भाषा

ENहिગુ
ग्रंथ पाठ

हितोपदेश · अध्याय 1

1.1

तद् एतेषाम् अस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवन्तः प्रमाणम् इत्य् उक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ॥
--ओ)0(ओ--
इ.
मित्र-लाभः
अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पण्डितो ऽब्रवीत्-भो राज-पुत्राः शृणुत-
काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा

1.2

तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि । राज-पुत्रैर् उक्तम्-आर्य ! कथ्यतां । विष्णु-शर्मोवाच-शृणुत यूयम् । सम्प्रति मित्र-लाभः प्रस्तूयते । यस्यायम् आद्यः श्लोकः-
असाधना वित्त-हीना बुद्धिमन्तः सुहृन्-मताः ।
साधयन्त्य् आशु कार्याणि काक-कूर्म-मृगाखुवत्

1.3

राजपुत्रा ऊचुः-कथम् एतत् ?
सो ऽब्रवीत्-अस्ति गोदावरी-तीरे विशालः शाल्मली-तरुः । तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलम्बिनि भगवति कुमुदिनी-नायके चन्द्रमसि । लघुपतन-नामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाश-हस्तं व्याघम् अपश्यत् । तम् आलोक्याचिन्तयत्-अद्य प्रातर् एवानिष्ट-दर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरण-क्रमेण व्याकुलश् चलति । यतः-
शोक-स्थान-सहस्राणि भय-स्थान-शतानि च ।
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम्

1.4

अन्यच् च-विषयिणाम् इदम् अवश्यं कर्तव्यम् ।
उत्थायोत्थाय बोद्धव्यं किम् अद्य सुकृतं कृतम् ।
आयुषः खण्डम् आदाय रविर् अस्तं गमिष्यति

1.5

अथ तेन व्याधेन तण्डुल-कणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस् तण्डुल-कणान् अवलोकयामास । ततः कपोत-राजस् तण्डुल-कण-लुब्धान् कपोतान् प्राह-कुतो ऽत्र निर्जने वने तण्डुल-कणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुल-कण-लोभेनास्माभिर् अपि तथा भवितव्यम् ।
कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः

1.6

कपोता ऊचुः-कथम् एतत् ?
कथा 1
सो ऽब्रवीत्-अहम् एकदा दक्षिणारण्ये चरन्न् अपश्यम् एको वृद्धो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूते-भो भो पन्थाः ! इदं सुवर्ण-कङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम्-भाग्येन एतत् सम्भवति । किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्तिर् न विधेया । यतः-
अनिष्टाद् इष्ट-लाभेऽपि न गतिर् जायते शुभा ।
यत्रास्ते विष-संसर्गो ऽमृतं तद् अपि मृत्यवे

1.7

किन्तु सर्वत्रार्थार्जन-प्रवृत्तौ सन्देह एव । तथा चोक्तम्-
न संशयम् अनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनर् आरुह्य यदि जीवति पश्यति

1.8

तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थो ऽवदत्-कथं मारात्मके त्वयि विश्वासः ?
व्याघ्र उवाच-शृणु रे पान्थ ! प्राग् एव यौवन-दशायाम् अहम् अतीव दुर्वृत्त आसम् । अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश् च । वंश-हीनश् चाहम् । ततः केनचिद् धार्मिकेणाहम् उपदिष्टः । दान-धर्मादिकं चरतु भवान् इति । तद्-उपदेशादि-दानीम् अहं स्नान-शीलो दाता वृद्धो गलित-नख-दन्तः न कथं विश्वास-भूमिः ? उक्तं च-
इज्याऽध्ययन-दानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गो ऽयं धर्मस्याष्ट-विधः स्मृतः

1.9

तत्र पूर्वश् चतुर्वर्गो दम्भार्थम् अपि सेव्यते ।
उत्तरस् तु चतुर्वर्गो महात्मन्य् एव तिष्ठति

1.10

मम चैतावान् लोभ-विरहः । येन स्व-हस्त-स्थम् अपि सुवर्ण-कङ्कणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः-
गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् ।
प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम्

1.11

मया च धर्म-शास्त्राणि अधीतानि । शृणु-
मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन

1.12

प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः

1.13

अपरं च-
प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति

1.14

अन्यच् च-
मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् ।
आत्मवत् सर्व-भूतेषु यः पश्यति स पण्डितः

1.15

त्वं च अतीव-दुर्गतः । तेन तत् तुभ्यं दातुं स-यत्नो ऽहम् । तथा चोक्तम्-
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः

1.16

अन्यत् च-
दातव्यम् इति यद् दानं दीयतेऽनुपकारिणि ।
देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः

1.17

तद् अत्र सरसि स्नात्वा सुवर्ण-कङ्कणम् इदं गृहाण । ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन् महा-पङ्के निमग्नः पलायितुम् अक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रो ऽवदत्-अहह महा-पङ्के पतितो ऽसि । अतस् त्वाम् अहम् उत्थापयामि । इत्य् उक्त्वा शनैः शनैर् उपगम्य तेन व्याघ्रेण धृतः स पान्थो ऽचिन्तयत्-
न धर्म-शास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः

1.18

किं च-
अवशेन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया ।
दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना

1.19

तन् मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्-
नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च

1.20

अपरं च-
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते

1.21

अन्यच् च-
स हि गगन-विहारी कल्मष-ध्वंस-कारी
दश-शत-कर-धारी ज्योतिषां मध्य-चारी ।
विधुर् अपि विधि-योगाद् ग्रस्यते राहुणासौ
लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः

1.22

इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश् च । अतो ऽहं ब्रवीमि-कङ्कणस्य तु लोभेनेत्य् आदि । अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति । यतः-
सुजीर्णम् अन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घ-कालेऽपि न याति विक्रियाम्

1.23

एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पम् आह-आः ! किम् एवम् उच्यते ?
वृद्धस्य वचनं ग्राह्यम् आपत्-काले ह्य् उपस्थिते ।
सर्वत्रैवं विचारे च भोजनेऽपि प्रवर्तताम्

1.24

यतः-
शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ?

1.25

यथा चोक्तम्-
ईर्ष्यी घृणी त्व् असन्तुष्टः क्रोधनो नित्य-शङ्कितः ।
पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः

1.26

एतच् छ्रुत्वा तण्डुल्-कण-लोभेन नभो-मण्डलाद् अवतीर्यस् अर्वे कपोतास् तत्रोपविष्टाः । यतः-
सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहु-श्रुताः ।
छेत्ताः संअयानां च क्लिश्यन्ते लोभ-मोहिताः

1.27

अन्यच् च-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभान् मोहश् च नाशश् च लोभः पापस्य कारणम्

1.28

अन्यच् च-
असंभवं हेम-मृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्न-विपत्ति-काले
धियो ऽपि पुंसां मलिना भवन्ति

1.29

अनन्तरं ते सर्वे जाल-निबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास् तं सर्वे तिरस्कुर्वन्ति स्म । यतः,
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्य-विपत्तिः स्यान् मुखरस् तत्र हन्यते

1.30

तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच-नायम् अस्य दोषः, यतः
आपदाम् आपतन्तीनां हितो ऽप्य् आयाति हेतुताम् ।
मातृ-जङ्घा हि वत्सस्य स्तम्भी-भवति बन्धने

1.31

अन्यच् च-
स बन्धुर् यो विपन्नानाम् आपद्-उद्धरण-क्षमः ।
न तु भीत-परित्राण-वस्तूपालम्भ-पण्डितः

1.32

विपत्-काले विस्मय एव कापुरुष-लक्षणम् । तद् अत्र धैर्यम् अवलम्ब्य प्रतीकारश् चिन्त्यताम्, यतः-
विपदि धैर्यम् अथाभ्युदये क्षमा
सदसि वाक्य-पटुता युधि विक्रमः ।
यशसि चाभिरुचिर् व्यसनं श्रुतौ
प्रकृति-सिद्धम् इदं हि महात्मनाम्

1.33

सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम्

1.34

अन्यच् च-
षड्-दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता

1.35

इदानीम् अपि एवं क्रियताम्-सर्वैर् एकचित्तीभूय जालम् आदाय उड्डीयताम् । यतः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका ।
तृणैर् गुणत्वम् आपन्नैर् बध्यन्ते मत्त-दन्तिनः

1.36

संहतिः श्रेयसी पुंसां स्वकुलैर् अल्पकैर् अपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः

1.37

इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज् जालापहारकांस् तान् अवलोक्य पश्चाद् धावितो ऽचिन्तयत्-
संहतास् तु हरन्त्य् एते मम जालं विहङ्गमाः ।
यदा तु निपतिष्यन्ति वशम् एष्यन्ति मे तदा

1.38

ततस् तेषु चक्षुर् विषयम् अतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः-स्वामिन् ! किम् इदानीं कर्तुम् उचितम् ?
चित्रग्रीव उवाच-
माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्य-कारणतश् चान्ये भवन्ति हित-बुद्धयः

1.39

तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गण्डकी-तीरे चित्र-वने निवसति । सो ऽस्माकं पाशांश् छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यक-विवर-समीपं गताः । हिरण्यकश् च सर्वदा अपाय-शङ्कया शत-द्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपात-भयाच् चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच-सखे हिरण्यक ! कथम् अस्मान् न सम्भाषसे ?
ततो हिरण्यकस् तद्-वचनं प्रत्यभिज्ञाय स-सम्भ्रमं बहिर् निःसृत्य अब्रवीत्-आः ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः ।
यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस् ततो नास्तीह पुण्यवान्

1.40

अथ पाश-बद्धांश् चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच-सखे ! किम् एतत् ?
चित्रग्रीव उवाच-सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलम् एतत् ।
यस्माच् च येन च यथा च यदा च यच् च
यावच् च यत्र च शुभाशुभम् आत्म-कर्म ।
तस्माच् च तेन च तथा च तदा च तच् च
तावच् च तत्र च विधातृ-वशाद् उपैति

1.41

राग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मापराध-वृक्षाणां फलान्य् एतानि देहिनाम्

1.42

एतच् छ्रुत्वा हिरण्यकश् चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति । तत्र चित्रग्रीव उवाच-मित्र ! मा मैवं कुरु । प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश् छिन्धि । मम पाशं पश्चाच् छेत्स्यसि ।
हिरण्यको ऽप्य् आह-अहम् अल्प-शक्तिः । दन्ताश् च मे कोमलाः । तद् एतेषां पाशांश् छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि । तद्-अनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि ।
चित्रग्रीव उवाच-अस्त्व् एवम् । तथापि यथा-शक्ति बन्धनम् एतेषां खण्डय ।
हिरण्यकेनोक्तम्-आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् । यतः-
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि

1.43

अन्यच् च--
धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः ।
तान् निघ्नता किं न हतं रक्षता किं न रक्षितम्

1.44

चित्रग्रीव उवाच-सखे ! नीतिस् तावद् ईदृश्य् एव, किन्त्व् अहम् अस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस् तेनेदं ब्रवीमि । यतः-
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति

1.45

अयम् अपरश् चासाधारणो हेतुः ।
जाति-द्रव्य-बलानां च साम्यम् एषां मया सह ।
मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति

1.46

अन्यच् च-
विना वर्तनम् एवैते न त्यजन्ति ममान्तिकम् ।
तन् मे प्राण-व्ययेनापि जीवयैतान् ममाश्रितान्

1.47

किं च-
मांस-मूत्र-पुरीषास्थि-पूरितेऽत्र कलेवरे ।
विनश्वरे विहायास्थां यशः पालय मित्र मे

1.48

अपरं च पश्य-
यदि नित्यम् अनित्येन निर्मलं मल-वाहिना ।
यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम्

1.49

यतः-
शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् ।
शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनो गुणाः

1.50

इत्य् आकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत्-साधु मित्र ! साधु । अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह-सखे चित्रग्रीव ! सर्वथात्र जाल-बन्धन-विधौ सति दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः-
यो ऽधिकाद् योजन-शतान् पश्यतीहामिषं खगः ।
स एव प्राप्त-कालस् तु पाश-बन्धं न पश्यति

1.51

अपरं च-
शशि-दिवाकरयोर् ग्रह-पीडनं
गज-भुजङ्गमयोर् अपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिर् अहो बलवान् इति मे मतिः

1.52

अन्यच् च-
व्योमैकान्त-विहारिणो ऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैर् अगाध-सलिलान् मत्स्याः समुद्राद् अपि ।
दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणः
कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि

1.53

इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश् चित्रग्रीवो ऽपि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यको ऽपि स्व-विवरं प्रविष्टः ।
यानि कानि च मित्राणि कर्तव्यानि शतानि च ।
पश्य मूषिक-मित्रेण कपोता मुक्त-बन्धनाः

1.54

अथ लघु-पतनक-नामा काकः सर्व-वृत्तान्त-दर्शी साश्चर्यम् इदम् आह-अहो हिरण्यक ! श्लाघ्यो ऽसि, अतो ऽहम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि । अतस् त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि । एतच् छ्रुत्वा हिरण्यको ऽपि विवराभ्यन्तराद् आह-कस् त्वम् ?
स ब्रूते-लघुपतनक-नामा वायसो ऽहम् । हिरण्यको विहस्याह-का त्वया सह मैत्री ? यतः-
यद् येन युज्यते लोके बुधस् तत् तेन योजयेत् ।
अहम् अन्नं भवान् भोक्ता कथं प्रीतिर् भविष्यति

1.55

अपरं च-
भक्ष्य-भक्षयोः प्रीतिर् विपत्तेः कारणं मतम् ।
शृगालात् पाशबद्धो ऽसौ मृगः काकेन रक्षितः

1.56

वायसो ऽब्रवीत्--कथम् एतत् ?
हिरण्यकः कथयति-
कथा 2
अस्ति मगध-देशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालो ऽचिन्तयत्-आः ! कथम् एतन्-मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्-मित्र ! कुशलं ते ?
मृगेणोक्तम्-कस् त्वम् ?
स ब्रूते-क्षुद्र-बुद्धि-नामा जम्बुको ऽहम् । अत्रारण्ये बन्धु-हीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रम् आसाद्य पुनः स-बन्धुर् जीव-लोकं प्रविष्टो ऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति ।
मृगेणोक्तम्-एवम् अस्तु ।
ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ । तत्र चम्पक-वृक्ष-शाखायां सुबुद्धि-नामा काको मृगस्य चिर-मित्रं निवसति । तौ दृष्ट्वा काको ऽवदत्-सखे चित्राङ्ग ! को ऽयं द्वितीयः ?
मृगो ब्रूते-मित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रम् आचरितम् । तथा चोक्तम्-
अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् ।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः

1.57

तौ आहतुः--कथम् एतत् ?
काकः कथयति-
कथा 3
अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति । अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति । अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः । ततस् तम् आयान्तं दृष्ट्वा पक्षि-शावकैर् भयार्तैः कोलाहलः कृतः । तच् छ्रुत्वा जरद्गवेन उक्तम्-को ऽयम् आयाति ? दीर्घकर्णो गृध्रम् अवलोक्य स-भयम् आह-हा हतो ऽस्मि यतो ऽयं मां व्यापादयिष्यति । अथवा-
तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम्

1.58

अधुनातिसन्निधाने पलायितुम् अक्षमः । तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्-आर्य ! त्वाम् अभिवन्दे ।
गृध्रो ऽवदत्-कस् त्वम् ?
सो ऽवदत्-मार्जारो ऽहम् ।
गृध्रो ब्रूते-दूरम् अपसर नो चेत् हन्तव्यो ऽसि मया ।
मार्जारो ऽवदत्-श्रूयतां तावत् मद्-वचनम् । ततो यद्य् अहं वध्यस् तदा हन्तव्यः । यतः -
जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् ।
व्यवहारं परिज्ञाय वध्यः पूज्यो ऽथवा भवेत्

1.59

गृध्रो ब्रूते-ब्रूहि किम् अर्थम् आगतो ऽसि ?
सो ऽवदत्-अहम् अत्र गङ्गा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण-व्रतम् आचरंस् तिष्ठामि । युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयो-वृद्धेभ्यो धर्मं श्रोतुम् इहागतः । भवन्तश् चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हन्तुम् उद्यताः ? गृहस्थ-धर्मश् च एषः -
अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते ।
छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः

1.60

किं च-यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव ।
तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता ।
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन

1.61

अन्यच् च-
बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः

1.62

अपरं च-
निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश् चाण्डाल-वेश्मनः

1.63

अन्यच् च-
अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति

1.64

अन्यच् च-
उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः ।
पूजनीयो यथा-योग्यं सर्व-देव-मयो ऽतिथिः

1.65

गृध्रो ऽवदत्-मार्जारो हि मांस-रुचिः । पक्षि-शावकाश् चात्र निवसन्ति । तेनाहम् एव ब्रवीमि । तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च-मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चान्द्रायणम् अध्यवसितम् । यतः परस्परं विवदमानानाम् अपि धर्म-शास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् । यतः-
सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश् च ये ।
सर्वस्याश्रय-भूताश् च ते नराः स्वर्ग-गामिनः

1.66

अन्यच् च-
एक एव सुहृद् धर्मो निधनेऽप्य् अनुयाति यः ।
शरीरेण समं नाशं सर्वम् अन्यद् हि गच्छति

1.67

किं च-
यो ऽत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिर् अन्यः प्राणैर् विमुच्यते

1.68

अपि च-
मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते ।
शक्यस् तेनानुमानेन परो ऽपि परिरक्षितुम्

1.69

शृणु पुनः-
स्वच्छन्द-वन-जातेन शाकेनापि प्रपूर्यते ।
अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत्

1.70

एवं विश्वास्य स मार्जारस् तरु-कोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरम् आनीय प्रत्यहं खादति । अथ येषाम् अपत्यानि खादितानि । तैः शोकार्तैर् विलपद्भिर् इतस् ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिर् इतस् ततो निरूपयद्भिस् तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर् निश्चित्य च गृध्रो व्यापादितः । अतो ऽहं ब्रवीमि-अज्ञात-कुल-शीलस्य इत्य् आदि ।
--ओ)0(ओ--
इत्य् आकर्ण्य स जम्बुकः स-कोपम् आह-मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिर् उत्तरोत्तरं वर्धते ? अथवा-
यत्र विद्वज्-जनो नास्ति श्लाघ्यस् तत्राल्पधीर् अपि ।
निरस्त-पादपे देशे एरण्डो ऽपि द्रुमायते

1.71

अन्यच् च-
अयं निजः परो वेति गणना लघु-चेतसाम् ।
उदार-चरितानां तु वसुधैव कुटुम्बकम्

1.72

यथा चायं मृगो मम बन्धुस् तथा भवान् अपि । मृगो ऽब्रवीत् कमनेन उत्तरोत्तरेण ? सर्वैर् एकत्र विश्रम्भालापैः सुखम् अनुभवद्भिः स्थीयताम् । यतः-
न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस् तथा

1.73

काकेन उक्तम्-एवम् अस्तु । अथ प्रातः सर्वे यथाभिमत-देशं गताः । एकदा निभृतं शृगालो ब्रूते-सखे मृग ! एतस्मिन्न् एव वनैक-देशे सस्य-पूर्णं क्षेत्रम् अस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास् तत्र योजिताः । अनन्तरं पुनर् आगतो मृगः तत्र चरन् पाशैर् बद्धो ऽचिन्तयत्-को माम् इतः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अन्यः समर्थः ?
अत्रान्तरे जम्बुकस् तत्रागत्य उपस्थितो ऽचिन्तयत्-फलितस् तावद् अस्माकं कपट-प्रबन्धः । मनोरथ-सिद्धिर् अपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस् तं दृष्ट्वा उल्लासितो ब्रूते-सखे ! छिन्धि तावन् मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः-
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान्

1.74

अपरं च-
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे ।
राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः

1.75

जम्बुकः पाशं मुहुर् मुहुर् विलोक्याचिन्तयत्-दृढस् तावद् अयं बन्धः । ब्रूते च-सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथम् एतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति । अनन्तरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस् ततो ऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाच-सखे ! किम् एतत् ? मृगेणोक्तम्-अवधीरित-सुहृद्-वाक्यस्य फलम् एतत् तथा चोक्तम्-
सुहृदां हित-कामानां यः शृणोति न भाषितम् ।
विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः

1.76

काको ब्रूते-स वञ्चकः क्वास्ते ?
मृगेणोक्तं-मन्-मांसार्थी तिष्ठत्य् अत्रैव ।
काको ब्रूते-मित्र ! उक्तम् एव मया पूर्वम् ।
अपराधो न मेऽस्तीति नैतद् विश्वास-कारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि

1.77

दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् ।
न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः

1.78

परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रिय-वादिनम् ।
वर्जयेत् तादृशं मित्रं विष-कुम्भं पयोमुखम्

1.79

ततः काको दीर्घं निःश्वस्य उवाच-अरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् । यतः-
संलापितानां मधुरैर् वचोभिर्
मिथ्योपचारैश् च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके
किम् अर्थिनां वञ्चयितव्यम् अस्ति

1.80

अन्यच् च-
उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् ।
तं जनम् असत्य-सन्धं भगवति वसुधे कथं वहसि

1.81

दुर्जनेन समं सख्यं वैरं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्

1.82

अथवा स्थितिर् इयं दुर्जनानाम्-
प्राक् पादयोः पतति खादति पृष्ठ-मांसं
कर्णे फलं किम् अपि रौति शनैर् विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्य् अशङ्कः
सर्वं खलस्य चरितं मशकः करोति

1.83

तथा च-
दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्

1.84

अथ प्रभाते स क्षेत्र-पतिर् लगुड-हस्तस् तं प्रदेशम् आगच्छन् काकेनावलोकितः । तम् अवलोक्य काकेनोक्तम्-सखे मृग ! त्वम् आत्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उत्थाय सत्वरं पलायिष्यसे ।
मृगस् तथैव काक-वचनेन स्थितः । ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः । अथासौ-आः ! स्वयं मृतो ऽसि ? इत्य् उक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अन्तरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उत्थाय पलायितः । तम् उद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्-
त्रिभिर् वर्षैस् त्रिभिर् मासैस् त्रिभिः पक्षैस् त्रिभिर् दिनैः ।
अत्युत्कटैः पाप-पुण्यैर् इहैव फलम् अश्नुते

1.85

अतो ऽहं ब्रवीमि-भक्ष्य-भक्ष्यकयोः प्रीतिर् इत्य् आदि ।
इति मृग-वायस-शृगाल-कथा
काकः पुनर् आह-
भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवामि चित्रग्रीव इवानघ

1.86

अन्यच् च-
तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् ।
सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते

1.87

किं च-
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस् तृणोल्कया

1.88

हिरण्यको ब्रूते-चपलस् त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्-
मार्जारो महिषो मेषः काकः कापुरुषस् तथा ।
विश्वासात् प्रभवन्त्य् एते विश्वासस् तत्र नो हितः

1.89

किं चान्यत्-शत्रु-पक्षो भवान् अस्माकम् । शत्रुणा सन्धिर् न विधेयम् । उक्तं चैतत्-
शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना ।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम्

1.90

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतो ऽपि सन् ।
मणिना भूषितः सर्पः किम् असौ न भयङ्करः

1.91

यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत् ।
नोदके शकटं याति न च नौर् गच्छति स्थले

1.92

अपरं च-
महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तद्-अन्तं तस्य जीवनम्

1.93

लघु-पतनको ब्रूते-श्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः । यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि-
मृद्-घटवत् सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति ।
सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु सन्धेयः

1.94

किं च-
द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् ।
भयाल् लोभाच् च मूर्खाणां सङ्गतः दर्शनात् सताम्

1.95

किं च-
नारिकेल-समाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिर् एव मनोहराः

1.96

अन्यच् च-
स्नेह-च्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गेऽपि हि मृणालानाम् अनुबध्नन्ति तन्तवः

1.97

अन्यच् च-
शुचित्वम् त्यागिता शौर्यं सामान्यं सुख-दुःखयोः ।
दाक्षिण्यं चानुरक्तिश् च सत्यता च सुहृद्-गुणाः

1.98

एतैर् गुणैर् उपेतो भवद्=अन्यो मया कः सुहृत् प्राप्तव्यः ? इत्य् आदि तद्-वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याह-आप्यायितो ऽहं भवताम् एतेन वचनामृतेन । तथा चोक्तम्-
घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली
न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अप्य् अर्पितम् ।
प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः
सद्-युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्रोपमम्

1.99

अन्यच् च-
रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया ।
क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम्

1.100

अनेन वचन-क्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते । यतः-
पटुत्वं सत्यवादित्वं कथा-योगेन बुद्ध्यते ।
अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते

1.101

अपरं च-
अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहत-चेतसः

1.102

मनस्य् अन्यद् वचस्य् अन्यत् कर्मण्य् अन्यद् दुरात्मनाम् ।
मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम्

1.103

तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर् वायसं सन्तोष्य विवरं प्रविष्टः । वायसो ऽपि स्व-स्थानं गतः ततः-प्रभृति तयोः अन्यो ऽन्याहार-प्रदानेन कुशल-प्रश्नैः विश्रम्भालापैश् च कियत्-कालो ऽतिवर्तने । एकदा लघु-पतनको हिरण्यकम् आह-सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि ।
हिरण्यको ब्रूते-
स्थान-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत्

1.104

काको ब्रूते-मित्र ! कापुरुषस्य वचनम् एतत् । यतः-
स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः

1.105

अन्यच् च-
को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः
यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् ।
यद् दंष्ट्रानख-लाङ्गुल-प्रहरणः सिंहो वनं गाहते
तस्मिन्न् एव हत-द्विपेन्द्र-रुधिरैस् तृष्णां छिन्नत्त्य् आत्मनः

1.106

हिरण्यको ब्रूते-मित्र क्व गन्तव्यम् ? तथा चोक्तम्-
चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत्

1.107

वायसो ब्रूते-मित्र ! अस्ति सुनिरूपितं स्थानम् ।
हिरण्यको ऽवदत्-किं तत् ?
वायसः कथयति-अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मन्थराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति । पश्य मित्र !
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः

1.108

स च भोजन-विशेषैर् मां संवर्धयिष्यति । हिरण्यको ऽप्य् आह-तत् किम् अत्रावस्थाय मया कर्तव्यम् ? यतः-
यस्मिन् देशे न सम्मानो न वृत्तिर् न च बान्धवः ।
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत्

1.109

अपरं च---
धनिकः श्रोत्रियो राजा नदी वैद्यस् तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत्

1.110

अपरं च---
लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम्

1.111

अन्यच् च-
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋण-दाता च वैद्यश् च श्रोत्रियः सजला नदी

1.112

अतो माम् अपि तत्र नय ।
वायसो ऽवदत्-एवम् अस्तु ।
अथ वायसस् तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूराद् एव लघु-पतनकम् अवलोक्य उत्थाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्य् अतिथि-सत्कारं चकार । यतः-
बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः

1.113

तथा-
गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिर् एको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः

1.114

अपरं च-
उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः ।
पूजनीयो यथा-योग्यं सर्व-देव-मयो ऽतिथिः

1.115

वायसो ऽवदत्-सखे ! मन्थर ! स-विशेष-पूजाम् असमि विधेहि, यतो ऽयं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः । एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह-भद्र ! आत्मनो निर्जन-वनागमन-कारणम् आख्यातुम् अर्हसि ?
हिरण्यको ऽवदत्-कथयामि, श्रूयताम् ।
कथा 4
अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर-वंश-खण्डेन चूडाकर्णो भूमिम् अताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच-सखे ! किम् इति मम कथा-विरक्तो ऽन्यासक्तो भवान् ? यतः-
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहो ऽधिकः सम्भ्रम-दर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म

1.116

अदृष्टि-दानं कृत-पूर्व-नाशनम्
आननं दुश्चरितानुकीर्तनम् ।
कथा-प्रसङ्गेन च नाम-विस्मृतिर्
विरक्त-भावस्य जनस्य लक्षणम्

1.117

चूडाकर्णेनोक्तम्-भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तम् अवलोक्याह-कथम् अयं मूषिकः स्वल्प-बलो ऽप्य् एतावद् दूरम् उत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम् ।
क्षणं विचिन्त्य परिव्राजकेनोक्तम्-कारणं चात्र धन-बाहुल्यम् एव प्रतिभाति । यतः-
धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा ।
प्रभुत्वं धन-मूलं हि राज्ञाम् अप्य् उपजायते

1.118

ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः सन्न् आसं मन्दं मन्दम् उपसर्पन् चूडाकर्णेनावलोकितः । ततस् तेनोक्तम्-
धनेन बलवान् लोको धनाद् भवति पण्डितः ।
पश्यैनं मूषिकं पापं स्वजाति-समतां गतम्

1.119

किं च-
अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः ।
क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा

1.120

अपरं च-
यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः

1.121

अपरं च-
अपुत्रस्य गृहं शून्यं सन्-मित्र-रहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्व-शून्या दरिद्रता

1.122

अपरं च-
दारिद्र्यान् मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् ।
अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम्

1.123

अन्यच् च-
तानीन्द्रियाण्य् अविकलानि तद् एव नाम
सा बुद्धिर् अप्रतिहता वचनं तद् एव ।
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रम् एतत्

1.124

एतत् सर्वम् आकर्ण्य मयालोचितं-ममान्नावस्थानम् अयुक्तम् इदानीम् । तथा चोक्तम्-
अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम्

1.125

अन्यच् च-
मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणम् आयाति नानलो याति शीतताम्

1.126

किं च-
कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा

1.127

यच् चान्यस्मै एतद् वृत्तान्त-कथनं तद् अप्य् अनुचितम् । यतः-
अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत्

1.128

यच् चात्रैव याच्ञया जीवनं तद् अप्य् अतीव-गर्हितम् । यतः-
वरं विभव-हीनेन प्राणैः सन्तर्पितो ऽनलः ।
नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः

1.129

अन्यच् च-
दारिद्र्याद् ध्रियम् एति ह्री-परिगतः सत्त्वात् परिभ्रश्यते
निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते ।
निर्विण्णः शुचम् एति शोक-फिहितो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम्

1.130

किं च-
वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं
वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् ।
वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर्
वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम्

1.131

वरं शून्या शाला न च खलु वरो दुष्ट-वृषभो
वरं वेश्या पत्नी न पुनर् अविनीता कुल-वधूः ।
वरं वासो ऽरण्ये न पुनर् अविवेकाधिप-पुरे
वरं प्राण-त्यागो न पुनर् अधमानाम् उपगमः

1.132

अपि च-
सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् ।
हरि-हर-कथेव दुरितं गुण-शतम् अप्य् अर्थिता हरति

1.133

तत् किम् अहं पर-पिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् । अन्यच् च-
रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी ।
यज् जीवति तन् मरणं यन् मरणं सो ऽस्य विश्रामः

1.134

इत्य् आलोच्यापि लोभात् पुनर् अपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् । तथा चोक्तम्-
लोभेन बुद्धिश् चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः

1.135

ततो ऽहं मन्दं मन्दम् उपसर्पंस् तेन वीणाकर्णेन जर्जर-वंश-खण्डेन ताडितश् चाचिन्तयम्-लुब्धो ह्य् असन्तुष्टो नियतम् आत्म-द्रोही भवति । तथा च-
धन-लुब्धो ह्य् असन्तुष्टो ऽनियतात्माजितेन्द्रियः ।
सर्वा एवापदस् तस्य यस्य तुष्टं न मानसम्

1.136

सर्वाः सम्पत्तस्यस् तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः

1.137

अपरं च-
सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् ।
कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम्

1.138

किं च-
तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम्

1.139

अपि च-
असेवितेश्वर-द्वारम् अदृष्ट-विरह-व्यथम् ।
अनुक्त-क्लीब-वचनं धन्यं कस्यापि जीवनम्

1.140

न योजन-शतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य कर-प्राप्तेऽप्य् अर्थे भवति नादरः

1.141

तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् ।
को धर्मो भूत-दया किं सौख्यं नित्यम् अरोगिना जगति ।
कः स्नेहः सद्-भावः किं पाण्डित्यं परिच्छेदः

1.142

तथा च-
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेद-कर्तॄणां विपदः स्युः पदे पदे

1.143

तथा हि-
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्

1.144

अपरं च-
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् ।
विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः

1.145

इत्य् आलोच्याहं निर्जन-वनम् आगतः । यतः-
वरं वनं व्याघ्र-गजेन्द्र-सेवितं
द्रुमालयः पत्र-फलाम्बु-भक्षितम् ।
तृणानि शय्या वसनं च वल्कलं
न बन्धु-मध्ये धन-हीन-जीवनम्

1.146

अतः-
संसार-विषय-वृक्षस्य द्वे एव रसवत् फले ।
काव्यामृत-रसास्वादः सङ्गमः सज्जनैः सह

1.147

अपरं च-
सत्-सङ्गः केशवे भक्तिर् गङ्गाम्भसि निमज्जनम् ।
असारे खलु संसारे त्रीणि साराणि भावयेत्

1.148

मन्थर उवाच-
अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम्
आयुष्यं जल-बिन्दु-लोल-चपलं फेनोपमं जीवनम् ।
धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं
पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते

1.149

युष्माभिर् अतिसञ्चयः कृतः । तस्यायं दोषः । शृणु-
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परीवाहैवाम्भसाम्

1.150

अन्यच् च-
यद् अधो ऽधः क्षितौ वित्तं निचखान मितम्पचः ।
तद्-अधो निलयं गन्तुं चक्रे पन्थानम् अग्रतः

1.151

यतः-
निज-सौख्यं निरुन्धानो यो धनार्जनम् इच्छति ।
परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम्

1.152

तथा चोक्तं-
दानोपभोग-हीनेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयम्

1.153

यतः-
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश् च रिपून् न याधत्ते ।
श्रुतेन किं यो न च धर्मम् आचरेत्
किम् आत्मना यो न जितेन्द्रियो भवेत्

1.154

अन्यच् च-
असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते

1.155

अपि च-
न देवाय न विप्राय न बन्धुभ्यो न चात्मने ।
कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः

1.156

तथा चोक्तम्-
दानं प्रिय-वाक्-सहितं
ज्ञानम् अगर्वं क्षमान्वितं सौर्यम् ।
त्यागं सहितं च वित्तं
दुर्लभम् एतच् चतुर् भद्रम्

1.157

उक्तं च-
कर्तव्यः सञ्चयो नित्यं न तु कार्यो ऽतिसञ्चयः ।
अतिसञ्चय-शीलो ऽयं धनुषा जम्बुको हतः

1.158

ताव् आहतुः-कथम् एतत् ?
मन्थरः कथयति-
कथा 5
आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः । स चैकदा मांस-लुब्धो धनुर् आदाय मृगम् अन्विष्यन् विन्ध्याटवी-मध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस् तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्य् आगत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात । तथा चोक्तम्-
जलम् अग्निर् विषं शस्तं क्षुद् व्याधिः पतनं गिरेः ।
निमित्तं किञ्चिद् आसाद्य देही प्राणैर् विमुच्यते

1.159

अथ तयोः पादास्फालनेन एकः सर्पो ऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् । आलोक्याचिन्तयच् च-अहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् ।
अथवा-
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते

1.160

मासम् एकं नरो याति द्वौ मासौ मृग-शूकरौ ।
अहिर् एकं दिनं याति अद्य भक्ष्यो धनुर्गुणः

1.161

ततः प्रथम-बुभुक्षायाम् इदं निःस्वादु कोदण्ड-लग्नं स्नायु-बन्धनं खादामि, इत्य् उक्त्वा तथाकरोत् । ततश् छिन्ने स्नायु-बन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि । तथा च-
यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् ।
अन्ये मृतस्य क्रीडन्ति दारैर् अपि धनैर् अपि

1.162

किं च-
यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने ।
तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि

1.163

यातु, किम् इदानीम् अतिक्रान्तोपवर्णनेन । यतः-
नाप्रायम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्स्व् अपि न मुह्यन्ति नराः पण्डित-बुद्धयः

1.164

तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः-
शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा
यस् तु क्रियावान् पुरुषः स विद्वान् ।
सुचिन्तितं चौषधम् आतुराणां
न नाम-मात्रेण करोत्य् अरोगम्

1.165

अन्यच् च-
न स्वल्पम् अप्य् अध्यवसाय-भीरोः
करोति विज्ञान-विधिर् गुणं हि ।
अन्धस्य किं हस्त-तल-स्थितो ऽपि
प्रकाशयत्य् अर्थम् इह प्रदीपः

1.166

तद् अत्र सखे दशातिशेषेण शान्तिः करणीया । एतद् अप्य् अतिकष्टं त्वया न मन्तव्यम् ।
सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा ।
चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च

1.167

अपरं च-
निपानम् इव मण्डूकाः सरः पूर्णम् इवाण्डजाः ।
सोद्योगं नरम् आयान्ति विवशाः सर्व-सम्पदः

1.168

अपि च-
उत्साह-संपन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् ।
शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः

1.169

विशेषतश् च-
विनाप्य् अर्थैर् धीरः स्पृशति बहुमानोन्नति-पदं
समायुक्तो ऽप्य् अर्थैः परिभव-पदं याति कृपणः ।
स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां
द्युतिं सैंहीं श्वा किं धृत-कनक-मालो ऽपि लभते

1.170

किं च-
धनवान् इति हि मदस् ते किं गत-विभवो विषादम् उपयासि ।
कर-निहत-कन्दुक-समाः पातोत्पाता मनुष्याणाम्

1.171

अन्यच् च-
वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता ।
गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ

1.172

अपि च सखे शृणु-
येन शुक्ली-कृता हंसाः शुकाश् च हरितीकृताः ।
मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति

1.173

अपरं च सतां रहस्यं शृणु, मित्र !
जनयन्त्य् अर्जने दुःखं तापयन्ति विपत्तिषु ।
मोहयन्ति च सम्पत्तौ कथम् अर्थाः सुखावहाः

1.174

अपरं च-
धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम्

1.175

यतः-
यथाआमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि ।
भक्ष्यते सलिले मत्स्यैस् तथा सर्वत्र वित्तवान्

1.176

अन्यच् च-
राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि ।
भयम् अर्थवतां नित्यं मृत्योः प्राण-भृताम् इव

1.177

तथा हि-
जन्मनि क्लेश-बहुले किं नु दुःखम् अतः परम् ।
इच्छा-सम्पद् यतो नास्ति यच् चेच्छा न निवर्तते

1.178

अन्यच् च भ्रातः शृणु-
धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते ।
लब्ध-नाशो यथा मृत्युस् तस्माद् एतन् न चिन्तयेत्

1.179

सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः ।
तस्याश् चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम्

1.180

अपरं च-
यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते ।
प्राप्त एवार्थतः सो ऽर्थो यतो वाञ्छा निवर्तते

1.181

किं बहुना, विश्रम्भालापैर् मयैव सहात्र कालो नीयताम् । यतः-
आम्रणान्ताः प्रणयाः कोपाश् च क्षण-भङ्गुराः ।
परित्यागाश् च निःसङ्गा न भवन्ति महात्मनाम्

1.182

इति श्रुत्वा लघुपतनको ब्रूते-धन्यो ऽसि मन्थर ! सर्वथा आश्रयणीयो ऽसि । यतः-
सन्त एव सतां नित्यम् आपद्-उद्धरण-क्षमाः ।
गजानां पङ्क-मग्नानां गजा एव धुरन्धराः

1.183

अपरं च-
श्लाघ्यः स एको भुवि मानवानां
स उत्तमः सत्-पुरुषः स धन्यः ।
यस्यार्थिनो वा शरणागता वा
नाशाविभङ्गा विमुखाः प्रयान्ति

1.184

तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित् चित्राङ्ग-नामा मृगः केनापि त्रासितस् तत्रागत्य मिलितः । तत्-पश्चाद् आयान्तं भय-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश् च विवरं गतः, काको ऽपि उड्डीय वृक्षाग्रम् आरूढः । ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर् न को ऽप्य् अवलम्बितः । पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तं-भद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारो ऽनुभूयताम् । अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् ।
चित्राङ्गो ब्रूते-लुब्धक-त्रासितो ऽहं भवतां शरणम् आगतः । ततश् च, भवद्भिः सह मित्रत्वम् इच्छामि । भवन्तश् च अनुकम्पयन्तु मैत्र्येण । यतः-
लोभाद् वाथ भयाद् वापि यस् त्यजेच् छरणागतम् ।
ब्रह्म-हत्या-समं तस्य पापम् आहुर् मनीषिणः

1.185

हिरण्यको ऽप्य् अवदत्-मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः-
औरसं कृत-सम्बन्धं तथा वंश-क्रमागतम् ।
रक्षकं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्-विधम्

1.186

तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् । तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायाम् उपविष्टः ।
अथ मन्थरो ब्रूते-सखे मृग ! केन त्रासितो ऽसि ? अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति ?
मृगेणोक्तम्-अस्ति कलिङ्ग-विषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजय-व्यापार-क्रमेण आगत्य चन्द्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश् च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् ।
तच् छ्रुत्वा कूर्मः स-भयम् आह-मित्र ! जलाशयान्तरं गच्छामि ।
काक-मृगाव् अपि उक्तवन्तौ-मित्र ! एवम् अस्तु !
हिरण्यको विमृश्याब्रवीत्-पुनर् जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतो ऽस्य का विधा ?
अम्भांसि जल-जन्तूनां दुर्गं दुर्ग-निवासिनाम् ।
स्व-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम्

1.187

उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः ।
काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत्

1.188

तद् यथा-
कथा 6
अस्ति ब्रह्मारण्ये कर्पाऊरतिलको नाम हस्ती । तम् अवलोक्य सर्वे शृगालाश् चिन्तयन्ति स्म । यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् । ततस् तन्-मध्याद् एकेन वृद्ध-शृगालेन प्रतिज्ञा कृता । मया बुद्धि-प्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टाङ्ग-पातं प्रणम्योवाच-देव ! दृष्टि-प्रसादं कुरु ।
हस्ती ब्रूते-कस् त्वम् ? कुतः समायातः ?
सो ऽवदत्-जम्बुको ऽहं सर्वैर् वन-वासिभिः पशुभिर् मिलित्वा भवत्-सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवी-राज्येऽभिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः । यतः-
कुलाचार-जनाचारैर् अतिशुद्धः प्रतापवान् ।
धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि

1.189

अपरं च पश्य-
राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् ।
राजन्य् असति लोकेऽस्मिन् कुतो भार्या कुतो धनम्

1.190

अन्यच् च-
पर्जन्य इव भूतानाम् आधारः पृथिवी-पतिः ।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ

1.191

किं च-
नियत-विषय-वर्ती प्रायशो दण्ड-योगाज्
जगति पर-वशेऽस्मिन् दुर्लभः साधु-वृत्तेः ।
कृशम् अपि विकलं वा व्याधितं वाधनं वा
पतिम् अपि कुल-नारी दण्ड-भीत्याभ्युपैति

1.192

तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन । इत्य् उक्त्वा उत्थाय चलितः । ततो ऽसौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन् महा-पङ्के निमग्नः । हस्तिनोक्तम्-सखे शृगाल ! किम् अधुना विधेयम् ? महा-पङ्के पतितो ऽहं म्रिये । परावृत्य पश्य !
शृगालेन विहस्योक्तम्-देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत् । तद् अनुभूयताम् अशरणं दुःखम् । तथा चोक्तम्-
यदासत्-सङ्ग-रहितो भविष्यसि भविष्यसि ।
यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि

1.193

ततो महा-पङ्के निमग्नो हस्ती शृगालैर् भक्षितः । अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इत्य् आदि ।
--ओ)0(ओ--
ततस् तद्-धित-वचनम् अवधीर्य महता भयेन विमुग्ध इव मन्थरस्स् तज्-जलाशयम् उत्सृज्य प्रचलितः । तेऽपि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास् तम् अनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्यो ऽस्मीत्य् अभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः । अथ ते मृग-वायस-मूषिकाः परं विषादम् उपगताः तम् अनुगच्छन्ति स्म । ततो हिरण्यको विलपति-
एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य् अहं पारम् इवार्णवस्य ।
तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवन्ति

1.194

स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते ।
तद्-अकृत्रिम-सौहार्दम् आपत्स्व् अपि न मुञ्चति

1.195

अपि च-
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्वासस् तादृशः पुंसां यादृङ् मित्रे स्वभावजे

1.196

इति मुहुः विचिन्त्य प्राह-अहो मे दुर्दैवम् । यतः-
स्व-कर्म-सन्तान-विचेष्टितानि
कालान्तरावर्ति-शुभाशुभानि ।
इहैव दृष्टानि मयैव तानि
जन्मान्तराणीव दशान्तराणि

1.197

अथवा इत्थम् एवैतत् ।
कायः संनिहितापायः सम्पदः पदम् आपदाम् ।
समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम्

1.198

पुनर् विमृश्याह-
शोकाराति-भय-त्राणं प्रीति-विश्रम्भ-भाजनम् ।
केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम्

1.199

किं च-
मित्रं प्रीति-रसायनं नयनयोर् आनन्दनं चेतसः
पात्रं यत् सुख-दुःखयोः समम् इदं पुण्यात्मना लभ्यते ।
ये चान्ये सुहृदः समृद्धि-समये द्रव्याभिलाषाकुलास्
ते सर्वत्र मिलन्ति तत्त्व-निकष-ग्रावा तु तेषां विपत्

1.200

इति बहु विलप्य हिरण्यकश् चित्राङ्ग-लघुपतनकाव् आह-यावद् अयं व्याधो वनान् न निःसरति, तावन् मन्थरं मोचयितुं यत्नः क्रियताम् ।
ताव् ऊचतुः-सत्वरं यथा-कार्यम् उपदिश ।
हिरण्यको ब्रूते-चित्राङ्गो जल-समीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु । काकश् च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु । नूनम् अनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततो ऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् ।
ततश् चित्राङ्ग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोर् अधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत् । ततः कच्छपं जल-समीपे निधाय कर्तरिकाम् आदाय प्रहृष्ट-मना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्न-बन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरु-तलम् आयाति तावत् कूर्मम् अपश्यन्न् अचिन्तयत्-उचितम् एवैतत् ममासमीक्ष्य-कारिणः । यतः-
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव हि

1.201

ततो ऽसौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः । मन्थरादयश् च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखम् आस्थिताः ।
अथ राज-पुत्रैः सानन्दम् उक्तम्-सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् ।
विष्णु-शर्मोवाच-एतद् भवताम् अभिलषितम् अपि सम्पन्नम् । अपरम् अपीदम् अस्तु-
मित्रं यान्तु च सज्जना जनपदैर् लक्ष्मीः समालभ्यतां
भूपालाः परिपालयन्तु वसुधां शश्वत् स्व-धर्मे स्थिताः ।
आस्तां मानस-तुष्टये सुकृतिनां नीतिर् नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश् चन्द्रार्ध-चूडामणिः

मूल पाठ: Hitopadeśa · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc