भाषा

ENहिગુ
ग्रंथ पाठ

हितोपदेश · अध्याय 0

0.1

मङ्गलाचरणम्
सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः ।
जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला

0.2

श्रुतो हितोपदेशो ऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च

0.3

विद्या-प्रशंसा
अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्

0.4

सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुर् अनुत्तमम् ।
अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा

0.5

संयोजयति विद्यैव नीचगापि नरं सरित् ।
समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम्

0.6

विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम्

0.7

विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये ।
आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा

0.8

यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते

0.9

मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिर् एव च ।
पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते

0.10

अथ कथा-मुखम्
अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् । तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिर् आसीत् । स भूपतिर् एकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव-
अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अन्ध एव सः

0.11

यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता ।
एकैकम् अप्य् अनर्थाय किम् उ यत्र चतुष्टयम्

0.12

इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास ।
को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ।
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम्

0.13

अजात-मृत-मूर्खाणां वरम् आद्यौ न चान्तिमः ।
सकृद् दुःख-कराव् आद्याव् अन्तिमस् तु पदे पदे

0.14

किं च-
वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं
वरं जातः प्रेतो वरम् अपि च कन्यावजनिता ।
वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर्
न वाविद्वान् रूप-द्रविण-गुण-युक्तो ऽपि तनयः

0.15

स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते

0.16

अन्यच् च-
गुणि-गण-गणनाऽरम्भे
न पतति कठिनी स-सम्भ्रमाद् यस्य ।
तेनाम्बा यदि सुतिनी
वद बन्ध्या कीदृशी भवति ?

0.17

अपि च-
दाने तपसि शौर्ये च यस्य न प्रथितं मनः ।
विद्यायाम् अर्थ-लाभे च मातुर् उच्चार एव सः

0.18

अपरं च-
वरम् एको गुणी पुत्रो न च मूर्ख-शतैर् अपि ।
एकश् चन्द्रमस् तमो हन्ति न च तारा-गणैर् अपि

0.19

पुण्य-तीर्थे कृतं येन तपः क्वाप्य् अतिदुष्करम् ।
तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः

0.20

तथा चोक्तं-
अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च ।
वश्यश् च पुत्रो ऽर्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन्

0.21

को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरम् एकः कुलालम्बी यत्र विश्रूयते पिता

0.22

ऋण-कर्ता पिता शत्रुर् माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुर् अपण्डितः

0.23

यस्य कस्य प्रसूतो ऽपि गुणवान् पूज्यते नरः ।
धनुर् वंश-विशुद्धो ऽपि निर्गुणः किं करिष्यति

0.24

हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौर् इव सीदसि

0.25

तत् कथम् इदानीम् एते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः-
आहार-निद्रा-भय-मैथुनानि सामान्यम् एतत् पशुभिर् नराणाम् ।
ज्ञानं नराणाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः

0.26

यतः-
धर्मार्थ-काम-मोक्षाणां यस्यैको ऽपि न विद्यते ।
अजागल-स्तनस्येव तस्य जन्म निरर्थकम्

0.27

यच् चोच्यते-
आयुः कर्म च वित्तं च विद्या निधनम् एव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः

0.28

किं च-
अवश्यं भाविनो भावा भवन्ति महताम् अपि ।
नग्नत्वं नीलकण्ठस्य महाहि-शयनं हरेः

0.29

अन्यच् च-
यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा ।
इति चिन्ता-विष-घ्नो ऽयम् अगदः किं न पीयते

0.30

एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम् । पुरुषकारौत्कार्ष्यम् आह-
यथा ह्य् एकेन चक्रेण न रथस्य गतिर् भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति

0.31

तथा च-
पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते ।
तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः

0.32

न दैवम् अपि संचिन्त्य त्यजेद् उद्योगम् आत्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति

0.33

अन्यच् च-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्ने कृते यदि न सिध्यति को ऽत्र दोषः

0.34

यथा मृत्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति ।
एवम् आत्म-कृतं कर्म मानवः प्रतिपद्यते

0.36

काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः ।
न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ॥ हित्_0.
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः

0.37

तथा चोक्तं-
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभा-मध्ये हंस-मध्ये बको यथा

0.38

रूप-यौवन-सम्पन्ना विशाल-कुल-सम्भवाः ।
विद्या-हीना न शोभन्ते निर्गन्धा इव किंशुकाः

0.39

अपरच् च-
पुस्तकेषु च नाधीतं नाधीतं गुरु-सन्निधौ ।
न शोभते सम्भा-मध्ये जार-गर्भ इव स्त्रियाः

0.40

एतच् चिन्तयित्वा राजा पण्डित-सभां कारितवान् । राजोवाच-भो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्ग-गामिनाम् अनधिगत-शास्त्राणाम् इदानीं नीति-शास्त्रोपदेशेन पुनर् जन्म कारयितुं समर्थः ? यतः-
काचः काञ्चन-संसर्गाद् धत्ते मारकतीर् द्युतीः ।
तथा सत्-सन्निधानेन मूर्खो याति प्रवीणताम्

0.41

उक्तं च-
हीयते हि मतिस् तात हीनैः सह समागमात् ।
समैश् च समताम् एति विशिष्टैश् च विशिष्टताम्

0.42

अत्रान्तरे विष्णु-शर्म-नामा महा-पण्डितः सकल-नीइति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिर् इवाब्रवीत्-देव महाकुल-सम्भूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यन्ते । यतः-
नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् ।
न व्यापार-शतेनापि शुकवत् पाठ्यते बकः

0.43

अन्यच् च-
अस्मिंस् तु निर्गुणं गोत्रे नापत्यम् उपजायते ।
आकरे पद्य-रागानां जन्म काच-मणेः कुतः

0.44

अतो ऽहं षण्-मासाभ्यन्तरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि । राजा स-विनयं पुनर् उवाच ।
कीटो ऽपि सुमनः-सङ्गाद् आरोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः

0.45

अन्यच् च-
यथोदय-गिरेर् द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्-सन्निधानेन हीन-वर्णो ऽपि दीप्यते

0.46

गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्य-तोयाः प्रवहन्ति नद्यः
समुद्रम् आसाद्य भवन्त्य् उपेयाः

मूल पाठ: Hitopadeśa · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc