भाषा

ENहिગુ
ग्रंथ पाठ

हितोपदेश · अध्याय 3

3.1

इति हितोपदेशे सुहृद्-भेदो नाम द्वितीयः
कथा-सङ्ग्रहः समाप्तः
--ओ)0(ओ--
इइइ.
विग्रहः
अथ पुनः कथारम्भ-काले राज-पुत्रा ऊचुः-आर्य ! राजपुत्रा वयम् । तद् विग्रहं श्रोतुं नः कुतूहलम् अस्ति । विष्णुशर्मणोक्तम्-यद् एवं भवद्भ्यो रोचते तत् कथयामि । विग्रहः श्रूयतां, यस्यायम् आद्यः श्लोकः-
हंसैः सह मयूराणां विग्रहे तुल्य-विक्रमे ।
विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि-मन्दिरे

3.2

राज-पुत्रा ऊचुः-कथम् एतत् ? विष्णुशर्मा कथयति-
अस्ति कर्पूरद्वीपे पद्मकेलि-नामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर् जलचरैः पक्षिभिर् मिलित्वा पक्षि-राज्येऽभिषिक्तः । यतः-
यदि न स्यान् नरपतिः सम्यङ्-नेता ततः प्रजा ।
अकर्ण-धारा जलधौ विप्लवेतेह नौर् इव

3.3

अपरं च-
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।
वर्धनाद् रक्षणं श्रेयस् तद्-अभावे सद् अप्य् असत्

3.4

एकदासौ राजहंसैः सुविस्तीर्ण-कमल-पर्यङ्के सुखासीनः परिवार-परिवृतस् तिष्ठति । ततः कुतश्चिद् देशाद् आगत्य दीर्घ-मुखो नाम बकः प्रणम्योपविष्टः । राजोवाच-दीर्घमुख ! दशान्तराद् आगतो ऽसि । वार्तां कथय ।
स ब्रूते-देव ! अस्ति महती वार्ता । ताम् आख्यातुकाम एव सत्वरम् आगतो ऽहम् । श्रूयताम्-
अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश् चरद्भिः पक्षिभिर् अहं दग्धारच्य-मध्ये चरन्न् अवलोकितः । पृष्टश् च-कस् त्वम् ? कुतः समागतो ऽसि ?
तदा मयोक्तम्-कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरो ऽहं, कौतुकाद् देशान्तरं द्रष्टुम् आगतो ऽस्मि । एतच् छ्रुत्वा पक्षिभिर् उक्तम्-अनयोर् देशयोः को देशो भद्रतरो राजा च ?
ततो मयोक्तम्-आः किम् एवम् उच्यते महद् अन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश् च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्-देशे गम्यताम् ।
ततो ऽस्मद्-वचनम् आकर्ण्य सर्व-पक्षिणः सकोपा बभूवुः । तथा चोक्तम्-
पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् ।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये

3.5

अन्यच् च-
विद्वान् एवोपदेष्टव्यो नाविद्वांस् तु कदाचन ।
वानरानुपदिश्याथ स्थान-भ्रष्टा ययुः खगाः

3.6

राजोवाच-कथम् एतत् ?
दीर्घमुखः कथयति-
कथा 1
अस्ति नर्मदा-तीरे पर्वतोपत्यकायां विशालः शाल्मली-तरुः । तत्र निर्मित-नीड-कोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैर् इव जलधर-पटलैर् आवृते नभस्-तले । धारा-सारैर् महती वृष्टिर् बभूव । ततो वानरांश् च तरु-तलेऽवस्थितान् शीताकुलान् कम्पमानान् अवलोक्य, कृपया पक्षिभिर् उक्तम्-भो भो वानराः ! शृणुत--
अस्माभिर् निर्मिता नीडाश् चञ्चु-मात्राहृतैस् तृणैः ।
हस्त-पादादि-संयुक्ता यूयं किम् अवसीदथ

3.7

तच् छ्रुत्वा वानरैर् जातामर्षैर् आलोचितम्-अहो ! निर्वात-नीड-गर्भावस्थिताः सुखिनः पक्षिणो ऽस्मान् निन्दन्ति । तद् भवतु तावद् वृष्टेर् उपशमः ।
अनन्तरं शान्ते पानीय-वर्षे तैर् वानरैर् वृक्षम् आरुह्य, सर्वे नीडा भग्नाः, तेषाम् अण्डानि चाधः पातितानि । अतो ऽहं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि ।
राजोवाच-ततस् तैः पक्षिभिः किं कृतम् ?
बकः कथयति-ततस् तैः पक्षिभिः कोपाद् उक्तम्-केनासौ राजहंसो राजा कृतः ?
ततो मयोपजात-कोपेनोक्तम्-अयं युष्मदीयो मयूरः केन राजा कृतः ?
एतच् छ्रुत्वा ते पक्षिणो मां हन्तुम् उद्यताः । ततो मयापि स्व-विक्रमो दर्शितः । यतः-
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव

3.8

राजा विहस्याह-
आत्मनश् च परेषां च यः समीक्ष्य बलाबलम् ।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः

3.9

सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुद्धिमान् ।
द्वीपि-चर्म-परिच्छन्नो वाग्-दोषाद् गर्दभो हतः

3.10

बकः पृच्छति-कथम् एतत् ?
राजा कथयति-
कथा 2
अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभो ऽतिभार-वहनाद् दुर्बलो मुमूर्षुर् इवाभवत् । ततस् तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यक-समीपे सस्य-क्षेत्रे विमुक्तः । ततो दूरात् तम् अवलोक्य व्याघ्र-बुद्ध्या क्षेत्र-पतयः सत्वरं पलायन्ते ।
अथैकदा केनापि सस्य-रक्षकेण धूसर-कम्बल-कृत-तनु-त्राणेन धनुष्काण्डं सज्जीकृत्यानत-कायेनैकान्ते स्थितम् । तं च दूराद् दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्ट-सस्य-भक्षण-जात-बलो गर्दभो ऽयम् इति मत्वोच्चैः शब्दं कुर्वाणस् तद्-अभिमुखं धावितः । ततस् तेन सस्य-रक्षकेण चीत्कार-शब्दाद् गर्दभो ऽयम् इति निश्चित्य, लीलयैव व्यापादितः । अतो ऽहं ब्रवीमि-सुचिरं हि चरन् नित्यम् इत्य् आदि ।
दीर्घमुखो ब्रूते-ततः पश्चात् तैः पक्षिभिर् उक्तम्-अरे पापा दुष्ट-बक ! अस्माकं भूमौ चरन्न् अस्माकं स्वामिनम् अधिक्षिपसि । तन् न क्षन्तव्यम् इदानीम् । इत्य् उक्त्वा सर्वे मां चञ्चुभिर् हत्वा, स-कोपा ऊचुः-पश्य रे मूर्ख ! स हंसस् तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्त-मृदुः करतलस्थम् अप्य् अर्थं रक्षितुम् अक्षमः । स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूप-मण्डूकः । तेन तद्-आश्रयम् उपदिशसि । शृणु-
सेवितव्यो महा-वृक्षः फल-च्छाया-समन्वितः ।
यदि दैवात् फलं नास्ति च्छाया केन निवार्यते

3.11

अन्यच् च-
हीन-सेवा न कर्तव्या कर्तव्यो महद् आश्रयः ।
पयो ऽपि शौण्डिकी-हस्ते वारुणीत्य् अभिधीयते

3.12

अन्यच् च-
महान् अप्य् अल्पतां याति निर्गुणे गुण-विस्तरः ।
आधाराधेय-भावेन गजेन्द्र इव दर्पणे

3.13

किन्तु-
अजा सिंह-प्रसादेन वने चरति निर्भयम् ।
रामम् आसाद्य लङ्कायां लेभे राज्यं विभीषणः

3.14

विशेषतश् च-
व्यपदेशेऽपि सिद्धिः स्याद् अतिशक्ते नराधिपे ।
शशिनो व्यपदेशेन शशकाः सुखम् आसते

3.15

मयोक्तम्-कथम् एतत् ?
पक्षिणः कथयन्ति-
कथा 3
कदाचिद् वर्षास्व् अपि वृष्टेर् अभावात् तृषार्तो गज-यूथो यूथपतिम् आह-नाथ ! को ऽभ्युपायो ऽस्माकं जीवनाय ? नास्ति क्षुद्र-जन्तूनां अपि निमज्जन-स्थानम् । वयं च निमज्जन-स्थानाभावान् मृताः । अन्धा इव किं कुर्मः ? क्व यामः ?
ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्-तीरावस्थिताः क्षुद्र-शशका गज-पादाहतिभिश् चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश् चिन्तयामास-अनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागन्तव्यम् । ततो विनष्टम् अस्मत्-कुलम् ।
ततो विजयो नाम वृद्ध-शशको ऽवदत्-मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततो ऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्-कथं मया गज-यूथ-नाथ-समीपे स्थित्वा वक्तव्यम् । यतः-
स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः ।
पालयन्न् अपि भूपालः प्रहसन्न् अपि दुर्जनः

3.16

अतो ऽहं पर्वत-शिखरम् आरुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाच-कस् त्वम् ? कुतः समायातः ?
स ब्रूते-शशको ऽहम् । भगवता चन्द्रेण भवद्-अन्तिकं प्रेषितः ।
यूथपतिर् आह-कार्यम् उच्यताम् ।
विजयो ब्रूते-
उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा ।
सदैवावध्य-भावेन यथार्थस्य हि वाचकः

3.17

तद् अहं तद्-आज्ञया ब्रवीमि, शृणु । यद् एते चन्द्रसरो-रक्षकाः शशकास् त्वया निःसारितास् तद् अनुचितं कृतम् । ते शशकाश् चिरम् अस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः ।
एवम् उक्तवति दूते यूथपतिर् भयाद् इदम् आह-प्रणिधे ! इदम् अज्ञानतः कृतम् । पुनर् न तत्र गमिष्यामि ।
दूत उवाच-यद्य् एवं तद् अत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ ।
ततस् तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्र-बिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेन-देव ! अज्ञानाद् अनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्य् उक्त्वा प्रस्थापितः । अतो वयं ब्रूमः-व्यपदेशेऽपि सिद्धिः स्यात् इति ।
--ओ)0(ओ--
ततो मयोक्तम्-स एवास्मत्-प्रभू राजहंसो महा-प्रतापो ऽतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति । तदाहं तैः पक्षिभिः-दुष्ट ! कथम् अस्मद्-भूमौ चरसि इत्य् अभिधाय राज्ञश् चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्-देव ! अवधीयताम् । एष दुष्टो ऽस्मद्-देशे चरन्न् अपि देव-पादान् अधिक्षिपति ।
राजाह-को ऽयम् ? कुतः समायातः ?
ते ऊचुः-हिरण्यगर्भ-नाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः ।
अथाहं गृध्रेण मन्त्रिणा पृष्टः-कस् तत्र मुख्यो मन्त्री ? इति ।
मयोक्तम्-सर्व-शास्त्रार्थ-पारगः शर्वज्ञो नाम चक्रवाकः ।
गृध्रो ब्रूते-युज्यते । स्व-देशजो ऽसौ । यतः-
स्वदेशजं कुलाचार-विशुद्धम् उपधाशुचिम् ।
मन्त्रज्ञम् अवसनिनं व्यभिचार-विवर्जितम्

3.18

अधीत-व्यवहारार्थं मौलं ख्यातं विपश्चितम् ।
अर्थस्योत्पादकं चैव विदध्यान् मन्त्रिणं नृपः

3.19

अत्रान्तरे शुकेनोक्तम्-देव ! कर्पूर-द्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देव-पादानाम् एवाधिपत्यम् । ततो राज्ञाप्य् उक्तम्-एवम् एव । यतः-
राजा मत्तः शिशुश् चैव प्रमदा धन-गर्वितः ।
अप्राप्यम् अपि वाञ्छन्ति किं पुनर् लभ्यतेऽपि यत्

3.20

ततो मयोक्तम्-यदि वचनम्-मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपेऽप्य् अस्मत्-प्रभोर् हिरण्यगर्भस्य स्वाम्यम् अस्ति ।
शुको ब्रूते-कथम् अत्र निर्णयः ?
मयोक्तं-सङ्ग्राम एव ।
राज्ञा विहस्योक्तम्-स्व-स्वामिनं गत्वा सज्जीकुरु ।
तदा मयोक्तम्-स्व-दूतो ऽपि प्रस्थाप्यताम् ।
राजोवाच-कः प्रयास्यति दौत्येन ? यत एवम्भूतो दूतः कार्यः-
भक्तो गुणी शुचिर् दक्षः प्रगल्भो ऽव्यसनी क्षमी ।
ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान्

3.21

गृध्रो वदति-सन्त्य् एव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः । यतः,
प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति ।
कालिमा कालकूटस्य नापैतीश्वर-सङ्गमात्

3.22

राजाह-ततः शुक एव व्रजतु । शुक ! त्वम् एवानेन सह तत्र गत्वास्मद्-अभिलषितं ब्रूहि ।
शुको ब्रूते-यथाज्ञापयति देवः । किन्त्व् अयं दुर्जनो बकः । तद् अनेन सह न गच्छामि । तथा चोक्तम्-
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननो ऽहरत् सीतां बन्धनं स्यान् महोदधेः

3.23

अपरं च-
न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् ।
काक-सङ्गाद् धतो हंसस् तिष्ठन् गछंश् च वर्तकः

3.24

राजोवाच-कथम् एतत् ?
शुकः कथयति-
कथा 4
अस्त्य् उज्जयिनी-वर्त्म-प्रान्तरे प्लक्ष-तरुः । तत्र हंस-काकौ निवसतः । कदाचित् ग्रीष्म-समये परिश्रान्तः कश्चित् पथिकस् तत्र तरु-तले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे तन्-मुखाद् वृक्ष-च्छायापगता । ततः सूर्य-तेजसा तन्-मुखं व्याप्तम् अवलोक्य, तद्-वृक्ष-स्थितेन पुण्य-शीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस् तन्-मुखे छाया कृता । ततो निर्भर-निद्रा-शुखिना पथि-भ्रमण-परिश्रान्तेन पान्थेन मुख-व्यादानं कृतम् ।
अथ पर-सुखम् असहिष्णुः स्वभाव-दौर्जन्येन स काकस् तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावद् असौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतो ऽहं ब्रवीमि-न स्थातव्यम् इति ।
--ओ)0(ओ--
देव ! वर्तक-कथाम् अपि कथयामि । श्रूयताम्-
कथा 5
एकत्र वृक्षे काक-वर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्रा-प्रसङ्गेन सर्वे पक्षिणः समुद्र-तीरं गताः । ततः काकेन सह वर्तकश् चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थित-दधि-भाण्डाद् वारं वारं तेन काकेन दधि खाद्यते । ततो यावद् असौ दधि-भाण्डं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काक-वर्तकौ दृष्टौ । ततस् तेन दृष्टः काकः पलायितः । वर्तकः स्वभाव-निरपराधो मन्द-गतिस् तेन प्राप्तो व्यापादितः । अतो ऽहं ब्रवीमि-न गन्तव्यम् इत्य् आदि ।
--ओ)0(ओ--
ततो मयोक्तम्-भ्रातः शुक ! किम् एवं ब्रवीषि ? मां प्रति यथा श्रीमद्-देव-पादास् तथा भवान् अपि । शुकेनोक्तम्-अस्त्व् एवम् । किन्तु,
दुर्जनैर् उच्यमानानि संमतानि प्रियाण्य् अपि ।
अकाल-कुसुमानीव भयं संजनयन्ति हि

3.25

दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम् । यद् अनयोर् भूपालयोर् विग्रहे भवद्-वचनम् एव निदानम् । पश्य-
प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथ-कारो निजां भार्यां सजारां शिरसाकरोत्

3.26

राज्ञोक्तम्--कथम् एतत् ?
शुकः कथयति-
कथा 6
अस्ति यौवन-श्री-नगरे मन्द-मतिर् नाम रथकारः । स च स्व-भार्यां बन्धकीं जानाति । किन्तु जारेण समं स्व-चक्षुषा नैक-स्थाने पश्यति । ततो ऽसौ रथकारः अहम् अन्यं ग्रामं गच्छामीत्य् उक्त्वा चलितः । स कियद् दूरं गत्वा पुनर् आगत्य पर्यङ्क-तले स्व-गृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्य् उपजात-विश्वासः स जारः सन्ध्या-काल एवागतः । पxचात् तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्क-तल-स्थितस्य भर्तुः किञ्चिद् अङ्ग-स्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् ।
ततो जारेणोक्तम्-किम् इति त्वम् अद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम् ।
अथ तयोक्तम्-अनभिज्ञो ऽसि । यो ऽसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सो ऽद्य ग्रामान्तरं गतः । तेन विना सकल-जन-पूर्णो ऽपि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति । किं भावि ? तत्र पर-स्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्य् अस्मद्-धृदयं विदीर्यते ।
जारो ब्रूते-तव किम् एवंविधा स्नेह-भूमी रथकारः ?
बन्धक्य् अवदत्-रे बर्बर ! किं वदसि ? शृणु-
परुषाण्य् अपि या प्रोक्ता दृष्टा या क्रोध-चक्षुषा ।
सुप्रसन्न-मुखी भर्तुः सा नारी धर्म-भाजनम्

3.27

अपरं च-
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः

3.28

अन्यच् च-
भर्ता हि परमं नार्या भूषणं भूषणैर् विना ।
एषा विरहिता तेन शोभनापि न शोभते

3.29

त्वं च जारः पाप-मतिः, मनो-लौल्यात् पुष्प-ताम्बूल-सदृशः कदाचित् सेव्यसे, कदाचिन् न सेव्यसे च । स च पुनर् मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुम् ईश्वरः । किं बहुना ? तस्मिन् जीवति जीवामि । तन्-मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः-
तिस्रः कोट्यो ऽर्ध-कोटी च यानि लोमानि मानवे ।
तावत् कालं वसेत् स्वर्गे भर्तारं यो ऽनुगच्छति

3.30

अन्यच् च-
व्याल-ग्राही यथा व्यालं बलाद् उद्धरते बिलात् ।
तद्वद् भर्तारम् आदाय स्वर्ग-लोके महीयते

3.31

अपरं च-
चितौ परिष्वज्य विचेतनं पतिं
प्रिया हि या मुञ्चति देहम् आत्मनः ।
कृत्वापि पापं शत-लक्षम् अप्य् असौ
पतिं गृहीत्वा सुर-लोकम् आप्नुयात्

3.32

यतः-
यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत्

3.33

एतत् सर्वं श्रुत्वा मन्द-मतिः स रथकारः-धन्यो ऽहं यस्येदृशी प्रिय-वादिनी, स्वामि-वत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्री-पुरुष-सहितां मूर्ध्नि कृत्वा सानन्दं ननर्त । अतो ऽहं ब्रवीमि प्रयक्षेऽपि कृते दोषे इत्य् आदि ।
--ओ)0(ओ--
अतो ऽहं तेन राज्ञा यथा-व्यवहारं सम्पूज्य प्रस्थापितः । शुको ऽपि मम पश्चाद् आगच्छन्न् आस्ते । एतत् सर्वं परिज्ञाय यथा-कर्तव्यम् अनुसन्धीयताम् ।
चक्रवाको विहस्याह-देव ! बकेन तावद् देशान्तरम् अपि गत्वा यथा-शक्ति राज-कार्यम् अनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः,
शतं दद्यान् न विवदेद् इति विज्ञस्य संमतम् ।
विना हेतुम् अपि द्वन्द्वम् एतन् मूर्खस्य लक्षणम्

3.34

राजाह-अलम् अनेनातीतोपालम्भनेन । प्रस्तुतम् अनुसन्धीयताम् ।
चक्रवाको ब्रूते-देव ! विजने ब्रवीमि । यतः,
वर्णाकार-प्रतिध्वानैर् नेत्र-वक्त्र-विकारतः ।
अप्य् ऊहन्ति मनो धीरास् तस्माद् रहसि मन्त्रयेत्

3.35

ततो राजा मन्त्री च तत्र स्थितौ अन्येऽन्यत्र गताः । चक्रवाको ब्रूते-देव ! अहम् एवं जानाम्-कस्याप्य् अस्मन्-नियोगिनः प्रेरणया बकेनेदम् अनुष्ठितम् । यतः,
वेद्यानाम् आतुरः श्रेयान् व्यसनी यो नियोगिनाम् ।
विदुषां जीवनं मूर्खः सद्-वर्णो जीवनं सताम्

3.36

राजाब्रवीत्-भवतु, कारणम् अत्र पश्चान् निरूपणीयम् । सम्प्रति यत् कर्तव्यं तन् निरूप्यताम् ।
चक्रवाको ब्रूते-देव ! प्रणिधिस् तावत् तत्र प्रहीयताम् । ततस् तद्-अनुष्ठानं बलाबलं च जानीमः । तथा हि-
भवेत् स्व-पर-राष्ट्राणां कार्याकार्यावलोकने ।
चारश् चक्षुर् महीभर्तुर् यस्य नास्त्य् अन्ध एव सः

3.37

स च द्वितीयं विश्वास-पात्रं गृहीत्वा यातु । तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्य-मन्त्र-कार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं-
तीर्थाश्रम-सुर-स्थाने शास्तर-विज्ञान-हेतुना ।
तपस्वि-व्यञ्जनोपेतैः स्व-चरैः सह संवसेत्

3.38

गूढ-चारश् च-यो जले स्थले च चरति । ततो ऽसाव् एव बको नियुज्यताम् । एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु । तद्-गृह-लोकाश् च राज-द्वारे तिष्ठन्तु । किन्तु एतद् अपि सुगुप्तम् अनुष्ठातव्यम् । यतः-
षट्-कर्णो भिद्यते मन्त्रस् तथा प्राप्तश् च वार्तया ।
इत्य् आत्मना द्वितीयेन मन्त्रः कार्यो मही-भृता

3.39

पश्य-
मन्त्र-भेदे हि ये दोषा भवन्ति पृथिवी-पतेः ।
न शक्यास् ते समाधातुम् इति नीति-विदां मतम्

3.40

राजा विमृश्योवाच-प्राप्तस् तावन् मयोत्तमः प्रतिनिधिः ।
मन्त्री ब्रूते-देव ! सङ्ग्रामे विजयो ऽपि प्राप्तः ।
अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच-देव ! जम्बूद्वीपाद् आगतो द्वारि शुकस् तिष्ठति ।
राजा चक्रवाकम् आलोकते । चक्रवाकेनोक्तम्-कृतावासे तावद् गत्वा तिष्ठतु, पश्चाद् आनीय द्रष्टव्यः ।
यथाज्ञापयति देवः इत्य् अभिधाय प्रतीहारः शुकं गृहीत्वा तम् आवास-स्थानं गतः । राजाह-विग्रहस् तावत् समुपस्थितः ।
चक्रवाको ब्रूते-देव ! तथापि प्राग् एव विग्रहो न विधिः । यतः-
स किं भृत्यः स किं मन्त्री य आदाव् एव भूपतिम् ।
युद्धोद्योगं स्व-भू-त्यागं निर्दिशत्य् अविचारितम्

3.41

अपरं च-
विजेतुं प्रयतेतारीन् न युद्धेन कदाचन ।
अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः

3.42

अन्यच् च-
साम्ना दानेन भेदेन समस्तैर् अथवा पृथक् ।
साधितुं प्रयतेतारीन् न युद्धेन कदाचन

3.43

अपरं च-
सर्व एव जनः शूरो ह्य् अनासादित-विग्रहः ।
अदृष्ट-पर-सामर्थ्यः स-दर्पः को भवेन् न हि

3.44

किं च-
न तथोत्थाप्यते ग्रावा प्राणिभिर् दारुणा यथा ।
अल्पोपायान् महा-सिद्धिर् एतन्-मन्त्र-फलं महत्

3.45

किन्तु विग्रहम् उपस्थितं विलोक्य व्यवह्रियताम्, यतः-
यथा काल-कृतोद्योगात् कृषिः फलवती भवेत् ।
तद्वन् नीतिर् इयं देव चिरात् फलति न क्षणात्

3.46

अपरं च-
दूरे भीरुत्वम् आसन्ने शूरता महतो गुणः ।
विपत्तौ हि महान् लोके धीरत्वम् अधिगच्छति

3.47

अन्यच् च-
प्रत्यूहः सर्व-सिद्धीनाम् उत्तापः प्रथमः किल ।
अतिशीतलम् अप्य् अम्भः किं भिनत्ति न भूभृतः

3.48

बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् ।
तद् युद्धं हस्तिना सार्धं नराणां मृत्युम् आवहेत्

3.49

अन्यच् च-
स मूर्खः कालम् अप्राप्य यो ऽपकर्तरि वर्तते ।
कलिर् बलवता सार्धं कीट-पक्षोद्गमो यथा

3.50

किं च-
कौर्मं सङ्कोचम् आस्थाय प्रहारम् अपि मर्षयेत् ।
प्राप्त-काले तु नीतिज्ञ उत्तिष्ठेत् क्रूर-सर्पवत्

3.51

महत्य् अल्पेऽप्य् उपायज्ञः समम् एव भवेत् क्षमः ।
समुन्मूलयितुं वृक्षांस् तृणानीव नदीरयः

3.52

अतो दूतो ऽयं शुको ऽत्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते, यतः-
एकः शतं योधयति प्राकार-स्थो धनुर्धरः ।
शतं शत-सहस्राणि तस्माद् दुर्गं विशिष्यते

3.53

किं च-
अदुर्ग-विषयः कस्य नारेः परिभवास्पदम् ।
अदुर्गो ऽनाश्रयो राजा पोत-च्युत-मनुष्यवत्

3.54

दुर्गं कुर्यान् महाखातम् उच्च-प्राकार-संयुतम् ।
स-यन्त्रं स-जलं शैल-सरिन्-मरु-वनाश्रयम्

3.55

विस्तीर्णताति-वैषम्यं रस-धान्येध्म-सङ्ग्रहः ।
प्रवेशश् चाप-सारश् च सप्तैता दुर्ग-सम्पदः

3.56

राजाह-दुर्गानुसन्धाने को नियुज्यताम् ?
चक्रवाको ब्रूते-
यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् ।
कर्मस्व् अदृष्ट-कर्मा यः शास्त्रज्ञो ऽपि विमुह्यति

3.57

तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसम् अवलोक्य राजोवाच-भोः सारस ! त्वं सत्वरं दुर्गम् अनुसन्धेहि ।
सारसः प्रणम्योवाच-देव ! दुर्गं तावद् इदम् एव चिरात् सुनिरूपितम् आस्ते महत् सरः । किन्त्व् एतन्-मध्य-द्वीपे द्रव्य-सङ्ग्रहः क्रियताम् । यतः-
धान्यानां सङ्ग्रहो राजन्न् उत्तमः सर्व-सङ्ग्रहात् ।
निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राण-धारणम्

3.58

किं च-
ख्यातः सर्व-रसानां हि लवणो रस उत्तमः ।
गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते

3.59

राजाह-सत्वरं गत्वा सर्वम् अनुष्ठीयताम् ।
पुनः प्रविश्य प्रतीहारो ब्रूते-देव ! सिंहल-द्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते । स च देव-पादान् द्रष्टुम् इच्छति ।
राजाह-काकः प्राज्ञो बहुदृश्वा च तद् भवति स सङ्ग्राह्यः ।
चक्रवाको ब्रूते-देव ! अस्त्य् एवं । किन्तु अस्मद्-विपक्षः काकः स्थलचरः । तेनास्मद्-विपक्ष-पक्षे नियुक्तः कथं सङ्गृह्यते ? तथा चोक्तम्-
आत्म-पक्षं परित्यज्य पर-पक्षेषु यो रतः ।
स परैर् हन्यते मूढो नील-वर्ण-शृगालवत्

3.60

राजोवाच--कथम् एतत् ?
मन्त्री कथयति-
कथा 7
अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलीभाण्डे निपतितः । पश्चात् तत उत्थातुम् असमर्थः, प्रातर् आत्मानं मृतवत् सन्दर्श्य स्थितः । अथ नीली-भाण्ड-स्वामिना मृति इति ज्ञात्वा, तस्मात् समुत्थाप्य, दूरे नीत्वासौ परित्यक्तः । तस्मात् पलायितः ।
ततो ऽसौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिन्तयत्-अहम् इदानीम् उत्तम-वर्णः । तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तं-अहं भगवत्या वन-देवतया स्व-हस्तेनारण्य-राज्ये सर्वौषधि-रसेनाभिषिक्तः । पश्यन्तु मम वर्णम् । तद् अद्यारभ्यास्मद्-आज्ञयास्मिन्न् अरण्ये व्यवहारः कार्यः ।
शृगालाश् च तं विशिष्ट-वर्णम् अवलोक्य, साष्टाङ्ग-पातं प्रणम्योचुः-यथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्व् अरण्य-वासिष्व् आधिपत्यं तस्य बभूव । ततस् तेन स्वज्ञातिभिर् आवृतेनाधिक्यं साधितम् । ततस् तेन व्याघ्र-सिंहादीन् उत्तम-परिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः । ततो विषण्णान् शृगालान् अवलोक्य केनचिद् वृद्ध-शृगालेनैतत् प्रतिज्ञातं-मा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः । स्व-समीपात् परिभूतास् तद् यथायं नश्यति तथा विधेयम् । यतो ऽमी व्याघ्रादयो वर्ण-मात्र-विप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मन्यन्ते । तद् यथायं परिचीयते तथा कुरुत । तत्र चैवम् अनुष्ठेयम्, यथा वदामि-सर्वे सन्ध्या-समये
तत्-सन्निधाने महारावम् एकदैव करिष्यथ । ततस् तं शब्दम् आकर्ण्य जाति-स्वभावात् तेनापि शब्दः कर्तव्यः । यतः-
यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः ।
श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम्

3.61

ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हन्तव्यः । ततस् तथानुष्ठिते सति तद् वृत्तम् । तथा चोक्तम्-
छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः ।
दहत्य् अन्तर्गतश् चैव शुष्कं वृक्षम् इवानलः

3.62

अतो ऽहं ब्रवीमि-आत्म-पक्षं परित्यज्येत्य् आदि ।
--ओ)0(ओ--
राजाह-यद्य् एवं तथापि दृश्यतां तावद् अयं दूराद् आगतः । तत्-सङ्ग्रहे विचारः कार्यः ।
चक्रो ब्रूते-देव ! प्रणिधिस् तावत् प्रहितो, दुर्गं च सज्जीकृतम् । अतः शुको ऽप्य् आनीय प्रस्थाप्यताम् । किन्तु योध-बल-समन्वितो भूत्वा, दूराद् एव तम् अवलोकय । यतः-
नन्दं जघान चाणक्यस् तीक्ष्ण-दूत-प्रयोगतः ।
तद् दूरान्तरितं दूतं पश्येद् वीर-समन्वितः

3.63

ततः सभां कृत्वाहूतः शुकः काकश् च । शुकः किंचिद् उन्नत-शिरा दत्तासने उपविश्य ब्रूते-भो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्-चित्रवर्णः समाज्ञापयति-यदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्-चरणौ प्रणम । नो चेद् अवस्थातुं स्थानान्तरं परिचिन्तय ।
राजा स-कोपम् आह-आः, सभायाम् अस्माकं न को ऽपि विद्यते य एनं गलहस्तयति ? तत उत्थाय मेघवर्णो ब्रूते-देव ! आज्ञापय, हमि चैनं दुष्ट-शुकम् ।
सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूते-भद्र ! मा मैवम् । शृणु तावत्-
न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यम् अस्ति
सत्यं न तद् यच् छलम् अभ्युपैति

3.64

यतो राजधर्मश् चैषः-
दूतो म्लेच्छो ऽप्य् अवध्यः स्याद् राजा दूत-मुखो यतः ।
उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा

3.65

अन्यच् च-
स्वापकर्षं परोत्कर्षं दूतोक्तैर् मन्यते तु कः ।
सदैवावध्य-भावेन दूतः सर्वं हि जल्पति

3.66

ततो राजा काकश् च स्वां प्रकृतिम् आपन्नौ । शुको ऽप्य् उत्थाय चलितः । पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुको ऽपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् ।
तं विलोक्य राजोवाच-शुक ! का वार्ता ? कीदृशो ऽसौ देशः ?
शुको ब्रूते-देव ! संक्षेपाद् इयं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश् चासौ कर्पूर-द्वीपः स्वर्गैक-देशो, राजा च द्वितीयः स्वर्ग-पतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुम् उपविष्टः । आह च तान्-सम्प्रति कर्तव्ये विग्रहे यथा-कर्तव्यम् उपदेशं ब्रूत । विग्रहः पुनर् अवश्यं कर्तव्यः । तथा चोक्तम्-
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश् च महीभृतः ।
सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गना

3.67

दूरदर्शी नाम गृध्रो मन्त्री ब्रूते-देव ! व्यसनितया विग्रहो न विधिः । यतः-
मित्रामात्य-सुहृद्-वर्गा यदा स्युर् दृढ-भक्तयः ।
शत्रूणां विपरीताश् च कर्तव्यो विग्रहस् तदा

3.68

अन्यच् च-
भूमिर् मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् ।
यदैतन् निश्चितं भावि कर्तव्यो विग्रहस् तदा

3.69

राजाह-मद्-बलं तावद् अवलोकयतु मन्त्री । तदैतेषाम् उपयोगो ज्ञायताम् । एवम् आहूयतां मौहूर्तिकः । स यात्रार्थं शुभ-लग्नं निर्णीय ददातु ।
मन्त्री ब्रूते-देव ! तथापि सहसा यात्रा-करणम् अनुचितम् । यतः-
विशन्ति सहसा मूढा येऽविचार्य द्विषद्-बलम् ।
खड्ग-धारा-परिष्वङ्गं लभन्ते ते सुनिश्चितम्

3.70

राजाह-मन्त्रिन् ! ममोत्साह-भङ्गं सर्वथा मा कृथाः । विजिगीषुर् यथा पर-भूमिम् आक्रमति तथा कथय ।
गृध्रो ब्रूते-देव ! तत् कथयामि । किन्तु तद्-अनुष्ठितम् एव फल-प्रदम् । तथा चोक्तम्-
किं मन्त्रेणाननुष्ठाने शास्त्रवित् पृथिवी-पतेः ।
न ह्य् औषध-परिज्ञानाद् व्याधेः शान्तिः क्वचिद् भवेत्

3.71

राजादेशश् चानतिक्रमणीय इति यथा-श्रुतं निवेदयामि शृणु-देव !
नद्य्-अद्रि-वन-दुर्गेषु यत्र यत्र भयं नृप ।
तत्र तत्र च सेनानीर् यायाद् व्यूहीकृतैर् बलैः

3.72

बलाध्यक्षः पुरो यायात् प्रवीर-पुरुषान्वितः ।
मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम्

3.73

पार्श्वयोर् उभयोर् अश्वा अश्वानां पार्श्वतो रथाः ।
रथानां पार्श्वतो नागा नागानां च पदातयः

3.74

पश्चात् सेनापतिर् यायात् खिन्नानाश्वासयन् छनैः ।
मन्त्रिभिः सुभटैर् युक्तः प्रतिगृह्य बलं नृपः

3.75

समेयाद् विषमं नागैर् जलाढ्यं समहीधरम् ।
समम् अश्वैर् जलं नीमिः सर्वत्रैव पदातिभिः

3.76

हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे ।
तद् अन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि

3.77

शैलेषु दुर्ग-मार्गेषु विधेयं नृप-रक्षणम् ।
स्व-योधै रक्षितस्यापि शयनं योग-निद्रया

3.78

नाशयेत् कर्षयेच् छत्रून् दुर्ग-कण्टक-मर्दनैः ।
पर-देश-प्रवेशे च कुर्याद् आटविकान् पुरः

3.79

यत्र राजा तत्र कोशो विना कोशं न राजता ।
सुभटेभ्यस् ततो दद्यात् को हि दातुर् न युध्यते

3.80

यतः-
न नरस्य नरो दासो दासस् त्व् अर्थस्य भूपते ।
गौरवं लाघवं वापि धनाधन-निबन्धनम्

3.81

अभेदेन च युध्येत रक्षेच् चैव परस्परम् ।
फल्गु सैन्यं च यत् किंचिन् मध्ये व्यूहस्य कारयेत्

3.82

पदातींश् च महीपालः पुरो ऽनीकस्य योजयेत् ।
उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत्

3.83

स्यन्दनाश्वैः समे युध्येद् अनूपे नौ-द्विपैस् तथा ।
वृक्ष-गुल्मावृते चापैर् असि-चर्मायुधैः स्थले

3.84

दूषयेच् चास्य सततं यवसान् नोदकेन्धनम् ।
भिन्द्याच् चैव तडागानि प्रकारारान् परिखास् तथा

3.85

बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः ।
निजैर् अवयवैर् एव मातङ्गो ऽष्टायुधः स्मृतः

3.86

बलम् अश्वश् च सैन्यानां प्राकारो जङ्गमो यतः ।
तस्माद् अश्वाधिको राजा विजयी स्थल-विग्रहे

3.87

तथा चोक्तम्-
युध्यमाना हयारूढा देवानाम् अपि दुर्जयाः ।
अपि दूरस्थितास् तेषां वैरिणो हस्तवत्तिनः

3.88

प्रथमं युद्ध-कारित्वं समस्त-बल-पालनम् ।
दिङ्-मार्गाणां विशोधित्वं पत्ति-कर्म प्रचक्षते

3.89

स्वभाव-शूरम् अस्त्रज्ञम् अविरक्तं जित-श्रमम् ।
प्रसिद्ध-क्षत्रिय-प्रायं बलं श्रेष्ठतमं विदुः

3.90

यथा प्रभु-कृतान् मानाद् युध्यन्ते भुवि मानवाः ।
न तथा बहुभिर् दत्तैर् द्रविणैर् अपि भूपते

3.91

वरम् अल्प-बलं सारं न कुर्यान् मुण्ड-मण्डलीम् ।
कुर्याद् असार-भङ्गो हि सार-भङ्गम् अपि स्फुटम्

3.92

अप्रसादो ऽनधिष्ठानं देयांश-हरणं च यत् ।
काल-यापो ऽप्रतीकारस् तद् वैराग्यस्य कारणम्

3.93

अपीडयन् बलं शत्रूञ् जिगीषुर् अभिषेणयेत् ।
सुख-साध्यं द्विषां सैन्यं दीर्घ-प्रयाण-पीडितम्

3.94

दायादाद् अपरो यस्मान् नास्ति भेद-करो द्विषाम् ।
तस्माद् उत्थापयेद् यत्नाद् दायादं तस्य विद्विषः

3.95

सन्धाय युवराजेन यदि वा मुख्य-मन्त्रिणा ।
अन्तः-प्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः

3.96

क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् ।
अथवा गो-ग्रहाकृष्ट्या तन्-मुख्याश्रित-बन्धनात्

3.97

स्वराज्यं वासयेद् राजा पर-देशापहरणात् ।
अथवा दान-मानाभ्यां वासितं धनदं हि तत्

3.98

अथवा बहुनोदितेन-
आत्मोदयः पर-ग्लानिर् द्वयं नीतिर् इतीयती ।
तद् ऊरीकृत्य कृतिभिर् वाचस्पत्यं प्रतीयते

3.99

राज्ञा विहस्योक्तम्-सर्वम् एतद् विशेषतश् चोच्यते । किन्तु,
अन्यद् उच्छृङ्खलं सत्त्वम् अन्यच् छास्त्र-नियन्त्रितम् ।
सामानाधिकरण्यं हि तेजस्-तिमिरयोः कुतः

3.100

तत उत्थाय राजा मौहूर्तिकावेदित-लग्ने प्रस्थितः । अथ प्रहित-प्रणिधिश् चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच-देव ! समागत-प्रायो राजा चित्रवर्णः । सम्प्रति मलय-पर्वताधित्यकायां समावासित-कटको वर्तते । दुर्ग-शोधनं प्रतिक्षणम् अनुसन्धातव्यम् । यतो ऽसौ गृध्रो महामन्त्री । किं च केनचित् सह तस्य विश्वास-कथा-प्रसङ्गेनेतद् इङ्गितम् अवगतं मया । यत्-अनेन को ऽप्य् अस्मद्-दुर्गे प्राग् एव नियुक्तः ।
चक्रवाको ब्रूते-देव ! काक एवासौ सम्भवति ।
राजाह-न कदाचिद् एतत् । यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः ? अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः । स च चिराद् अत्रास्ते ।
मन्त्री ब्रूते-तथाप्य् आगन्तुकः शङ्कनीयः ।
राजाह-आगन्तुका अपि कदाचिद् उपकारका दृश्यन्ते । शृणु-
परो ऽपि हितवान् बन्धुर् बन्धुर् अप्य् अहितः परः ।
अहितो देहजो व्याधिर् हितम् आरण्यम् औषधम्

3.101

अपरं च-
आसीद् वीर-वरो नाम शूद्रकस्य महीभृतः ।
सेवकः स्वल्प-कालेन स ददौ सुतम् आत्मनः

3.102

चक्रवाकः पृच्छति--कथम् एतत् ?
राजा कथयति-
कथा 8
अहं पुरा शूद्रकस्य राज्ञः क्रीडा-सरसि कर्पूरकेलि-नाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राज-द्वारम् उपगम्य प्रतीहारम् उवाच-अहं तावद् वर्तनार्थी राजपुत्रः । मां रज-दर्शनं कारय । ततस् तेनासौ राज-दर्शनं कारितो ब्रूते-देव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्-वर्तनं क्रियताम् ।
शूद्रक उवाच-किं ते वर्तनम् ?
वीरवरो ब्रूते-प्रत्यहं सुवर्ण-पञ्च-शतानि देहि ।
राजाह-का ते सामग्री ?
वीरवरो ब्रूते-द्वौ बाहू । तृतीयश् च खड्गः ।
राजाह-नैतच् छक्यम् ।
तच् छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिर् उक्तम्-देव ! दिन-चतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम् । किम् उपयुक्तो ऽयम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति ।
ततो मन्त्रि-वचनाद् आहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्च-शतानि सुवर्णानि दत्तानि । वर्तन-विनियोगश् च राज्ञा सुनिभृतं निरूपितः । तद्-अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तद् अवशिष्टं भोज्य-विलास-व्ययेन । एतत् सर्वं नित्य-कृत्यं कृत्वा, राज-द्वारम् अहर्निशं खड्ग-पाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्व-गृहम् अपि याति ।
अथैकदा कृष्ण-चतुर्दश्यां रात्रौ स राजा स-करुण-क्रन्दन-ध्वनिं शुश्राव । तत् श्रुत्वा राजा ब्रूते-कः को ऽत्र द्वारि तिष्ठति ?
तदा तेनोक्तं-देव ! अहं वीरवरः ।
राजोवाच-क्रन्दनानुसरणं क्रियताम् ।
वीरवरो ऽपि-यथाज्ञापयति देवः, इत्य् उक्त्वा चलितः ।
राज्ञा च चिन्तितम्-अयम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतद् उचितम् । तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि ।
ततो राजापि खड्गम् आदाय तद्-अनुसरण-क्रमेण नगराद् बहिर् निर्जगाम । गत्वा च वीरवरेण रुदती रुप-यौवन-सम्पन्ना सर्वालङ्कार-भूषिता काचित् स्त्री दृष्टा, पृष्टा च-का त्वम् ? किम् अर्थं रोदिषि ? इति ।
स्त्रियोक्तम्-अहम् एतस्य शूद्रकस्य राज-लक्ष्मीः । चिराद् एतस्य भुज-च्छायायां महता सुखेन विश्रान्ता । इदानीम् अन्यत्र गमिष्यामि ।
वीरवरो ब्रूते-यतापायः सम्भवति, तत्रोपायो ऽप्य् अस्ति । तत् कथं स्यात् पुनर् इहावासो भवत्याः ?
लक्ष्मीर् उवाच-यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्-लक्षणोपेतं भगवत्याः सर्व-मङ्गलाया उपहारीकरोषि, तदाहं पुनर् अत्र सुचिरं निवसामि । इत्य् उक्त्वादृश्याभवत् ।
ततो वीरवरेण स्व-गृहं गत्वा निद्रायमाणा स्व-वधूः प्रबोधिता पुत्रश् च । तौ निद्रां परित्यज्योत्थायोपविष्टौ । वीरवरस् तत् सर्वं लक्ष्मी-वचनम् उक्तवान् । तच् छ्रुत्वा सानन्दः शक्तिधरो ब्रूते-धन्यो ऽहम् एवम्भूतः । स्वामि-राज्य-रक्षार्थं यस्योपयोगः । तात ! तत् को ऽधुना विलम्बस्य हेतुः ? एवं-विधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः-
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
तन्-निमित्तो वरं त्यागो विनाशे नियते सति

3.103

शक्तिधर-मातोवाच-यद्य् एतन् न कर्तव्यं तत् केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्य् आलोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूते-देवि ! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यताम् अयम् उपहारः । इत्य् उक्त्वा पुत्रस्य शिरश् चिच्छेद । ततो वीरवरश् चिन्तयामास-गृहीत-राज-वर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्य् आलोच्यात्मनः शिरश् चिच्छेद ।
ततः स्त्रियापि स्वामि-पुत्र-शोकार्तया तद् अनुष्ठितम् । तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास--
जायन्ते च म्रियन्ते च मद्-विधाः क्षुद्र-जन्तवः ।
अनेन सदृशो लोके न भूतो न भविष्यति

3.104

तद् एतत्-परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्व-शिरश् छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या सर्वमङ्गलया प्रत्यक्ष-भूतया राजा हस्ते धृतः । उक्तं च-पुत्र ! प्रसन्नो ऽस्मि ते, एतावता साहसेनालम् । जीवनान्तेऽपि तव राज-भङ्गो नास्ति ।
राजा च साष्टाङ्ग-पातं प्रणम्योवाच-देवि ! किं मे राज्येन ? जीवितेन वा मम किं प्रयोजनम् ? यद्य् अहम् अनुकम्पनीयस् तदा ममायुः-शेषेणाप्य् अयं स-दार-पुत्रो वीरवरो जीवतु । अन्यथाहं यथा-प्राप्तां गतिं गच्छामि ।
भगवत्य् उवाच-पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्य-वात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव । अयम् अपि स-परिवारो राज-पुत्रो जीवतु । इत्य् उक्त्वा देव्य् अदृश्याभवत् । ततो वीरवरः स-पुत्र-दारः प्राप्त-जीवनः स्व-गृहं गतः । राजापि तैर् अलक्षितः सत्वरम् अन्तः-पुरं प्रविष्टः ।
अथ प्रभाते वीरवरो द्वारस्थः पुनर् भूपालेन पृष्टः सन्न् आह-देव ! सा रुदती माम् अवलोक्यादृश्याभवत् । न काप्य् अन्या वार्ता विद्यते ।
तद् वचनम् आकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामास-कथम् अयं श्लाघ्यो महा-सत्त्वः ? यतः-
प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः ।
दाता नापात्र-वर्षी च प्रगल्भः स्याद् अनिष्ठुरः

3.105

एतन् महापुरुष-लक्षणम् एतस्मिन् सर्वम् अस्ति । ततः स राजा प्रातः शिष्ट-सभां कृत्वा, सर्वं वृत्तान्तं प्रस्तुत्य प्रसादात् तस्मै कर्णाटक-राज्यं ददौ । तत् किम् आगन्तुको जाति-मात्राद् दुष्टः ? तत्राप्य् उत्तमाधम-मध्यमाः सन्ति ।
चक्रवाको ब्रूते-
यो ऽकार्यं कार्यवच् छास्ति स किं मन्त्री नृपेच्छया ।
वरं स्वामि-मनो-दुःखं तन्-नाशो न त्व् अकार्यतः

3.106

वैद्यो गुरुश् च मन्त्री च यस्य राज्ञः प्रियंवदाः ।
शरीर-धर्म-कोशेभ्यः क्षिप्रं स परिहीयते

3.107

शृणु देव !
पुण्याल् लब्धं यद् एकेन तन् ममापि भविष्यति ।
हत्वा भिक्षुं यतो मोहान् निध्य्-अर्थी नापितो हतः

3.108

राजा पृच्छति--कथम् एतत् ?
मन्त्री कथयति-
कथा 9
अस्त्य् अयोध्यायां पुरि चूडामणिर् नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश् चन्द्रार्ध-चूडामणिश् चिरम् आराधितः । ततः क्षीण-पापो ऽसौ स्वप्ने दर्शनं दत्त्वा, भगवद्-आदेशाद्य्-अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड-हस्तः सन् स्व-गृह-द्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुड-प्रहारेण हनिष्यसि । ततो ऽसौ भिक्षुकस् तत्-क्षणात् सुवर्ण-कलसो भविष्यति । तेन त्वया यावज्-जीवं सुखिना भवितव्यम् । ततस् तथानुष्ठिते तद् वृत्तम् ।
तत्र क्षौर-करणायानीतेन नापितेन तत् सर्वम् आलोक्य चिन्तितम्-अये निधि-प्राप्तेर् अयम् उपायः । तद् अहम् अप्य् एवं किं न करोमि ? ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुड-हस्तः सुनिभृतं भिक्षोर् आगमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर् लगुडेन व्यापादितः । तस्माद् अपराधात् सो ऽपि नापितो राज-पुरुषैर् व्यापादितः । अतो ऽहं ब्रवीमि-पुण्याल् लब्धं यद् एकेन इत्य् आदि ।
--ओ)0(ओ--
राजाह-
पुरावृत्त-कथोद्गारैः कथं निर्णीयते परः ।
स्यान् निष्कारण-बन्धुर् वा किं वा विश्वास-घातकः

3.109

यातु, प्रस्तुतम् अनुसन्धीयताम् । मलयाधित्यकायां चेच् चित्रवर्णस् तद् अधुना किं विधेयम् ? मन्त्री वदति-देव ! आगत-प्रणिधि-मुखान् मया श्रुतं, यत् महा-मन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततो ऽसौ मूढो जेतुं शक्यः । तथा चोक्तम्-
लुब्धः क्रूरो ऽलसो ऽसत्यः प्रमादी भीरुर् अस्थिरः ।
मूढो योधावमन्ता च सुख-च्छेद्यो रिपुः स्मृतः

3.110

ततो ऽसौ यावद् अस्मद् दुर्ग-द्वार-रोधं न करोति, तावन् नद्य्-अद्रि-वन-वर्त्मसु तद्-बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् । तथा चोक्तम्-
दीर्घ-वर्त्म-परिश्रान्तं नद्य्-अद्रि-वन-सङ्कुलम् ।
घोराग्नि-भय-सन्त्रस्तं क्षुत्-पिपासार्दितं तथा

3.111

प्रमत्तं भोजन-व्यग्रं व्याधि-दुर्भिक्ष-पीडितम् ।
असंस्थितम् अभूयिष्ठं वृष्टि-वात-समाकुलम्

3.112

पङ्क-पांशु-जलाच्छन्नं सुव्यस्तं दस्यु-विद्रुतम् ।
एवम्भूतं महीपालः पर-सैन्यं विघातयेत्

3.113

अन्यच् च-
अवस्कन्द-भयाद् राजा प्रजागर-कृत-श्रमम् ।
दिवा-सुप्तं सदा हन्यान् निद्रा-व्याकुल-सैनिकम्

3.114

अतस् तस्य प्रमादितो बलं गत्वा यथावकाशं दिवा-निशं घ्नन्त्व् अस्मत्-सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश् च बहवो निहताः । ततश् चित्रवर्णो विषण्णः स्व-मन्त्रिणं दूर-दर्शिनम् आह-तात ! किम् इत्य् अस्मद्-उपेक्षा क्रियते ? किं क्वाप्य् अविनयो ममास्ति ? तथा चोक्तम्-
न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असाम्प्रतम् ।
श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम्

3.115

अपि च-
दक्षः श्रियम् अधिगच्छति पथ्य् आशी कल्यतां सुखम् अरोगी ।
उद्युक्तो वियान्तं धर्मार्थ-यशांसि च विनीतः

3.116

गृध्रो ऽवदत्-देव ! शृणु-
अविद्वान् अपि भू-पालो विद्या-वृद्धोपसेवया ।
परां श्रियम् अवाप्नोति जलासन्न-तरुर् यथा

3.117

अन्यच् च-
पापं स्त्री मृगया द्यूतम् अर्थ-दूषणम् एव च ।
वाग्-दण्डयोश् च पारुष्यं व्यसनानि महीभुजाम्

3.118

किं च-
न साहसैकान्त-रसानुवर्तिना
न चाप्य् उपायोपहतान्तरात्मना ।
विभूतयः शक्यम् अवाप्तुम् ऊर्जिता
नये च शौर्ये च वसन्ति सम्पदः

3.119

त्वया स्व-बलोत्साहम् अवलोक्य, साहसैक-रसिकेन मयोपन्थस् तेष्व् अपि मन्त्रेष्व् अनवधानं, वाक्-पारुष्यं च कृतम् । अतो दुर्नीतेः फलम् इदम् अनुभूयते । तथा चोक्तम्-
दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः ?
सन्तापयन्ति कम् अपथ्य-भुजं न रोगाः ?
कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः
कं स्त्री-कृता न विषयाः परितापयन्ति

3.120

अपरं च-
मुदं विषादः शरदं हिमागमस्
तमो विवस्वान् सुकृतं कृतघ्नता ।
प्रियोपपत्तिः शुचम् आपदं नयः
श्रियः समृद्धा अपि हन्ति दुर्नयः

3.121

ततो मयाप्य् आलोचितम्-प्रज्ञा-हीनो ऽयं राजा । न चेत् कथं नीति-शास्त्र-कथा-कौमुदीं वाग्-उल्काभिस् तिमिरयति । यतः-
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ?
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति

3.122

इत्य् आलोच्याहम् अपि तूष्णीं स्थितः । अथ राजा बद्धाञ्जलिर् आह-तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्ट-बल-सहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि, तथोपदिश ।
गृध्रः स्वगतं चिन्तयति-क्रियताम् अत्र प्रतीकारः । यतः,
देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च ।
नियन्तव्यः सदा कोपो बाल-वृद्धातुरेषु च

3.123

मन्त्री प्रहस्य ब्रूते-देव मा भैषीः । समाश्वसिहि । शृणु देव-
मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके ।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः

3.124

अपरं च-
आरम्भन्तेऽल्पम् एवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृत-धियस् तिष्ठन्ति च निराकुलाः

3.125

तद् अत्र भवत्-प्रतापाद् एव दुर्गं भङ्क्त्वा, कीर्ति-प्रताप-सहितं त्वाम् अचिरेण कालेन विन्ध्याचलं नेष्यामि ।
राजाह-कथम् अधुना स्वल्प-बलेन तत् सम्पद्यते ?
गृध्रो वदति-देव ! सर्वं भविष्यति । यतो विजिगीषोर् अदीर्घ-सूत्रता विजय-सिद्धेर् अवश्यम्भावि लक्षणम् । तत् सहसैव दुर्ग-द्वारावरोधः क्रियताम् ।
अथ प्रहित-प्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्-देव ! स्वल्प-बल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भाद् आगत्य दुर्ग-द्वारावरोधं करिष्यति ।
राजहंसो ब्रूते-स्व-बले सारासार-विचारः क्रियताम् । तज् ज्ञात्वा सुवर्ण-वस्त्रादिकं यथार्हं प्रसाद-प्रदानं च क्रियताम् । यतः-
यः काकिणीम् अप्य् अपथ-प्रपन्नां
समुद्धरेन् निष्क-सहस्र-तुल्याम् ।
कालेषु कोटिष्व् अपि मुक्त-हस्तस्
तं राज-सिंहं न जहाति लक्ष्मीः

3.126

अन्यच् च-
क्रतौ विवाहे व्यसने रिपु-क्षये
यशस्करे कर्मणि मित्र-सङ्ग्रहे ।
प्रियासु नारीष्व् अधनेषु बान्धवेष्व्
अतिव्ययो नास्ति नराधिपाष्टसु

3.127

यतः-
मूर्खः स्वल्प-व्यय-त्रासात् सर्वनाशं करोति हि ।
कः सुधीः सन्त्यजेद् भाण्डं शुक्लस्यैवातिसाध्वसात्

3.128

राजाह-कथम् इह समयेऽतिव्ययो युज्यते ? उक्तं च-आपद्-अर्थे धनं रक्षेद् इति ।
मन्त्री ब्रूते-श्रीमतां कथम् आपदः ?
राजाह-कदाचिच् चलिता लक्ष्मीः ।
मन्त्री ब्रूते-सञ्चितापि विनश्यति । तद् देव ! कार्पण्यं विमुच्य स्व-भटा दान-मानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम्-
परस्परज्ञाः संहृष्टास् त्यक्तुं प्राणान् सुनिश्चिताः ।
कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्-बलम्

3.129

अपरं च-
सुभटाः शील-सम्पन्नाः संहताः कृत-निश्चयाः ।
अपि पञ्च-शतं शूरा निघ्नन्ति रिपु-वाहिनीम्

3.130

किं च-
शिष्टैर् अप्य् अवशेषज्ञ उग्रश् च कृत-नाशकः ।
त्यज्यते किं पुनर् नान्यैर् यश् चाप्य् आत्मम्भरिर् नरः

3.131

यतः-
सत्यं शौर्यं दया त्यागो नृपस्यैते महा-गुणाः ।
एतैस् त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम्

3.132

ईदृशि प्रस्तावेऽमात्यास् तावद् अवश्यम् एव पुरस्कर्तव्याः । तथा चोक्तम्-
यो येन प्रतिबद्धः स्यात् सह तेनोदयी व्ययी ।
स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च

3.133

यतः-
धूर्तः स्त्री वा शिशुर् यस्य मन्त्रिणः स्युर् महीपतेः ।
अनीति-पवन-क्षिप्तो ऽकार्याब्धौ स निमज्जति

3.134

शृणु देव! -
हर्ष-क्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस् तथा ।
नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा

3.135

येषां राज्ञा सह स्याताम् उच्चयापचयौ ध्रुवम् ।
अमात्या इति तान् राजा नावमन्येत् कदाचन

3.136

महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः ।
स्खलतो हि करालम्बः सुशिष्टैर् एव कीयते

3.137

अथागत्य प्रणम्य मेघवर्णो ब्रूते-देव ! दृष्टि-प्रसादं कुरु । इदानीं विपक्षो दुर्ग-द्वारि वर्तते । तद् देव-पादादेशाद् बहिर् निःसृत्य स्व-विक्रमं दर्शयामि । तेन देव-पादानाम् आनृण्यम् उपगच्छामि ।
चक्रवाको ब्रूते-मैवम् । यदि बहिर् निःसृत्य योद्धव्यम् । तदा दुर्गाश्रयणम् एव निष्प्रयोजनम् । अपरं च-
विषमो ऽपि यथा नक्रः सलिलान् निसृतो वशः ।
वनाद् विनिर्गतः शूरः सिंहो ऽपि स्याच् छगालवत्

3.138

अथ ते सर्वे दुर्ग-द्वारं गत्वा महाहवं कृतवन्तः । अपरेद्युश् चित्रवर्णो राजा गृध्रम् उवाच-तात ! स्व-प्रतिज्ञातम् अधुना निर्वाहय ।
वायसो ब्रूते-देव ! स्वयं गत्वा दृश्यतां युद्धम् । यतः-
पुरस्कृत्य बलं राजा योधयेद् अवलोकयन् ।
स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम्

3.139

गृध्रो ब्रूते-देव ! शृणु तावत्-
अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम् ।
अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते

3.140

तत् तावद् अत्र नास्ति-
उपजापश् चिरारोधो ऽवस्कन्दस् तीव्र-पौरुषम् ।
दुर्गस्य लङ्घनोपायाश् चत्वारः कथिता इमे

3.141

अत्र यथाशक्ति क्रियते यत्नः । कर्णे कथयति-एवम् एवम् । ततो ऽनुदित एव भास्करे चतुर्ष्व् अपि दुर्ग-द्वारेषु प्रवृत्ते युद्धे, दुर्गाभ्यन्तर-गृहेष्व् एकदा काकैर् अग्नि-निक्षिप्तः । ततः गृहीतं गृहीतं दुर्गम् इति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निम् अवलोक्य राज-हंस-सैनिका बहवो दुर्ग-वासिनश् च सत्वरं ह्रदं प्रविष्टाः, यतः-
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
कार्य-काले यथा-शक्ति कुर्यान् न तु विचारयेत्

3.142

राजा हंसश् च स्वभावान् मन्द-गतिः । सारस-द्वितीयश् चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसम् आह-सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि । अधुनाहं गन्तुम् असमर्थः । त्वं गन्तुम् अधुनापि समर्थः । तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्-पुत्रं चूडामणि-नामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि ।
सारसो ब्रूते-देव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चन्द्रार्कौ दिवि तिष्ठतस् तावद् विजयतां देवः । अहं देव दुर्गाधिकारी । तन् मम मांसासृग् विलिप्तेन द्वार-वर्त्मना तावत् प्रविशतु शत्रुः । अपरं च, देव--
दाता क्षमी गुण-ग्राही स्वामी दुःखेन लभ्यते ।
राजाह-सत्यम् एवैतत् । किन्तु-
शुचिर् दक्षो ऽनुरक्तश् च जाने भृत्यो ऽपि दुर्लभः

3.143

सारसो ब्रूते-शृणु देव!
यदि समरम् अपास्य नास्ति मृत्योर्
भयम् इति युक्तम् इतो ऽन्यतः प्रयातुम् ।
अथ मरणम् अवश्यम् एव जन्तोः
किम् इति मुधा मलिनं यशः क्रियते ?

3.144

अन्यच् च-
भवेऽस्मिन् पवनोद्भ्रान्त-वीचि-विभ्रम-भङ्गुरे ।
जायते पुणय्-योगेन परार्थे जीवित-व्ययः

3.145

स्वाम्य्-अमात्यश् च राष्ट्रं च दुर्गं कोशो बलं सुहृत् ।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयो ऽपि च

3.146

देव ! त्वं च स्वामी सर्वथा रक्षणीयः । यतः-
प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति ।
अपि धन्वन्तरिर् वैद्यः किं करोति गतायुषि

3.147

अपरं च-
नरेशे जीव-लोको ऽयं निमीलति निमीलति ।
उदेत्य् उदीयमाने च रवाव् इव सरोरुहम्

3.148

अत्रापि प्रधानाङ्गं राजा ।
अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतर-नखाघातः कृतः । तदा सत्वरम् उपसृत्य सारसेन स्व-देहान्तरितो राजा जले क्षिप्तः ।
अथ कुक्कुट-नख-प्रहार-जर्जरीकृतेनापि सारसेन कुक्कुट-सेना बहुशो हता । पश्चात् सारसो ऽपि बहुभिः पक्षिभिः समेत्य चञ्चु-प्रहारेण विभिद्य व्यापादितः । अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर् जय-शब्दैर् आनन्दितः स्व-स्कन्धावारं जगाम ।
अथ राज-पुत्रैर् उक्तं-तस्मिन् राजहंस-पक्षे पुण्यवान् स सारस एव, येन स्व-देह-त्यागेन स्वामी रक्षितः । यतः-
जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन् ।
विषाणोल्लिखित-स्कन्धं काचिद् एव गवां पतिम्

3.149

विष्णुशर्मोवाच-स तावत् सत्त्व-क्रीतान् अक्षय-लोकान् विद्याधरी-परिवृत्तो ऽनुभवतु महा-सत्त्वः । तथा चोक्तम्-
आहवेषु च ये शूराः स्वाम्य्-अर्थे त्यक्त-जीविताः ।
भर्तृ-भक्ताः कृतज्ञाश् च ते नराः स्वर्ग-गामिनः

3.150

यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति

3.151

अथ विष्णुशर्मा प्राह-विग्रहः श्रुतो भवद्भिः ।
राजपुत्रैर् उक्तम्-श्रुत्वा सुखिनो भूता वयम् ।
विष्णुशर्माब्रवीत्-अपरम् अप्य् एवम् अस्तु-
विग्रहः करि-तुरङ्ग-पत्तिभिर्
नो कदापि भवतान् महीभुजाम् ।
नीति-मन्त्र-पवनैः समाहताः
संश्रयन्तु गिरि-गह्वरं द्विषः

मूल पाठ: Hitopadeśa · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc