.9

यतो ऽलब्धम् इच्छतो ऽर्थ-योगाद् अर्थस्य प्राप्तिर् एव । लब्धस्याप्य् अरक्षितस्य निधेर् अपि स्वयं विनाशः । अपि च, अवर्धमानश् चार्थः काले स्वल्प-व्ययो ऽप्य् अञ्जनवत् क्षयम् एति । नौपभुज्यमानश् च निष्प्रयोजन एव सः । तथा चोक्तम्-
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश् च रिपून् न बाधते ।
श्रुतेन किं यो न च धर्मम् आचरेत्
किम् आत्मना यो न जितेन्द्रियो भवेत्

2.10

यतः,
जल-बिन्दु-निपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्व-विद्यानां धर्मस्य च धनस्य च

2.11

दानोपभोग-रहिता दिवसा यस्य यान्ति वै ।
स कर्म-कार-भस्त्रेव श्वसन्न् अपि न जीवति

2.12

इति संचिन्त्य नन्दक-सजीवक-नामानौ वृषभौ धुरि नियोज्य शकटं नानाविध-द्रव्य-पूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच् च-
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् ।
अवन्ध्यं दिवसं कुर्याद् दानाध्ययन-कर्मभिः

2.13

यतः-
को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रिय-वादिनाम्

2.14

अथ गच्छतस् तस्य सुदुर्ग-नाम्नि महारण्ये सञ्जीवको भग्न-जानुर् निपतितः । तम् आलोक्य वर्धमानो ऽचिन्तयत्-
करोतु नाम नीति-ज्ञो व्यवसायम् इतस् ततः ।
फलं पुनस् तद् एव स्याद् यद् विधेर् मनसि स्थितम्

2.15

किन्तु-
विस्मयः सर्वथा हेयः प्रत्यूहः सर्व-कर्मणाम् ।
तस्माद् विस्मयम् उत्सृज्य साध्ये सिद्धिर् विधीयताम्

2.16

इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायम् अन्यं वृषभम् एकं समानीय धुरि नियोज्य चलितः । ततः संजीवको ऽपि कथं कथम् अपि खुर-त्रये भरं कृत्वोत्थितः । यतः-
निमग्नस्य पयो-राशौ पर्वतात् पतितस्य च ।
तक्षकेणापि दष्टस्य आयुर् मर्माणि रक्षति

2.17

नाकाले मिर्यते जन्तुर् विद्धः शर-शतैर् अपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्त-कालो न जीवति

2.18

अरक्षितं तिष्ठति दैव-रक्षितं
सुरक्षितं दैव-हतं विनश्यति ।
जीवत्य् अनाथो ऽपि वने विसर्जितः
कृत-प्रयत्नो ऽपि गृहे न जीवति

2.19

ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहार-विहारं कृत्वारण्यं भ्राम्यन् हृष्ट-पुष्टाङ्गो बलवन् ननाद । तस्मिन् वने पिङ्गलक-नामा सिंहः स्व-भुजोपार्जित-राज्य-सुखम् अनुभवन् निवसति । तथा चोक्तम्-
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जित-राज्यस्य स्वयम् एव मृगेन्द्रता

2.20

स चैकदा पिपासाकुलितः पानीयं पातुं यमुना-कच्छम् अगच्छत् । तेन च तत्र सिंहेनाननुभूत-पूर्वकम् अकाल-घन-गर्जितम् इव संजीवक-नर्दितम् अश्रावि । तच् छ्रुत्वा पानीयम् अपीत्वा स-चकितः परिवृत्य स्व-स्थानम् आगत्य किम् इदम् इत्य् आलोचयंस् तूष्णीं स्थितः । स च तथाविधः करट-कदमनकाभ्याम् अस्य मन्त्रि-पुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकम् आह-सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मन्दं मन्दम् अवतिष्ठते ।
करटको ब्रूते-मित्र दमनक ! अस्मन्-मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किम् अनेन स्वामि-चेष्टानिरूपेणास्माकम् । यतो ऽनेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्-दुःखम् अनुभूतम् ।
सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् ।
स्वातन्त्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम्

2.21

अपरं च-
शीत-वातातप-क्लेशान् सहन्ते यान् पराश्रिताः ।
तद्-अंशेनापि मेधावी तपस् तप्त्वा मुखी भवेत्

2.22

अन्यच् च-
एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु ।
प्राणैर् अर्थैर् धिया वाचा श्रेय एवाचरेत् सदा

2.23

अपरं च-
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इति वित्रस्त-सारङ्ग-नेत्रया को न वञ्चितः

2.24

किं च-
अबुधैर् अर्थ-लाभाय पण्य-स्त्रीभिर् इव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणी-कृतः

2.25

किं च-
या प्रकृत्यैव चपला निपतत्य् अशुचाव् अपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं ताम् अपि सेवकाः

2.26

अपरं च-
मौनान् मूर्खः प्रवचन-पटुर् बातुलो जल्पको वा
क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः
सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः

2.27

विशेषतश् च-
प्रणमत्य् उन्नति-हेतोर् जीवित-हेतोर् विमुञ्चति प्राणान् ।
दुःखीयति सुख-हेतोः को मूढः सेवकाद् अन्यः

2.28

दमनको ब्रूते-मित्र सर्वथा मनसापि नैतत् कर्तव्यम्, यतः-
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान्

2.29

अन्यच् च-
कुतः सेवा-विहीनानां चामरोद्धूत-सम्पदः ।
उद्दण्ड-धवल-च्छत्रं वाजि-वारण-वाहिनी

2.30

करटको ब्रूते-तथापि किम् अनेनास्माकं व्यापारेण । यतो ऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य-
अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति ।
स एव निधनं याति कीलोत्पटीव वानरः

2.31

दमनकः पृच्छति--कथम् एतत् ?
करकटः कथयति-
कथा 1
अस्ति मगध-देशे धर्मारण्य-संनिहित-वसुधायां शुभदत्त-नाम्ना कायस्थेन विहारः कर्तुम् आरब्धः । तत्र करपत्रदार्य-माणैक-स्तम्भस्य कियद् दूरस्फाटितस्य काष्ठ-खण्ड-द्वय-मध्ये कीलकः सूत्र-धारेण निहितः । तत्र बलवान् वानर-यूथः क्रीडन्न् आगतः । एको वानरः काल-प्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहज-चपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्ड-द्वयः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि-अव्यापरेषु व्यापारम् इत्य् आदि ।
दमनको ब्रूते-तथापि स्वामि-चेष्टा-निरूपणं सेवकेनावश्यं करणीयम् ।
करटको ब्रूते-सर्वस्मिन्न् अधिकारे य एव नियुक्तः प्रधान-मन्त्री स करोतु । यतो ऽनुजीविना पराधिकार-चर्चा सर्वथा न कर्तव्या । पश्य-
पराधिकार-चर्चा यः कुर्यात् स्वामि-हितेच्छया ।
स विषीदति चीत्काराद् गर्दभस् ताडितो यथा

2.32

दमनकः पृच्छति--कथम् एतत् ?
करटको ब्रूते-
कथा 2
अस्ति वाराणस्यां कर्पूर-पटको नाम रजकः । स रात्रौ गाढ-निद्रायां प्रसुप्तः । तद्-अनन्तरं तद्-गृह-द्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस् तिष्ठति । कुक्कुरश् चोपविष्टो ऽस्ति । अथ गर्दभः श्वानम् आह-सखे ! भवतस् तावद् अयं व्यापारः । तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ।
कुक्कुरो ब्रूते-भद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वम् एव किं न जानासि यथा तस्याहर्निशं गृह-रक्षां करोमि । यतो ऽयं चिरान् निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहार-दाने मन्दादरः । यतो विना विधुर-दर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति ।
गर्दभो ब्रूते-शृणु रे बर्बर !
याचते कार्य-काले यः स किं-भृत्यः स किं-सुहृत् ।
कुक्कुरो ब्रूते-
भृत्यान् सम्भाषयेद् यस् तु कार्य-काले स किं-प्रभुः

2.33

यतः-
आश्रितानां भृतौ स्वामि-सेवायां धर्म-सेवने ।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः

2.34

ततो गर्दभः स-कोपम् आह-अरे दुष्ट-मते ! पापीयांस् त्वं यद् विपत्तौ स्वामि-कार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन् मया कर्तव्यम् । यतः-
पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम् ।
स्वामिनं सर्व-भावेन परलोकम् अमायया

2.35

इत्य् उक्त्वातीव चीत्कार-शब्दं कृतवान् । ततः स रजकस् तेन चीत्कारेण प्रबुद्धो निद्रा-भङ्ग-कोपाद् उत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वम् अगमत् । अतो ऽहं ब्रवीमि-पराधिकार-चर्चाम् इत्य् आदि । पश्य, पशूनाम् अन्वेषणम् एवास्मन्-नियोगः । स्व-नियोग-चर्चा क्रियताम् । किन्त्व् अद्य तया चर्चया न प्रयोजनम् । यत आवयोर् भक्षित-शेषाहारः प्रचुरो ऽस्ति ।
दमनकः सरोषम् आह-कथम् आहारार्थी भवान् केवलं राजानं सेवते ? एतद् अयुक्तम् उक्तं त्वया । यतः-
सुहृदाम् उपकार-कारणाद्
द्विषताम् अप्य् अपकार-कारणात् ।
नृप-संश्रय इष्यते बुधैर्
जठरं को न बिभर्ति केवलम्

2.36

जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य आत्मार्थे को न जीवति

2.37

अपि च-
यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु ।
काको ऽपि किं न कुरुते चञ्च्वा स्वोदर-पूरणम्

2.38

पश्य-
पञ्चभिर् याति दासत्वं पुराणैः को ऽपि मानवः ।
को ऽपि लक्षैः कृती को ऽपि लक्षैर् अपि न लभ्यते

2.39

अन्यच् च-
मनुष्य-जातौ तुल्यायां भृत्यत्वम् अति-गर्हितम् ।
प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते

2.40

तथा चोक्तं-
वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् ।
नारी-पुरुष-तोयानाम् अन्तरं हद-हन्तरम्

2.41

तथा हि स्वल्पम् अप्य् अतिरिच्यते-
स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्य् अस्थिकं
श्वा लब्ध्वा परितोषम् एति न भवेत् तस्य क्षुधः शान्तये ।
सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्र-गतो ऽपि वाञ्छति जनः सत्त्वानुरूपं फलम्

2.42

अपरं च, सेव्य-सेवकयोर् अन्तरं पश्य-
लाङ्गूल-चालनम् अधश् चरणावपातं
भूमौ निपत्य वदनोदर-दर्शनं च ।
श्वा पिण्डदस्य कुरुते गज-पुङ्गवस् तु
धीरं विलोकयति चाटु-शतैश् च भुङ्क्ते

2.43

किं च-
यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर्
विज्ञान-विक्रम-यशोभिर् अभज्यमानम् ।
तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः
काको ऽपि जीवति चिराय बलिं च भुङ्क्ते

2.44

अपरं च-
यो नात्मजे न च गुरौ न च भृत्य-वर्गे
दीने दयां न कुरुते न च बन्धु-वर्गे ।
किं तस्य जीवित-फलेन मनुष्य-लोके
काको ऽपि जीवति चिराय बलिं च भुङ्क्ते

2.45

अपरम् अपि-
अहित-हित-विचार-शून्य-बुद्धेः
श्रुति-समयैर् बहुभिर् बहिष्कृतस्य ।
उदर-भरण-मात्र-केवलेच्छोः
पुरुष-पशोश् च पशोश् च को विशेषः

2.46

करटको ब्रूते-आवां तावद् अप्रधानौ । तदाप्य् आवयोः किम् अनया विचारणया ।
दमनको ब्रूते-कियता कालेनामात्याः प्रधानताम् अप्रधानतां वा लभन्ते, यतः-
न कस्यचित् कश्चिद् इह स्वभावाद्
भवत्य् उदारो ऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां वा
स्व-चेष्टितान्य् एव नरं नयन्ति

2.47

किं च-
आरोप्यते शिला शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस् तथात्मा गुण-दोषयोः

2.48

यात्य् अधो ऽधः व्रजत्य् उच्चैर् नरः स्वैर् एव कर्मभिः ।
कूपस्य खनिता यद्वत् प्राकारस्येव कारकः

2.49

तद् भद्रम् । स्वयत्नायत्तो ह्य् आत्मा सर्वस्य ।
करटको ब्रूते-अथ भवान् किं ब्रवीति ?
स आह-अयं तावत् स्वामी पिङ्गलकः कुतो ऽपि कारणात् स-चकितः परिवृत्योपविष्टः ।
करटको ब्रूते-
उदीरितो ऽर्थः पशुनापि गृह्यते हयाश् च नागाश् च वहन्ति चोदिताः ।
अनुक्तम् अप्य् ऊहति पण्डितो जनः परेङ्गित-ज्ञान-फला हि बुद्धयः

2.50

आकार-रिङ्गतैर् गत्या चेष्टया भाषणेन च ।
नेत्र-वक्त्र-विकारेण लक्ष्यतेऽन्तर्गतं मनः

2.51

अत्र भय-प्रस्तावे प्रज्ञा-बलेनाहम् एनं स्वामिनम् आत्मीयं करिष्यामि । यतः-
प्रस्ताव-सदृशं वाक्यं सद्-भाव-सदृशं प्रियम् ।
आत्म-शक्ति-समं कोपं यो जानाति स पण्डितः

2.52

करटको ब्रूते-सखे त्वं सेवानभिज्ञः । पश्य-
अनाहूतो विशेद् यस् तु अपृष्टो बहु भाषते ।
आत्मानं मन्यते प्रीतं भू-पालस्य स दुर्मतिः

2.53

दमनको ब्रूते-भद्र ! कथम् अहं सेवानभिज्ञः ? पश्य-
किम् अप्य् अस्ति स्वभावेन सुन्दरं वाप्य् असुन्दरम् ।
यद् एव रोचते यस्मै भवेत् तत् तस्य सुन्दरम्

2.54

यतः-
यस्य यस्य हि यो भावस् तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत्

2.55

अन्यच् च-
को ऽत्रेत्य् अहम् इति ब्रूयात् सम्यग् आदेशयेति च ।
आज्ञाम् अवितथां कुर्याद् यथा-शक्ति महीपतेः

2.56

अपरं च-
अल्पेच्छुर् धृतिमान् प्राज्ञश् छायेवानुगतः सदा ।
आदिष्टो न विकल्पेत स राज-वसतिं वसेत्

2.57

करटको ब्रूते-कदाचित् त्वाम् अनवसर-प्रवेशाद् अवगम्यते स्वामी ।
स चाह-अस्त्व् एवम् । तथाप्य् अनुजीविना स्वामि-सांनिध्यम् अवश्यं करणीयम् ।
यतः-
दोष-भीतेर् अनारम्भस् तत् कापुरुष-लक्षणम् ।
कैर् अजीर्ण-भयाद् भ्रातर् भोजनं परिहीयते

2.58

पश्य-
आसन्नम् एव नृपतिर् भजते मनुष्यं विद्या-विहीनम् अकुलीनम् असंस्तुतं वा ।
प्रायेण भूमि-पतयः प्रमदा-लताश् च यः पार्श्वतो वसति तं परिवेष्टयन्ति

2.59

करटको ब्रूते-अथ तत्र गत्वा किं वक्ष्यति भवान् ।
स आह-शृणु ! किम् अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि ।
करटको ब्रूते-किं तज् ज्ञान-लक्षणम् ।
दमनको ब्रूते-शृणु-
दूराद् अवेक्षणं हासः सम्प्रश्नेष्व् आदरो भृशम् ।
परोक्षेऽपि गुण-श्लाघा स्मरणं प्रिय-वस्तुषु

2.60

असेवके चानुरक्तिर् दानं स-प्रिय-भाषणम् ।
अनुरक्तस्य चिह्नानि दोषेऽपि गुण-सङ्ग्रहः

2.61

अन्यच् च--
काल-यापनम् आशानां वर्धनं फल-खण्डनम् ।
विरक्तेश्वर-चिह्नानि जानीयान् मतिमान् नरः

2.62

एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि ।
अपायसं दर्शनजां विपत्तिम्
उपाय-सन्दर्शन-जां च सिद्धिम् ।
मेधाविनो नीति-विधि-प्रयुक्तां
पुरः स्फुरन्तीम् इव दर्शयन्ति

2.63

करटको ब्रूते-तथाप्य् अप्राप्ते प्रस्तावे न वक्तुम् अर्हसि, यतः-
अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन् ।
लभते बुद्ध्य्-अवज्ञानम् अवमानं च भारत

2.64

दमनको ब्रूते-मित्र ! मा भैषीः ! नाहम् अप्राप्तावसरं वचनं वदिष्यामि । यतः-
आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च ।
अपृष्टो ऽपि हितान्वेषी ब्रूयात् कल्याण-भाषितम्

2.65

यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस् तदा मन्त्रित्वम् एव ममानुपपन्नम् । यतः-
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते ।
स गुणस् तेन गुणिना रक्ष्यः संवर्धनीयश् च

2.66

तद् भद्र ! अनुजानीहि माम् । गच्छामि ।
करटको ब्रूते-शुभम् अस्तु । शिवास् ते पन्थानः । यथाभिलषितम् अनुष्ठीयताम् इति ।
ततो दमनको विस्मित इव पिङ्गलक-समीपं गतः । अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टाङ्ग-प्रणिपातं प्रणिपत्योपविष्टः । राजाह-चिराद् दृष्टो ऽसि ।
दमनको ब्रूते-यद्यपि मया सेवकेन श्रीमद्-देवपादानां न किंचित् प्रयोजनम् अस्ति, तथापि प्राप्त-कालम् अनुजीविना सांनिध्यम् अवश्यं कर्तव्यम् इत्य् आगतो ऽस्मि । किं च-
दन्तस्य निर्घर्षणकेन राजन्
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किम् अङ्ग-वाक्-पाणि-मता नरेण

2.67

यद्यपि चिरेणावधीरितस्य देव-पादैर् मे बुद्धि-नाशः शक्यते, तद् अपि न शङ्कनीयम् । यतः-
कदर्थितस्यापि च धैर्य-वृत्तेर्
बुद्धेर् विनाशो नहि शङ्कनीयः ।
अधः-कृतस्यापि तनूनपातो
नाधः शिखा याति कदाचिद् एव

2.68

देव ! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः-
मणिर् लुठति पादेषु काचः शिरसि धार्यते ।
यथैवास्ते तथैवास्तां काचः काचो मणिर् मणिः

2.69

अन्यच् च-
निर्विशेषो यदा राजा समं सर्वेषु वर्तते ।
तदोद्यम-समर्थानाम् उत्साहः परिहीयते

2.70

किं च-
त्रिविधाः पुरुषा राजन्न् उत्तमाधम-मध्यमाः ।
नियोजयेत् तथैवैतांस् त्रिविधेष्व् एव कर्मसु

2.71

यतः-
स्थान एव निज्योज्यन्ते भृत्याश् चाभरणानि च ।
नहि चूडामणिः पादे नूपुरं शिरसा कृतम्

2.72

अपि च-
कनक-भूषण-सङ्ग्रहणोचितो यदि मणिस् त्रपुणि प्रणिधीयते ।
न स विरौति न चापि न शोभते भवति योजयितुर् वचनीयता

2.73

अन्यच् च-
मुकुटे रोपिता काचश् चरणाभरणे मणिः ।
नहि दोषो मणेर् अस्ति किन्तु साधोर् अविज्ञता

2.74

पश्य-
बुद्धिमान् अनुरक्तो ऽयम् अयं शूर इतो भयम् ।
इति भृत्य-विचारज्ञो भृत्यैर् आपूर्यते नृपः

2.75

तथा हि-
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च ।
पुरुष-विशेषं प्राप्ता भवन्त्य् अयोग्याश् च योग्याश् च

2.76

अन्यच् च-
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि

2.77

यतः-
अवज्ञानाद् राज्ञो भवति मति-हीनः परिजनस्
ततस् तत्-प्रामाण्याद् भवति न समीपे बुध-जनः ।
बुधैस् त्यक्ते राज्ये न हि भवति नीतिर् गुणवती
विपन्नायां नीतौ सकलम् अवशं सीदति जगत्

2.78

अपरं च-
जनं जनपदा नित्यम् अर्चयन्ति नृपार्चितम् ।
नृपेणावमतो यस् तु स सर्वैर् अवमन्यते

2.79

किं च-
बालाद् अपि गृहीतव्यं युक्तम् उक्तं मनीषिभिः ।
रवेर् अविषये किं न प्रदीपस्य प्रकाशनम्

2.80

पिङ्गलको ऽवदत्-भद्र दमनक ! किम् एतत् ? त्वम् अस्मदीय-प्रधानामात्य-पुत्र इयन्तं कालं यावत् कुतो ऽपि खल-वाक्यान् नागतो ऽसि । इदानीं यथाभिमतं ब्रूहि ।
दमनको ब्रूते-देव ! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयम् अपीत्वा किम् इति विस्मित इव तिष्ठति ।
पिङ्गलको ऽवदत्-भद्रम् उक्तं त्वया । किन्त्व् एतद् रहस्यं वक्तुं काचिद् विश्वास-भूमिर् नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, सम्प्रति वनम् इदम् अपूर्व-सत्त्वाधिष्ठितम् अतो ऽस्माकं त्याज्यम् । अनेन हेतुना विस्मितो ऽस्मि । तथा च श्रुतो मयापि महान् अपूर्व-शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् ।
दमनको ब्रूते-देव ! अस्ति तावद् अयं महान् भय-हेतुः । स शब्दो ऽस्याभिर् अप्य् आकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमि-त्यागं पश्चाद् युद्धं चोपविशति अस्मिन् कार्य-सन्देहे भृत्यानाम् उपयोग एव ज्ञातव्यः । यतः-
बन्धु-स्त्री-भृत्य-वर्गस्य बुद्धेः सत्त्वस्य चात्मनः ।
आपन्-निकष-पाषाणे नरो जानाति सारताम्

2.81

सिंहो ब्रूते-भद्र ! महती शङ्का मां बाधते ।
दमनकः पुनर् आह स्वगतम्-अन्यथा राज्य-सुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे ? प्रकाशं ब्रूते-देव ! यावद् अहं जीवामि तावद् भयं न कर्तव्यम् । किन्तु करटकादयो ऽप्य् आश्वास्यन्तां यस्माद् आपत्-प्रतीकार-काले दुर्लभह् पुरुष-समवायः ।
ततस् तौ दमनक-करटकौ राज्ञा सर्वस्वेनापि पूजितौ भय-प्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकम् आह-सखे ! किं शक्त्य-प्रतीकारो भय-हेतुर् अशक्य-प्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथम् अयं महा-प्रसादो गृहीतः ? यतो ऽनुपकुर्वाणो न कस्याप्य् उपायनं गृह्णीयाद् विशेषतो राज्ञः । पश्य-
यस्य प्रसादे पद्मास्ते विजयश् च पराक्रमे ।
मृत्युश् च वसति क्रोधे सर्व-तेजोमयो हि सः

2.82

तथा हि-
बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्य् एषा नर-रूपेण तिष्ठति

2.83

दमनको विहस्याह-मित्र ! तूष्णीम् आस्यताम् । ज्ञातं मया भय-कारणम् । बलीवर्द-नर्दितं तत् । वृषभाश् चास्माकम् अपि भक्ष्याः । किं पुनः सिंहस्य ।
करटको ब्रूते-यद्य् एवं तदा किम् पुनः स्वामि-त्रासस् तत्रैव किम् इति नापनीतः ।
दमनको ब्रूते-यदि स्वामि-त्रासस् तत्रैव मुच्यते तदा कथम् अयं महा-प्रसाद-लाभः स्यात् । अपरं च-
निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन ।
निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि-कर्णवत्

2.84

करटकः पृच्छति--कथम् एतत् ?
दमनकः कथयति-
कथा 3
अस्त्य् उत्तर-पथेऽर्बुदशिखर-नाम्नि पर्वते दुर्दान्तो नाम महा-विक्रमः सिंहः । तस्य पर्वत-कन्दरम् अधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकम् अलभमानो ऽचिन्तयत्-
क्षुद्र-शत्रुर् भवेद् यस् तु विक्रमान् नैव लभ्यते ।
तम् आहन्तुं पुरस्कार्यः सदृशस् तस्य सैनिकः

2.85

इत्य् आलोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्ण-नामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्व-कन्दरे स्थापितः । अनन्तरं तद्-भयान् मूषिको ऽपि विलान् न निःसरति । तेनासौ सिंहो ऽक्षत-केशरः सुखं स्वपिति । मूषिक-शब्दं यदा यदा शृणोति, तदा तदा मांसाहार-दानेन तं बिडालं संवर्धयति ।
आज्ञा-भङ्गो नरेन्द्राणां ब्राह्मणानाम् अनादरः ।
पृथक् शय्या च नारीणाम् अशस्त्र-विहितो वधः

2.86

ततो देश-व्यवहारानभिज्ञः संजीवकः सभयम् उपसृत्य साष्टाङ्ग-पातं करटकं प्रणतवान् । तथा चोक्तम्-
मतिर् एव बलाद् गरीयसी यद्-अभावे करिणाम् इयं दशा ।
इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन्

2.87

अथ संजीवकः साशङ्कम् आह-सेनापते ! किं मया कर्तव्यम् । तद् अभिधीयताम् ।
करटको ब्रूते-वृषभ ! अत्र कानने तिष्ठसि । अस्मद्-देव-पादारविन्दं प्रणय ।
संजीवको ब्रूते-तद्-अभय-वाचं मे यच्छ । गच्छामि ।
करटको ब्रूते-शृणु रे बलीवर्द ! अलम् अनया शङ्कया । यतः-
प्रतिवाचम् अदत्त केशवः शपमानाय न चेदि-भूभुजे ।
अनुहुङ्कुरुते घन-ध्वनिं न हि गोमायु-रुतानि केसरी

2.88

अन्यच् च-
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणलानि सर्वतः ।
समुच्छ्रितान् एव तरून् प्रबाधते
महान् महत्य् एव करोति विक्रमम्

2.89

ततस् तौ संजीवकं कियद् दूरे संस्थाप्य पिङ्गलक-समीपं गतौ । ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ । राजाह-त्वया स दृष्टः ?
दमनको ब्रूते-देव ! दृष्टः । किन्तु यद् देवेन ज्ञातं तत् तथा । महान् एवासौ देवं द्रष्टुम् इच्छति । किन्तु महाबलो ऽसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्द-मात्राद् एव न भेतव्यम् । तथा चोक्तम्-
शब्द-मात्रान् न भेतव्यम् अज्ञात्वा शब्द-कारणम् ।
शब्द-हेतुं परिज्ञाय कुट्टनी गौरवं गता

2.90

राजाह-कथम् एतत् ?
दमनकः कथयति---
कथा 4
अस्ति श्री-पर्वत-मध्ये ब्रह्मपुराख्यं नगरम् । तच्-छिखर-प्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जन-प्रवादः श्रूयते । एकदा घण्टाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः । तत्-पाणि-पतिता घण्टा वानरैः प्राप्ता । वानरास् तां घण्टाम् अनुक्षणं वादयन्ति । ततो नगर-जनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टा-रवश् च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरो ऽयं घण्टा-नादः । तत् किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितः-देव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम्
एनं घण्टाकर्णं साधयामि ।
ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादि-पूजा-गौरवं दर्शयित्वा स्वयं वानर-प्रिय-फलान्य् आदाय वनं प्रविश्य फलान्य् आकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरम् आगता सर्व-जन-पूज्याभवत् । अतो ऽहं ब्रवीमि-शब्द-मात्रान् न भेतव्यम् इत्य् आदि । ततः संजीवकम् आनीय दर्शनं कारितवन्तौ । पश्चात् तत्रैव परम-प्रीत्या निवसति ।
--ओ)0(ओ--
अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्ध-कर्ण-नामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिङ्गलकस् तद्-आहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदति-देव ! अद्य हत-मृगाणां मांसानि क्व ?
राजाह-दमनक-करटकौ जानीतः ।
संजीवको ब्रूते-ज्ञायतां किम् अस्ति नास्ति वा ?
सिंहो विमृश्याह-नास्त्य् एव तत् ।
संजीवको ब्रूते-कथम् एतावन् मांसं ताभ्यां खादितम् ?
राजाह-खादितं व्ययितम् अवधीरितं च । प्रत्यहम् एष क्रमः ।
संजीवको ब्रूते-कथं श्रीमद्-देव-पादानां अगोचरेणैव क्रियते ?
राजाह-मदीयागोचरेणैव क्रियते ।
अथ संजीवको ब्रूते-नैतद् उचितम् । तथा चोक्तम्-
नानिवेद्य प्रकुर्वीत भर्तुः किंचिद् अपि स्वयम् ।
कार्यम् आपत्-प्रतीकाराद् अन्यत्र जगती-पते

2.91

अन्यच् च-
कमण्डलूपमो ऽमात्यस् तनु-त्यागी बहु-ग्रहः ।
नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः

2.92

स ह्य् अमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् ।
कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः

2.93

किं चार्थैर् न कुलाचारैः सेवताम् एति पूरुषः ।
धन-हीनः स्व-पत्न्यापि त्यज्यते किं पुनः परैः

2.94

एतच् च राज्ञः प्रधानं दूषणम्-
अतिव्ययो ऽनपेक्षा च तथार्जनम् अधर्मतः ।
मोषणं दूर-संस्थानां कोष-व्यसनम् उच्यते

2.95

यतः-
क्षिप्रम् आयतम् अनालोच्य व्ययमानः स्व-वाञ्छया ।
परिक्षीयत एवासौ धनी वैश्रवणोपमः

2.96

स्तब्धकर्णो ब्रूते-शृणु भ्रातः चिराश्रिताद् एतौ दमनक-करटकौ सन्धि-विग्रह-कार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोग-प्रस्तावे यन् मया श्रुतं तत् कथ्यते ।
ब्राह्मणः क्षत्रियो बन्धुर् नाधिकारे प्रशस्यते ।
ब्राह्मणः सिद्धम् अप्य् अर्थं कृच्छ्रेणापि न यच्छति

2.97

नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् ।
सर्वस्वं ग्रसते बन्धुर् आक्रम्य ज्ञाति-भावतः

2.98

अपराधेऽपि निःशङ्को नियोगी चिर-सेवकः ।
स स्वामिनम् अवज्ञाय चरेच् च निरवग्रहः

2.99

उपकर्ताधिकार-स्थः स्वापराधं न मन्यते ।
उपकारं ध्वजी-कृत्य सर्वम् एव विलुम्पति

2.100

उपंशु-क्रीडितो ऽमात्यः स्वयं राजायते यतः ।
अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम्

2.101

अन्तर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल ।
शकुनिः शकटारश् च दृष्टान्ताव् अत्र भूपते

2.102

सदामत्यो न साध्यः स्यात् समृद्धः सर्व एव हि ।
सिद्धानाम् अयम् आदेशः ऋद्धिश् चित्त-विकारिणी

2.103

प्राप्तार्थ-ग्रहणं द्रव्य-परीवर्तो ऽनुरोधनम् ।
उपेक्षा बुद्धि-हीनत्वं भोगो ऽमात्यस्य दूषणम्

2.104

नियोग्य् अर्थ-ग्रहोपायो राज्ञा नित्य-परीक्षणम् ।
प्रतिपत्ति-प्रदानं च तथा कर्म-विपर्ययः

2.105

निपीडिता वमन्त्य् उच्चैर् अन्तः-सारं महीपतेः ।
दुष्ट-व्रणा इव प्रायो भवन्ति हि नियोगिनः

2.106

मुहुर् नियोगिनी बाध्या वसुधारा महीपते ।
सकृत् किं पीडितं स्नान-वस्त्रं मुञ्चेद् धृतं पयः

2.107

एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् ।
सिंहो ब्रूते-अस्ति तावद् एवम् । किन्त्व् एतौ सर्वथा न मम वचन-कारिणौ ।
स्तब्धकर्णो ब्रूते-एतत् सर्वम् अनुचितं सर्वथा । यतः-
आज्ञा-भङ्ग-करान् राजा न क्षमेत सुतान् अपि ।
विशेषः को नु राज्ञश् च राज्ञश् चित्र-गतस्य च

2.108

स्तब्धस्य नश्यति यशो विषम् अस्य मैत्री
नष्टेन्द्रियस्य कुलम् अर्थ-परस्य धर्मः ।
विद्या-फलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्त-सचिवस्य नराधिपस्य

2.109

अपरं च-
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृप-वल्लभात् ।
नृपतिर् निज-लोभाच् च प्रजा रक्षेत् पितेव हि

2.110

भ्रातः ! सर्वथास्मद्-वचनं क्रियताम् । व्यवहारो ऽप्य् अस्माभिः कृत एव । अयं संजीवकः सस्य-भक्षको ऽर्थाधिकारे नियुज्यताम् ।
एतद्-वचनात् तथानुष्ठिते सति तद् आरभ्य पिङ्गलक-संजीवकयोः सर्व-बन्धु-परित्यागेन महता स्नेहेन कालो ऽतिवर्तते । ततो ऽनुजीविनाम् अप्याहार-दाने शैथिल्य-दर्शनाद् दमनक-करटकाव् अन्योन्यं चिन्तयतः । तद् आह दमनकः करटकम्-मित्र ! किं कर्तव्यम् ? आत्म-कृतो ऽयं दोषः । स्वयं कृतेऽपि दोषे परिदेवनम् अप्य् अनुचितम् । तथा चोक्तम्-
स्वर्ण-रेखाम् अहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका ।
आदित्सुश् च मणिं साधुः स्व-दोषाद् दुःखिता इमे

2.111

करटको ब्रूते--कथम् एतत् ?
दमनकः कथयति-
कथा 5
अस्ति काञ्चनपुर-नाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन् नापितो वध्य-भूमिं नीयमानः कन्दर्पकेतु-नाम्ना परिव्राजकेन साधु-द्वितीयकेन नायं हन्तव्यः इत्य् उक्त्वा वस्त्राञ्चलेन धृतः । राज-पुरुषा ऊचुः-किम् इति नायं वध्यः ।
स आह-श्रूयताम् । स्वर्ण-रेखाम् अहं स्पृष्ट्वा इत्य् आदि पठति ।
त आहुः--कथम् एतत् ?
परिव्राजकः कथयति-अहं सिंहल-द्वीपस्य भूपतेर् जीमूतकेतः पुत्रः दन्दर्पकेतुर् नाम । मध्ये चतुर्दश्याम् आविर्भूत-कल्पतरु-तले रत्नावली-किरण-कबूतर-पर्यङ्क-स्थिता सर्वालङ्कार-भूषिता लक्ष्मीर् इव वीनां वादयन्ती कन्या काचिद् दृश्यते इति । ततो ऽहं पोत-व्णिजम् आदाय पोतम् आरुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्केऽधमग्रा तथैव सावलोकिता । ततस् तल्-लावण्य-गुणाकृष्टेन मयापि तत्-पश्चाज् झम्पो दत्तः । तद्-अनन्तरं कनकपत्तनं प्राप्य सुवर्ण-प्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिर् उपास्यमाना मयालोकिता । तथाप्य् अहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः । तत्-सख्या च मया पृष्टया समाख्यातम्-एषा कन्दर्पकेलि-नाम्नो विद्याधर-चक्रवर्तिनः
पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्व-चक्षुषागत्य पश्यति, स एव पितुर् अगोचरो ऽपि मां परिणेष्यतीति मनसः सङ्कल्पः । तद् एनां गान्धर्व-विवाहेन परिणयतु भवान् ।
अथ तत्र वृत्ते गन्धर्व-विवाहे तथा सह रममाणस् तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्-स्वामिन् ! स्वेच्छया सर्वम् इदम् उपभोक्तव्यम् । एषा चित्र-गता स्वर्ण-रेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या । पश्चाद् उपजात-कौतुकेन मया स्वर्णरेखा स्व-हस्तेन स्पृष्टा । तथा चित्रतयाप्य् अहं चरण-पद्मेन ताडित आगत्य स्व-राष्ट्रे पतितः ।
अथ दुःखितो ऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्न् इमां न्गरीम् अनुप्राप्तः । अत्र चातिकान्ते दिवसे गोप-गृहे सुप्तः सन्न् अपश्यम् । प्रदोष-समये पशूनां पालनं कृत्वा स्व-गेहम् आगतो गोपः स्व-वधूं दूत्या सह किम् अपि मन्त्रयन्तीम् अपश्यत् । ततस् तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततो ऽर्ध-रात्रे एतस्य नापितस्य वधूर् दूती पुनस् तां गोपीम् उपेत्यावदत्-तव विरहानल-दग्धो ऽसौ स्मर-शर-जर्जरितो मुमूर्षुर् इव वर्तते । तथा चोक्तम्-
रजनी-चर-नाथेन खण्डिते तिमिरे निशि ।
यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः

2.112

तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्ट-मनास् त्वाम् अनुवर्तितुम् आगता । तद् अहम् अत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरम् आगमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धो ऽवदत्-इदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुद्धो गोपः-दर्पान् मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः । अथागत्य गोपी दूतीम् अपृच्छत्-का वार्ता ?
दूत्योक्तम्-पश्य माम् । मुखम् एव वार्तां कथयति ।
अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्न-नासिकां गृहीत्वा स्व-गृहं प्रविश्य स्थिता । ततः प्रातर् एवानेन नापितेन स्व-वधूः क्षुर-भाण्डं याचिता सती क्षुरम् एकं प्रादात् । ततो ऽसमग्र-भाण्डे प्राप्ते समुपजात-कोपो ऽयं नापितस् तं क्षुरं दूराद् एव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्य् उक्त्वा धर्माधिकारि-समीपम् एतम् आनीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाच-अरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानन्ति, यतः-
आदित्य-चन्द्रावनिलानलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये
धर्मश् च जानाति नरस्य वृत्तम्

2.113

अतथ्यान्य् अपि तथ्यानि दर्शयन्ति हि पेशलाः ।
समे निम्नोन्नतानीव चित्र-कर्म-विदो जनाः

2.114

उत्पन्नेषु च कार्येषु मतिर् यस्य न हीयते ।
स निस्तरति दुर्गाणि गोपी जार-द्वयं यथा

2.115

करटकः पृच्छति-कथम् एतत् ?
कथा 6
दमनकः कथयति-अस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर् बन्धकी । सा ग्रामस्य दण्ड-नायकेन तत्-पुत्रेण च समं रमते । तथा चोक्तम्-
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना

2.116

न दानेन न मानेन नार्जवेन न सेवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः

2.117

यतः-
गुणाश्रयं कीर्ति-युतं च कान्तं
पतिं रतिज्ञं सधनं युवानम् ।
विहाय शीघ्रं वनिता व्रजन्ति
नरान्तरं शील-गुणादि-हीनम्

2.118

अपरं च-
न तादृशीं प्रीतिम् उपैति नारी
विचित्र-शय्या शयितापि कामम् ।
यथा हि दूर्वादि-विकीर्ण-भूमौ
प्रयाति सौख्यं पर-कान्ति-सङ्गात्

2.119

अथ कदाचित् सा दण्ड-नायक-पुत्रेण सह रममाणा तिष्ठति । अथ दण्ड-नायको ऽपि रन्तुं तत्रागतः । तम् आयान्तं दृष्ट्वा तत्-पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात् समागतः । तम् अवलोक्य गोप्योक्तम्-दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठा-केन कार्येण दण्डनायकः समागत्यात्र स्थितः ?
सा ब्रूते-अन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणो ऽप्य् अत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्-पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति ।
ततः सा तत्-पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती । तथा चोक्तम्-
आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्-गुणा ।
षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः

2.120

अतो ऽहं ब्रवीमि-उतपन्नेष्व् अपि कार्येषु इत्य् आदि ।
करटको ब्रूते-अस्त्व् एवम् । किन्त्व् अनयोर् महानन्योग्न्य-निसर्गोपजात-स्नेह कथं भेदयितुं शक्यः ?
दमनको ब्रूते-उपायः क्रियताम् । तथा चोक्तम्-
उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपाय-ज्ञो ऽल्प-कायो ऽपि न शूरैः परिभूयते

2.121

करटकः पृच्छति-कथम् एतत् ?
दमनकः कथयति--
कथा 7
कस्मिंश्चित् तरौ वायस-दम्पती निवसतः । तयोश् चापृत्यानि तत्-कोटरावस्थितेन कृष्ण-सर्पेण खादितानि । ततः पुनर् गर्भवती वायसी वायस्म् आह-नाथ ! त्यज्यताम् अयं वृक्षः । अत्रावस्थित-कृष्ण-सर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः-
दुष्टा भार्या शठं मित्रं भृत्यश् चोत्तर-दायकः ।
स-सर्पे च गृहे वासो मृत्युर् एव न संशयः

2.122

वायसो ब्रूते-प्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर् न क्षन्तव्यः ।
वायस्य् आह-कथम् एतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः ।
वायसो ब्रूते-अलम् अनया शङ्कया । यतः-
बुद्धिर् यस्य बलं तस्य निर्बुद्धेस् तु कुतो बलम् ।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः

2.123

वायसी विहस्याह--कथम् एतत् ?
वायसः कथयति-
कथा 8
अस्ति मन्दर-नाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते । ततः सर्वैः पशुभिर् मिलित्वा स सिंहो विज्ञप्तः-मृगेन्द्र ! किम् अर्थम् एकदा बहु-पशु-घातः क्रियते । यदि प्रसादो भवति तदा वयम् एव भवद्-आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः ।
ततः सिंहेनोक्तम्-यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् ।
ततः-प्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयन्न् आस्ते । अथ कदाचिद् वृद्ध-शशकस्य वारः समायातः । सो ऽचिन्तयत्-
त्रास-हेतोर् विनीतिस् तु क्रियते जीविताशया ।
पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे

2.124

तन् मन्दं मन्दं गच्छामि । ततः सिंहो ऽपि क्षुधा-पीडितः कोपात् तम् उवाच-कुतस् त्वं विलम्ब्य समागतो ऽसि ।
शशको ऽब्रवीत्-देव ! नाहम् अपराधी । आगच्छन् पथि सिंहान्तरेण बलाद् धृतः । तस्याग्रे पुनर् आगमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतो ऽसिम् ।
सिंहः सकोपम् आह-सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति ।
ततः शशकस् तं गृहीत्वा गभीर-कूपं दर्शयितुं गतः । तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूप-जले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततो ऽसौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः । अतो ऽहं ब्रवीमि बुद्धिर् यस्य इत्य् आदि ।
वायस्य् आह-श्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि ।
वायसो ऽवदत्-अत्रासन्ने सरसि राज-पुत्रः प्रत्यहम् आगत्य स्नाति । स्नान-समये मद्-अङ्गाद् अवतारितं तीर्थ-शिला-निहितं कनक-सूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि ।
अथ कदाचित् स्नातुं जलं प्रविष्टे राज-पुत्रे वायस्या तद्-अनुष्ठितम् । अथ कनक-सूत्रानुसरण-प्रवृत्तै राज-पुरुषैस् तत्र तरु-कोटरे कृष्ण-सर्पो दृष्टो व्यापादितश् च । अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि ।
करटको ब्रूते-यद्य् एवं तर्हि गच्छ । शिवास् ते सन्तु पन्थानः ।
ततो दमनकः पिङ्गलक-समीपं गत्वा प्रणम्योवाच-देव ! आत्यन्तिकं किम् अपि महा-भय-कारि कार्यं मन्यमानः समागतो ऽस्मि । यतः-
आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च ।
कल्याण-वचनं ब्रूयाद् अपृष्टो ऽपि हितो नरः

2.125

अन्यच् च-
भोगस्य भाजनं राजा न राजा कार्य-भाजनम् ।
राज-कार्य-परिध्वंसी मन्त्री दोषेण लिप्यते

2.126

तथा हि पश्य । अमात्यानाम् एष क्रमः ।
वरं प्राण-परित्यागः शिरसा वापि कर्तनम् ।
न तु स्वामि-पदावाप्ति-पातकेच्छोर् उपेक्षणम्

2.127

पिङ्गलकः सादरम् आह-अथ भवान् किं वक्तुम् इच्छति ।
दमनको ब्रूते-देव ! संजीवकस् तवोपय-सदृश-व्यवहारीव लक्ष्यते । तथा चास्मत् सन्निधाने श्रीमद्-देव-पादानां शक्ति-त्रय-निन्दां कृत्वा राज्यम् एवाभिलषति ।
एतच् छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनर् आह-देव ! सर्वामात्य-परित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः-
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादाव् उपतिष्ठते श्रीः ।
सा स्त्री-स्वभावाद् असहा भरस्य
तयोर् द्वयोर् एकतरं जहाति

2.128

अपरं च-
एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति

2.129

अन्यच् च-
विष-दग्धस्य भक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलाद् उद्धरणं सुखम्

2.130

किं च-
यः कुर्यात् सचिवायत्तां श्रियं तद्-व्यसने सति ।
सो ऽन्धवज् जगती-पालः सीदेत् सञ्चारकैर् विना

2.131

सर्व-कार्येषु स्वेच्छातः प्रवर्तते । तद् अत्र प्रमाणं स्वामी । एतं च जानाति ।
न सो ऽस्ति पुरुषो लोके यो न कामयते श्रियम् ।
परस्य युवतिं रम्यां सादरं नेक्षतेऽत्र कः

2.132

सिंहो विमृश्याह-भद्र ! यद्यप्य् एवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य-
कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः ।
अशेष-दोष-दुष्टो ऽपि कायः कस्य न वल्लभः

2.133

अन्यच् च-
अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः ।
दग्ध-मन्दिर-सारेऽपि कस्य वह्नाव् अनादरः

2.134

दमनकः पुनरे एवाह-देव ! स एवातिदोषः, यतः-
यस्मिन्न् एवाधिकं चक्षुर् आरोहयति पार्थिवः ।
सुतेऽमात्येऽप्य् उदासीने स लक्ष्म्याश्रीयते जनः

2.135

शृणु देव !
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः

2.136

त्वया च मूल-भृत्यानपास्यायम् आगन्तुकः पुरस्कृतः । एतच् चानुचितं कृतम् । यतः-
मूल-भृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् ।
नातः परतरो दोषो राज्य-भेद-करो यतः

2.137

सिंहो ब्रूते-किम् आश्चर्यम् । मया यद् अभय-वाचं दत्त्वानीतः संवर्धितश् च तत् कथं मह्यं द्रुह्यति ।
दमनको ब्रूते-देव !
दुर्जनो नार्जवं याति सेव्यमानो ऽपि नित्यशः ।
स्वेद-नाभ्यञ्जनोपायैः श्वपुच्छम् इव नामितम्

2.138

अपरं च-
स्वेदितो मर्दितश् चैव रञ्जुभिः परिवेष्टितः ।
मुक्तो द्वादशभिर् वर्षैः श्व-पुच्छः प्रकृतिं गतः

2.139

अन्यच् च-
वर्धनं वा सम्मानं खलानां प्रीतये कुतः ।
फलन्त्य् अमृत-सेकेऽपि न पथ्यानि विष-द्रुमाः

2.140

अतो ऽहं ब्रवीमि-
अपृष्टस् तस्य न ब्रूयाद् यश् च नेच्छेत् पराभवम् ।
एष एव सतां धर्मो विपरीतो ऽसतां मतः

2.141

तथा चोक्तम्-
स्निग्धो ऽकुशलान् निवारयति यस् तत् कर्म यन् निर्मलं
सा स्त्री यातु-विधायिनी स मतिमान् यः सद्भिर् अभ्यर्च्यते ।
सा श्रीर् या न मदं करोति स सुखी यस् तृष्णया मुच्यते
तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः

2.142

यदि सञ्जीवक-व्यसनादितो ऽविज्ञापितो ऽपि स्वामी न निवर्तते, तद् ईदृशे भृत्ये न दोषः । तथा च-
नृपः कामासक्तो गणयति न कार्ये न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मान-ध्मातः स पतति यदा शोक-गहने
तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम्

2.143

पिङ्गलकः स्वगतम्-
न परस्यापराधेन परेषां दण्डम् आचरेत् ।
आत्मनावगतं कृत्वा बध्नीयात् पूजयेच् च वा

2.144

तथा चोक्तम्-
गुण-दोषाव् अनिश्चित्य विधिनं ग्रह-निग्रहे ।
स्व-नाशाय यथा न्यस्तो दर्पात् सर्प-मुखे करः

2.145

प्रकाशं ब्रूते-तदा संजीवकः किं प्रत्यादिश्यताम् ।
दमनकः स-सम्भ्रमम् आह-देव ! मा मैवम् । एतावता मन्त्र-भेदो जायते । तथा ह्य् उक्तम्-
मन्त्र-बीजम् इदं गुप्तं रक्षणीयं यथा तथा ।
मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति

2.146

किं च-
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम्

2.147

तद् अवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च-
मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैर् अपि ।
चिरं न सहते स्थातुं परेभ्यो भेद-शङ्कया

2.148

यद्य् असौ दृष्ट-दोषो ऽपि दोषान् निवत्यं सन्धातव्यस् तद् अतीवानुचितम् । यतः-
सकृद् दुष्टं तु यो मित्रं पुनः सन्धातुम् इच्छति ।
स मृत्युर् एव गृह्णाति गर्भम् अश्वतरी यथा

2.149

अङ्गाङ्गि-भावम् अज्ञात्वा कथं सामर्थ्य-निर्णयः ।
पश्य टिट्टिभ-मात्रेण समुद्रो व्याकुलीकृतः

2.150

सिंहः पृच्छति--कथम् एतत् ?
दमनकः कथयति-
कथा 9
दक्षिण-समुद्र-तीरे टिट्टिभ-दम्पती निवसतः । तत्र चासन्न-प्रसदा टिट्टिभी भर्तारम् आह-नाथ ! प्रसव-योग्य-स्थानं निभृतम् अनुसन्धीयताम् ।
टिट्टिभो ऽवदत्-भार्ये, नन्व् इदम् एव स्थानं प्रसूति-योग्यम् ।
सा ब्रूते-समुद्र-वेलया व्याप्यते स्थानम् एतम् ।
टिट्टिभो ऽवदत्-किम् अहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः ।
टिट्टिभी विहस्याह-स्वामिन् ! त्वया समुद्रेण च महद् अन्तरम् । अथवा-
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः ।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति

2.151

अपि च-
अनुचित-कार्यारम्भः स्वजन-विरोधो बलीयसा स्पर्धा ।
प्रमदा-जन-विश्वासो मृत्योर् द्वाराणि चत्वारि

2.152

ततः कृच्छ्रेण स्वामि-वचनात्मा तत्रैव प्रसूता । एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्ति-ज्ञानार्थं तद्-अण्डान्य् अवहृतानि । ततष् टिट्टिभी शोकार्ता भर्तारम् आह-नाथ ! कष्टम् आपतितम् । तान्य् अण्डानि मे नष्टानि ।
टिट्टिभो ऽवदत्-प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षि-स्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकल-वृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्-देव, समुद्रेणाहं स्व-गृहावस्थितो विनापराधनेनैव निगृहीतः ।
ततस् तद्-वचनम् आकर्ण्य गरुत्मना प्रभुर् भगवान् नारायणः सृष्टि-स्थिति-प्रलय-हेतुर् विज्ञप्तः । स समुद्रम् अण्ड-दानायादिदेश । ततो भगवद्-आज्ञां मौलौ निधाय समुद्रेण तान्य् अण्डानि टिट्टिभाय समर्पितानि । अतो ऽहं ब्रवीमि-अङ्गाङ्गि-भावम् अज्ञात्वा इत्य् आदि ।
राजाह-कथम् असौ ज्ञातव्यो द्रोह-बुद्धिर् इति ।
दमनको ब्रूते-यदासौ स-दर्पः शृङ्गाग्र-प्रहरणाभिमुखश् चकितम् इवागच्छति तदा ज्ञास्यति स्वामी । एवम् उक्त्वा संजीवक-समीपं गतः । तत्र गतश् च मन्दं मन्दम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत् । संजीवकेन सादरम् उक्तम्-भद्र ! कुशलं ते ।
दमनको ब्रूते-अनुजीविनां कुतः कुशलम् । यतः-
सम्पत्तयः पराधीनाः सदा चित्तम् अनिर्वृत्तम् ।
स्व-जीइवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः

2.153

अन्यच् च-
को ऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया ।
कः कालस्य भुजान्तरं न च गतः को ऽर्थी गतो गौरवं
को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान्

2.154

संजीवकेनोक्तम्-सखे ! ब्रूहि किम् एतत् ?
दमनक आह-किं ब्रवीमि मन्द-भाग्यः । पश्य-
मज्जन्न् अपि पयोराशौ लब्ध्वा सर्पावलम्बनम् ।
न मुञ्चति न चादत्ते तथा मुग्धो ऽस्मि सम्प्रति

2.155

यतः-
एकत्र राज-विश्वासो नश्यत्य् अन्यत्र बान्धवः ।
किं करोमि क्व गच्छामि पतित् ओ दुःख-सागरे

2.156

इत्य् उक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूते-मित्र ! तथापि स-विस्तरं मनोगतम् उच्यताम् ।
दमनकः सुनिभृतम् आह-यद्यपि राज-विश्वासो न कथनीयस् तथापि भवान् अस्मदीय-प्रत्ययाद् आगतः । मया परलोकार्थिनावश्यं तव हितम् आख्येयम् । शृणु, अयं स्वामी तवोपरि विकृत-बुद्धी रहस्य् उक्तवान् -संजीवकम् एव हत्वा स्व-परिवारं तर्पयामि ।
एतच् छ्रुत्वा संजीवकः परं विषादम् अगमत् । दमनकः पुनर् आह-अलं विषादेन । प्राप्त-कालकायम् अनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्व-गतम्-सुष्ठु खल्व् इदम् उच्यते । किं वा दुर्जन-चेष्टितं न वेत्य् एतद् व्यवहारान् निर्णेतुं न शक्यते । यतः-
दुर्जन-गम्या नार्यः प्रायेणापात्र-भृद् भवति राजा ।
कृपणानुसारि च धनं देवो गिरि-जलधि-वर्षी च

2.157

कश्चिद् आश्रय-सौन्दर्याद् धत्ते शोभाम् असज्जनः ।
प्रमदालोचन-न्यस्तं मलीमसम् इवाञ्जनम्

2.158

आराध्यमानो नृपतिः प्रयत्नान् न तोषम् आयाति किम् अत्र चित्रम् ।
अयं त्व् अपूर्व-प्रतिमा-विशेषो यः सेव्यमानो रिपुताम् उपैति

2.159

तद् अयम् अशक्यर्थः प्रमेयः, यतः-
निमित्तम् उद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारण-द्वेषि मनस् तु यस्य वै
कथं जनस् तं परितोषयिष्यति

2.160

किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश् च भवन्ति राजानः ।
दमनको ब्रूते-एवम् एतत् । शृणु-
विज्ञैः स्निग्धैर् उपकृतम् अपि द्वेष्यताम् एति कैश्चित्
साक्षाद् अन्यैर् अपकृतम् अपि प्रीतिम् एवोपयाति ।
चित्रं चित्रं किम् अथ चरितं नैकभावाश्रयाणां
सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः

2.161

अन्यच् च-
कृत-शतम् असत्सु नष्टं सुभाषित-शतं च नष्टम् अबुधेषु ।
वचन-शतम् अवचन-करे बुद्धि-शतम् अचेतने नष्टम्

2.162

किं च-
चन्दन-तरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः ।
गुण-घातिनश् च भोगे खला न च सुखान्य् अविघ्नानि

2.163

मूलं भुजङ्गैः कुसुमानि भृङ्गैः
शाखाः प्लवङ्गैः शिखराणि भल्लैः ।
नास्त्य् एव तच्-चन्दन-पादपस्य
यन् नाश्रितं दुष्टतरैश् च हिंस्रैः

2.164

अयं तावत् स्वामी वाचि मधुरो विष-हृदयो ज्ञातः । यतः-
दूराद् उच्छ्रित-पाणिर् आद्र-नयनः प्रोत्सारितार्धासनो
गाढालिङ्गन-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तादरः ।
अन्तर्भूत-विषो बहिर् मधुमयश् चातीव माया-पटुः
को नामायम् अपूर्व-नाटक-विधिर् यः शिक्षितो दुर्जनैः

2.165

तथा हि-
पोतो दुस्तर-वारि-राशितरणे दीपो ऽन्धकारागमे
निर्वाते व्यजनं मदान्ध-करिणां दर्पोपशान्त्यै सृणिः ।
इत्थं तद् भुवि नास्ति यस्य विधिना नोपाय-चिन्ता कृता
मन्ये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः

2.166

संजीवकः पुनर् निःश्वस्य-कष्टं भोः ! कथम् अहं सस्य-भक्षकः सिंहेन निपातयितव्यः ? यतः-
ययोर् एव समं वित्तं ययोर् एव समं बलम् ।
तयोर् विवादो मन्तव्यो नोत्तमाधमयोः क्वचित्

2.170

अयुद्धे हि यदा पश्येन् न काञ्चिद् हितम् आत्मनः ।
युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह

2.177

अपरं च-
भूम्य्-एक-देशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशः ।
भृत्य-प्रणाशो मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः

2.178

दमनको ब्रूते-स्वामिन् ! को ऽयं नूतनो न्यायो यद् अरातिं हत्वा सन्तापः क्रियते ? तथा चोक्तम्-
पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् ।
प्राण-च्छेद-करा राज्ञा हन्तव्या भूतिम् इच्छता

2.179

अपि च-
धर्मार्थ-काम-तत्त्वज्ञो नैकान्त-करुणो भवेत् ।
नहि हस्तस्थम् अप्य् अन्नं क्षमावान् भक्षितुं क्षमः

2.180

किं च-
क्षमा शत्रौ च मित्रे च यतीनाम् एव भूषणम् ।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम्

2.181

अपरं च-
राज्य-लोभाद् अहङ्काराद् इच्छतः स्वामिनः पदम् ।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम्

2.182

अन्यच् च-
राजा घृणी ब्राह्मणः सर्व-भक्षी
स्त्री चावज्ञा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपो ऽधिकृतः प्रमादी
त्याज्या इमे यश् च कृतं न वेत्ति

2.183

विशेषतश् च-
सत्यानृता च परुषा प्रिय-वादिनी च
हिंस्रा दयालुर् अपि चार्थ-परा वदान्या ।
नित्य-व्यया प्रचुर-रत्न-धनागमा च
वाराङ्गनेव नृप-नीतिर् अनेक-रूपा

2.184

इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्ट-मनाः विजयतां महाराजः शुभम् अस्तु सर्व-जगताम् इत्य् उक्त्वा यथा-सुखम् अवस्थितः ।
विष्णु-शर्मोवाच-सुहृद्-भेदः श्रुतस् तावद् भवद्भिः ।
राज-पुत्रा ऊचुः-भवत्-प्रसादाच् छ्रुतः । सुखिनो भूता वयम् ।
विष्णुशर्माब्रवीत्-अपरम् अपीदम् अस्तु-
सुहृद्-भेदस् तावद् भवतु भवतां शत्रु-निलये
खलः कालाकृष्टः प्रलयम् उपसर्पत्व् अहर्-अहः ।
जनो नित्यं भूयात् सकल-सुख-सम्पत्ति-वसतिः
कथारम्भे रम्भ्ये सततम् इह बालो ऽपि रमताम्

मूल पाठ: Hitopadeśa · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc