हेतुबिन्दुटीकालोक · भाग 2132
सति 2 चैवं किम् अकिञ्चित्करः कार्यभेदो भेदसिद्ध्यर्थम् उच्यत इति परं शिक्षयन्न् आह स्वभावस्यैवे [105 . 19]ति । ननु कार्यभेदो ऽभिन्नस्य स्वभावस्य भेदक इति किञ्चित्कर एवापि(एवोप)न्यासार्हो ऽपि च तत् किम् एवम् उच्यत इत्यासंक्याह न हि [105 . 20] इति । हिर् यस्मात् कार्याणां भेदः पश्चात् प्रकरणात् स्वहेत्वागतस्याभिन्नस्वभावस्य पश्चाद्भवनस्वभावस्य तस्य इव स्वहेतुबलायातस्याभिन्नस्य न भेदकः [105 . 20] हेतौ शतुर्विधानात् पश्चाद् भावाद् इत्य् अर्थः । प्राग्भावी हि कारणं तद्भिन्नं स्वभावं कुर्याद् अपि, न तु पश्चाद् भावीत्य् अभिप्रायः ।
पश्चाद् भवन्न् अपि कस्मान् न भेदक इति? आह स्वभावस्येति [105 . 21] । ननु कार्यभेदः स्वहेतुसमुत्थं स्वभावं मा नाम विकार्षित् तदवस्थे विकारायोगात्, तम् एव तु विनाशयि 4 ष्यतीत्य् आह नाशेति [105 . 21] । यदि चायं कार्यभेदस् तयोः स्वभावस्य भेदकः स्यात् तद् अयं दोषः स्याद् इति दर्शयन्न् आह -- एकान्तेने [105 . 22]ति । {प्. 347} ते द्रव्यपर्यायात्मके वस्तुनी [105 . 22] । स्याद् एतत् -- स्याद् अयं दोषो यदि भेदः पश्चात् प्रकरणात् स्वहेत्वावगे(त्वाग)तस्याभिन्नस्वभावस्य पश्चाद् भवन्स्वभावस्य तस्यैव स्वहेतुबलाया 5 तस्याभिन्नस्य न भेदकस् तयोर् अभिन्नोय(यं) स्वभावो न भवेत् । यावतास्त्य् अभिन्नोपि स्वभावस् ततस् तयोर् अभेदोपीत्य् आह स चेति [105 . 22] । सो ऽभिन्नः स्वभावः ।
तयोः [105 . 23] द्रव्यपर्याययोः, केन कारणेन । कुतः पुनर् असौ तयोर् न स्याद् इत्य् आह -- विभिन्नाभ्याम् इ[105 . 23]ति परस्परभिन्नाभ्यां द्रव्यपर्यायाभ्यां अभिन्नस्याभि 6 न्नस्वभावस्य कल्पितस्य तस्य । विभेदतो [105 . 23] भेदाद् व्यतिरेकात् । भेदे हि कार्यकारणभावः संबन्धः । स चात्र नास्तीति च बुद्धिस्थम् । तेषां [105 . 23] द्रव्यपर्यायकल्पिताभिन्नस्वभावानाम् ।
तस्यापि [105 . 25] तृतीयस्यापि स्वभावस्य तदभेदप्रसिद्ध्ये [105 . 25] द्रव्यपर्यायाभिन्नस्वभावाभेदप्रसिद्ध्यर्थम् परश्चतुर्थः कल्पनीयो [105 . 26]न्यथायः -- 7 शलाकाकल्पास्तूयेव(स् त्रय एवा)संबद्धाः प्रसज्येरन्न् इति भावः । एवं पञ्चमादाव् अपि सैव वार्तेत्यादिना भिन्नस्वभावस्यासम्बन्धनिश्चयपरिपन्थिन्य[न]वस्था स्यात् ।
ननु किम् अ[न]वस्थाभयाद् दृष्टानेकस्वभावापलापः कर्तव्यः इत्य् आह -- न चेति [105 . 27] ।
स्याद् एतत् स्याद् अयं दोषो यद्य् अभिन्नस्य स्वभावस्य द्रव्यपर्यायाभ्यां भेदो ऽप्य् उपगम्येत । किन्त्व् अभेद 8 एवेत्य् आह ऐकान्तिकस् त्व् इ[105 . 29]ति । भिन्नयोर् द्रव्यपर्याययोर् अभिन्ना स्वभावाद् अभेद ऐकान्तिको यदि भवेद् इति योज्यम्, भेद एव तयोर् विशीर्येत [105 . 30] विलीयेत । कुत इत्य् आह तदेके [105 . 30]ति । तस्माद् एकस्मात् स्वभावाद् अव्यतिरेकस् तयोर् इत्य् अर्थात् ।
अथवा विभिन्नाभ्याम् इत्याद्य् अन्यथा व्याख्येयम् । विभिन्नाभ्यां [105 . 23] द्रव्यपर्यायाभ्याम् अभिन्नस्या [105 . 23]व्यतिरिक्तस्य [45ब्] 1 विभेदस् तदात्मवद्भेदात् । अयं चाभिप्रायो द्र्व्यपर्या[य]योः कल्पिताभिन्नस्वभावयोस् तादात्म्योपगमे तस्य वा तयोर् अनुप्रवेश एषितव्यस् तयोर् वा तत्रेति । तत्र यदि कल्पितस्य स्वभावस्य द्रव्यपर्याययोर् अनुप्रवेशस् तदा ताव् एव स्वरूपेण व्यवतिष्ठेयातां न त्व् असाव् इति सो ऽसन्कथं तत्सम्बन्धी स्यात् । ननु च नासौ स्वभावस् तयोर् उपलीयमानस् तदभेदा 2 नुभावी किं तर्हि तेषाम् अभेदसिद्ध्यर्थम् अभिन्नस्वभावो ऽन्यो ऽभ्युपगम्यते इत्य् अभिप्रायस्य परस्य वचनम् आशंकमान आह तेषाम् इ[105 . 24]ति । अत्रापि दोषान्तरम् उपेक्ष्यैवानवस्थां दर्शयन्न् आह तथे [105 . 26]ति । अथ द्रव्यपर्याययोस् तस्मिन्न् अभिन्ने स्वभावे ऽनुप्रवेशस् तत्राह ऐकान्तिकस् त्व् इ[105 . 29]त्यादि इति ।
{प्. 348} ननु न तयोस् तदाभि(दाभि)न्नस्वभावयोगाद् अभेदो येनैव 3 म् उच्यते । किन्तु स्वत एवाभेद इत्य् आह अभेदस्ये [106 . 1]ति । अभेदस्य द्रव्यपर्याययोः स्वरससिद्धस्यैकात्म्यस्य अपरित्यागे [106 . 1]ङ्गीकारे । तस्य भेदस्य अवितथाभावे [106 . 2] सत्यत्वे । अभेदे [106 . 2] प्रतिपाद्ये मृषार्थत्वात्(र्थता) तत्प्रतिपादकस्य वचनस्येत्य् अर्थात् ।
कस्मात् पुनर् भेदाभेदाव् एकात्मकौ न स्याताम् इत्य् आह अन्योन्ये [106 . 3]ति । अन्योन्या 4 भावरूपाणाम् अ[106 . 3]न्योन्यव्यवच्छेदेन व्यवस्थितात्मनाम् । एकस्य भावो [106 . 4] विधिर् अपर स्य् आभावा निषेधो यस् तद् धेतुको यतः [106 . 4] भेदाभेदाभ्यां द्विरूपता नास्ति । यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गः (ङ्गं) स्यान् नैकत्र भेदाभेदौ भवेताम् । स एव तु न भेदव्यवस्थानिमित्तम् इत्य् आशंक्याह अन्योन्याभावरूपाश् चे [106 . 4]ति ।
विरोधो [106 . 8] 5 विरुद्धधर्माध्यासो ऽभिप्रेतः । भेद शब्देन भेदव्यवस्था विवक्षिता । लक्षण [106 . 8]शब्देन च निमित्तम् । तेनायम् अर्थो यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गं नेष्यते, तदैवं न स्यात् । एवं च कथं स्यात् एवं च कस्मान् नेष्तव्यम् इति ।
तद्रूपाः सन्तोपि न भेदिनो [106 . 5] भिन्नाः स्युर् विरोधस्य भेदव्यवस्थाङ्गत्वात् । अन्येन प्रकारेण तद्विनाशे [106 . 6] पर्यायविनाशे । द्रव्यं कथं विनाशि स्यात् । द्रव्यं हि पर्यायरूपेण नश्यति, न तु द्रव्येरूपेणेत्यह्रिकैर् इष्यते । तद्रूपेणापि विनाशः कस्माद् इष्यते । सर्वथैव तस्य विनाशः किन्नेष्यत इत्य् अर्थः ।
कथं नाम द्रव्यम् एष्तव्यम् इत्य् आकांक्षायां षिक्षयन्न् आह कूटे [106 . 7]ति । नित्यता [106 . 7] स्थिरता । "नेध्रु(र्ध्रु)व" इत्य् अ 7 नेन निसस्त्ययो विधानात् । अप्रच्युतानुत्पन्नपूर्वापररूपस्यावस्थानं कूटस्थनित्यता , भेदेषु [106 . 7] पर्यायेषु । परिणामनित्यता द्रव्येषु कस्माद् इष्तेति सामर्थ्याद् आवेदितम् ।
अस्तु तर्हीष्ता कूटस्थनित्यतेत्य् आशंक्याह तद् इष्टाव् इ[106 . 9]ति । तस्याः कूटस्थनित्यताया इष्टौ । अत्र दोषान्तरम् उपेक्ष्यैव एतद् आह किन्ने [106 . 9]ति । यथोत्तरोत्तरसर्वपर्या 8 यानुगामिसुवर्णत्वाद्य् एकं सामान्यम् इष्यते तत्तद्भिन्नदेशादिसर्वव्यक्त्यनुयायिसुवर्णत्वगोत्वाद्य् एकं किं [106 . 10] कस्मान् नेष्यते । इच्छामस् तर्हीदम् अपीत्य् आह जनन्ये [106 . 10]ति । जननी माता । प्रथममढा पत्नी जाया । ननु यदि स्त्रीत्वसामान्यम् अभिप्रेत्येदम् उच्यते तदाभ्युपगम एवोत्तरम् इति कोयम् अनुपया(नुयो)गः ? भार्यात्वञ् चोपाधिरूप न [46अ] 1 सामान्यम् । अन्यथा संकेतावेदिनोपि गाव इव ता अपि भार्या म[अ]भिमता व्यक्त्यस्तेनरूपेण सामान्यभासां {प्. 349} धियमादधीरन् । न चैतद् अस्ति, तस्माद् अयुक्तम् एतद् इति । शोभनम् उक्तं भवता केवलम् एवं वदितुर् अभिप्रायो न सम्यग्ज्ञायि । अयं खल्व् अस्याभिप्रायो येनोपाध्यवच्छिन्नेन केनचिद् रूपेण तत्स्त्रीत्वं तस्यां जायायां वर्तमान 2 म् एनां तथोपभोगाङ्गं नोपपादयति विनैव तावद् आत्मना जनन्याम् अपि तेन वर्तितव्यमन्यरूपाभावात् । सति चैवं तस्या अपि तथात्वम् आपद्येत; एवम् अत्रापेक्षयाप्य् उच्यमानजायाया अपि तथात्वम् अनिवार्यम् । यद्य् एवं शाबलेयबाहुलेयादीनाम् अप्य् एकगोत्वादियोगाद् एकत्वं किं नापाद्यत इति? प्रियं प्रियेणाचरितम् इति । उदाहरण 3 दिङ्मात्रं तूक्तम् एतद् उपहासापदेशेनेति सर्वम् अवदातम् ।
एवम् उक्तया नित्या भेदाभेदाव् एकाधिकरणौ न युक्ताव् इति प्रतिपाद्याधुना भवेतां तौ तथा, तथाप्य् उक्तदोषान् न मुक्तिर् इति प्रतिपादयन्न् आह भेदाभेदोक्तदोषाश् चे [106 . 11]ति । द्रव्यपर्याययोर् भेदे ह्य् एकान्तेन विभिन्ने ते स्याताम् । न त्व् एकं द्विरूपम्, तथा 4 सुवर्णकुण्डलादिपर्याययोर् अपरस्परात्मतया कुण्डलादिसुवर्णविशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गादयो दोषाः । अभेदपक्षे चैकस्याने[क]कार्यकर्तृत्वम् उक्तम् अव्याहतम् आपद्येत । द्रव्यपर्यायरूपत्वेनाभ्युपेतं द्वैरूप्यं हीयेतेत्यादयो दोषाः । सति चैवं विफलो ऽयम् एकस्य भेदाभ्युपग 5 म इति चार्थाद् दर्शितम् । तयो [106 . 11]र् भेदाभेदयोर् इष्तौ [106 . 11] कथं वा न भवन्ति । प्रत्येकं भावान् न समुदाये भवन्तीत्य् आह -- प्रत्येकम् इति ते [106 . 12] दोषाः ।
ननु च दृष्टम् इदं यत एकैकभाविनो दोषाः समुदायावस्थायां न भवन्तीत्य् अभिप्रायवान् परः प्राह गुडश्चेति [106 . 13] । केवलो गुडः ष्लेष्मणोर् हेतुर् नागरं शुण्ठी 6 केवलं पित्तस्य कारणम् [106 . 13] । मिलितयोस् त्व् अनयोस् तौ दोषौ कस्मान् न भवत इति प्रकरणाद् द्रष्टव्यमध्याहारो वा कर्तव्यः । अत्र समाधिम् आह तन्मूलम् इ[105 . 14]ति । परस्परोपसर्पणाश्रयात् प्रत्ययात् तदुपादानसहकारिणो ऽन्यद् एव [106 . 14] तत् -- कार्यकारिणः केवलाद् गुडात् । केवलाच् च नागराद् भिन्नम् एव विशिष्ता 7 र्थक्रियाकारि द्रव्यान्तरम् इदं गुडनागरा [106 . 14]ख्यम् उत्पन्नम् । न तु स एव गुडो नागरञ् च द्वे इमे द्रव्ये । तन्मूलं [106 . 14] तद्गुडनागरकारणम् । अनेनैतद् आह -- विशिष्टश्लेष्महरणाद्यर्थक्रियाकारिद्रव्यान्तरम् इदम् उदपादि तेन प्रत्येकभावी मम दोषो न भवति । भवतस् तु मिलिताव् अपि भेदाभेदौ द्रव्यपर्यायलक्षणौ ताव् एवेति कथन् नो(कथम् उ?)भयभा 8 विनो दोषा न भवेयुर् इति ।
अथास्तु द्रव्यान्तरम् इदं तथापि मधुरत्वात् कटुकत्वाच् च कथं कफपित्तकृन् न भवतीति पार्श्वस्थस्य चोद्यम् प्रतिक्षिपन्न् आह मधुरम् इ[106 . 15]ति । सर्वं मधुरं [106 . 15] कफहेतुर् न संभाव्यते । स्याद् इ[106 . 15]ति संभावनपदम् एतत्, शक्यार्थम् वा । केन पुनर् निदर्शनेन सर्वं मधुरम् एव(वं) संभावयितुम् अयुक्तम् इत्य् अत आह यथे [106 . 15]ति । {प्. 350} कफना[46ब्] 1 शकत्वाद् एव मधुर(न) इत्य् अभिप्रायः । अनेन मधुरत्वाद् इत्य् अयं हेतुः साधारणानैकान्तिको दर्शितः । तीक्ष्णं [106 . 16] कटुकम् वा सर्वम् इति नेति स्याद् इति चानुवर्तनीयम् । पूर्ववन्निदर्शनं व्याख्येयम् । मागघिका [106 . 16] पिप्पली शीतवीर्याहित्ये(ते)त्य् आशयः । अनेनापि कटुकत्वाद् इत्य् अस्य साधरणानैकान्तिकत्वं दर्शयतो ऽयम् अभिप्रायः । गुडनागराख्यस्य द्रव्यान्तरस्या 2 स्यान्यद् एवेत्थं मधुर(न) इव माधुर्यं कटुकत्वम् अपि पिप्पल्या इवान्यद् एव तेन मिलितावस्थायां न दोषद्वयसम्भव इति ।
यदि च प्रत्येकभाविनां दोषाणां मिलितावस्थायां गुडनागरादेर् अभावोपदर्शनेनैतत् प्रतिषिध्यते, तदा प्रत्येकभाविनां दोषाणां समुदायावस्थायाम् अपि भावदर्शनात् किम् अस्मद् अभिमतं चानुप(नाभ्युप)पद्यत इति 3 दर्शयितुं प्रत्येकम् इ[106 . 17]त्यादिनोपक्रमते । यदि वा समुदायावस्थायां तेषां दोषाणाम् असद्भावे साध्ये प्रत्येकभावित्वाद् इत्य् अस्य हेतोः साधारणानैकन्तिकत्वं दर्शयितुम् आह -- प्रत्येकम् इ[106 . 17]ति । यत् प्रत्येत्येकं यस्य कार्यस्य निदानं [106 . 17] निमित्तं स्वतस् तद् यदि स्वहेतुबलान् मिभ्रम [106 . 17]न्यसहितम् एवाधिकरणम् उत्पद्यते तदा किं 4 तत्कार्यकारि तत्र दृष्टम्? [106 . 18] क्षेपे किमः प्रयोगाद् दृष्टम् एवेत्य् अर्थः । स्नेहो हि कफहेतुर् ऊष्णत्वं च पित्तकृद्दृष्टं सहितावस्थायाम् अपि ते तत्कार्यकारिणी दृष्टे यथा अमूमाषङ्गते, अत एव यथा माष [106 . 18] इत्य् उदाहरति । माषो हि स्निग्धत्वाद् ऊष्णवीर्यत्वाच् चोभयात्मक उभयम् एव कार्यं कफपित्तलक्षणं करोतीति ।
ननु मधुररसाद् अपि मधुरः(नः) श्लेष्मा कस्मान् न जायते कटुकाया अपि पिप्पल्याः कुतो न पित्तं येनास्मद् उक्तं भवता व्यभिचार्यते । तथाप्य् अभावे वा गुडान्नागराच् च तौ दोषौ मा भूताम् इति परस्य मतम् आशंक्य दृष्टस्योपपत्तिप्रकारं दर्शयितुम् आह शक्त्यपेक्षञ् चे [106 . 19]ति । यस्मात् तेन कार्येणोत्पत्तव्यम्, तस्य स्वोपादानशक्ति 6 म् अपेक्षत इति शक्त्यपेक्षम् [106 . 19] । किं तत् कार्यं माधुर्यादि गुणमात्रं निबन्धनं न भवतीति प्रश्ने ऽभ्युपगम एवोत्तरं कुर्वन्न् आह -- गुणेति [106 . 19] । आचारविशेषानवच्छिन्नः केवलो माधुर्यादिगुणो गुणमात्रं तद् अनिबन्धनम् [106 . 19] अकारणं यस्य तत् तथोक्तम् । शक्त्यपेक्षत्वेपि कार्यस्य तस्याः सर्वत्र भावात् तदवस्थो [दोष] 7 इत्य् आह सर्वत्रेति [106 . 20] । तासां [106 . 20] शक्तीनां किञ्चिद् एव कार्यं कस्यचिद् एव जन्यतया सम्बन्धी भवति । अयम् अर्थो मधुरत्वाविशेषेपि किञ्चिद् एव स्वहेतुसमुद्भूतरूपविशेषं यत् तथाकार्यकारि न तत् सर्वम् । तद्धेतोस् तज्जननः स्वभावः कुतस्त्य इति चेत्, स्वहेतोस् तस्यापि तथेत्य् अपर्यनुयोज्य ए(-ज्यमे)वैतत् । एतद् उक्तं भवति -- एकन्तेन विभ(भि)न्नत्वादि 8 दोषो हि भेदमात्रे प्रसज्यमानो न भेदस्य शक्तिविशेअम् अपेक्षते । न च भेदस्य {प्. 351} विशेष एव संभवति मिलितावस्थायाम् अपि ताद्रूप्याद् एव । एवम् अभेददोषोपि द्रष्टव्यः । तस्माद् गुणमात्रनिबन्धनं यत्कार्यं तद् यथा सति तस्मिन् भवति । तथा भेदाभेदमात्रे संभविनो दोषा ये ते तद्भावे कथं न स्युर् इति ।
भेदाभेदाभ्याम् उत्पत्ति[47अ] 1 धर्मत्वम् अमीषां दोषाणाम् अभ्युपेत्य सर्वम् इदम् उक्तम् अधुना तु तादात्म्याद् एव तेषाम् अनिवार्यत्वम् आयातम् इति प्रतिपादयितुं गुडनागरादौ परेण दृष्टान्तीकृते जन्यदोषाणाम् अन्यथैवानुपपत्तिम् अभ्युपगच्छन्न् आह विरोधी [106 . 24]ति । विरोधिनो नागरादेः । सन्निधिस् तस्माद् विरोधिशुन्याद् गुडादेर् जन्म यस्य दोषस्य स तज्जन्मा न भवेद् अ[106 . 23]पि । तदात्मा [106 . 24] भेदाभेदात्मा । तु दोषः, स तु तस्मिन्नात्म भूते भेदे अभेदे चा निष्तोपि न निवर्तते [106 . 24] । अतत्स्वभावत्वप्रसङ्गाद् इति भावः । इदम् अत्रार्थसतत्त्वं भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः । विभिन्ने च ते स्याताम् इत्यादिना च वस्तुतस् तदात्मक एव दोषो दर्शितः । अनेककार्यकारित्वम् अपि अभिन्नरूपात्मकम् एव वस्तुतः । अन्य 3 द् अपि दूषणं वस्तुतो भेदाभेदात्मकम् एव । व्यावृत्तिकृतस् तु भेदो यदि भवेद् भवतु न तावता प्रकृतक्षतिर् इति ।
तन्मते ऽवस्थान्तरावयविनः सत्त्वम् उपेत्यैतद् उक्तम् इदानी तु स एव नास्तीति दर्शयितुम् आह भागा एव चे [106 . 25]ति । भागा एव भागत्वेनाभिमता एव । परमार्थतस् तु परमाणव एवेत्य् अर्थः । तेन तेन प्रकारेणाधिस्ति 4 र्यगूर्द्ध्वावस्थानलक्षणेन तत्तदर्थक्रियाकारित्वलक्षणेन च संनिविष्ता [106 . 25] व्यवस्थिताः । तद्वान् [106 . 23] भागवान् । निर्विभागः स्वतो निरंशः । अनेन दृश्यानुपलंभो {दर्शितः । तदभावाच् च केन सह तेषां भेदाभेदचिन्ता स्याद् इति चाभिप्रेतम् ।
नन्व् असत्य् एकस्मिन्न् अवयविनि धारणाकर्षने कथम् उपपद्येयाताम् इत्य् आह -- अन्यो ऽन्ये [106 . 27]ति । ते 5 [106 . 27] भागाः । एक सामग्र्यधीनत्वाद् अन्योन्यकारणाधीनापेक्षाः सन्तस् तथावस्थितवपुषो येनैकस्याकर्षने धारने वान्येषाम् अपि ते भवत इति । न केवलं दृष्टहेतुबलात् तेषां तथास्थितिर् अपि त्व् अदृष्टवशाद् अपीति दर्शयन्न् आह -- कर्मणां चे [106 . 28]ति । लोकस्यासाधारणचेतनात्मकर्मणाम् अपि सामर्थ्यात् ते ऽविनिर्भागवर्ति 6 नः [106 . 28] परस्परं विभागेन न वर्तन्ते ।
ननु चाकारणस्य कर्मणः सामर्थ्योपवर्णनम् अयुक्तम् इत्य् आशंक्याह सन्निवेशने [106 . 29]ति । हि [106 . 21]र् यस्माद् अर्थे ।
"कर्मजं लोकवैचित्र्यम्" [अभिध्. 4.1] ।
{प्. 352} इति वचनात् कर्मभिर् जनिता [106 . 30] इत्य् आह । तेषाम् एव प्राणिनां साधारणैर् असाधारर्णवौ कर्मभिः । तेभ्यः [106 . 30] कर्मस्य एव तदाधिपत्याद् एवेति यावत् । अवि 7 भागिनो [106 . 30] विभागेन न वर्तन्ते ।
अथासत्य् एकस्मिन्न् अवयविनि एकोयं घट इत्यादि व्यपदेशः कथं स्याद् इत्य् आशंक्याह -- ते चे [106 . 31]ति । ते भागाः कथंचिद् एककार्यकारित्वादिना प्रकारेण । ननु चैको घट इत्यादि शब्दजन्मनि शब्दानुविद्धे ज्ञाने तावत्किञ्चिद् एकत्वेन प्रत्यवभासते तद् एव च स्वलक्षणं स्वलक्षणत्वेनाध्यवसायात् त कथम् अभे 8 दिनो ऽर्थस्यापलापः क्रियत इत्य् आह न चे [106 . 32]ति । स्वलक्षणालम्बनं ज्ञानं स्वलक्षणज्ञानं [106 . 32] तस्मिन् न । अयम् अभिप्रायो यदि शब्दगोचरो ऽर्थः स्वलक्षणं स्यात् तदेन्द्रियप्रभवेपि प्रत्यये तथैव प्रतिभासेत । न चैतद् अस्ति सजातीयविजातीयव्यावृत्तप्रतिभासात् । न चैकम् एव रूपम् उपायभेदे ऽपि भिन्नाकारावभासि युक्तम् । तद् उक्तम्
"एकस्यै[47ब्] 1 व कुतो रूपं भिन्नाकारावभासि तत्" [प्रमानावा.2.235]
एवं तर्हि शब्दप्रत्ययगोचर एव किञ्चिद् एकं तावद् आस्ताम् । ततो न सर्वथैकस्याभावः सिध्यतीत्य् आह अस्पष्ते [107 . 1]ति । त एव [107 . 1] भागा एवं । विजातीयव्यावृत्त्या केवलया प्रतीयमाना स्पष्टरूपाः [107 . 1] । अयम् अर्थस् तत्रापि ज्ञाने त एव भागा अ[वि]वेचितभेदाः प्रतीयन्ते न तु तदतिरिक्तं किञ्चिद् एकम् अपि । अध्यवसायानु 2 रोधेन च त एवेत्य् उक्तं द्रष्टव्यम् । यतौ भागातिरिक्तं निर्भागदृश्यम् अनुपलभ्यमानम् असद्व्यवहारगोचरः तत [107 . 2]स् तस्मात् ।[129]तेषां भागानां पर्यायशब्दाभिलाप्यानाम् ।
__________नोतेस्__________
[129] एषां स्
पुनर् अपि निर्भागमङ्गीकृत्य सिंहावलोकितन्यायेन दूषणान्तरम् आह ।
नि [130] र्भागस्य चे [106 . 3]ति । भिन्नो देषो यस्य स चासाव् अंशश् चेति पदसंस्कारं कृत्वा पश्चाद् अनेक शब्देन सह 3 कर्मधारयः कार्यः । तद् योगिता [107 . 3] तद्व्यापिता । अयम् आशयो यदि तत् सांशं स्यात्, तदेकेनांशेनैकं भिन्नदेशम् अंशं व्याप्यापरेणापरं व्याप्नुयात् । न तु निरंशं सत् तथा कर्तुम् उत्सहत इति । ननु प्रतीयते तावद् एकस्यानेकभिन्नदेशांशयोगिता तत्र किं कथम् एतद् इति विमृष्टेन । तथा चोक्तम
__________नोतेस्__________
[130] निर्विभागस्य स्
[131]"तत् तथैवाभ्युपैतव्यम् यद् यथैव प्रतीयत ।"
__________नोतेस्__________
[131] तुलनाश्लोकवा. अनु. 186 ।
इत्य् अभिप्रायवतः परस्य वचनम् आशङ्कमान आह प्रतीतेश् चेदि [107 . 4]ति यद्य् अप्य् अत्रोक्तम् एव दूषणं न निर्विकल्पे नापि विकल्पे ज्ञाने तदेकमनुभासत इत्यदि । {प्. 353} तथापि तदुपेक्ष्यैव दूषणान्तरम् आह[132] ध्वंसे [107 . 4]ति ।
__________नोतेस्__________
[132] क्षणध्वंसानु-स् ।
ये पर्यायाः स्थेमानं [107 . 5] स्थैर्यं दधतः प्रतीयन्ते [107 . 5] यत् तदोर्नित्यम् अभिसंबन्धात्ते 5 क्षणध्वंसानुभाविनः कुतः कस्मान् मता [107 . 5] इति योज्यम् । अनेनैतद् आह प्रतीतिशरणाश् चेद् भवन्तस् तदा कथम् अन्यथा प्रतीयमाना अन्यथा अनुगम्यन्त इति । पुनः परस्य वचनम् आशंकमान आह -- अन्यत [107 . 6] इति । अन्यतो बाधकात् प्रमाणात् तन्मता इत्य् अभिसम्बन्धव्यम् । इह प्रकृते तद् बाधकं पमाणं समं [107 . 6] तुल्य 6 म् अत्रापि तद्धित इत्य् अर्थः ।
उक्तेपि दृश्यानुपलम्भादौ बाधके ऽन्यद् अपि बाधकं दर्श्यन्न् आह -- ऐकान्तिकाव् इ[107 . 7]ति । अनन्यत्वाद् एकात्मकत्वात् । तयोर् अन्योन्यानुप्रवेशमुखेन भेद एवाभेद एव वेति नियमवन्ताव् ऐकान्तिकाउ स्याताम् । ध्रुवं [107 . 7] निश्चितम् । अथैकात्म्येत्पि पर्याया एव भिद्यन्ते न धर्मी धर्मे (?) च न भिद्य 7 ते न तु पर्याया इत्य् आशंक्याह -- अन्योन्यं वे [107 . 8]ति । विरुद्धधर्माध्यासस्य एकत्वबाधकस्य भावाद् भेद एव नियतो [107 . 8]वश्यंभावीत्य् अभिप्रायः ।
अनन्यत्वेपि नायं दोषो भिन्नरूपस्यापि भावाद् इति परस्य वचनम् आशंकमान आह तयोर् अपी [107 . 9]ति । अपि शब्दो भिन्नकमो भेद इत्य् अस्मात् परो द्रष्टव्यः । न केवलम् अभेद इति चार्थः । अत्रा 8 प्य् आह येनात्मने [107 . 10]ति । अपि शब्ददर्शितम् अभेदम् अपि दूषयन्न् आह द्रव्ये [107 . 12]ति ।
स्वभाव [107 . 13] इत्य् अभिन्नस्वभाव इत्य् अभिप्रेतम् । यन्निमित्ता [107 . 13] यदभिन्नरूपनिमित्ता । कथं नास्तीत्य् आह तत [107 . 14] इति । तत एकस्मात् स्वभावात्, अभेदे स्वभावानुप्रवेशे तयोः स्वात्महानिः [107 . 14] द्रव्यरूपता पर्यायरूपता च हीयेत, तदात्मवद् इति भावः ।
त [48अ] 1 स्या [107 . 15]भिन्नस्य स्वभावस्य ताभ्यां [107 . 15] द्रव्यपर्यायाभ्याम् । त [107 . 15] इत्य् अनेनोक्तं बहुत्वम् एवाह धर्मी [107 . 16]त्यादि ।
तेभ्यो [107 . 17] द्रयपर्यायतदन्यस्वभावेभ्यो ऽन्यो ऽभिन्नः स्वभावस् तेषाम् एव त्रयाणाम् अभेदसिद्ध्यर्थं कल्प्यते यदि तत्रापि स एव दोष इति पुनः स्वभावान्तरकल्पने च पूर्व [107 . 18] इव प्रसङ्गो ऽनवस्थाप्रसङ्गह् स्यात् ।
अत्रैव दोषान्तरं समुच्चिन्वन्न् आह 2 धर्मीत्वम् इ[107 . 19]ति । कुत एवं स्याद् इत्य् आह तत्तन्त्रत्वाद् इ[107 . 19]ति । तस्मिन् पारतन्त्र्यं तस्मात् । कयोस् तत्तन्त्रत्वम् इत्य् अपेक्षायाम् {प्. 354} आह -- तद् अन्ययोर् इ[107 . 19]ति । तस्माद् एकस्वभावाद् अन्ययोर् द्रव्यपर्याययोर् भेदस्याभेदस्य च तन्मूलत्वात् तत्तन्त्रत्वं प्रत्येयम् । अस्तु तर्हि तस्य तथात्वम् अनेकात्मकत्वं च वस्तुनः । न च दृष्टस्यानवस्थया अपलापः क 3 र्तुं शक्य इत्य् आह -- न चैवम् इ[107 . 20]ति । चो यस्मान् नैवं प्रमाणेन गम्यते । प्रकरणम् उपसंहरन्न् आह तेने [107 . 20]ति । तेना [न]न्तरोक्तेन कारणकलापेन अयम् अनेकान्तवादो जाल्मकल्पित उत्पथप्रस्थितकल्पितः ।
इति [107 . 21]र् हेतौ । बहुभाषितया अलं [107 . 21] न किञ्चित् । एतावतैव सर्वस्य समाहितत्वाद् इति भावः ।
अवश्यमो भा 4 व आवश्यकम् इत्य् अस्य भावप्रत्ययान्तत्वाद् अपृक्करणस्यावश्यकम् इति प्राप्ते योयम् आवश्यकम् अपृथक्करणम् इ[108 . 1]ति प्रयोगे सामानाधिकरण्येन निर्देशः सः कथम् इति तु न जाने महान्त एव प्रष्टव्याः । संयोगविभागेषु [108 . 11] कर्तव्येषु अनपेक्षो [108 . 11] न कारणम् इति रूपादिवर्गाभिप्रायेणानपेक्ष 5 स्य तत् कारणमात्रं विवक्षितम् । न तु विशेषप्रतिषेधात् सापेक्षस्य कारणत्वम् । अगुणत्वेन च द्रव्यकर्मणोर् व्यवच्छेदः । सामान्यवत्त्वेन च सामान्यविशेषसमवायानाम् । संयोगविभागापेक्षया त्व् अनपेक्षो न कारणं किन्तु सापेक्ष एव कारणम् इति विवक्षितम् । सापेक्षत्वं न चरमभाव्यपे 6 क्षया द्रष्टव्यम् । न तु कस्यचिद् अन्यानपेक्षस्यैव कारणत्वम् अस्ति येनानपेक्षो ऽकारणम् इत्य् उच्यमानं शोभेत । तदात्वगुणत्वेन द्रव्यस्य व्यवच्छेदो द्रष्टव्यः । तद् यथा तन्तुतुरीसंयोगलक्षणो गुणः पटतुरीसंयोगे कर्तव्ये पटं पश्चाद्भाविनम् अपेक्षते । यथा च वंशादौ पाटनाख्या 7 वयवकर्मजो ऽवयवान्तराद् विभागः पश्चाद्भाविनं द्रव्यविनाशम् अपेक्ष्य सक्रियस्यावयवस्याकाशादिदेशाद् विभागम् आरभते, यथा चासौ न क्रियाजो विभागः किन्तु विभागज एवेति विभागजं विभागम् अभ्युपगच्छद्भिर्वैशेषिकैर् इष्यते तथा नेहाप्रकृतत्वाद् उच्यते । गुणवद् इत्य् अत्र् आदि [108 . 15]ग्रहणात् समवायिकारणत्वस्य संग्रहः ।
चो 8 द्य [108 . 28]शब्देन प्रकरणाद्बौद्धकृतंचोद्यं द्रष्टव्यम् । तस्य परिहार [108 . 28] इति विग्रहः ।
अस्माकम् अयम् आस्माकीनः [109 . 16] । "[133]युष्मद् अस्मद्भ्याम् अन्यतरस्याम् खञ्" इत्य् अनेन खञ कर्तव्यः । प्राग्व [109 . 6] प्रागुक्तसंस्कारपक्ष इव । निर्बन्धग्रहणेन [109 . 21] चेत्य् आचष्ट [109 . 25] इति सम्बन्धः ।
__________नोतेस्__________
[133] पाणिनीयं सूत्रं (4.3.1) तु भिन्नम् ।
सहकरणशीला [110 . 6] एककरणशीलाः ।
प्रत्ययान्तरं [111 . 2] वासनाप्रबोधकं रसादिकञ् च [48ब्] 1 यथायोग्यं वाच्यम्, तत्सापेक्षा [111 . 2], ततः [111 . 3] साम ग्र्यास् तथाभूताया । इतरस्ये [111 . 3]ति {प्. 355} निर्विकल्पकस्य रसाद्यालम्बनस्य । तदुपादेयत्वेन [111 . 3] विज्ञानलक्षणोपादानोपादेयत्वेन । ननु च मनस्कारादिसमुदायजन्यम् इदम् एकम् उपदर्शितम् एतत्सामग्रीमध्यप्रविष्टैकजन्यं तु किं न दर्शितम् इत्य् आह तदन्यद् इ[111 . 13]ति । एकजन्यम् इति तत्सामग्र्यन्तःपतितकारणानपेक्षैकजन्यम् इ 2 त्य् अवसेयम्, न त्व् एकजन्यं नाम किञ्चित् संभवति । तत्र चक्षुरादिनिरपेक्षमनस्कारजन्यो मनोराज्यादिविकल्पः, विषयादिनिरपेक्षचक्षुर्मनस्कारात्मकद्वयजन्यं द्विचन्द्रादिविज्ञानम्, समनन्तरप्रत्ययाद् विज्ञानाच् चक्षुर्विज्ञानस्योपलम्भामहे(?)त्याद्यभिधानाद् एवैतद् ऊहितुं शक्यम् इत्य् अहिप्रायेण च स्व [134] यम् ऊह्यम् इ[111 . 13]त्य् आह । ननु किं भागतो विशेषवृत्तिर् येन 3 बहुवचनेन निर्देश इत्य् आह[135] तज्जन्यापेक्षया चे [111 . 17]ति । सामग्र्यन्तरस्य स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिः ।
__________नोतेस्__________
[134] स्वयम् अभ्यूह्यम् स्
[135] अतज्जन्यापेक्षया स्
कुतः स्वभावभेदवत्त्वं तस्येत्य् अपेक्षायां योज्यम् कार्यान्तरे [112 . 1]त्यादि । पृथिव्यादीन्य् उपादाय वर्तन्त इत्य् उपादाय रूपं [112 . 5] परस्परादि मयूरव्यंसकादित्वात् समासः । आगमापेक्षया वक्तुम् उद्यतेन च 4 परेणागमभाषैवानूदिता । स्वभावस्थितं तेनाश्रयः(स्थितेर् आश्रयः) स्वभावस्थित्याश्रयः [112 . 18] । अवश्यं हि प्रतिबन्धकेन किञ्चित्करेण भाव्यम् । किञ्चित्शब्दवाच्येनार्थान्तरेणेत्य् अभिप्रायेणाह स्वभावान्तरोत्पादने यावद् इ[112 . 19]ति ।
ननूपकारक आधारो न तु जनकस् तत् कथम् एवम् उच्यत इत्य् आह नही [112 . 27]ति । भूतानां [113 . 2] पृथिव्यादी 5 नाम् । उच्यत इति [113 . 2]वैभाषिकमते कथ्यत इति द्रष्टव्यम् । न तुसौत्रान्तिकनये भूतभौतिकविभागोस्ति ।
कालक्षेपेण [113 . 9] कालविलंबने । तत्सहभाविने [113 . 14]त्य् अनुग्राह्यसहचारिणेत्य् अवसेयम् । अनन्तरं [113 . 14] तदुत्पादनात् । तस्य विशेषस्य् ओत्पादनात् । तस्य [113 . 15] क्रियमाणविशेषस्य । कथं तत्राकिञ्चित्करत्वं तस्य स 6 हकारिणो ज्ञापितं भवतीत्य् आह -- शक्तिप्रतिबन्धकापनयनेने [113 . 19]ति ।
यस्माद् अर्थे ऽयं निपातः " न वै "[नै]वेति व्याचक्षाणो वै [113 . 25]शब्दम् अवधारणे दर्शयति । संभावनायां [114 . 2] न्यायबलायातायाम् इत्य् अवसेयम् । अत एव व्यनक्ति न्याये [114 . 3]ति ।
{प्. 356} अनेन सहकारीत्य् अत्रैकार्थः सहशब्दोवार्तिककारेण दर्शितः । कथं तर्हि सह युगपत् कुर्वन्त [114 . 12] इत्य् अयं व्याचष्टेति चेत्, उक्तम् अत्र पूर्वम् इति न पुनर् उच्यते । एवंविध [114 . 13] इत्य् एकार्थकारी । वह्न्यादिसहकारीशीतक्षणादिलक्षणे कार्याभिसन्धिना पचीयमान [114 . 17]ग्रहणम् ।
यावते [115 . 8]ति तृतीयान्तप्रतिरूपको ऽयं निपातो यस्माद् इत्य् अस्मिन्न् अर्थे, किंत्व् एतस्मिन्न् अर्थे वा अनुवर्तते । सहिता अन्येन युक्ताः क्षणमात्रवि 8 लम्बिनः [115 . 9] क्षणमात्रस्थायिनः । तदवस्थाया प्राक् पूर्वं पश्चाद् उत्तरकालं[136] पृथक् तद्विकलावस्थायां भावः [115 . 10] सद्भावः ।
__________नोतेस्__________
[136] पृथक्त्व स्
ननु यदि स्वहेतोः समर्थस्योत्पत्तिस् तर्हि कथम् अनन्तरम् उक्तम् -- "ते समर्थाः स्वभावतः [115 . 6]" इत्य् अत आह परमते [115 . 16]ति । भवत्यस्मात् कार्यम् इति भावो हेतुस् तस्माद् इति । तद् अपि त्वया कस्मान् न व्याख्यातम् इति चेत् । न, स[49अ] 1 मर्थः कुत उत्पन्न इत्य् अस्य व्याघातप्रसंगात् । सहकारिभ्यः सामर्थ्यम् [137] इच्छन्ती [115 . 17]ति चमीमांसकमताश्रयणेनाह न तुनैयायिकाएवम् इच्छन्ति येन तन्मतोपग्रहेणाप्य् एतत् संगच्छेत, सहकारिसाकल्यस्यैव तैः सामर्थ्यरूपत्वेनेष्टेः । तथा चाह --जल्पमहोदघिः"सहकारिसाकल्यं तद्वतः सामर्थ्यं वैकल्यं त्व् असामर्थ्यम्" इति ।
__________नोतेस्__________
[137] मिच्छति स्
समर्थं [115 . 25] विवक्षितकार्यक 2 रणे शक्तम् । आवश्यकं [138] जननम् इ[116 . 11]त्य् अस्य शब्दस्य तु सिद्धिः[139]पूर्वं न जाने ।
__________नोतेस्__________
[138] अवश्यंजनकत्वम् स्
[139] द्रष्टव्यम् -- पृ. 354 पं. 8 -- "अवश्यमो भावः इत्यादिना न जाने इत्यन्तेन कृता", एतदर्थकः पाठस्त्रुटितोत्र भाति ।
कुशूलञ् च तदपनेतृपुरुषप्रयत्नश् च क्षेत्रनयनं च प्रकिरणं [116 . 14] च प्रकरणात् क्षेत्रे प्रकिरणं चेति द्वन्द्वं कृत्वा पश्चाद् आदिशब्दे[न] बहुव्रीहिः कार्यः । प्रकिरणम् इत्य् अयम् औणादिकः शब्दो न तु किरतिर्ल्युडन्तो द्रष्टव्यस् तदा गुणस्याप्रतिषेधेन प्रकरणम् इति प्राप्तेर् असाधु 3 त्वप्रसंगात् ।
समेत्य [116 . 19] योग्यदेशे स्थित्वा सम्भूय आद्येन सह मिलित्वा प्रत्ययैः सहकार्युपादानरूपैः ।
ननु च "अत एव तयोर् अवस्थयोर्" इत्यादिना प्रत्यभिज्ञायाः प्रामाण्यम् अपोदितम् एव तत् कथं न पुनर् उक्ते(क्तम् इ)त्य् आह -- पूर्वञ् चे [117 . 9]ति । एतद् अपि [117 . 11] {प्. 357} सारूप्यविषयप्रत्यभिज्ञाप्रामाण्यनिराकरणम् इति । उक्तम् एव सामर्थ्याद् दर्शित 4 म् एव । तर्हि किम् अर्थं पुनर् उक्तम् इत्य् आह -- विपञ्चनार्थं त्व् इ[117 . 12]ति तुः पूर्वस्माद् अस्य कथनस्य विशेषं दर्शयति ।
आध्यात्मिकेषु [117 . 15] आन्तरेषु । पश्चाद् बाह्येपि दर्शयितव्यत्वात् क्रमे तावच् शब्दम् आह । शक्यपरिच्छेदं [117 . 15] विशिष्टकार्यकारणतया परिच्छेत्तुं शक्यम् ।
[140] साक्षाद् अव्यवधानेन विज्ञानकार्यकारिणः प्रत्ययाद् धेतोः । 5 तस्य जनने -- व्यवधानादिप्रतिपत्तौ व्यवधानादिस्वीकारे, कथं तादृशो न भवतीत्य् आह अन्यादृशाद् इति । अन्यादृशाद्धि भवन्नन्यादृशस्यापि हेतोर् हेतुव्यपदेशसंभवाज् जननहेतुर् इत्य् आह । कथं तद्धेतुर् इत्य् आह तद् इति तत्सहकारिभिः परस्परोपसर्पणाद्याश्रयहेतुसहकारिभिर् इन्द्रियादिभिः । 6 समर्थञ् च तद्विज्ञानजनने स्वस्वक्षणान्तरं चेति तथा तस्यारम्भात् । अनेन परस्परोपसर्पणाद्याश्रयप्रत्ययविशेषेन्द्रियादिकलापस्य साक्षाद् विज्ञानहेतोर् हेतुत्वं दर्शितम् । एतच् चानन्तरम् एव स्पष्टयिष्यते । इदं चाक्षेपवतीं सामग्रीम् अभिप्रेत्योक्तं द्रष्टव्यम् । कथम् अन्यथाभावस्या 7 संभव इति आह परस्परे ति । विज्ञाननिर्माणसमर्थाश् च ते हेतवश् च ते च ते इन्द्रियादयश् च तेषाम् उपादानैः । समर्थहेत्विन्द्रियादेर् जननं तस्मात् । अनन्तरोक्तस्पष्टीकरणं चैतद् द्रष्टव्यम् ।
__________नोतेस्__________
[140] स् प्रतिर् अत्र त्रुटिता ।
सुखसंवर्दितत्वाद् इति व्याचक्षाणो मूले सुखैधित इत्य् अस्य् आनभियोग निमित्तस्यापि सामर्थ्यात् क्रीडन [119 . 12]शील इत्य् अस्य हेतुभावेन 8 विशेषणत्वं दर्शयति । ननु कृतं निष्पादितम् उच्यते ऽत्र च किमाचार्येण निष्पादितम् इत्य् आशंकां निराकुर्वन्न् आह कृतम् इ[119 . 14]ति । न पुनर् ए[119 . 15]वम् आचक्षाणेन द्विर् उक्ताभावो दर्शित इति बोद्धव्यम् । अस्यार्थस्यासकृदुक्तत्वात् एकवारं प्रतिविहिते पुनः प्रतिविधापयितरि अवज्ञासंभवेनोपहासांयोगाच् च कृतं कृतम् इति निर्देशस्य न्या[49ब्] 1 यप्राप्तत्वाद् अतिप्रसिद्धत्वाच् चेति । ननु किं कुर्वन्तं कर्तुं प्रयुङ्क्ते पुनः पूर्वपक्षवादी येन पुनः पूर्वपक्षवादी कारयतीत्य् उच्यत इत्य् आह -- पुनर् इत्यादि । निर्लोठितं [119 . 17] निरूपितं निर्णीतम् इति यावत् ।
पूर्ववन् मीमांसकाभिप्रायेण सामर्थ्यं सहकारिभ्यो जायत [119 . 25] इत्य् आचष्टे । सामर्थ्यस्यो [120 . 6] त्पत्तिः तद्वतो ऽनुत्पत्तिः [120 . 7] ।
{प्. 358} सम्प्रति प्रकारान्तरेणापि प्रत्यभिज्ञाया अप्रामाण्यं परमभ्युपगमयितुं भूमिकां रचयन्न् आह -- व्यावस्थितस्यैवे [120 . 12]ति । अयं चात्राभिप्रायः -- भवतु यावद् बीजादावुच्छूनोच्चूनतरादिविशेषस्य दर्शनात् सामर्थ्योत्पादादिकल्पना न पुनर् इह तथा अदर्शनाद् इति । व्यवस्थितस्या न्यत्वमनापन्नस्य । सामर्थ्यं [120 . 13] विज्ञानोत्पादादिसामर्थ्यम् ।
अप्रतिभासमानो विवेको [120 . 14] यस्य पुं 3 सः स तथा ।
यद्य् अपि विवेको ऽस्य प्रत्यक्षतो नावगम्यते तथाप्य् एतस्मात् प्रमाणात् तत्स्वभावस्य सामर्थ्यस्योत्पत्तिः कल्प्यत इति दर्शयन्न् आह विज्ञानादी [120 . 15]ति । अनुत्पत्तिप्रसंगात् प्रागसत्सामर्थ्यं चक्षुरादिसन्निधाव् उत्पद्यत इति निश्चयः । क्रमिणां विज्ञानादिकार्याणां यौगपद्योदयप्रसङ्गात् [120 . 15] । 4 तच् च क्रमवद् इति निश्चयः ।
यद्य् एवम् इ[120 . 17]ति सिद्धान्ती । अविकृतम् ए[120 . 17]करूपम् । अपूर्वसामर्थ्य स्य यः प्रतिभा स आकारस् तेन विविक्तो रहितो य उपला दिस् तद् ग्राहि । यत एवैवं तत एवाविकृतम् इति च द्रष्टव्यम् । अनवक्लृप्तिख्यापनार्थो वा [120 . 19]शब्दः ।
अभ्युपगम्यताम् एवं का क्षतिर् इत्य् आह तथेति तद्वत् । 5 सामर्थ्यम् इ[120 . 25]त्य् आगन्तुकं सामर्थ्यम् इत्य् अवसातव्यम् । द्विविधं हि सामर्थ्यं प्रातिस्विकम् आगन्तुकञ् च । प्रातिस्विकी च शक्तिर् अवश्यैषितव्या । अन्यथा शिलाशकलम् अपि क्षित्यादिसान्निध्ये बीजवदंकुरं कस्मान् न निव(र्व)र्तयतीति पर्यनुयोगे किम् उत्तरं वाच्यम् इति हि तेषां मतम् ।
ननु सामर्थ्यम् अतिशयलक्षणं सहकार्याधेयं ततो ऽन्यद् एव तत् क 6 थं "सहकारिप्रत्यय[सान्निध्य]लक्षणस्ये"त्य् उच्यत इत्य् आह अत [141] एवे [121 . 3]ति । प्रत्यासत्तिलक्षणस्य सान्निधस्य तेभ्यः सन्निहितेभ्यो ऽन्यस्यानपपत्तेः । सान्निध्यशब्दपरित्यागेन सहकारिप्रत्ययलक्षणस्येति ते एवेत्याद्य् अप्य् उक्तं द्रष्टव्यम् । अत एव् आभ्युपगमाद् इ[121 . 3]ति उपागताभ्युपगमाद् इ 7 ति प्रत्येतव्यम् । एवम् इच्छ [142] ता [121 . 6] क्षणि [143] कतैवे त्य् अभिसंबन्धनीयम् ।
__________नोतेस्__________
[141] तत एव स्
[142] इच्छतो स्
[143] क्षणिकतेवै-स्
यच् छब्देस्यैतद् व्याख्यानं यस्माद् इ[121 . 21]ति । इदं शब्दस्य चैतद् इति एतद् दर्शनम् [121 . 21] । अनुत्तरस्यैवोत्तरीकरणाद् उत्तरीकृतम् इ[121 . 24]त्य् उक्तम् । एवं नियुञ्जानमहो महासामर्थ्यम् अस्तु का तवाक्षमेत्य् आशंक्य यदि नामेत्य् अवतारयितुं न चात्रे [121 . 25]त्याद्य् आह । न चात्र मे काचिद् अक्षमा [121 . 25] किंत्व् इतीयम् अस्माकं चिन्ता चित्तं दुनोती [122 . 3]ति सम्ब 8 न्धः । न चात्र मे [121 . 25] इत्य् अनेन टीकाकारवचनेनैकवाक्यीकरणपक्षेत्य् अ(प्य)स्माकं इति "अस्मदो द्वयोश् च" (पा. 1-2-59) {प्. 359} इत्य् अनेनैकस्मिन्न् एवार्थे बहुवचनेन द्रष्तव्यम् । एवम् असंबद्धवादिन्य् अपूज्य एव पूजावचनम् उपसंहारपरं द्रष्टव्यम् । दैन्योद्भावनम् इ[122 . 1]त्य् अर्थात् संबोध्यमानस्य दैन्यप्रकाशनम् इति । निकृष्टसम्बोधने ऽयं हन्तः [122 . 1] शब्द इति यावत् । ततो ऽप्र[50अ] 1 सवधर्मकत्वात् । अपेतो ऽपगतः संतानः [122 . 2] प्रसूतिः परंपरा यस्य तथोक्तम् । इतिना [122 . 3] चिन्तारूपम् उपदर्शितम् ।
शिरःकम्पे चास्य सत्यम् इदम् अस्ती [122 . 10]त्य् अस्य शब्दस्य प्रयोगम् आकलय्य प्रयोक्तुर् अभिप्रायं वर्णयन् पृच्छती [122 . 13]त्य् आचष्टे । अत एव चेदम् आह -- किं त्वयास्तित्वेन पृच्छ्यत इति पार्श्वस्थं प्रश्नयन्न् आह किं तद् इ[122 . 13]ति । इति हेतोर् आहार्य इति प्र 2 करणात् । औदासीन्यापत्तिर् इत्य् अत्रेति शब्देन इदम् आस्तित्वेनाभिप्रेतस्य न्याय्यवचन [122 . 17]स्याकारो दर्शितः । अत एव न्याय्यवचनस्यास्तित्वेन दर्श्यमानस्य रूपं दर्शयन् सत्य्म् इदम् अप्य् अस्ती [122 . 16]ति पुनर् आह । यद्य् एवम् अस्य न्याय्यवचनस्य सद्भावादनवद्यम् एवास्मन्मतम् इत्य् आशं 3 क्याह किंत्व् इ[122 . 17]ति । केवलम् इदं [122 . 17] वक्षमाणं प्रष्टव्यो सि ।
प्रच्युतम् अजनकं रूपम् उत्पन्नं जनकं रूपं द्वन्द्वैकवद्भावम् अभिप्रेत्य प्रच्युत् ओत्पन्नम् इत्य् आह -- अप्रच्युतो(ता)नुत्पन्नत्वेनैव च स्थिरैकस्वभाव [123 . 8]त्वं ज्ञेयम् ।
तद्भेदे ऽपि [123 . 19] जनकाजनकभेदेपि । तस्य [123 . 20] भावभेदस्य । अपरापेक्षस्वभावभेदलक्षणत्वाद् इ[123 . 20]ति परा 4 पेक्षो यः स्वभावभेदो न भवति स्वत एव यो भावभेदलक्षणत्वाद् इति । भवत इदं भावत्कम् [123 . 21] । आधीयते [123 . 26] अधिक्रियते नियुज्यते वा । स्वरूपेण कर्तृत्वे विवक्षितस्यापि ताद्रूप्य प्रसज्येतेत्य् अभिप्रायेणाह ए [144] षाम् अपि पररूपेण कर्तृत्व [124 . 1] इति । पररूपेण कर्तृत्वे इति पर एव कर्ता स्यात् । तस्य तु तथात्वं 5 हरीतकीं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्याद् इत्य् अभिप्रेत्याह -- पररूपेणाप्य् अकारकत्वाद् इ[124 . 3]ति । अस्योत्तरस्य [124 . 5] "सहितस् तत्स्वभावो न केवल" इत्य् अस्य । प्रकृतम् उपसंहरन्न् आह -- तस्माद् इ[124 . 10]ति । कथञ्चित् के [124 . 10]नापि प्रकारेण न कार्यक्रियाया विरामः । पुरस्ताद् अपि तस्य स्वरूपस्य भावाद् इति भावः ।
__________नोतेस्__________
[144] तेषाम् अपि-स्
6 स्याद् एतज् जनकम् अस्य रूपम् अवस्थितं जनकञ् च तद् उच्यते यस्मिन् सत्य् एव कार्यम् अस्ति न तु यस्मिन् सति कार्यं भवत्य् एव, सति भावस्याक(का)रणसाधारण्णत्वात् । कार्यम् अपि तद्भा(तदभा)वे {प्. 360} नोपपद्येत इत्य् एव तस्य कार्यं, तद्भावे तु भवत्य् अवश्यम् इति को(क्वो)पयोगो ऽस्य । तस्मात् कथं तद्रूपभावेपि कार्यक्रिया 7 प्रसंजनं ज्याय इति ।
अत्रोच्यते अक्षणिकत्वेनाप्रच्युतानुत्पन्नरूपान्तरे सर्वावस्थासमाने ऽपि कारणं यदि कार्यं नोपजायते तर्हि तत्स्वतन्त्रम् आपद्येत । तथा च न तत् तस्य कार्यं स्यात् । तदवादि वार्तिकालंकारे प्रज्ञाकरगुप्तेन --
"सर्वावस्थासमाने ऽपि कारणे यद्य् अकार्यता ॥
स्वतन्त्रं कार्यम् एव स्यान् न [तत्]कार्यं तथा 8 सति ॥" इति ।
कारणपारतन्त्र्ये च तत्कारणं तत्कार्यं हठाद् एव जनयेत् । तथाप्य् अभावे न तस्य कार्यं स्यात् । तस्माद् अ[कारणात्] कारणस्य विशेषः कार्यस्यावश्यंभाव एवावश्यञ् च वक्तव्यः ।
ननु "तद्भा(तदभा)वे न भवति कार्यम्" इत्य् अकारणाद् अस्य विशेषः । न हि तस्याकारणस्याभावे तत्कार्यं न भवतीति, हन्त कुत एतद् अवगम्यते तद[50ब्] 1 भावप्रयुक्तो ऽस्याभाव इति । यदि हि तद्भा(तदभा)वस्याभावे तद्भावलक्षणे कार्याभावस्याभावः कार्यभावलक्षणः स्यात् तदा तदभावप्रयुक्तो ऽस्याभावः सिद्ध्येद् इतरथाकारणाभिमताभावप्रयुक्तो ऽपि तदभावः किं न कल्प्यते?[145]तदभावेपि कार्याभावस्य भावान् न तदभावप्रयुक्ततास्येति चेत्, समानम् इदं कारणाभिमतेपि । तस्माद् यथा 2 तदवस्थ एव कारणे स्वयम् एव कार्यं न भवति स्वातन्त्र्यात्, तथा तदभावो ऽपि स्वयम् एव न भविष्यतीति स्वातन्त्र्याद् एव । यश् च स्वयम् एव न भवति नासौ नियम्यत तेन परतन्त्रत्वे तस्य कारणस्य भावे ऽवश्यम् एव भवेत् । तदाहअलङ्कारकारः
__________नोतेस्__________
[145] अकारणाभिमताभावाभावे ऽपि इत्य् अर्थः ।
"[146]तद्भावेपि न भावश् चेद् अभावे भाविता कुतः ।
__________नोतेस्__________
[146] प्रमाणवा. आलं. पृ. 74.
तदभावप्रयुक्तो ऽस्य सो ऽभाव इति 3 तत् कुतः ॥" इति ।
तस्मात् तद्भावे भावस् तदभावे चाभाव इति विशेषितः कार्यकारणभावो ऽवश्यं भवतीति ज्ञापयति । तथा च कारणे सत्य् अवश्यंभावि कार्यम् आयातम् इति कथं कदाचित् क्रियाविरामः ।
किञ् च तथाविधो हि कार्याभावो निर्हेतुकत्वात् स्वयम् एव भवतीति युक्तम् अपि । भावस् तु हेतुपरतन्त्रत्वात् स 4 मर्थे हेतौ न भवतीति न युक्तम् । तद् उक्तम्
"अभावो हि पदार्थानां स्वयम् एव भवेद् अपि ।
भावस् तु परतन्त्रत्वात् कथं हेतोर् भवेन् न सः ॥" इति ।
{प्. 361} ननु कार्याभावस्य स्वतन्त्रत्वात् "कारणे सत्य् एव न भवती"ति युक्तम् एवैतत् । एवं तर्हि न कारणाभाव प्रयुक्तो ऽभाव कथं भवेत् कार्यस्य(कार्यम्[147]अस्य) ततः स्वयम् ए 5 व न भवति, यश् च स्वयम् एव न भवति नासौ तेन नियन्तुं शक्यः । ततो यथा स्वयं न भवति तथा भवेद् अपि । ततो न तस्य कार्यम् । यदा तु कारणे सति भवेद् एव तदा स्वरसनिरोधेप्य् अपरापरक्षणोत्पत्तेस् तदभाव एव संतानोच्छेदस् तदभाव एव च संतानाक्षेपक्षणानारम्भो वा सु 6 ज्ञात(न) इति कारणप्रतिबद्धत्वं सिद्ध्यति ।
__________नोतेस्__________
[147] "कार्यम् अस्य" प्रमाणवा. अलं.पृ. 74.
एतेन तद् अपि निरस्तम्यदाहुर् एके यथोभयाधीननिरूपणा व्याप्तिर् अयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये सति भाव एव व्यापकस्य नाभाव इति; व्याप्यस्य पुनर् अन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति । एवं कार्य 7 कारणभावो ऽप्य् उभयाधीननिरूपणोपि कारणे ऽयोगव्यवच्छेदेन निरूप्यते, कार्योत्पादस्य पुरस्ताद् भाव एव कारणस्य नाभाव इति; कार्ये पुनर् अन्ययोगव्यवच्छेदेन कारण एव सति भावो नान्यस्मिन्न् इत्य् अनुभवानुसारान्निश्चीयत इति । उक्तया नीत्या तद्भावे ऽभवतस् तत्कार्यताया एवाभावप्रसङ्गात् 8 स्वभावे ऽभावमत(?)श् चातत कार्यः का(तत्कार्यका)रणतायाः स तु या (?) अभिसंबन्धयत एव चात्र भवतः (?) कारणस्य मुख्यस्यानुभवो ऽन्यस् तु तादर्थ्याद् उपचरितकारणभावस्यानुभव इति स्वयम् उपचरितकारणानुभवरूपत्व एवेति । अपि च यथा कारणे सत्य् अवश्यं भावम् अनिच्छता कार्यस्य कादाचित् कादन्वयात् तत्कार[51अ] 1 णम् इष्यते । तथा कादाचित् कादव्यतिरेकाद् अपि किन् न कारणम् इष्यते युज्यते वा । तस्मात् कार्यकारणभावं नियतम् इच्छता यथा व्याप्तिमान् व्यतिरेक एष्टव्यस् तथा व्याप्तिमान्न् अन्व(मान् अन्व)योप्य् अवश्यैषितव्यो ऽन्यथा तद्यो(तदयो)गाद् इति ।
किं च सहितावस्थायां तावद् असौ भावः कार्यं जनयतीतीष्यते । जनयतीति च को ऽर्थः ? किं कार्यं 2 सत्तयाभिसम्बध्यते किं वाभिसंत्स्यते? किञ्चातः ? यद्य् उतरः पक्षस् तदा तस्मिञ् जनयति न कदाचित् कार्यं सत्प्रत्ययविषयः स्यात् सत्तया अभिसम्बन्धस्य भावितत्वा(वित्वा)त् । अथान्य(द्य) एवोपगमस् तदा विकल्पद्वयम्, किम् अनेनैव स्वभावेन पूर्वम् अयम् अवस्थितो ऽथान्येन । न तावद् अन्येन, एकस्य रूपद्वयायोगात् । 3 अनेनैव स्वभावेनावस्थाने च संप्रतीव तदापि कार्यं सत्तयाभिसम्बध्यत इत्य् उपेतं स्यात् । तथा च प्रकृतकृ(क्ष)तिर् इति किम् अस्थानाभिनिवेशेनेति । अथ भवतो ऽपि किम् इदं कारणत्वं? किं प्राग्भाव एव किं वा प्राग् एव भावः? यदि प्राग्भाव एव, तदा स्थिरस्यापि एवम् एव कारणत्वे सु[148]साधितस्य 4 निराकरणं प्रसज्येत । अथ प्राग् एव भावः, तद् एतत्क्षणिकत्वे सिद्धे सिद्ध्यति । तद् एव तु न सिद्धम् इति {प्. 362} कथम् इदम् उच्यमानं शोभेतेति । आस्तां प्राग्भाव एव कारणत्वं को बाधः? ननूक्तम् एवाक्षणिकस्यापि कारणत्वे साधयितुं शक्ये तदनिराकृतिर् एव महती बाधेति चेति । हन्त किं 5 हेतुरूपस्य लक्षणेनाक्षणिकस्य सत्त्वंतथागतैर् निराक्रियते येनेदम् अपि वक्तुम् अध्यवसितास् तर्कविदः कथं नामेति चेत् । उच्यते । प्राग्भाव एवासौ स्थिररूपात् क्रमाक्रमाख्यस्य व्यापकस्य निवृत्त्या निवर्तते । यथा च तस्य ताभ्यां व्याप्तिर् यथा च ततस् तयोर् निवृत्तिस् तथान्यत्र निऋणीतम् इति ने 6 ह हेतुलक्षणकाले ऽप्रकृतत्वाद् उच्यते । अथ तद् एव न संगच्छते । तर्हि तद् एवोच्यताम् । न तु हेतुलक्षणेन तस्या निराकृतिर् इति । अलम् अतार्किकवचनेनातिनिर्बन्धेनेति ।
__________नोतेस्__________
[148] अत्र स्वसाधितस्य इत्य् अपि दृश्यते ।
न हि स सामी(ही) [ त्य ] इत्य् ए[123 . 21]केन प्रकारेण व्याख्यायापरेणापि प्रकारेण व्याख्यातुम् अथवे [124 . 10]त्यादिनोपक्रमते ।[149] अस्या [124 . 10] अपेक्षा 7 याः ।
__________नोतेस्__________
[149] अस्य स्
ननूक्तम् एव प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावो भावस् तत् कथं प्रत्ययान्तरसाहित्यदशायाः पूर्वं कुर्याद् इत्य् आह प्रत्ययान्तरे [124 . 19]ति । तदतत्कालयोः [124 . 23] सहकारिसाहित्यासाहित्यकालयोः । केचित् पुनः "स्वहेतुभिर् एवायं प्रत्ययान्तरसापेक्षकार्यजननस्वभावो जनित [124 . 11]" इत्य् अत्रैव विपञ्च्यते । 8 यद्य् एवंधर्मो ऽयं स्वहेतुभिर् एव जनितः स्यात् तदा न कदाचिज् जनयेत् । तथा हि यावत् सहकारिप्रत्ययसन्निधिकालस् तावद् अकरणधर्मासौ भावो ऽन्यथास्या पूर्वम् अपि कर्तृत्वं प्रसज्येत । प्रत्ययान्तरसन्निधिकाले च स एव कियत्कालाकरणस्वभावो यः प्रथमे क्षण आसीत् । ततो नैव कुर्यात् कि[51ब्] 1 यत्कालाकरणधर्मत्वात् तस्य क्रियायात् (क्रियायांतु) स एव स्वभावो न भवेत् । यद्वा तावत्कालापेक्षजनकस्य स्वभावस्यानुवृत्तेस् तादात्म्यः(म्ये) तावत्कालम् अक्रिय एव । पुनर् अन्ते तथैवेति कथम् इवाक्षणिकः कदाचिद् अपि जनयेत् । तस्मान् न प्रत्ययान्तरापेक्षजनकस्वभावो भावः स्वहेतुभिर् जन्यत इति । तथा चाह --
"तत्सहकारिसापेक्ष 2 जनको यदि हेतुभिः ।
भावः स्याज् जनितो नासौ किंचिज् जनयेत् तदा ॥
तथाहि सन्निधीयन्ते यावत् ते सहकारिणः ।
तावन् नूनम् अकर्तासौ स्वभावस् तस्य वस्तुनः ॥
एषितव्यो ऽन्यथा पूर्वं तत्कर्तृत्वप्रसङ्गतः ।
तत्सन्निधानकाले च स्वभावो ऽस्य (?) वर्तते ॥
तन् न कुर्यात् क्रियायाम् वा स्वभावोस्य नो भवेत् (?) ।
यद्वा
{प्. 363} तावत् समयसापे 3 क्षजनकस्यानुवृ...त्ततः ॥
स्वभावस्य तथाप्य् एष तावत् कालम् असत्क्रियः ।
पुनर् अन्ते तथैवेति कुर्याद् अक्षणिकः कथम्? ॥" इति ।
उप गतो ऽन्त्यो [125 . 9] यस्य स तथोक्तः । प्रस [150] ज्येत् [126 . 22] यस्य निपातस्यार्थकथनं हठाद् इ[126 . 22]ति ।
__________नोतेस्__________
[150] प्रसह्य स् ।
सुतराम [127 . 15]तिशयेन ।
सन्तानम् अप्य् आश्रित्य कथम् उच्यत इत्य् आह -- पूर्वोत्तरेति [128 . 8] । किं लक्षणं नाम वस्तु 4 तस् तत्र सहकारित्वम् इत्य् आह -- पूर्व [151] क्षणेभ्यस् त्व् इ[128 . 10]ति । तस्य [128 . 14] विशेष्य ।
__________नोतेस्__________
[151] पूर्वपूर्वक्षणे-स् ।
तत्समानकाल [152] कारणक्षणः [130 . 4] । प्र[153]यातुर(?)समानकालकारणक्षणः । एकत्वेनाधिम् उक्तस्य [130 . 6] तद् एवेदम् इति निश्चितस्य ।
__________नोतेस्__________
[152] तत्समानकालः स्
[153] प्रदातुर- इत्य् अपि पठ्यते ।
उपनिपतन्तीति उपनिपातास् ते च क्षणाः [130 . 13] तथा क्षणो यतो ऽन्यो नास्ति कालः सोवच्छेदकत्वेनैषां विद्यत 5 इति "[154]अर्ष आदि"त्य् एनद् विधातव्यः । तेनैकक्षणिकस्थायीनि वस्तुरूपाणीत्य् अर्थः । एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयम् । स्वरसतः [130 . 10] स्वानुरागान्नाशो(न्)मुखत्वाद् इति यावत् । प्रकरणात् कार्य् ओत्पादं प्रत्यनुगुणत्वं [130 . 15] प्रत्येयम् । क्षेपवती [130 . 19] कालविलम्बवती ।
__________नोतेस्__________
[154] पाणिनीयसूत्रं तु "अर्ष आदिभ्यो ऽच् (5.2.127) इति वर्तते । किंतु दुर्वेकेन अन्यद् एव किञ्चिद् उद्धत भाति । तथा च अत्र "अर्ष आदिभ्यो ऽदित्यनेनाद् विधातव्यः" इति पाठः सम्यक् सम्भाव्यते ।
तदनासादनम् एव कथम् इत्य् आह -- क्षणानाम् इ[130 . 27]ति 6 । अयं निरतिशयो ऽयं च सातिशय इति विवेकस्याभावात् । कार्योत्पादानुगुणमा [130 . 28]द्यम् इत्य् अर्थात् ।
यद् उक्तम् अक्षणिके तत्सर्वं क्षणिकेष्व् अपि ममं यत [131 . 10] इति । तेषां [131 . 12] क्षणिकानाम् । यद् वा क्षणानाम् इ[131 . 13]तीदम् उभयत्रापि सम्बन्धनीयम् । पूर्वं स्वदेशस्थित्या ता(ते) एव परस् परतः समुत्पन्नविशेषाः सन्निधीयन्ते [131 . 15] प्रत्यासीदन्ति । दूरदेशवर्तिनां कथं हेतुफलभावप्रतिनियम इत्य् आशंकायां न्यायम् उपदर्शयन्न् आह येन यस्याभी [131 . 16]ति ये न दूरस्थितसहकारिकृतेन विशेषेण सविशेषा एव संनिधीयन्त इतीष्यते । तस्य विशेषस्य् ओत्पत्ताव् अपि [131 . 22] ।
{प्. 364} नैव कार्योत्पादने योग्यास् ते ऽस्माभिर् इष्यन्ते किं तर्हि कार्योत्पादानुगुणस्योत्पा 8 दने तत् कथं तदुपायेत्याद्य् उच्यमानं शोभेतेत्य् आशंक्याह यदि हि [132 . 5] इति ।
भङ्ग्या [132 . 20] वक्त्रोक्त्या । किं पुन [132 . 22]र् हि द्विस्त्रिर् वा ब्रूमः । किं तर्हि शतश एव ब्रूम इत्य् अर्थः । संप्रत्येवम् एव व्याख्यानस्य निरवद्यतयापूर्वटीकाकृतःकटाक्षयन्न् आह -- एवम् इ[132 . 23]ति । ये [132 . 25]टीकाकृतः। न विशेषोत्पादनाद् एवेत्यादिग्रन्थस्य पुनर् उक्ततापरि[52अ] 1 हारार्थं यतन्ते यत्नं कुर्वन्ति । हन्ते [132 . 26]ति निपातो नामन्त्रणमात्रे । तदभावा [133 . 2]द् विशेषोत्पादाभावात् ।
न सर्वदापरापरयोगोस्य संभवति येनास्य तन्निबन्धनो विशेषः कल्प्यत इत्य् आह नही [133 . 22]ति । एकम् एवा [133 . 22]सहायम् एव । छायापि शीताद्यर्थक्रियाकारिणी वस्त्व् एव त्व् अना(न त्व् आ)लोकाभावमात्रमितिच्छा[155]योद्वता (?) । न तु प्रतिक्षणम् इत्यादिना एकदैवार्थस्योक्तत्वात् कथं द्विः पुनर् ग्रहणं कृतम् इत्य् आह क्षणिकेष्व् इ[133 . 29]ति । द्वि [134 . 2]र् द्वौ वारौ "द्वित्रिचतुर्भ्यः सुज्" इति । (पा. 5-4-18) सुचकेनोक्तम् इत्य् आह तत्र स्वरसत [134 . 2] इति । तज्जन्मनिमित्तम् इत्य् आचक्षाणो मूले निमित्तसप्तमीं दर्शयति ।
__________नोतेस्__________
[155] योद्धता (?) इत्य् अपि पठ्यते ।
परस्परोपसर्पणाद्याश्रयाद् एव प्रत्ययविशेषाद् इ[136 . 23]ति जन्मन्यपरस्परसंपृक्तलक्षणव्यवधानेनेति द्रष्टव्यम् । 3 अन्यथा वक्ष्यमाणविरोधः स्यात् । यस्मिन् कार्ये कर्तव्ये ऽनुकूलो ऽनुगुणः स चासौ विशेषश् चेति तथा आसाद् इतस् तद् अनुकूलो विशेषो यैस् ते तथा तैः [136 . 28] ।
अथ केन ग्रन्थेन पूर्वम् अनवस्थोक्ता कथं च स्याद् इति पार्श्वस्थवचनम् आशंक्य तं प्रागुक्तं ग्रन्थं तस्य चार्थं दर्शयन्न् आह अथे [137 . 1]त्यादि । कथं 4 सा न भवतीत्य् आह तस्ये [137 . 4]ति । कुशूलाद्यवस्थम् अपि बीजं क्षित्यादिना कृतविशेषं क्षित्यादिकम् अपि तेन कृतविशेषम् एवोपतिष्ठत इत्य् अस्य प्रक [156] रण(कार)स्यानुभ्युपगमात् [137 . 4] किं नामाभ्युपेतामत्य् आह पुरुष [137 . 5]त्यादि । पुर्ववत् प्रकिरण [137 . 5]शब्दो द्रष्तव्यः । कार्योत्पादानुगुणो ऽयम् आद्यो विशेषः संपर्कक्षणा 5 नन्तरक्षणरूपस् तज्जनकस्य धर्मशब्दाद् अनिचं विधातुं व्युत्पत्तिं दर्शयन्न् आह अ क्षेपेणे [137 . 14]ति । कार्यताम् अननुभवत [137 . 27] इति तत्कार्यतां चेति द्रष्टव्यम् इतरथा अन्त्यावस्थाप्राप्तेर् अबी(प्राप्तेन बी)जादिना अनेकान्तः स्यात् ।
__________नोतेस्__________
[156] प्रकारस्यानुभ्युपगमात् स्
{प्. 365} बाहुल्येने ति विवृण्वन् प्रायः [137 . 28]शब्दं निपातं दर्शयति बाहुल्येने त्य् अस्यार्थे वर्तमानम् । 6 अथ येन न्यायेन क्षणिकस्यैकार्थक्रियया सहकारित्वसंभवस् तेनाक्षणिकस्यापि भविष्यति तत् कथम् एवं विभज्यत इति आह तत्सम्भविन [138 . 2] इति ।
स्वभावान्तरोत्पत्तिर् अपि विरुद्धा कस्मात् कल्प्यत इत्य् आह प्रागकारकस्ये [138 . 3]ति । कथं न विरुध्यत इत्य् आह तस्यैव ही [128 . 4]ति । तर्हि पूर्वस्वभावस्य कथम् उ(म) 7 पनय इत्य् आह -- तत्रे [138 . 6]ति ।
[157]तत्सभावतैव ।
__________नोतेस्__________
[157] इदं "असौ" (138.15) इत्य् अस्य अर्थकथनं भाति ।
किम् इती [138 . 15]ति निपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते । मुघे [138 . 15]त्य् अयम् अपि निपातो वृथेत्य् अस्यार्थे ।
तानि [138 . 15] प्रत्ययान्तराणि ।
सम्प्रति व्याख्यातप्रबन्धस्य संभवप्रस्तुताभिधानसंगतिं दर्शयन्न् आह तद् एवम् इ[138 . 17]ति । अनेकान्तपरिहारायोक्तम् अस्ये(क्तस्ये) [138 . 20]ति "तत्स्वभावस्य जननाद्" इत्य् अस्य 8 प्रसंगात् प्रस्तावाद् आगतं प्रासंगिकं [138 . 23] कार्यं यथेष्टम् अविनाशं हेतु(ष्टम् विनाशहेतु)नैव निवृत्तिः क्रियत इत्य् आह विनाशहेतो [139 . 27]र् इति । मुद्गरादेः [139 . 28] सकाशात्, वस्त्वन्तरस्य [139 . 29] प्रध्वंसलक्षणस्य भावे ।
व्यवस्थितरूपस्य [140 . 5] प्राच्येनैव रूपेण वर्तमानस्य ।
ननु यदि स्वरसनिरुद्धात् ताम्रादेर् उपादानकारणाद् वह्न्यादेश् च सहकारि[52ब्] 1 कारणाद् अन्यस्यैव द्रव्यादिरूपस्य ताम्रादेर् उत्पत्तिर् इहाचार्येणोपगम्यते -- तर्हिप्रमाणवार्तिके ऽनेनैव यदवादि --
"सहकारात् सहस्थानाशंका अग्निताम्र(स्थानम् अग्निताम्र)द्रवत्ववत्" (प्रमाणवा. 1.6.4) इति तद्विरुध्येत । शक्यते हि तत्रापीदं वक्तुम् उपादानात् तस्मात् तस्माच् च सहकारिकारणाद् अन्यद् एव तत् तथोत्पन्नम् । न त्व् अग्निस् ताम्रद्रवत्वं सह तिष्ठत इति चेत् । सत्यम्, यथाश्रुति 2 स्याद् विरोधो यथा त्व् अविरोधस् तथास्माभिर्विशेषाख्याने ख्यापितम् इति तत एवानुगन्तव्यम् इति ।
{प्. 366} अस्थितिस्वभावो ऽ[140 . 19]स्थितिस्वरूपो धर्मः पराश्रितत्वात् । तस्य् ओत्पत्तिः । ततो [140 . 12]स्थिररूपाद् धर्माद् विनाशहेतुसमुद्भूतात् । इति [140 . 19]र् उच्यमानस्याकारं दर्शयति । पर एव प्रश्नयन्न् आह -- कथं ज्ञायत [140 . 22] इति । अवस्थानात् [140 . 24] तस्य विनाशस्य काष्ठादेर् इ 3 ति प्रकरणात् । तथापि तस्य तथात्वम् कथम् इत्य् आशंक्य पर एवाह यदी [140 . 24]ति । तदसंभवेपि [140 . 25] विनाशहेत्वग्न्याद्यभावेपि । तर्हि न निवर्तेतैवेत्य् आशंक्य स एवाह तस्य स्वभावेने [140 . 25]त्यादि । यद् उत [140 . 26] यद् एतत् । यत् तस्मात् तस्य विनाशो भवतीति ब्रुवता परकार्यत्वं तस्य कथितं भवतीत्य् आशंक्य स एवाह परस्मा 4 द् इ[140 . 27]ति । उक्तम् एवार्थम् उपसंहारव्याजेन स्फुटयन्न् आह स्वहेतुभिर् एवायम् इ[140 . 28]ति । अत्रमीमांसकस्य सहायकं दर्शयन्न् आह -- तद् उक्तम् इ[141 . 2]ति । येन स्वभावेन विरोधिनं [141 . 4] अपेक्ष्य निवर्तत [141 . 3] इति योज्यम् । अन्येषां क्षणिकवादिनां मुद्गरादिकम् अ[141 . 4]पेक्ष्य निवर्तत इति सम्बन्द्धव्यम् ।
भावच्युति [141 . 8]र् भावस्याभावः प्रसज्य 5 प्रतिषेध इत्य् अर्थः, अवधारणेनान्यस्य विरामः । सापि कथम् अहेतुर् इत्य् आह -- तस्याश् चे [141 . 9]ति । यदि सा भवित्री कथम् अहेतुका भवेद् इत्य् आशंक्य स एवाह -- नही [141 . 9]ति । को नामास्य भाषितस्यार्थ इत्य् आह केवलम् इ[141 . 10]ति ।
इदम् अनन्तरो क्तम् उत्तरं कर्तृ विकल्पद्वयं कर्म नातिक्रामति [141 . 12] । नित्यविकल्पस्यावकाशो [141 . 14] नास्ती 6 ति ब्रुवतो ऽयम् आशयः । स हि नित्य उच्यते यो नैव विनश्यति न चायं तथोपगत इति । ने [141 . 15]ति सिद्धान्ती । तदुपगमेपि [141 . 15] कालान्तरस्थितिधर्मतोपगमेपि । संवत्सर [141 . 16] इति "कालाध्वनोर् अत्यन्तसंयोग" (पा. 2-3-5) इति द्वितीया । सम्वत्सरं व्याप्य स्थित [141 . 18] इत्य् अर्थः । यद्य् एकदिवसाव् अति(से ऽति)क्रान्ते सत्य् एकदिवसा(स)न्यूनस 2 म्वत्सरे स्थितिधर्मा स्यात् तदानयोः स्वभावयोर् विरुद्धधर्माध्यासेन भेद एव भवेद् इत्य् अभिप्रायेण स एव तद् अन्तेपी [141 . 18]त्य् आह । ये(ते)नैव न्यायेन द्वित्रिक्षणस्थितिधर्मोत्पादावगमेपि नित्यतोपगमो ऽवगन्तव्यः । अनेन [141 . 27] अक्षणिकवादिना । पूर्वोक्तेन [142 . 3] "तदन्तेपि स एवास्य स्वभाव" इत्य् अनेन न्यायेन युक्त्या तदयोगा [142 . 5]न् नाशायोगात् ।
ने [142 . 9]ति सिद्धान्तवादी । अत एव [142 . 9] विरोधिसन्निधानापेक्षत्वाद् एव विनाशस्य तन्निबन्धनत्वप्रसंगात् [142 . 8] अपेक्षणीयविरोधिकारणत्वप्रसक्तेः । {प्. 367} हेतुभावस्य [142 . 10] [53अ] 1 हेतुत्वस्य् आपेक्षा कार्येणापेक्ष्यमाणधर्मस्यैवापेक्षा सा विवक्षितत्वात् सा लक्षणं [142 . 11] यस्य तद्भावस् तत्त्वं तस्मात् । कः पुनर् इ[142 . 12]ति सिद्धान्ती । अयं चास्याशयो यदि विनाशो ऽन्यथा नोपपद्यते परतश् च न भवति तं चापेक्षत इति प्रमाणसिद्धं स्यात् कल्प्येत वैतत्, यदि परम् एतद् एव नास्तिईति । पूर्वम् अकिण्चित्करत्वेन विरोधित्वम् उपेत्य तदपेक्षा 2 यां उक्तम् । संप्रति तु विरोधित्वे ऽकिञ्चित्करत्वम् एव नास्तीति दर्शयन्न् आह कथञ् चे [142 . 15]ति । नाम [142 . 16]शब्दो ऽसंभावनायाम् इह ।
समयः [142 . 20] सिद्धान्तः । तद्भाव एव [142 . 27] मुद्गरादिभाव एव । तेषां [142 . 27] कपालादीनां भावात् उत्पादात् । यथा तद्भावभावित्वं तेषां तथा दर्शयन्न् आह -- वेगवद् इ[142 . 28]ति । कस्मात् संजातातिशय इत्य् अपेक्षायां योज्यम् परस्परे [142 . 28]त्यादि । 3 कार्यमुखेनोक्त्वा कारणमुखेनाप्य् आह तस्य चे [143 . 2]ति । तस्य वेगवन्मुद्गरादिसहकारिणो घटक्षणस्य ।
परस्परपरिहाररूपत्वात् [143 . 10] परस्परपरिहारस्थितरूपत्वात् । विनाशः कथं तस्य स्वभावो भवितुम् अर्हति येन एवम् उच्यत इत्य् आह -- विनश्यती [143 . 14]ति । भावे विहितो घञ् अ(कु)तो वचनात् क 4 र्तरि भवतीत्य् आशंक्याह -- बहुलम् इ[143 . 14]ति । "कुत्यल्युटो बहुलम्" (पा. 3-3-113) इत्य् अस्माद् वचनाद् इत्य् अर्थः ।
विनाशं प्रत्यनपेक्षां [143 . 23] प्रतिपाद्ये [143 . 24]ति योज्यम् । अनपेक्षां विनंष्टुर् इत्य् अर्थात् । कथं प्रतिपाद्येत्य् आह -- तद् इ[143 . 23]ति । तद्धेत्वयोगेन विनाशहेत्वयोगेन । अयोग एव कुत इत्य् आह -- असामर्थ्ये [143 . 24]ति । पूर्वाचार्य शब्देनाचार्यदिग्नागो ऽभिप्रेतः ।
स्याद् एतत् तत्र खलु विपर्यये बाधकं प्रमाणम् उच्यते यत् साध्यविपर्यये हेतोर् वृत्ति(त्तिं) बाधमानं साध्यसाधनयोः प्रतिबन्धं साधयति । न तु यत् साक्षाद् एव साध्यं साधयति । इयं चानपेक्षा साक्षाद् एव क्षणक्षयितां कृतकानां सतां साधयितुं शक्तेति । 6 तथाहि ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियता यथान्त्या कारणसामग्री स्वकार्योत्पादने । विनाशं प्रत्यनपेक्षाश् चोदयान् अन्तरम् इमे कृतका भावा इति -- प्रयोगे कृते कृतकानाम् एषां क्षणिकता किं न प्रतीयते येन कृतकत्वाद्धेतोस् तत्सिद्धिः प्रार्थ्यते । तस्माद् अयं मौलो हेतुर् वैयर्थ्यम् आत्मनः पश्यन् नै(श्यन् ने)वं विपर्यये बाधकं प्रमाणं साध्यसिद्धौ सहायम् अपेक्षयितुं क्षणम् अपि न क्षमत इति । न वयंभट्टार्चटेन कृतकत्वस्य हेतोर् एवंरूपे वुपर्यये बाधकप्रमाणे प्रदर्शिते सति {प्. 368} चैवं गडुप्रवेशे ऽक्षितारानिर्गमकल्पिते यथाश्रुति सुश्लिष्टं किञ्चिद् वक्तुमीश्महे, केवलंवार्तिककार 8 स्य कृतकत्वहेतोर् व्याप्तिं समर्थयितुं पूर्वाचार्यैः कामनपेक्षां ब्रुवतोयम् अभिप्रायं (?) प्रकाशयितुं सहामहे । अनपेक्षशब्देन ह्य् अनपेक्षासूचितं बाधकम् अभिप्रेतम् । न त्व् एतदै(द् ए)व बाधकं प्रमाणम् । तथाहि कृतकत्वस्योदयानन्तरम् अविनाशित्वे सति विनाशं प्रति सापेक्षत्वं स्यात् । अन्यथा विनाशयोगात् । विनाशं [53ब्] 1 प्रत्यनपेक्षत्वं तद्धेतुयोगाद् अवगतं तस्य व्यापकम् ततस् तद्व्यापकं स्वविरुद्धविधिना विपक्षात् तद्भावानियतत्वाद् उदयानन्तरम् अविनाशित्वलक्षणात् निर्वतमानं स्वयम् अपि व्याप्यं कृतकत्वम् आदाय निवर्तत इति व्याप्तिसिद्धिः । ततश् च व्यापकविरुधोपलम्भात् कृतकस्य हेतोर् निवृत्तिर् इति व्यापकोपलब्धिवुपर्यये बाधकं प्रमाणम् -- एत 2 त् सुचनार्थम् अनपेक्षां (?) बाधकं प्रमाणम् अस्याभिमतम् । ये यद्भावं प्रत्यनपेक्षा इत्य् एतद् अपि यद्य् अनन्तरोक्तसूचनाद् बाधकं प्रमाणम् उच्यते, कामम् उच्यतां कः प्रतिकूलो ऽनुकूलम् आचरति । न तु जातु तद् एव बाधकं प्रमाणं वक्तुं युक्तम् स्वातन्त्र्येण क्षणिकत्वस्य तेन साधनात् । तद् उक्यमाचार्यशान्तरक्षितेन --
"तत्र ये कृतका भावाः सर्वे ते क्षणभङ्गिनः ।
विनाशं प्रति सर्वेषाम् अनपेक्षतयास्थितेः ॥
यद्भावं प्रति यन् नैव हेत्वन्तरम् अपेक्षते ।
तत् तत्र नियतं ज्ञेयं स्वहेतुभ्यस् तथोदयात् ।
निर्विबन्धा हि सामग्री स्वकार्योत्पादने यथा ।
विनाशं प्रति सर्वेपि निरपेक्षाश् च जन्मिनः ॥" (तत्त्वसं. 353-355) इत्यादि ।
ये पुनर् इमं दो 4 षम् उपदर्शितं प्रतिवद[158]न्तो यथाश्रुति बाधकं प्रमाणम् इदं समर्थयितुम् ईशते न तान् वयं[159]विद्मः प्रत्युतोपकारिण एव मन्यामह इति । तर्हि पूर्वाचार्यैर् अकृतकसतां क्षणिकत्वम् उक्तम्, तथा च नित्यत्वम् उर्पक्षेत(?)म् इत्य् आशंक्योपसंहारव्याजेनाह -- तद् एवम् इ[144 . 9]त्यादि । अहेतोः स्वभावादिनियमायो 5 गाद् इत्य् अभिप्रायेणाह कृ [160] तकत्वस्य सतो ऽभावाद् इ[144 . 9]ति ।
__________नोतेस्__________
[158] "बहन्तो" इत्य् अपि पठ्यते ।
[159] अत्र यदि "द्विष्मः" इति पाठः स्यात् तदा बाढं संगच्छेत् ।
[160] अकृतकस्य स् ।
सामान्येने त्य् अस्य स्पष्टीकरणं कृतके [144 . 25]ति तत्स्वभावसापेक्षत्वाद्धि [144 . 23]नाशिस्वभावसापेक्षत्वात् । विनाशिस्वभावसापेक्ष [161] णाद् इ [144 . 24]ति हेतुभावेन विशेषणम् । इति [144 . 25]र् हेतौ । {प्. 369} अ [162] नपेक्षाया [144 . 25] हेतुभूतायाः स्वतो नस्वतः स्व(नश्वरस्व)भावता तस्या प्र(अ)सि 6 द्धेः हेत्वन्तरव्यापारनिषेधमात्राभिप्रायेण स्व [163] तो [144 . 25] ग्रहणं द्रष्टव्यम् । अभिधानीयम् अभिधातुम् उचितम् इति मन्यमान [144 . 27] आचार्य इति प्रकरणात् । संभावनायां [145 . 4] न्यायबलायातायाम् इति द्रष्टव्यम् ।
__________नोतेस्__________
[161] सापेक्षाणाम् स् ।
[162] अनपेक्षया स् ।
[163] सतो स् ।
ननु सत्तायोगादितः सत्वम् अक्षणिकस्योपपत्स्यते तत् कथं शक्तिर् हि [145 . 18] -- इत्याद्य् उच्यमानं शोभत इ 7 त्य् आशंक्याह एवं मन्यत [145 . 20] इति । त्रिपदार्थसत्करीति सत्ता तैर् इष्यत इत्य् अभिप्रायेणाह -- सामान्यादी [145 . 22]ति । आदिशब्दात् विशेषसमवायपरिग्रहः । स्वरूपसत्त्वे च तेषाम् इष्यमाणे तद्वद् अन्येषाम् अपि किं [न] भवेत्? इतरेतराश्रयत्वे चैकासिद्धौ द्वयासिद्धिर् दोषः । तेषां [145 . 24] वन्ध्यासुतादीनाम् । तस्यैव सत्तायोग इत्य् अर्थसाम 8 र्थ्यम् एव भावलक्षणम् आयातम् इ[146 . 3]त्य् एष एव पाठः इति [146 . 2]शब्देन हेत्वभिधाने अर्थ्यत इत्य् अर्थो दाहपाकादिस् तत्र सामर्थ्यं तद् एव भावलक्षणम् आयातम् इति संगतत्वात् । तस्यैव सत्तायोग इत्य् अर्थ इति प्रमादपाठः । एवं हि सामर्थ्यम् एव भावलक्षणम् इत्य् अकारणम् उक्तं स्यात् के च(क्व च) तत्सामर्थ्यम् इति च नोक्तं भवेत् तस्मा[54अ] 1 द् इत्य् अध्याहृत्य व्याख्याने च क्लिष्टम् इष्टं स्याद् इति । अत्रैवोपपत्त्यन्तरं समुच्चिन्वन्न् आह -- इत्थं चे [146 . 3]ति अनेन वक्ष्यमाणेन प्रकारेण । एवम् अ[146 . 3]र्थसामर्थ्यभावलक्षणम् इति । तम् एव प्रकारं दर्शयन्न् आह अन्यथे [146 . 3]ति । अर्थसामर्थ्याद् अन्येन प्रकारेण ।
मीमांसकादीनां सत्त्वलक्षणम् अपास्यदिगम्बरस्यापि दूषयितुम् आह । उत्पादे [146 . 6]ति 2 । यद्य् एवम् आहुः:-
"घटमौलिसुवर्नार्थीं नाशोत्पादस्थितिष्व् अयम् ।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥" [आप्तमी. 59]
"न नाशेन विना शोको नोत्पादेन विना धृतिः ।
स्थित्या विना न माध्यस्थ्यं तस्माद् वस्तु त्रयात्मकम् ॥" इति ।
तथा
"प्रयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः ।
अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥" [आप्तमी. 60] इति ।
कथम् अयु 3 क्तम् इत्य् आह घ्रौव्येणे [146 . 7]ति । विरोधाद्धेतोर् एकस्मिन् धर्मिण्ययोगात् [146 . 7] । एषाम् इत्य् अर्थात् । अनेनासंभवितां लक्षणदोषम् आह -- यथोक्तं [146 . 10] यादृशम् उक्तं उत्पाद्व्ययघ्रौव्यात्मकं लक्षणं यस्य तत् तथोक्तम् । उत्पादव्ययघ्रौव्याणाम् {प्. 370} असत्त्वप्रसङ्गेनाव्यापितालक्षणदोषो द्रष्टव्यः न चासद्धिस् तैर् अन्यस्य योगो 4 युक्त इति । अन्यथा [146 . 12] स्वज्ञानजननम् अप्य् अयोग्यशक्तत्वोपगमे(म?)प्रकारेण(?) यदि हि सामान्याद् इति स्वज्ञानं जनयेत् तदार्थत्वेन व्यवस्थाप्येत नान्यथेति भावः । आदि [146 . 12]शब्देन द्रव्याव्यवस्थादिसंग्रहः ।
क्षणि [164] कत्व [146 . 27] इति सत् सप्तमीयम् । क्रमयौगपद्याभ्याम् इ[146 . 28]ति क्रमयौगपद्यकारित्वाभ्याम् इति द्र 5 ष्टव्यम् इतरथा कार्यधर्माभ्यामाभ्यां कारणधर्मः कार्यकारित्वं कथम् इव व्याप्येत । यथाचामू कार्यधर्मौ तथोपरिष्टाद्भट्टार्चटेन एव स्फुटयिष्यते ।
__________नोतेस्__________
[164] अक्षणिकत्वे स् ।
अर्थक्रियाकारित्वमात्रक्रमाक्रमकारित्वात्मकार्थक्रियाकारित्वविशेषयोश् चोभयव्याप्तिकत्वात्मकं सत्त्वं क्रमाक्रमकारित्वाभ्यां व्याप्तम् इ 6 त्य् उच्यते । अन्यथा सामान्येन विशेषो व्याप्यते । वृक्षत्वेनेव शिंशपात्वम् । न तु विशेषेण सामान्यं व्याप्यते । वृक्षत्वम् इव शिंशपात्वेनेति । कथम् इदम् उच्यमानं शोभेतेति । ततो [146 . 29] व्याप्यव्यापकभावात् कार्यकारणशक्तरूपव्यापकयोः क्रमाक्रमकारित्वयोर् निवृत्ते [147 . 1]र् निवृत्तत्वात् । त(क)दा निवृत्तिर् इत्य् अपेक्षायाम् आह अक्षणि 7 कत्व [147 . 2] इति अक्षणिकत्वे सति । तत्र एवाक्षणिकत्वाद् विपक्षान् निवृत्तेर् इति च सामर्थ्याद् अपादानं द्रष्टव्यम् । कथं तयोस् ततो निवृत्तिर् इत्य् आह -- विरोधाद् इ[147 . 1]ति । विरोधाद् इत्य् अनुपपत्तेर् इत्य् अर्थ, न तु शास्त्रनिर्दिष्टलक्षणयोर् विरोधयोर् अन्यतरविरोधवशाद् इति । "विरोधशब्देनायोगस्य विवक्षितत्वात् ततश् चाक्षणिकस्य क्रमयौगपद्याभ्याम् 8 अर्थ्क्रियासिद्धिम् अनुसरतासौगतेन[165]विरोध्य् अप्य् अक्षणिकः[166]प्रत्येतव्यो विरोधिप्रतिपत्तिनान्तरीयकत्वाद् विरोधसिद्धिर्[167]इति यदीरितंशङ्कराचार्येण तदपहस्तितम् । अयोगपक्षे ऽपि यावत् सम्भवं दूषणं प्रतिविधानं चास्माभिर्विशेषाख्यान एव विस्तरेणाभिहितम् इति तत एवापेक्षितव्यम् इति. अनेन च यस्य [न] क्रमाक्रमयोगो न त[54ब्] 1 स्य क्वचित् सामर्थ्यम्, यथाकाशकुशेशयस्य. अस्ति चाक्षणिके सति व्यापकानुपलम्भः सत्त्वहेतोः साध्यविपर्यये बाधकं प्रमाणं दर्शितं वेदितयम् । यथा चास्याश्रयासिद्धत्वदोषो न संभवति । अ(त)थास्माभिश्चतुःस(श)त्यांक्षणभङ्गसिद्धौविशेषाख्याने चाख्यातम् इति तत एवावगन्तव्यम् इति. विरुद्धयोः [147 . 3] सत्त्वासत्त्वयोः । ततो ऽक्षणिकत्वात् ।
__________नोतेस्__________
[165] सौगतेनएम्.(च्f. स्तेइन्केल्ल्नेर् 1963: 8 fरग्. 6) : सौगते ह्ब्टा
[166] विरोध्य् अप्य् अक्षणिकःएम्.(च्f. स्तेइन्केल्ल्नेर् 1963: 8 fरग्. 6) : विरोध्यस्य क्षणिकः ह्ब्ता
[167] विरोधसिद्धेरेम्.(च्f. स्तेइन्केल्ल्नेर् 1963: 8 fरग्. 6) : विरोधसिद्धिर् ह्ब्ता
2 क्रमयौगपद्याभ्याम् एवे [147 . 6]त्य् अत्र क्रमयौगपद्ये कार्यधर्माव् एव विवक्षिते । तेनायम् अर्थः -- कार्यम् अङ्कुरादिकं बीजादिना [147 . 6] केवलं वा क्रियेतान्यसहितं {प्. 371} चेति । कार्यजन्मनः [168][147 . 8] कार्योत्पत्तेः । विप्रकर्षिणां [147 . 10] स्वभावादिविप्रकर्षयुक्तानां ने [147 . 14]ति सिद्धान्ती । उभयथा [147 . 15] तस्य प्रकारान्तरस्य दृश्यत्वादृश्यत्वप्रकारेण । कार्यान्तरसाहित्यासाहित्यरूपे क्रम 3 यौगपद्ये विवृण्वता चानेन कार्यधर्मत्वं क्रमयौगपद्वयोर् व्यक्तम् उपदर्शितम् । अत एव क्रमयौगपद्याभ्यां कार्यक्रियाव्याप्तेत्य् अस्माभिर् व्याख्यातं तथा । तदुभयावस्थाविरहेपि [147 . 17] कार्यान्तरसहितासहितावस्थाभावेप्य् अङ्कुरादेर् इति प्रकरणात् । अन्यथाभवनं [147 . 18] प्रकारान्तरम् । भवत्व् एवं, ततः किम् आयात 4 म् इत्य् आह -- तस्य चे [147 . 18]ति । अनेन दृश्यात्मत्वं तस्य समर्थितम् । अस्तुं दृश्यानुपलम्भात् कस्मिंश्चिद् देशे काले च तस्याभावव्यवहारो ऽन्यस्मिन् पुनर् देशे काले चाप्रतिषेधात् कथं तत्र प्रकारान्तरस्याभावः सिद्ध्यतीति आशंक्याह । तस्य चे [147 . 23]त्यादि । अङ्कुरादिभावस्य अङ्कुराद्युत्पादस्य अवस्थाद्वयबहिर्भावनिषे 5 धे कार्यान्तरसहितासहितावस्थाबहिर्भावस् ताभ्यां प्रकारान्तरं तस्य निषेधे दृश्यानुपलम्भकृते सति ह्य् अनि(सति नि)षेध इत्य् आह -- कयोश्चिद् इ[147 . 24]ति । देशान्तरादौ ( 147 . 24 ) भावेपी [147 . 25]ति तस्याङ्कुरादेर् इति प्रकरणात् न काचित् क्षतिः [147 . 25] । किं भूते देशान्तरादाव् इत्य् आह क्रमेणेत्या [147 . 24]दि । इतरस्मिन् वा [147 . 24] युगपदङ्कुरादि 6 भाववति वा । एतच् च हेतुभावेन विशेषणम् । अयं चाशयो देशान्तरादिर् अप्य् एतद् देशान्तरवत् क्रमेन वा तद्भाववान् युगपद् वा भवितुम् अर्हति, तदुभयावस्थाबहिर्भावस्य निषिद्धत्वात् । सति चैवम् अदोष एवेति । न काचित् क्षतिर् इ[147 . 25]ति ब्रुवतश् चायम् अभिप्रायः -- कार्यस्य चैकत्रैकदावस्थाद्वयबहिर्भावो निषि 7 द्धो ऽन्यदापि तेन भवता प्रमाणपरिदृष्टात्मनैव भवितव्यम् अन्यथा तत् कथं देशान्तरादौ प्रकारान्तरम् आशंक्येति(क्येतेति) । प्रकरणम् उपसंहरन्न् आह त [ त ] [147 . 25] इति ।
__________नोतेस्__________
[168] कार्यात्मनः स्
ननु संप्रत्येवोक्तः स्वभावानुपलम्भ एवेत्यादि तत् कथम् इदानीम् उच्यते प्रत्यक्ष [147 . 25] इत्यादीति चेत् । नैष दोषः पूर्वं हि मूढं प्रतिपत्तारं प्रति तथोक्तम् अधुना पुनर् अमूढं प्रती 8 ति को व्याघातः ।
क्रमयौगपद्ययोर् इ[148 . 1]ति क्रमाक्रमयोर् इत्य् अर्थः सकृतप्रत्युपलक्षणेन यौगपद्यशब्देनाक्रमस्यैव विवक्षितत्वात् अन्यथान्यो ऽन्यव्यवच्छेदरूपता दुरुपपादापद्यते ततः सर्वत्रैवाक्रमार्थी(र्थो) यौगपाद्यार्थः । अत एवास्माभिर् अक्रमशब्देन यौगपद्यमनूदितम् इति । तस्य [148 . 3] प्रकारान्तरस्य प्रतिषेधः । [55अ] 1 उभयनिषेधात्मकम् एव प्रकारान्तरं किं {प्. 372} न भवति येनैकनिषेधनापरविधानात् तस्य निषेधो भवतीत्य् आह -- विधिप्रतिषेधयोर् इ[148 . 4]ति । अयम् अभिप्रायः -- क्रमो न भवतीति अयम् एवाक्रमविधिः । सोपि न भवतीति तदैव तस्य निषेधः अनयोश् चैकाधिकरणयोर् एककालिकयोर् विरोधस् तस्मात् तथाभूतस्या...ं...व इति । तस्याप्रतिषेध [148 . 3] 2 इति त्व् अपाठ एअ । कारणम् अपि कारणापेक्षया कार्यम् एवेति कारणग्रहणम्, न तु कारणत्वेनास्योपयोगो ऽत्र कश्चित् । कर्य एव प्रकारान्तरासंभवस्य चिन्त्यत्वात्; यद् वा कारणेन क्रियमाणे कार्य इति ज्ञापनार्थं कारणग्रहणं वास्तवं रूप(वरू)पानुबादकं प्रतिषेधस्य यद्विरुद्धं तस्योपलब्धिर् इत्य् आशंका एतद् एवोपपादयन्न् आह व्यवच्छिद्य 3 माने [148 . 10]ति । इतरस्य व्यवस्थानम् इ[148 . 10]ति तथव्यवच्छिद्यमानप्रकाराद् इतरव्यवस्थानम् इति तथा ।[169] सम्भवं हेतोः [148 . 15] सद्भा वम् इति प्रकरणात् । संभवग्रहनं चोपलक्षणं तेन पूर्वसिद्धां च व्याप्तिं प्रदर्श्येत्य् अपि द्रष्टव्यम् । विरोधसाधनम् एवा [148 . 15]र्थात् प्राक्प्रवृत्तम् इत्य् अवसेयम् । बाधकम् इत्य् अस्याविरुद्धोपलब्धेः साध्यवि 4 पर्यये बाधकं [148 . 15] प्रमाणम् उच्यत इति चाध्याहार्या(र्य)क्रियापेक्षयायं क्त्वाप्रत्ययः कार्यो ऽन्यथा कां क्रियाम् अपेक्ष्येयं पूर्वकाला प्रदर्शनक्रिया प्रदर्शयितव्या यत्रायं भवेत्, यथाश्रुति भिन्नकर्तृकायां च क्रियायाम् अयं प्रसज्येत पुरुषसम्बधित्वात् प्रदर्शनस्येति । विरुद्धमात्राभिप्रायेण शीतोष्णस्पर्शयोर् इ[148 . 16]त्य् उदाहरति ।
__________नोतेस्__________
[169] सद्भावं स्
ननु क्रमाक्रमाभ्यां कार्यं कामं व्याप्यतां तथाप्य् अक्षणिकः क्रमेणाक्रमेण वा कार्यं करिष्यति । सति चैवं व्यापकानुपलम्भो ऽसिद्ध इत्य् आशंक्याह -- तत्रेति [148 . 18] । अविशेषात् [148 . 18] पूर्वरूपाविशेषात् । एतद् एव दृष्टान्तव्याजेन व्यनक्ति अकारकावस्थायाम् इवे [148 . 18]ति । अपेक्षितसहकारिप्रत्ययः स 6 न्करोति नान्यदेत्य् आह -- सहकार्यपेक्षा चे [148 . 19]ति । अनुपन्यसनीये [148 . 20]ति च सम्बन्धः; कुत इत्य् आह द्विविधस्यापी [148 . 19]ति । अथ यथा भिन्नदेशानेककार्यकारित्वम् एकस्य स्वहेतु(तो)स् तथोत्पादाद् उपपद्यते तद्धि(तद्वद्भि)न्नकालानेककार्यकरणम् उपपत्स्यते तत् कुतः क्रमकारित्वानुपपत्तिर् अक्षणिकस्येति चेति(चेत्) । तद् एतच्च 7 तुःस(श)त्यां क्षणभङ्गसिद्धाव् अस्माभिः सूक्तं प्रत्युक्तम् इति तत एवानुगन्तव्यम् ।
ननु कारणलक्षणस्य क्रमस्य क्षणिकपक्षेप्य् अनुपपत्तेः समानो दोष इति चेद् एतद् अपि तत्रैव निर्णितम् इति नेहोच्यत इति । सर्वेषां [148 . 20] चेति द्वितीयादिक्षणभाविनाम् इत्य् अवसेयम् । एकक्रियाकाल एव [148 . 20] प्रथम क्षणक्रियाकाल {प्. 373} एव । तत्कारण [ क ] स्य 8 [148 . 21] द्वितीयादिक्षणभावित्वेनाभिमतकार्यकारकस्य तदै कक्रियाकले, एव [148 . 20]कारो भावाद् इत्य् अस्मात् परो द्रष्टव्यः । अनेन च यद् यदा यज्जनसमर्थं तत् तदा जनयत्य् एव यथा अन्त्या कारणसामग्री । द्वितीयादिक्षणभावित्वेनाभिमतकार्यजनस्वरूपश् चाक्षणिकः प्रथमक्षण इति स्वभावहेतुप्रसङ्गं सूचयति । नापि युगपत् [148 . 21] । "[55ब्] 1 अक्षणिकः कार्याणि करोती"[148 . 18]त्य् अभिसम्बध्यते । येन स्वभावेन तत्कार्यमजीजनत् तस्य स्वरूपस्यानुवृत्तेर् इत्य् अभिप्रेत्य पुनस् [170] तत्करणप्रसङ्गाच् चे [148 . 22]त्य् आह । अनेनापि समुदाये यज्जननसमर्थं तत् तदा त तज्जनयत्य् एव यथान्त्यः कारणकलापः । कृतकत्वेनाभिमतकार्यकरणरूपश् चाक्षणिको द्वितीयादिक्षण इति स्वभावहेतुप्रसङ्गम् ए 2 व दर्शयति । अनयोश् च प्रसङ्गहेत्वोर् उपदर्शितयोर् अर्थादुन्नीयमानयोश् च प्रसङ्गविपर्यययोर् यावत् संभवं दूषणं तदुद्धरणं चास्माभिर्विशेषख्याने समीचीनं निरूपितम् इति तत एवावगन्तव्यम् इति । अकारकरूपाविशेषाद् [148 . 23] इदानीं यद् अकारकरूपम् अस्य तस्माद् अविशेषाद् इत्य् अर्थो ऽवसातव्यः । भेदप्रसङ्गः [148 . 25] शक्ताशक्तयो 3 रूपयोर् इत्य् अर्थात् । अत्रैवोपपत्त्यन्तरम् उपचिन्वन्न् आह नित्यश् चे [148 . 25]ति ।[171](पूर्वोत्तरकालभावा च उपपत्त्योर् भेदो ऽवसेयः पूर्वकालहेतुर् अकाले च) एकदा [128 . 28] एकस्मिन्न् एव क्षणात्मनि काले सर्वस्य कर्तव्यस्य् ऐकदा [148 . 29] एव कृतत्वाद् अर्थक्रियाकारित्वाभावाद् असत्त्वं स्यात् । इति [149 . 1]र् हेतौ । प्रकरणम् उपसंहरन्न् आह एव [149 . 2]म् इति ।
__________नोतेस्__________
[170] पुनस् तत्क्रियाप्रसङ्गात् स् ।
[171] कोष्ठकान्तर्गतः पाठः असम्बद्धो भाति ।
आर्य 4 ज्ञानं तन्वंतीति आयतना नि । चक्षुरादीनि [149 . 3] च तान्य् आयतनानि चेति तथा । अन्तर्व्याप्तिवादिनोप्य् अस्य मते प्रमाणसिद्धस्यैव धर्मित्वं वाच्यम् अन्यथान्तर्व्याप्तिर् असमर्थिता स्यात् । ततश् चक्षुराद्यायतनानाम् अमीषां प्रमाणसिद्धानाम् इति द्रष्टव्यम् ।
स्याद् एतद् यत् सत् तत्क्षणिकम् एवेति नियतं क्षणिकत्वं साधयितुं किल स 5 त्त्वाख्यो हेतुर् उपदीयते । अयं चाखिलं वस्तु नाक्षणिकं नापि क्षणिकम् इति साधयन् साध्यविपर्ययसाधानाद् विरुद्ध एव । तथा चावादीद्वादन्याये स्याद् वादकेशरी-- "अखिलस्य वस्तुनो ऽनेकान्तिकत्वं सत्त्वात् । अन्यथार्थक्रिया कुतः" -- इति । एतच् च व्याचक्षाणेन कुलभूषणेन टीकाकृता एवं व्याख्यातम् उप 6 पादितञ् च -- " अखिलं चराचरं सूक्ष्मव्यवहितविप्रकृष्टं वस्तु धर्मित्वेनोपात्तम् । अन्तो धर्मो नैको ऽनेको ऽन्त आत्मा स्वरूपं यस्य तद्भावस् तत्त्वम् -- अयं साध्यो धर्मः सत्त्वाद् इति हेतुः । अन्यथा नेकात्मकत्वाभावप्रकारेण -- {प्. 374} अर्थक्रिया कार्यं सं(र्यसं)पादनं कुतो न कुतश्चित् । अनेनान्यथानुपपत्तेर् विपर्यये बाधकं प्रमाणं समर्थकं दर्शितम् --
"अन्यथानुपपन्नत्वं यस्यासौ हेतुर् इष्यते ।
दृष्टान्तौ द्वावपिस्तां वा (?) याचातौ हि न कारणम् ॥" इति न्यायात् ।
तन् न तावद् अक्षणिको भावः कार्यं कऋतुं शक्नोति । तस्य क्रमयौगपद्याभ्याम् अर्थक्रियाविरोतचत(राधात्) नापि क्षणिको भावः कार्यं कर्तुं प्रभवति । तथाहि किं क्षणिको भावः स्वसत्ताकाले कार्यकरणस्व 8 भावो ऽथान्यदा । यदि प्रथमविकल्पस् तदा तदैव कुर्यात् । स्वसत्ताक्षणे च कार्यकृतौ सर्वं जगदेकक्षणवर्ति प्राप्नोति । तथाहि कारणं स्वसत्ताक्षण एव यत् कार्यम् अकृत तद् अप्य् अन्यस्य कारणम् इति तद् अपि तदैव स्वकार्यं कुर्यात् । तद् अपि कारणम् अन्यस्येति तद् अपि तदैव कुर्याद् एवम् उत्तरेष्व् अप्य् अयम् एव न्याय इति । सत्यम्, का[56अ] 1 रणं स्वसत्ताक्षण एव कार्यङ्करोति, तत्करणस्वभावत्वात्, केवलं कार्यम् अन्यदोत्पद्यत इति चेत् । तर्हि कार्यम् अपि तदैवोत्पद्येतान्यद तत्कालं परिहृत्य कार्योत्पत्तिर् विरुध्येत[172]उत्पत्ताविष्यमाणां(णायां) वा समनन्तरोत्पादविरोधः । तथाहि तत्करणसमर्थस्यापि कालम् उज्जित्वा जायमानस्य कार्यस्य कारणकृतोपकारपराङ्मुख 2 स्य यो ऽयं समनन्तरनियम एतद्विनाशानन्तरम् एवेदम् अस्य कार्यम् इति तस्यानुपपत्तिः । सोयं कारणविनाशो विरूपाख्यो ऽकिङ्चित्करस् तथापि यदि तत्समनन्तरनियमः कार्यस्य स्यात् तदा नित्यस्यापि कारणत्वम् अप्रतिहतं स्यात् । तथाहि यथा स्वसत्तालक्षण एव कार्यकरणस्वभावे क्षणिके भावे सत्य् अपि न तदैव 3 कार्याण्य् उत्पद्यन्ते अपि तु कालान्तरे, तथा नित्येपि भावे सर्वदा तत्करणसमर्थे ऽपि कार्याण्य् एव विलम्ब्य विलम्ब्योत्पद्यन्त इति किं न समानम् । न च द्वितीये क्षणे निर्व्यापारतया सदसतोर् अक्षणिकक्षनिकयोः कश्चिद् विशेष इति ।"
__________नोतेस्__________
[172] अत्र प्राक्तनं "अन्यदा" पदं समाकृष्य अन्यदोत्पत्तौ इष्यमाणायाम् इत्य् अर्थः कर्तव्यः ।
यदिनामाह्रीकोक्तिर् उपेक्षणीया प्रेक्षावतां तथापि किञ्चिद् उच्यते । 4 इह खलु कार्यकारित्वं वस्तूनां न व्यापारसमावेशात् उत्पादातिरोकिणो व्यापारस्यानुपपत्तेः, नापि कार्येण सहोत्पादः, सव्येतरविषाणयोर् इव सहभुवोर् अन्यतरकारित्वानुपपत्तेः ।
"असतः प्रागसामर्थ्यात् पश्चाच् चानुपयोगतः ।"
इति न्यायात् । किं तर्हि किञ्चिद् अनन्तरं सत्तयाभि 5 सम्बध्यमानं प्रति नियतप्राग्भावित्वम् एव, कार्यस्यापि नियमेन तदनन्तरभावित्वम् एव तज्जन्यत्वम् । सति चैवं स्वसत्ताकाले कार्यकरणस्वभावो भाव इति को ऽर्थः? तत्सत्ताकालं पूर्वं कृत्वा कार्यं सत्तयाभिसंबध्यत इति । तथा स्वलक्षण(स्वक्षण) एव करोतीत्य् अस्यापि को ऽर्थः? अनन्तरभाविकार्या 6 त् पूर्वं सद्भवति {प्. 375} कारणम् इति । तद् उक्तं "भूतिर्यैव क्रिया सैव" इत्यादि । इत्थं चैकप्रहारनिय(ह)तम् एव तत्सर्वंदिगम्बरेरितम् । ततश् च क्षणिकस्यैवार्थक्रियोत्पत्तेः सत्त्वं क्षणिकत्वम् एव साधयद् विरुद्धम् आचक्षाणाःक्षपणाअनेकान्तत्वे च साध्ये साधनम् इदम् उपनयन्तः स्फुटमहीकावेति(महीका एवेति) 7 उपेक्षाम् एव प्रे...वितामर्हन्तीति ।
स्वभावहेतुं व्याख्याय कार्यहेतुं व्याख्यातुकामोवार्तिककारस्य कार्यहेत्वभिधानस्य निमित्तम् दर्शयन् पूर्वापरयोः संगतिं तद् एवम् इ[150 . 3]त्यादिना करोति । तद्गतं [150 . 5] कार्यहेत्वाश्रितम् । कस्मात् पुनः स्वभावहेतुवद् अप्य् अस्यान्वयव्यतिरेकाव् एव न प्रतिपाद्येते, येन तद्गता 8 परभ्रान्तिकारणोपादानर्थम् एव कार्यहेतुविषयो[प]दर्शनं वर्ण्येत इति आशंक्य कार्यहेताव् इ[150 . 4]त्यादि योज्यम् । तयोर् अ[150 . 4]न्वयव्यतिरेकयोः । तर्हि कार्यकारणभावसिद्धिर् एतद्दर्शनीया ततश् च तां दर्शयितुम् इति किं नोच्यत इत्य् अपेक्षायां तस्याश् चे [150 . 5]ति योज्यम् । तस्याः कार्यकारणभावसिद्धेः । हेतोः प्रत्यासन्नत्वात् [56ब्] 1 हेतोर् व्यतिरिक्त [150 . 7] इत्य् आचष्टे । कार्यं [150 . 7] कार्यम् एवेति विवक्षितं । "त्रिधैव स" इति नियमस्य पूर्वं प्रतिपादितत्वात् अत एव कस्मात् कार्यम् एवे [150 . 8]ति पश्चाच् चोदयिष्यते । अनर्थान्तरे व्यावृत्तिभेदात् परिकल्पितव्यावृत्त्यन्तररूपं धर्मान्तरे । असाधारणं कार्यं [150 . 9] ।
दिङ्[173]नागेन[174](सर्वव्यक्तिष्व् अनुपग(ष्व् अनुग)तप्रत्ययप्रसूतिः?) ।
__________नोतेस्__________
[173] "आचार्येण" [150.13] इत्य् अस्य विवरणं दिग्नागेन इति भाति ।
[174] "सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूति?" इदं शंकाचिह्ञितं पदं नात्रत्यं किंतु अग्रेतनं भाति । तच् च "अग्नेर् इति" इत्य् अस्य अनन्तरं यदि स्यात् तदा संगच्चेतापि । तत्रापि सामान्यपदं गच्छितं भाति । तथा च सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूतिः सामान्यं इत्य् अर्थः स्यात् ।
सर्वथा तद्भावम् एव प्रतिपादयन्न् आह 2 -- अग्नेर् इ[150 . 17]ति । अस्याश्रितत्वाद् अग्नेः अग्नित्वं सर्वाग्निव्यापनाद् अनुगतप्रत्ययहेतुत्वविवक्षयैव सामान्यधर्मा अपि गमकाभिप्रेतास् त इव । तार्णत्वादेः सर्वाग्न्यव्यापनाद् व्यावृत्तप्रत्ययहेतुत्वा(त्व)विवक्षया विशेषधर्मत्वं विवक्षितम्, न तु सर्वथा सामान्यरूपत्वम् अस्य निराचिकीर्षितम् सर्वतार्णादिवह्निष्व् अनुगतप्रत्ययप्रसूति 3 हेतुत्वात्, सामान्यरूपस्य चात्राव्याघातात्, अन्यथा तार्णवह्न्यादिजन्यरूपतयावधारितात् धूमान्वयता(मान् न वह्निता)र्णाद्यनुमानं स्यात् विशेषरूपस्याव्यापकतया अननुमेयत्वात् । तेपि विशेषधर्मा गम्याः स्युः, इष्यन्ते चाग्नेः सामान्यधर्मा एवाग्नित्वद्रव्यत्वसत्त्वज्ञेयत्वादयो गम्या इति भावः । धूमस्यापि विशेषधर्मवत्सामान्यधर्मा गमकाः स्युः न चेष्यन्ते सत्त्वज्ञेयत्वापार्थिवत्वादयो गमका इति भावः । को ऽसौ धूमाश्रितो विशेषधर्मो {प्. 376} दृष्टान्तीकृत इति चेद् एवं धूमत्वपाण्डुत्वादिभिर् इ[150 . 23]त्य् अत्र धूमत्वादि निरूपयिष्यंतो निर्देक्ष्यामः ।
ननु कार्यत्वस्य तद्भावाख्यैकसम्बन्धवशाद् गमकत्वं तत् कथं "सर्वथा 5 जन्यजनकभावाद्" इत्य् उच्यत इत्य् आशंक्याह जन्ये [150 . 20]ति । सर्वथा जन्यजनकभावम् एव प्रतिपादयन्न् आह तथाही [150 . 21]ति । पूर्वोक्तेन प्रकारेणाग्नित्वादीनां सामान्यधर्मत्वं ज्ञेयम् । सर्वं चैतद्धर्मभेदपरिकल्पनयोच्यते । तृणे भवो वह्निस् तार्णः [150 . 22] । पर्णे भवः पार्णः [150 . 23] । भावप्रधानश् चैव निर्देशस् तेन तार्णत्वादिभिर् इत्य् अर्थः ।
ननु यथाग्नित्वं सकलाग्निव्यापनेनानुगतप्रत्ययहेतुत्वात् सामान्यधर्म उच्यते तथा धूमत्वम् अपि सामान्यधर्म एव । यथा च द्रव्यत्वादयो ऽग्न्यनग्निसाधारणत्वाद् अनुगतबुद्धिनिबन्धनत्वेन सामान्यधर्मास् तथा पाण्डुत्वम् अपि धूमनीहारादिगमनाद् अनुगतज्ञानकारणत्वाच् च सामान्यधर्म 7 एव तत् कथममू विशेषणे धर्मित्वेनोदाहरणीकृते इति । साधूक्तं भवति(ता) केवलं बोधे यत्नः करणीयः । इह खलु सर्वधूमव्यक्तिव्याप्यनुगतप्रत्ययहेतुधूमत्वम् एव सामान्यविशेषो विजातीयाद् व्यावृत्तप्रत्ययपुरस्कारेण विशेषधर्मो विवक्षित इत्यादिचोद्यम् अपोदितम् । एवं सत्य् अग्नित्वम् अपि विशेषधर्म इत्य् अग्ने 8 र् विशेषधर्मस्यापि गम्यत्वम् आयातम् इति चेत् । तथाविधस्य विशेषधर्मस्य गम्यत्वेनेष्टत्वान् न कश्चिद् दोष इति । अवान्तरविशेषस्य तु तार्णत्वादेर् गम्यत्वम् दूममात्रस्य तदप्रतिबन्धान् निषिध्यत इति किम् अवद्यम् । धूमस्य विजातीयासाधारणधर्मवाचकश् च पाण्डुशब्दो ऽस्ति योनेनोपात्त इति द्वितीयम् अपि चोद्यम् अपोद्यते । स [57अ] 1 चैतच्छब्दाभिलाप्यो धर्मो दुर्ज्ञान इत्य् अग्निर् अत्र पाण्डुत्वाद् इति नोच्यत इति सर्वम् अवदातम् ।
स्वभावैवध [151 . 8](वैर् ध)र्मैर् इत्य् अर्थः । अपरोर्थ [151 . 13] इति । यावद्भिर् अविनाभाविकारणस्य बाह्यैकदेशस्यान्यो ऽर्थो न तु समुदायग्रन्थस्यामुमर्थम् अन्तरेण पूर्वार्थमात्रेण वाक्यस्यासंगतत्वात् । संबध्यत [151 . 11] इति तत् कार्यं तेषां हेतुर् इ[151 . 15]ति सम्बन्धः कार्य इत्य् अर्थो न 2 तु पूर्वव्याख्यानोक्तम् अत्रापि व्याख्याने ऽभिसम्बध्यत इति बोद्धव्यम् । पूर्वव्याख्याने तेषां स्वगतानां धूमत्वादीनां हेतुर् इति प्राप्ताव् अर्थां सं(व् अर्थासं)गतेर् एव संबन्धनीयत्वाद् इति । तेषां इति कारणगतानां धर्माणां हेतुस् तत्कार्यम् इति पूर्वोक्तम् अभिसंबध्यते । कैः स्वभावैर् हेतुर् इत्य् अत्र गजनिमीलिकैव कृता एतद् एनुसन्धानेन न 3 त्व् अनन्तरं वाक्यं भविष्यति । केचित् पुनर् अत्रैवम् आहुः -- उक्ते सति नियतम् एतद् व्याख्येयं नान्यथा । सति चैवं पूर्वव्याख्यानस्य क्वोपयोगः । तस्माद् यतस् तदुत्पत्तिनियमाभावे सर्वथा जन्यजनका(क)भावो व्यवस्थापयितुम् अयुक्तस् तस्माद् यावद्भिः कारणे {प्. 377} व्यवस्थितैर् धर्मैर् विना तत्कार्यं न भवति ताव 4 तां हेतुर् नान्येषां तत्कार्यत्वनियमाद् इत्य् एवं व्याख्यातुम् उचितम् इति । अत्र तु समाधानम् अत्राभियुक्तैर् एव दातव्यम् इति ।
पूर्वव्याख्यानस्य पश्चाद्व्याख्याततया पश्चाद्भवेन पाश्चात् येनार्थेन [151 . 20] कारणाश्रितानां तावतां हेतुर् इत्य् अनेन कारणगतम् अंशम् इ[151 . 20]वांशं धर्मं निरूप्य साध्यत्वेन निश्चित्य पश्चाद् 5 व्याख्याताद् अर्थात् प्राग्व्याख्यातत्वेन प्राग्भवेन प्राक्तनेनार्थेन "यावद्भिर् धूमत्वादिभिः स्वगतैर्" इत्य् अनेन कार्यगतमशं धर्मं निरूपय [151 . 20]न् प्रकरणाद् गमकतया निश्चिन्वन् । पूर्ववत् पाण्डुत्व [151 . 23]म् अनयोः विशेषरूपत्वं च प्रत्येयम् । परेषाम् उ[152 . 8]भयत्राविशिष्टरूपसंयोगवशाद् गम्यगमकभावम् इ 6 च्छताम् इत्य् अभिप्रायः । ग्रहीतुं [152 . 20] निश्चेतुम् । धूमत्वं विशेषणं यस्य तेन धूमत्वाद् इति विशेषणे तु द्रव्यत्वादौ हेतुतयोपनीयमाने समर्थविशेषत्वेनासाधनाङ्गवचनात् कथम् एव क्ष्मादीनि गृह्यत इतिभट्टार्चटेणापि शङ्कितम् न च परिहृतम् इति किम् अस्माकम् अत्र परिश्रमेणधर्मोत्तरादेर् ए 7 व तु तदवसेयम् इति ।
यथाइव जन्यजनकभावस् तथैव किं न गम्यगमकभाव इत्य् आह नही [152 . 25]ति । वस्तुवृत्त्यपेक्षयैव कस्मान् न तथात्वम् किं पुनर् निश्चयापेक्ष इत्य् आह -- तथाही [152 . 26]ति ।
ननु भवो भवतो यस्माद् भावशंकायां नान्वयव्यतिरेकाव् इत्य् उक्ते ततो ऽभाव उच्यमानः कथं शोभत इत्य् आशंक्याह एवं मन्यत [154 . 12] इति । शक्रमूर्द्धा [154 . 28] वल्मीकः 8 इति ।
मन्यमान आह -- सर्वः [155 . 13] तथाविधजन्मे [155 . 15]ति कुत [155 . 17] इति द्रष्टव्यम् ।
ननु उक्तम् एव तदुत्पन्नम् एव कार्यं कारणम् अपेक्षते न तु तादृशातादृशतायां ततस् तयोर् हेतुनिरपेक्षयोर् इष्टत्वाद् एव किम् अनेनोक्तेनेत्य् आशंक्याहेतुकत्वे सर्वत्रैवोत्पत्तरितयो (?) विशेषेणभावः स्याद् इति इत्यादिदूषणम् उत्पत्स्येव (?) कारणनिरपेक्षत्व[57ब्] 1 म् एव तयोर् असहमान आह नही [159 . 4]ति । तदपेक्षा इत्य् अपेक्षा ।
अपराजितशब्देन यो लताविशेष उच्यते स सूर्यशब्दाभिधेयो ऽवसेयः । इतर [161 . 24] शब्देन लताचम्पको वृक्षचम्पकसमानाकारो देशविशेषभवो वक्तव्यो न तु भूमिचम्पक इति यस्य रूढिः तस्य वृक्षचम्पकेन सहाकारसाम्यस्यैवाभात् ।
क्षणभेदा (धानं[175]कुतश्चिद् रूपात् कथंचित् तेन सहैकप्रत्यवमर्शजनना) श्रयत्वेनैव सूक्ष्मावान्तरजातिभेदे [162 . 18] । जातिभेदे कथम् एकसंतानव्यवस्थेत्य् आह -- {प्. 378} सर्वे [162 . 20]ति । यद्य् एकाकारप्रत्ययनैवनुनैव्यप्रत्यय(निबन्धनै)कसन्तानव्यवस्था तदान्यस्य सो(स्वो)पादानेन सहैकसंतानव्यवस्था न स्यात् सा चावश्यवाच्यान्यथा स्वसन्ततिपतितकार्यजनकत्वेन या तस्योपादनत्वेनाभिमतस्योपादानव्यवस्था सा न स्याद् इत्य् अ 2 भिप्रायवान् परश् चोदयति आद्यस्ये [162 . 22]ति । जात्यनुविधानं कुतचि(श्चि)द् रूपात् कथञ्चित् तेन सहैकप्रत्यवमर्षजननम् । तथाही [162 . 23]त्यादिनैतद् एव समर्थयते । अगुरुजातिभेदानुकरणं तद्धूमस्यागुरुगन्धसहचारितया प्रत्यवमर्षजनकत्वम् । अनुकुर्वन्त्येवेति वर्तते तद्धूमाः [162 . 24] तद्वर्तिंधूमाः । 4 तद्भेदानुकरणम् एषां कुतो ज्ञायते इत्य् आह -- तद्रू [176] पे [162 . 25]ति । यस्माद् इन्धनेन सह धूमस्य केनचिद् रूपेण एकाकारपरामर्शजनकतयैकसंतति [व्यवस्थानाद् येन (?)] तस्मात् इन्धनम् एवेति स्थूलेनायं व्यपदेशो वस्तुतस् तु तद्गतार्द्रसन्तानविशेषस् तस्योपादानकारणं ज्ञेयं सन्ता 5 नस् तु तस्याङ्गारादेः । यथा चैतत् तथाधर्मोत्तरेण विनिश्चयटीकायां निर्णीतम् इति तत एवापेक्षितव्यम् । प्रसज्यते प्रतिपाद्यत इति प्रसङ्गो ऽतिशयितः प्रसङ्गो ऽतिप्रसङ्गस् तेनालम् अ[163 . 4]तिविस्तरेणेत्य् अर्थो ऽत्र द्रष्टव्यः ।
__________नोतेस्__________
[175] कोष्ठकगतः पाठः प्रत्यन्तरे दृश्यते स च न सम्यग् भाति ।
[176] दुर्वेकानुरोधेन "तद्रूपरसवीर्य" इत्यादि पाठः स्यात् ।
तस्य [163 . 6] कार्यभेदस्यातादृशत्वलक्षणस्याभावात् । तस्येति भेदस्य तस्मिन् स 6 त्य् अजायमानस्यापि कथम् अहेतुत्वम् इति पार्श्वस्थवचनम् आशंक्याह नही [163 . 9]ति । असत्य् अभेदे [163 . 11] प्रकरणाद् असति सामग्र्यभेद इत्य् अर्थः । कुतः पुनर् असत्य् अभेदे जात इत्य् अपेक्षायां योज्यं सामग्र्योर् इ[163 . 11]ति । हेतौ [163 . 12] सामग्र्योर् भेदे ऽन्यादृशत्वलक्षणे सत्य् अभवतो भेदस्य तथा तद्वत् हेतौ [163 . 12] सामग्र्यभेदलक्षणे ऽसत्य् अपि भवतो भेदस्येति प्रकरणात् । अभेदस् तादृशत्वम् एकजातीयत्वम् इति यावत् तस्य निबन्धनत्वात् [163 . 14] शालिकोद्रवादौ भेदस्य भावात् कथं न क्वचित् पदानुबन्ध इत्य् आह शाली [163 . 15]ति । तद्धेत्वोर् अभेदहतुत्वात् तयोर् अप्य् अभेदेनैव भवितव्यम् इति तद् अपि पक्षीकृतम् एवेति भावः । हेतुभेदे ऽपि 8 शालिकोद्रवादेर् न तत्कु(कृ)तो भेदो ऽन्यादृशत्वम् अपि त्व् एवम् एवेत्य् आह -- निमित्तम् अन्तरेणे [163 . 13]ति । कल्पनायां भेदकल्पनायां विशेषाभावान् निर्मित्तत्वेन विशेषाभावात् [163 . 16] शाल्यन्तरे ऽपि किं न कल्प्यत इति शेषः प्रकरण लंभ्यम् वा । यद् वा न हेत्वभेदो ऽभेदस्य निबन्धनम् । नापि हेतुभेदः कित्व् एवम् एवाभेदो भविष्यतीत्य् आ[58अ] 1 ह -- निमित्तम् इ[163 . 16]ति । कल्पनायाम् अभेदकल्पनायाम् । विशेषाभावाच् छालिकोद्रवयोर् अपि भे(अभे)दः किं न कल्प्यत इति पूर्ववत् ।
स्याद् एतत् प्रतिभासनियमनिबन्धनोयम् अभेदो नान्यनिबन्धनस् तत् किम् एवम् उच्यते इत्य् आह प्रतिभासे [163 . 16]ति । प्रतिभासस्य भेदस् तादृशत्वम् । तस्य स(भ्रा)न्तिनिमित्ताद् {प्. 369} आ[163 . 17]कारसाम्यादेः परमार्थतो भेदे ऽप्य् अतादृ 2 शत्वेप्य् उपलक्षणाद् दर्शनानैवम् इति द्रष्तव्यम् । एवम् उपलक्षणत्वाद् अस्य भेदविचारावसरे ऽपि प्रतिभासभेदाद् भेद इति पूर्वपक्षे प्रतिभासभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो ऽभेदेप्य् उपलक्षणाद् इति वक्तव्यम् । उभयत्रापि तु यदि प्रतिभासभेदाभेदाव् अप्य् अपरप्रतिभासभेदाभेदनिबन्धनौ तत्रापि तत्प्रत्यनवस्था तस्माद् आ 3 द्ययोर् अपि तथात्वं व्यवस्थापयितुं न शक्यत इति दोषो दर्शयितव्यः तयोः [163 . 21] भेदाभेदयोः । तस्य [163 . 22] स्वंभावस्य । ताभ्यां [163 . 22] भेदाभेदाभ्याम् । तेभ्यां भावस्वभावभेदाभेदेभ्यो ऽन्यः स चासौ सम्बन्धश् चेति तथा तस्य कल्पना [163 . 23] तस्याम् । सोपि तेषां कुत इत्य् आकांक्षायां सम्बन्धाङ्गीकरणं तत्रापि तत्पर्यनुयोगे तद् ए 4 वोत्तरम् इत्य् अनवस्था । स्वात्मन्य् एवावस्थानाद् इ[163 . 24]ति ब्रुवतो ऽयं भावो यदि भावस्वभावे तयोर् अनुप्रवेशस् तदा स एवावतिष्ठेत न तु तौ । अथ तयोस् तस्यानुप्रवेशस् तर्हि ताव् अवतिष्ठेयातां न त्व् असाव् इति । पुनर् भेदपक्ष एव दोषान्तरं समुच्चिन्वन्न् आह अनुपकाराच् चे [163 . 25]ति । यौ भेदाभेदौ तादृशत्वाता 5 दृशत्वलक्षणाव् असौ प्रतिपद्यते ताव् अपि यदि भिन्नौ [164 . 1] ततो व्यतिरिक्तौ । तादवस्था (तदबस्थः) [164 . 2] न भिन्नं नाप्य् अभिन्नं यत् तदवस्थम्, यदवस्थं भेदाभेदप्रतिपत्तिकाले । तस्य [164 . 2] भावस्वभावस्य । तस्य [164 . 6] स्वरूपान्तरेण क्रियमाणस्य । तत एव हेतुबलायातात् कुतश्चिद् भिन्नाभिन्नाद् रूपाद् विशेषसामान्यात्मनो [164 . 11]र् इत्य् अत्र विशेषशब्देन स्वलक्षणं न वाच्यम् । तस्य भिद्यत इति व्युत्पत्त्या भेदरूपत्वापत्तेर् अयोगासिद्धिप्रसङ्गान् नापि विशेष्पदार्थस् तस्य विनाशारम्भरहितेश्वे वाणवाकाशादिषु प्रवृत्तेः परेण भेदशब्देनाभिप्रेतत्वात् । किंत्व् एकसामान्ययोगेप्यवान्तरसामान्यविशेषः । तयो [164 . 13]र्
भेदाभेदयोः । 7 अपेक्षया ही [164 . 18]त्य् अत्रस्थस्य हि शब्दस्य मौलस्य व्याख्यानम् एतत् यस्माद् इ[164 . 18]ति । टीकाकृतस् तु " अपेक्षयाहि " इत्य् अत्रस्थहिशब्दो ऽवधारणे, यद् वा हिर् यस्माद् अपेक्षया तस्ये ति योज्यम् । द्वाव् एतौ शतृप्रत्ययौ हेतौ द्रष्टव्यौ ।
साधनानां कारणानां साधनाय [165 . 2] निष्पादनाय कथं नेष्यत इत्य् आह । विलक्षणाद् अपी [165 . 10]ति । यादृशं दृष्टं यथा दृष्टम् । 8 यथादृष्टं कार्यं यथादृष्टाद् एव कारणाद् उत्पद्येतेति वर्तते । विलक्षणयापि विवक्षितसामग्र्या अन्यादृशापि तल्लक्षणं विवक्षितसामग्र्या जायमानकार्यसरूपम् । तत्सामग्रीवैलक्षण्याविशेषाद्यस्याः कस्याश्चित् सामग्र्या जायमानं किं तल्लक्षणं न भवतीति ।
तथा च स एव दोष इत्य् आशंक्य पर एवाह कस्याश्चिद् एवे [165 . 23]ति । अत्रा स्मि[58ब्] 1 न् पूर्वपक्षे [165 . 25] यादृशी शक्ति [165 . 28]र् इति योज्यम् । नामान्तरेण [166 . 3] संज्ञान्तरेण । कथं तद् एव नामान्तरेणोक्तं {प्.380} स्याद् इत्य् आह तद्विलक्षणस्ये [166 . 3]ति । तद्विलक्षणस्या ग्न्यादिसामग्रीविलक्षणस्य । याग्न्यादिसामग्र्यान्यादृशी सामग्री सा तच्छब्देन प्रत्यवम्रष्टव्या । तस्य् आविलक्षणस्या ग्न्यादिकारणकलापस्य य आत्मातिशयः शक्तिशब्दवाच्यस् तस्य् आसंभवाद् अ[166 . 4]योगात् । 2 अनग्न्यादिरूपस्य कारणकलापस्याग्न्यादिसामग्रीशक्तियोगासंभवाद् इति समुदायार्थः । तदात्मातिशययोगे ऽपि कथम् अग्न्यादिरूपत्वं तस्येत्य् आह स एव ही [166 . 4]ति धूमं जनयति सहकारिकारणत्वेन । स्वजातिम् अनुकारयत्य् उ[166 . 5]पादानभावेन जनयतीत्य् अर्थः । यदि चे [166 . 7]त्य् अत्र च शब्दस् तुशब्दस्यर्थे । तां सामग्रीम् अग्न्यादिसंज्ञया वयं 3 व्यवहरामो भवन्तस् तु शक्रमूर्धादिसंज्ञया व्यवहरन्ते अतो नाग्नि संज्ञायाम् एव विवादः स्यात् । [166 . 7] कथं पुनर् नाग्न्य् एव विवादो नान्यत्रेत्य् आह अर्थाभेदम् इ[166 . 7]ति । अर्थाभेदं तथा धूमजननशक्तिलक्षणम् अभ्युपगम्य तथाभिधानात् [166 . 7] शक्रमूर्धादीत्य् अभिधानात् । धूमादिकं कार्यं कर्तृ कथं निश्चितम् इत्य् आह -- अतद्रूपे [166 . 9]ति । का 4 रणम् इन्धनादिकं कर्म न व्यभिचरति । क्षणापेक्षापक्षे तु कारणम् इन्धनादि क्षणरूपम् इत्य् अवसेयम् । अव्यभिचारस्याकारं दर्शयति -- तद्विलक्षणाद् इति । इतिर् हेतौ सिद्ध्यति [166 . 12] निष्पद्यत इति ।
कार्यं हेतुं व्याख्यायाधुनानुपलब्धिं व्याचिख्यासुर्यतस् ततस् तदुत्थानं तदुपदर्शयितुं तद् एवम् इ [167 . 3]त्यादिनोपक्रमते । भवद् उत्पद्यमानं दृष्टं निश्चितं सकृद् इ[167 . 3]ति सकृद् अपीति ज्ञेयम् । प्रत्यक्षानुपलम्भाभ्यां [167 . 3] यथा व्याख्याताभ्याम् । तथाविधाद् एवे [167 . 4]त्य् अवधारयतो ऽनन्तरोक्तैवोपपत्तिः बुद्धिस्था । अवधारणेन प्रतीयमानम् अप्य् अतथाविधाज् जन्मनिषेधं कण्ठोक्तं कुर्वन्न् आह -- ने [167 . 4]ति । व्याप्त्या [167 . 5] सर्वदेशकालपरिग्रहेण । 6 तुर् अनुपलब्धिं भेदवतीं दर्शयति । यादृश्युक्ता यथोक्ता [167 . 7] तस्यां दृश्यत्वविशेषणायाम् इत्य् अर्थः । निमित्तान्तराभावोपदर्शनं प्राग् उक्तम् इति भावः । स्वरूप [167 . 8]ग्रहणम् उपलक्षणं तेन व्यापारेपीत्य् अपि प्रत्येयम् । अत एव व्यापारस्य पश्चाद् दर्शयितव्यत्वात् । क्रमे तावच् छब्दं प्रयुञ्जानो ऽनुपलब्धिस्वरूपं 7 तावद् दर्शयतीति वक्ष्यति । ए [ व ] का [167 . 8]रस् त्व् अन्वयव्यतिरेकविषयविप्रतिपत्तिमात्रनिरासार्थः । यथाश्रुति व्याख्याने तु तथेत्यादि वक्ष्यमाणम् असंगतं स्यात् । तथाही [167 . 8]त्यादिना स्वरूपविषयविप्रतिपत्तिं प्रतिपादयति । तथा चेश्वरसेनश्वरकव्याख्याने प्रमाणान्तरत्वेनेमाम् उपदर्शयां बभूव । प्रतिषेध्यविषयज्ञानविषयरूपे 8 णापरिणाम [167 . 11]स् तद्विषयज्ञानानाधारत्वं तद्ग्राहकत्वेनानवस्थानम् आत्मनो मन्तव्यम् । तज्ज्ञानाधारत्वप्रतिषेधमात्रविवक्षया च पक्षान्तरम् इति प्रमाणान्तरत्वम् एव तदन्यविज्ञानाश्रयेणोपपादयन्न् {प्. 381} आह नही [167 . 13]ति । प्रत्यक्षम् एकम् अनुमानात्मकं यद् वा । तस्य [167 . 13] प्रत्यक्षस्यानुमानस्य वा । ततो भावांशात् । किं कुर्वत् तर्हि तदभावप्रमाण[59अ] 1 व्यपदेशम् अश्नुत इत्य् आह भावांश (अभावांशे) [167 . 14] जनयद् इति [167 . 15] हेतावयं शतृप्रत्ययः प्रत्येयः । तद् इत्य् अन्यविषयज्ञानम् । तदिन्द्रियजन्मनि ज्ञाने यदवभासते स तस्य विषयस् तत्प्रतिपत्तिजनकत्वेन लभत इत्य् अभिसंबन्धाद् द्वितीया साधन [167 . 18]पदसंस्कारवेलायाम्
अनुपलब्धिर् नापेक्षितेति तथा निर्देशः । कथं तर्हि स सिध्यतीत्य् आशंकायाम् आचार्यदेशीय 2 स्यैवाभिप्रायं वर्णयन्न् आह अनुपलब्धेर् इ[167 . 18]ति । यदि विमृश्यमानम् "अघटम् एतद्भूतलम्" इति प्रतीतिर् नातिशेते "तद्घटो नास्ति" इति ज्ञानम् प्रतियोगिस्मरणसहायेनेन्द्रियेण जन्यमानत्वात् तज्ज्ञाना[न]न्तरभावि संयुक्तविशेषभावलक्षणात् इन्द्रियार्थसन्निकर्षाट् जायमानं प्रत्यक्षं सद् एव प्रमाणान्तरम् अनुमानादेः प्रमाणाद् अन्यत् प्रमा 3 णम् । यद् वा विशेषवचनो ऽयम् अन्तरशब्दः । किं भूतं सद् एतत् प्रत्यक्षं प्रमाणम् इत्य् आह अभावस्य [167 . 21] इति । तुच्छरूपस्य [167 . 21] इति भावरूपशून्यस्येति बोद्धव्यम् न त्व् अवस्था(त्व् अस्त्व् आ)त्मन इति तन्मतेनाभावस्यापि वस्तुत्वात् ।
ननु च नेदं प्रत्यक्षं प्रमाणं, अपि तु सन्निकर्षस्य प्रत्यक्षप्रमाणस्य प्रमाणरूपं फलम् एतत् तत् कथ 4 म् एवम् उक्तम् इति चेत्, सत्यम् एतत् । केवलं हानादिबुद्धिरूपं फलं प्रधानम् इदं प्रमाणम् अभिप्रेतम् । परिच्छेदात्मकम् इ[167 . 21]ति च परिच्छिद्यते ऽनेनेति परिच्छेदस् तदात्मकम् । परिच्छित्तिस् तूपादानादिधीरेवेति । यदि वा प्रमाणशब्देनोपचारात् फलम् एवाभिप्रेतम् इह एवंभूतं प्रत्यक्षप्रमाणफलान्तरम् आच 5 क्षाणैश् च सामर्थ्यात् यत एतद् भवति तत् प्रत्यक्षं प्रमाणम् इति दर्शितम् इति सर्वथावदातम् । तेषाम् एव बौद्धं प्रति वक्रोक्तिं दर्शयन्न् आह -- तद् एव [167 . 21] इति तद् एव प्रमाणम् अनन्तरोक्तं यत् । प्रतिवादिनां तीर्थकानाम् आचार्यदेशीयानां च तन्निरासार्थं [167 . 24] बुद्धिभेदनिरासार्थं, विप्रतिपत्तिनिरासार्थम् इति याव 6 त् । उपलब्धिलक्षणप्राप्तिर् यस्यास्ति स खलूपलब्धिलक्षणप्राप्त उच्यते । सैव तु कीदृशी यत्प्राप्तो ऽर्थस् तथोक्तो वार्तिककृतेत्य् आशङ्क्योपलब्धिलक्षणप्राप्तिम् अभिप्रेतां दर्शयन्न् आह उपलब्धी [167 . 25]ति । उपलब्धिलक्षणप्राप्तिर् एवंरूपा शास्त्रकृता 7 अन्यत्र व्याख्याता [167 . 29] इति सम्बन्धः कार्यः । प्रत्यय [167 . 26]शब्दः प्रत्येकम् अभिसम्बध्यते ।[177] हेतु प्रत्यय आलोकादिः, समननतर प्रत्ययः प्राक्तनं विज्ञानम्, अधिपतिप्रत्ययश् च चक्षुरादिः, आलम्ब्यत इति कृत्वा आलम्बनप्रत्ययो नीलादिः स । किम् अर्थम् सा तथारूपा शास्त्रकृता [167 . 28] {प्. 382} अन्यत्र व्याख्यातेत्य् आशङ्कायाम् आह -- नैयायिक [168 . 1] इति । विप्रतिपत्तिम् एव दर्शयन्न् आह -- ते हि [168 . 1] इति । द्र [178] व्याणाम् उ[168 . 2]पलम्भकानीति वदता च यत्रैतानि सन्ति तदुपलम्भे निमित्तं द्रव्य एव च सन्तीति द्रव्यस्यैवोलम्भे निमित्तम् अमूनि नोपलम्भमात्र इति दर्शितम्, अन्यथा अभावसमवाययोर् उपलब्धिर् न स्यात् । न च नास्ति संयुक्तसमर्थतया विशेषणभावेन तयोर् उपलम्भस्यनैयायिकैर् इष्टत्वात् । [59अ] 1 एवं गुणादीनाम् अपि तथा तथोपलब्धेर् इष्टत्वाद् इति । एवम् एषां अभिधानं कुतो ज्ञायत इति आह महती [168 . 2]ति । एतच् च प्रतितन्त्रसिद्धान्ताश्रयणेन एवं
वचनादि [168 . 3]त्य् आचष्ट इति द्रष्टव्यम् अन्यथा असंगतम् उक्तं स्यात्वैशेषिकसूत्रत्वाद् अस्येति । अस्यायम् अर्थो महत्त्वयुक्ते महत्युपलब्धिर् भवति न द्वयणुकादौ । यदि महत्त्वाद् उपलब्धिस् तर्हि परममहत्त्वेप्य् अवकाशादौ सा किं न भवतीति पर्यनुयोगाशंकायां तद्व्यवच्छेदार्थम् उक्तम् अनेकद्रव्यत्वाद् इति । अथवा अनेकद्रव्यावयवास् तद्वत्त्वम् अवयविनो महत एव न द्वयणुकस्येत्य् उत्पत्त्यान्यनिरपेक्षत्वं महत्त्वानेकद्रव्यत्वयोर् इति लक्षणविकल्प एवायं विवक्षितं बोद्धव्यम् । अनेकं द्रव्यम् आरम्भकतया विद्यते यस्य तद्भावस् त 3 स्मात् । अनेकद्रव्यवत्त्वाद् इति पाठे सर्वधनादेर् आकृतिगणत्वेन गणपाठाद् अस्य बहुव्रीहिप्रतिषेधेन शतुर् विधे द्रष्टव्यः (मतुविधिः दृष्टः) अन्यथा कर्मधारयमत्त्वर्थीयात् बहुव्रीहिर् लाघवेनेष्ट इत्य् अनेकं द्रव्यं [यस्य] स तथा तद्भावस् तस्माद् इति निर्देशः प्राप्नोति अनेकद्रव्यवत्त्वा(व्यत्वा)द् इति पाठे तु न कश्चिद् आयासः । यदि 4 महत्त्वाद् अनेकद्रव्यवत्त्वाद् अन्यत[र]स्माद् वा उपलब्धिर् वायाव् अपि सा स्यात् । तन्निवृत्त्यर्थम् उक्तं रूपाद् इ[168 . 3]ति ।
__________नोतेस्__________
[177] दुर्वेकानुरोधेन "हेतुसमनन्तरे"त्यादि पाठः सम्यग् भाति ।
[178] दुर्वेकानुरोधेन "द्रव्याणाम् उपलम्भकान्य् आह" इति पाठः स्यात् ।
ननु चानयोपलब्धिलक्षणप्राप्त्या युक्तस्यानुपलम्भतो ऽभावसिद्धेर् अनुपलब्धिस् तावल् लिङ्गत्वेन तैर् इष्टैवेत्य् आह -- एवं च [168 . 3] इति । अनैकान्तिकीत्य् आचक्षते [168 . 5] त एवनैयायिकाः। कुतो ऽनैकान्तिकीत्य् आशङ्क्य 5 तन्मत एव स्थित्वा आह -- सत्य् अपि [168 . 4] इति । एतद् एव तन्मत्यैव निदर्शनेनोपपादयन्न् आह -- नहि [168 . 5] इति ।[179] न भवन्ति न सन्ति ।भाष्यकारःप्रकरणात्न्यायभाष्यकारःपक्षीलस्वामी । अनुमानत उपलब्धिम् एव तदीयां दर्शयितुम् आह -- इन्द्रियत्वात् [168 . 8] इति । प्राप्यकारी [168 . 9] विषयं प्राप्य तेन सह संयुज्य तत्र ज्ञानं जनयतीत्य् अर्थः । ए 6 तच् चार्थकथनम् अवसेयम् न तु अनुगमानप्रयोग एष । पञ्चावयवस्य वाक्यस्यानुपदर्शनात् । भवबैकान्तिकत्वं कीतन(तदनैकान्तिकत्वकीर्तन)म् एवोपसंहरन्न् आह -- तद् एवम् इ[168 . 11]ति । {प्. 373} अनैकान्तिकत्वाभिधानं च तेषां वैशेषिकसूत्रे यथाश्रुति द्रष्टव्यम् । न तु तैर् यथा व्याख्यायते । ते हि रूपाद् इत्य् उद्भूतसमाख्याताद् इति विशेष्य 7 नायनरश्म्यवयविन उपलब्धिं निवर्तयन्तीति ।[180] तन्निरासार्थम् उ[168 . 12]पलब्धिलक्षणप्राप्तानुपलब्धेर् अनैकान्तिकत्वनिरासार्थम् । कथं तन्निरासार्थम् इत्य् आह -- उपलब्धी [168 . 12]ति । अभ्यधाद् [168 . 13] अन्यत्रेति सामर्थ्यात् । तदुपदर्शनेति[पि] यदि व्यभिचारसंभवः कथं तन्निराकृतं भवतीत्य् आह यदाही [168 . 13]ति । कुतो व्यभिचारावकाश [168 . 15] इति तयोपलब्धिलक्षण 8 प्राप्त्या वर्तमानस्यानुपलब्धिर् इति च प्रकरणात् । तस्या [168 . 15] इत्य् उपलब्धिलक्षणप्राप्तानुपलब्धेः ।
__________नोतेस्__________
[179] मूले "भवन्ति" इत्य् एव मुद्रितं किंतु "न भवन्ति" इत्य् एव पाठो ऽनुटीकागतः साधुः ।
[180] तन्निरासं स् ।
ननुनैयैकैर् यदुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वादिकम् उच्यते तस्याप्य् अनवद्यत्वात् सैवोपलब्धिलक्षणप्राप्तिर् भवतापि कस्मान् नोच्यते किं पुनर् आहोपुरुषिकयान्याभिधीयत इत्य् आशंक्याह महत्त्वादिकं त्व् इ[168 . 16]ति । तम् एवा[60अ] 1 संभवम् आश्रयाभावद्वारेण प्रतिपादयितुम् आह नही [168 . 17]ति । हिर् यस्मात् । न रूपादिव्यतिरिक्तं द्रव्यं स्वज्ञाने प्रतिभासते । कथं न प्रतीभातीत्य् आह आकारान्तरेणे [168 . 18]ति । रूपाद्यात्मनो ऽन्येनात्मना । किं भूतेनेति आह तत्प्रतिभासे [168 . 18]ति तस्य रूपादेः प्रतिभासः प्रतिभासत इति कृत्वा स्वरूपम् एव तस्य विवेकः प्रच्युतिस् तद्वता । अनेनानुपलम्भ 2 स् तद्भावव्यवहारसाधको दर्शितः । प (घ)टप्रतिभासने ऽपि पटप्रतिभासव्यवस्था स्याद् इत्य् अतिप्रसङ्ग [168 . 19]स् तस्मात् । इदानीं द्रव्यम् अभ्युपगम्य महत्त्वादेः तदुपलम्भकत्वम् अपाकर्तृकाम आह न चे [168 . 20]ति । तत्सम्बन्धेपि महत्त्वसंबन्धेपि । स्वहेतुसमुद्भूते ऽपि तत्रामहति द्रव्यात्मनि तस्याकिञ्चित्करत्वाद् इति भावः । स्वरूपेण महतस् तु किम् अर्थान्तरे 3 ण महत्त्वेन तद्बुद्धेर् अपि तत एवोत्पत्तेर् इति चाभिप्रेत्य न च स्वरूपेणामहत [168 . 20] इति । एकस्मिन्न् एव पक्षे स दोषो दर्शितो ऽनेनेति द्रष्टव्यम् ।
अथ तत्संबन्धे मा भूद् अस्य स्वतो महत्ता किं नश् छिन्नम् अर्थान्तरभूतमहत्त्वरूपेणास्य ग्रहणं भविष्यतीत्य् आह -- [168 . 21] -- पर [181] रूपेणेति । परस्य ततो ऽन्यस्य महत्त्वस्य रूपेण । 4 कथम् अभ्रान्तं [168 . 21] भ्रान्तम् एव । अतस्मिंस् तद्ग्रहरूपत्वाद् भ्रान्तेर् इति भावः । उपलम्भयतीत्य् उपलंभकम् । एतच् च महत्त्वम् उपेत्योक्तं दूषणम् । न तु च महत्वा(त्व)न् नाम किञ्चित् न चात्र स(तत्) कस्याचिद् उपलंभकं नामेत्य् अपि वक्तव्यम् । रूपं वा द्रव्यस्योपलम्भकम् इति वर्तते । कुतस् तस्यानुपलम्भकत्वम् इत्य् आह -- तस्यापी [168 . 23]ति । तस्य रूप 5 स्य न तथा ग्राहकत्वम् इ[168 . 24]ति सम्बन्धनीयम् । ग्राहयतीति {प्. 384} ग्राहकं तस्य भावस् तत्त्वम् इति चार्थो द्रष्तव्यः । अपि [168 . 23] न्यायतः संभावनाम् आह । तुल्योपकत्त्वं(पपत्तिं) वा समुच्चिन्नोति । परेणाकांक्षितहेतुं दर्शयितुम् आह स्वरूपेणे [168 . 23]ति । स्वरूपेण प्रातिस्विकेन आत्मना ग्रहणे सत्य् अन्यस्योपलब्धौ तस्येति प्रत्यासत्तेः । नान्यस्यापरोक्षीभाव इति द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । अयम् अस्याशयो रूपं हि गृह्यमाणम् एवोपलम्भकं युक्तं, नान्यथा । न तच् च द्रव्यरूपेण गृह्यते तद्ग्राहिणो ज्ञानस्य भ्रान्तत्वप्रसंगात् । ततः कथं द्रव्यस्योपलंभ इति । तथाप्य् अस्य तथात्वम् उपगच्छामो यदि ततो भेदेन तत्प्रतिभासः 7 स्यान् न चैतद् अस्तीति प्रतिपादयन्न् आह द्रव्यरूपस्ये [168 . 23]ति । द्रव्यरूपस्य द्रव्यस्वरूपस्य । तद्विवेकेन रूपस्वभावविवेकेन अनुपलक्षणाद् अनुपलब्धेः । एतच् च दूषणं महत्त्वेप्य् उपलंभे द्रष्तव्यम् । अत्रैव वक्तव्यान्तरं समुच्चिन्वन्न् आह -- न चे [168 . 24]ति । हेतुम् आह यत [168 . 25] इति । प्रतिलब्धात्मकम् एवो त्पन्नम् एव सत् । तथातां [168 . 25] समवायिकारणताम् । उत्पत्तिक्ष 8 णे निर्गुणम् अपि द्वितीये क्षणे सगुणं भविष्यतीत्य् आह न चे [168 . 27]ति ।[182] स्वस्य द्रव्यस्य । प्राक्तनरूपयोगेपि पूर्वस्वरूपनाशो ऽक्षणिकत्वाद् अस्येत्य् आशयः । यतः [168 . 28] पूर्वरूपनाशरूपान्तराविर्भावात् ।
__________नोतेस्__________
[181] अपररूपेण स् ।
[182] अस्य स्
ननु च पूर्वरूपनाशे तस्यैव नाशाद् रूपान्तराविर्भावे चान्यस्यैव भावात् कथं यद् एव महत्त्वादिकं प्रति प्रागप्रतिपन्नाधारभावं तद् एवाधा[60ब्] 1 रतां यायाद् इति चेद् अयम् अपरो ऽस्तु दोषो ऽस्येत्य् अभिप्रायाद् अदोष एषः । इहापि महत्त्वादिकं प्रति द्रव्यम् आधारो नोपपद्यत इति दर्शयन्न् आह -- न चे [169 . 1]ति । प्रजनकस्यापि तथात्वे ऽतिप्रसंगात् । स्थापकत्वादिना प्रकारान्तरेणाधारभावस्यान्यत्र निषिद्धत्वाच् चेति भावः । अर्थाक्रियाविरोधाद् अ[169 . 2]र्थक्रियाया अनुपपत्तेः । यथा चाक्षणिकः क्रमेणाक्रमेण वार्थक्रियाम् उपकल्पयितुं न कल्प्यते तथोदितं पुरस्तात् । समवायिकारणस्येति प्रकरणात् महत्त्वादिकं प्रति समवायिकारणस्यास्योपलम्भस्य द्रव्यस्येत्य् अर्थो ऽवसेयः । स्याद् एतद् यदि नामानन्तरोदितया नीत्या तं प्रति तस्याधारभावो नोपपद्यते तथापि तदनाधार एव तत्समवयिकारणं किं न भवतीत्य् आह यत [169 . 3] इति । 3 स्वोत्कलितं स्वाश्रितं स्वारूढम् इति यावत् । जनयतु तर्हि स्वोत्कलितं कार्यम् । यतस् तथा व्यपदेशम् अश्नत इत्य् आह -- न चे [169 . 4]ति । एतद् इति स्वोत्कलितकार्यजननम् । अयम् अस्याशयो लब्धात्मसत्त्वेनैव हि तथा जनयितव्यं न त्व् आगृहीतमहत्त्वादिरूपेण तेनोत्पत्तव्यम् सहभुवोः कार्यकारणभावाभावेनात 4 द्धेतुकत्वप्रसंगात् क्षणिक[त]या तु द्वितीयेक्षणे ऽसत्त्वात् न स्वोत्कलितकार्यजननम् इति -- पश्चाद् आधार [183] भावो [169 . 5] न चेत्य् अनुवर्तते, स्वहेत्वागतस्य तदाधाररूपस्याविनाशाद् इति भावः ।
__________नोतेस्__________
[183] आधाराभावः स्
{प्. 385} तदभावेपि कथम् असंभवीत्य् आह -- यस्माद् इ[169 . 6]ति । एवम् अनेकद्रव्यवद् इति व्यपदिश्यते । द्रव्याभावश् च न हि रूपादिव्य् 5 अतिरिक्तम् इत्यादिना अनन्तरम् एवोपपादितः । तयोपलब्धिलक्षणप्राप्त्या [169 . 10] उपलब्धिलक्षणप्राप्तस्ये ति तथाभूतोपलब्धिलक्षणप्राप्तिमत इत्य् अर्थः । इति [169 . 11]र् हेतौ शास्त्रकारः प्रकरणात्वार्तिककारः। अभावशब्देन अभावो अभावव्यवहारश् चाभिप्रेत्य(त) इत्य् अभिप्रायेण आह -- अभावव्यवहारहेतुश् चे [169 . 13]ति । या त्व् इ[169 . 13]त्यादि ब्रुवतश् चायम् अभिप्रायो -- यदि व्यापकाद्यनुपलब्ध्यभिप्रायेणाभावव्यवहारयेतुर् वेति वक्तुम् अध्यवस्याह -- नैतद् रूपात् अभावशब्देनाप्य् अभावव्यवहारस्य विषयेण विषयिणो निर्देशसम्भवेन वक्तुं शक्यत्वात् ब्रुवन् विशिष्टाम् एवानुपलब्धिम् अबिप्रैतीति उपलब्धिलक्षणप्राप्तानुपलब्धेर् व्यापारम् इमं कथयता च वार्तिककृता सामर्थ्याद् यद् अत्रोपदर्शितं अन्यत्र तु साक्षाद् अभिहितम् तद् अपि दर्शयन्न् आह -- या त्व् अनुपलब्धी [169 . 15]त्यादि सद्व्यवहारप्रतिषेधहेतुर् इत्य् अवगन्तव्यम् [169 . 17] । कुतः पुनस् तद् अन्यवस्तुविज्ञानम् एवेच्छन्तीति ज्ञायत इत्य् अपेक्षायां योज्यम् -- विज्ञानं वान्यवस्तुनीति वचनाद् इ[169 . 21]ति । यदा कर्तृस्थतया 8 विवक्ष्यत [169 . 24] इत्य् अर्थः ।
ननु भवन्मते किम् उपधी(म् उपलब्धा) कश्चिद् आत्मास्ति, येनैवम् उच्यते इत्य् आह -- उपलभमानश् चे [169 . 26]ति । चो व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे यस्माद् अर्थे वा । अत्रैवाहंकारस्योपपत्तेर् इति भावः ।
ननु उपलब्धिक्रियायाः कर्ता उपलभमान उच्यते । तत् किम् उपलब्धिजनकस् तथाविध-उपलभमान उच्यत इत्य् आशंक्याह तथाही [169 . 28]ति । कामम् एवम् उच(च्य)ताम् [61अ] 1 तथापीन्द्रियादेः कथं तत्त्वम् इत्य् आह न चे [169 . 28]ति । अन्यस्ये [170 . 1]त्य् आत्मनः । जनकत्वम् इति प्रकरणात् उपलब्धिजनकत्वम् इत्य् अर्थः । आत्मन [170 . 7] आत्माख्यस्य नित्यद्रव्यस्य । तदुत्पत्ताव् उपलब्ध्युत्पत्तौ हेतूनां अव(न)स्थितिः इयन्त एव हेतव इति व्यवस्थाभावः । हेत्वनवस्थितौ च कार्यार्थिनो नियतकारणोपादानं न स्याद् इति भावः ।
आश्रयत्वात् तर्ह्य् असौ कर्ता 2 भविष्यतीत्य् आह -- आश्रयत्वम् अपी [170 . 11]ति । तस्य नित्यस्यात्मनो 6 जनकत्वानुपपत्तेर् इति भावः । क्षणिकत्वे उत्पत्तिक्षणमात्रसत्त्वे सति स्थितेर् उपादातिरेकिण्या अभावात् [170 . 12] । न पाताभावस् तस्याः [170 . 14] पतनस्यैवासंभवाद् इति भावः । कुतो न पतनं तस्या यतो न पाताभावः स्थितिर् इत्य् आह -- तस्याः [170 . 14] इति । तस्या उपलब्धेर् गुरुत्वाभावात् [170 . 15] {प्. 386} गुरुत्वसंज्ञकगुणा 3 भावात् । तदभावश् च बुद्धेर् गुणरूपत्वे निर्गुणत्वात्, निर्गुणत्वञ् च गुणानां "अगुणत्वं द्रव्याश्रितत्वं चे"ति वचनात्, गुरुत्वं च गुणः "गुरुत्वं जलभूम्योः पतनकारणम्" इति वचनाच् च गुरुत्वाभावः । मा भूद् गुरुत्वं तस्याः पतनं तु किं न भवतीत्य् आह -- सं [184] योगाभाव [170 . 15] इति । यदि गुरुत्वाद् एव पतनं भवेत् न 4 तर्हि शाखादौ फलान्यवतिष्ठेतेति संयोगाभावे सतीत्य् उक्तम् संयोगाभावे [170 . 15] शाखावृन्तादिसंयोगाभावे ।
__________नोतेस्__________
[184] संयोगाभावेन स् ।
कृतान्तः [170 . 16] सिद्धान्तः समवायात् उपलब्धेस् तत्र समवायाद् इत्य् अर्थः । सो ऽपि [170 . 16] समवायो ऽपि । कार्यकारणा(ण)भावविशेषः आधार्याधारभावः स चात्मनो नित्यस्य स संभवतीति भावः । यद्य् अप्य् उ 5 पलब्धेर् न पातः सम्भवी तथाप्य् असौ किम् आधारो न भवतीत्य् आशङ्क्य पूर्वस्मिन् पक्ष एव प्रतिवचनं दर्शयति । न चापतनधर्मिकाया [170 . 17] इति । अपतनधर्मकत्वं च तस्या गुरुत्वाभावाद् अनन्तरम् एव प्रतिपादितम् । अनेनैतद् दर्शयति -- पतनधर्मणो जलादेः पातप्रतिबन्धकः कश्चिद् आधारो भवतु यावद् य 6 दि तत्रापि कश्चित् को ऽयं प्रतिबन्धो नामेति न पर्यनुयुञ्जीत । न त्व् अपतनधर्मण इति तद् आहप्रामाणिकचक्रचूडामणिः--
"स्याद् आधारो जलादीनां गमनप्रतिबन्धतः ।
अगतीनां किम् आधारो गुणसामान्यकर्मणाम् ॥" [प्रमाणवा. 1.70] इति ।
अन्यस्याप्य् आ[170 . 18]त्मनोपि । तद्भावप्रसङ्गस् तदाधारत्वप्रसङ्गः । कुत एतद् इत्य् आ 7 ह तस्ये [170 . 19]ति । तस्य समवायस्य । समानत्वात् [170 . 19] एकत्वात् । अत एवाह -- एक त्वेन [170 . 19] इति । अस्य [170 . 19] समवायस्य ।
प्रकरणे [170 . 25] चिंतायां प्रस्तावे इति यावत् । विवक्षितात् [170 . 25] शास्त्रविहिताद् । भक्ष्यात् [170 . 25] भक्षणार्हात् । अन्यत्वेन ग्राम्यकुक्कुटः [170 . 26] तदन्यस्य [170 . 26] ब्राह्मणादेर् अन्यस्य । भक्ष्यो ऽपि सन्नभक्ष्य उच्यत [170 . 26] इति सम्ब[न्ध]नीयम् । अनेकेन निदर्शनेनोपपद्य 8 मानो ऽर्थः सुज्ञातो भवतीत्य् निदर्शनान्तरम् आह यथा च [170 . 27] इति । अधिकारे [170 . 27] प्रस्तावे । तद्वद् [171 . 1] उपदर्शितद्वयवद् विशिष्ट [171 . 3] उत्तरपदार्थाभावविशिष्टे अर्थे [171 . 3] तत्सदृश इति यावत् । तया नञो भावविषयता [171 . 3] इति {प्. 387} योज्यम् । तया [171 . 3] इतीत्थम्भूतलक्षना चेयं तृतीया प्रत्येया । भावविषयभानप्रतिषेधमात्रविषयतेत्य् अर्थात् । किंभूतस्य नञ [61ब्] 1 इत्य् अपेक्षायां योज्यम् आगृहीते [171 . 3]ति । तथा विधिसामानयेन समन्तात् स्वीकृऋतोत्तरपदार्थप्रतिषेधस्य कथं पुनर् एतत् ज्ञातव्यम् इत्य् अत्रायं न ...त्तरपदार्थप्रतिषेधमात्रवृत्तिः प्रसह्यवृत्तिर् अत्र तु उत्तरपदार्थाभावविशिष्टसदृशवस्तुवृत्तिः पर्युदासवृत्तिः इत्य् आशङ्कायाम् आह यत्र [171 . 4] इति । यत्रैवम् एवं तत्र पर्युदासवृत्तिता [171 . 6] इति सम्बन्धः । विधेः प्राधा 2 न्यम् अ[171 . 4]भिधेयतया भावरूपं प्रतिपाद्यत इत्य् अर्थः । प्रतिषेधः [171 . 5] तथाभूतोत्तरपदार्थनिषेधः अर्थगृहीतः सदृशवस्तुविधानसामर्थ्याक्षिप्तः विधिभाग्विधे [171 . 5]र् यो ऽर्थः क्षत्रियादिः स्वपदेना त्मवाचकेन नोच्यते पर्युदासम् अर्थप्रतिपादके वाक्ये इति बोद्धव्यम् न तु "समासनिमित्ते अन्वाख्यानवाक्य" इति नित्यसमासत्वाद् अस्य तदसंभवात् 3 इतरथा "रज्ञाः पुरुषमानय" इत्यादिवत् क्षत्रियानयने विवक्षिते न ब्राह्मणमानयेत्यादिर् अपि प्रयोगः प्रसज्येत । यत् तु [न] ब्राह्मणो ऽब्राह्मण इत्य् उच्यते तद् ब्राह्मणो न भवति प्रसज्यप्रतिषेधेन मात्रया अर्थः कथ्यते । पर्युदासे प्रसज्यप्रतिषेधोप्य् अस्तीति कृत्वा, न पुनः समासार्थमन्वाखानवाक्यं 4 तत्, कुम्भं करोतीति कुम्भकारः कुम्भस्य समीपम्
उपकुंभम् इत्यादिवद् इति । यदि स्वपदेन नोच्यते कथं नामासव् उच्येत इति चेत् । अन्यशब्देनेति ब्रूमः । अन्यशब्दस्यैव तत्र प्रयोगात् एकवाक्यता च तथार्थकथने वाक्ये नञर्थवाचकस्यान्यशब्दस्य सुवन्तेनैअ पदान्तरेणाभिसम्बन्धात् । एतद् एव 5 सामान्योपदर्शितं लक्षणं प्रकृते योजयन्न् आह वि [185] धिश् चे [171 . 6]ति । वाक्येन [171 . 7] तथाविधेनेति द्रष्टव्यम् । एवं तत्प्रतिषेधः प्रतीयत इत्य् आह -- विवक्षितोपलब्धेर् अनिवर्तन [171 . 8] इति । कथं तर्ह्य् असाव् उच्यत इत्य् आह किं तर्ही [171 . 10]ति । कथम् अन्यशब्देनोच्यते न तु स्वशब्देनेत्य् आह अन्यशब्दस्यैवे [171 . 11]ति 6 । वाक्य इति तत्त्वार्थकथने वाक्य [171 . 11] इति प्रत्येयम् । तत्रापि कथमन्यशब्दप्रयोग इत्य् अपेक्षायां योज्यं पर्युदासाश्रयेणे [171 . 10]ति । एतद् एव दर्शयति अन्योपलब्धिर् अनुपलब्धिर् इ[171 . 11]ति । इतिर् अ[171 . 12]शब्देनाभिधानस्याकारं दर्शयति । नञश् च सुबन्तेन समासैकदेशेन । सामर्थ्यं [171 . 12] व्यपेक्षालक्षणः सम्बन्धः । 7 इति [171 . 12]र् हेतौ । एकवाक्यत्वं न वाक्यभेदं(दः) सामानाधिकरण्यम् इत्य् अर्थः । तद् एव दर्शयन्न् आह -- अन्या [186] उपलब्धिर् अनुपलब्धिर् इ[171 . 12]ति । इति ना एकवाक्यत्वस्याकारो दर्शितः । प्रसज्यप्रतिषेधः [171 . 13] कंचिद् अर्थं प्रसज्य यः प्रतिषेधः । कस्यचिद् अर्थस्य प्रसङ्गम् उपदर्शनम् अधिकारं कृत्वा यो निषेध उत्तरपदार्थप्रतिषेधमात्रं यत्राभि 8 धेयम् इत्य् अर्थः मयूरव्यंसकादित्वाच् च {प्. 388} समासः ।[187] तद्विपरीतः [171 . 13] उपदर्शितपर्युदासविपरीतः । वैपरित्यम् एव सुखप्रतिपत्त्यर्थम् उपदर्शयन्न् अह -- तत्र ही [171 . 14]त्यादि । तत्र ह्य् अत्तरपदार्थप्रतिषेधस्य समासार्थत्वात् प्राधान्यम् । विधिः कस्यचिद् अर्थस्य विधानं अर्थात् सामर्थ्यात् गम्यते [171 . 14] यदा विधिप्रतीतिस् तदार्थाद् इति च द्रष्टव्यम् । [62अ] 1 तथाहि "अभिहिते न भवन्ति द्वितीयाद्याः विभक्तयः" इत्य् उक्तेर् विशेषप्रतिषेधस्य शेषधीनान्तरीयकत्वाद् इति लक्षणात् सामर्थ्याद् अनभिहिते भवतीति गम्यते । सूर्यं न पश्यन्तीति नात्र प्रदृ(नञो ऽत्रदृ)शिना तिञन्तेन
संबद्धो न तु सुबन्तेनेति वाक्यभेदः । प्रतिषेधभाक् [171 . 15] सूर्यदर्शनादिः स्वपदेन [171 . 15] स्ववाचकेन सूर्यं न पश्यन्तीति अनेनोच्यते । अत्र तु समास 2 निमित्ते ऽन्वाख्यानवाक्य इति द्रष्टव्यम् । प्रसज्यवृत्तिनञ्समासे तत्संभवाद् इति सर्वञ् चैतत् प्रकरणादितो ज्ञातुं शक्यम् इति सर्वम् अवदातम् ।
__________नोतेस्__________
[185] विधेश् चेति स्
[186] न उपलब्धि-स्
[187] एतद्विपरीतः स्
प्रासंगिकं परिसमापय्य संप्रति प्रकृतम् अनुधुन्व(नुबन्ध्न)न्न् आह तद् एवम् इ[171 . 16]ति ।[188] भावतो [171 . 26] वस्तुनः परमार्थत इति यावत् । संबन्धकल्पनायाम् अ[171 . 27]न्यस्य वास्तवस्य संबन्धस्य कल्पनायाम् । सोप्य् अर्थान्तरभूतः सम्बन्धः 3 कथं तयोर् इति पर्यनुयोगे तदन्यकल्पना, तत्राप्य् एवम् इत्य् अनवस्था प्रस्तुतवस्तुव्यवस्थापरिपंथिनी स्यात् । उक्तसदृशं उक्तप्रायम् [171 . 27] ।
__________नोतेस्__________
[188] सम्बन्धाभावतः स् इति तु न युक्तं, "सम्बन्धो भावतो" इति तु अनुटीकानुरोधेन सम्यक् पाठः ।
तत्र विज्ञाने किं भूतं सद्घटरूपम् तत्र स्वाकारम् अर्पयतीत्य् अपेक्षायां योज्यम् तथाविधम् इ[172 . 16]ति । यथाविधं प्रदेशरूपं तथाविधं सत् व्यवधानविप्रकर्षादिरहितम् इत्य् अर्थः । स्वाकारद्वारे 4 ण । [172 . 19] स्वाकारार्पणद्वारेण । एतद् एव स्फुटयन्न् आह तद् इ[172 . 20]ति । तयोः संसर्गस्वा(संसर्गमा)त्मनि [172 . 20] स्वात्मनि दर्शयति । अवधेयवचसः [172 . 28] आकर्णनीयवचनाः । लघुवृत्तित्वाद् [172 . 28] अतिशीघ्रप्रचारत्वात् ज्ञानस्य यौगपद्याभिमानो [172 . 29] युगपद्ग्र्हीतानीत्य् अध्यवसायः । एवं चाचक्षाणेन क्रमेणैव तानि पुरोवर्तीनि तुल्ययोग्यतारूपाणि वस्तूनि गृह्य 5 न्ते ज्ञानेन तु युगपद् इति सामर्थ्याद् दर्शितम् । सर्वत्र तथाभावप्रसंगात् [173 . 5] भ्रान्तिकल्पनाप्रसंगात् । ज्ञानम् एवात्र क्रियेति मन्यते परः । कथम् इ[173 . 4]ति सिद्धान्ती सन्तमसावस्थितघटादिप्रतिपत्तौ कर्तव्यायां प्रदीपस्यापि करणरूपत्वम् अव्याहतम् इति भावः । कर्तृभेदाद् देवदत्तादिप्रतिपत्तृरूपकत्वनैक(कर्त्रनेक)त्वात् । कर्त्रे 6 कत्वात् [173 . 5] तर्हि इति सिद्धान्तवादी । अयम् अस्याशयो यदि सत्य् अप्य् एकस्मिन्न् अस्मिन् करणे ऽनेकत्र घटादिके कर्मणि कर्त्रनेकत्वाद् अनेकक्रियोदयो वर्ण्यते तर्हि कर्त्रेकत्वात् क्रियैकत्वम् इति सामर्थ्याद् आयातम् {प्. 389} ततश् च न करणैकत्वानुविधानं क्रियैकत्वस्येति किम् अनेनोक्तेनापीति । स्याद् एतत् यथा तत्र कर्तारो 7 बहवः प्रतिपत्तारस् तथा करणान्यपीन्द्रियाणि बहून्य् एव ततश् च करणबाहुल्याद् एवानेकत्र कर्मणि क्रियाबाहुल्यम् इति करणैकत्वात् क्रियैकत्वं व्यवस्थितम् इति । तद् एतद् अवद्यम् । यतो ज्वल्यमाने दीपे प्रत्येकम् एकस्मिन्न् एवेन्द्रिये प्रदीपे वा करणे सर्वेषाम् एव प्रतिपतॄणाम् अनेकघटादिकर्मविषयज्ञानक्षणानेकक्रियो 8 दयात् साधारणनैकान्तिकत्वम् अनिवारितम् एवेति । विशरारुषु [173 . 6] विशरणशीलेष्व् इत्य् अर्थः । अयम् अस्याभिप्रायो यः किल लब्धात्मसत्ताक एव पश्चात् स्वातन्त्र्येण कांचित् क्रियाम् अभिनिवेशयति स कर्ता, यश् च क्रियासिद्धौ साधकतमः स करणम् उच्यते । तथा सत एव कदाचित् क्रियायोगाद् अर्थान्तरभूता क्रिया जायते क्षणमात्रस्थायी च कृत्स्ना(स्नो) भाव
[62ब्] 1 इति कथं सत्त्वम् आसाद्य तथाकारी तथा प्रतिपत्स्यते क्रियास्वर्था(क्रियाम् अर्था)न्तरभूताम् इति । संप्रति क्षणिकाक्षणिकयोर् असाधारणदूषणम् आह -- न चे [173 . 8]ति । सर्वकारकान्वयव्यतिरेकानुविधायिनी ति विशेषणं हेतुभावेन वेदितव्यम् । रूपरसादिवै(रसावि ववै)धर्म्योदाहरणम् ।
इदानीम् एकज्ञानसंसर्गाद् इत्य् अत्रैकशब्दार्थं निरूपयितुम् आह तत्रे [173 . 14]ति । एकायतनसंगृहीत एकरूपा 2 द्यायतनस्ंगृहीतो ऽनेकत्रापि एकम् एवेन्द्रियज्ञानम् इ[173 . 15]ति । निराकारपक्षे द्व्यादिसंख्यानिरासार्थ एकः शब्दः साकारपक्षेपिचित्राद्वैतवादिमतेन तथैवैकशब्दः । प्रत्यर्थम् इ[173 . 16]ति स्थूलेनायं व्यपदेशः कृतः । परमार्थतस् त्व् एकस्मिन्न् एव द्रव्ये परमाणुसमूहात्मके प्रति परमाणु तदाकारधारीण्य 3 र् वाग्दर्शनं संक्षेपान्य् एव(दर्शनप्रसंगे यान्य् एव) ज्ञानान्य् उत्पद्यन्त इति । अस्मिंश् च पक्षे यच् चोद्यम्, यश् च परिहारस् तद् द्वयम् अपि विशेषाख्याने ऽस्माभिर् अभिहितम् इति नेहोच्यते । योग्यताया [173 . 23] इति प्रकरणात् प्रतिषेध्यतद्विविक्तप्रदेशयोः स्वज्ञानोपजननयोग्यताया इत्य् अर्थः एकस्मिन् ज्ञाने संस्रष्टुं शीलं ययोस् तौ तथोक्तौ 4 । व्याप्तिन्यायसमाश्रयाद् अ[173 . 23]शेषोपसंहारन्यायस्वीकारात् । प्रत्यासत्तेः [174 . 1] प्रत्यासत्तिन्यायसमाश्रयणाद् इत्य् अर्थः । का पुनर् अत्र तयोः प्रत्यासत्तिः सम्भविनीत्य् आह -- एकज्ञाने [174 . 1]ति ।
तस्माद् [174 . 8] घटात् । यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिर् यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा तद्विविक्तज्ञानम् ए 5 व पर्युदासवृत्त्यानुपलब्धिर् उच्यताम्, न तु तत्स्वभावो वेतिकुमारिलो [174 . 11] मीमांसावार्तिककारो मन्यत इति शेषः । कर्तृकर्मस्थत्वविवक्षयोपलब्धेर् द्वैताद् अनुपलब्धेर् अपि तथैव द्वैतम् आयातं न्यायत इति मन्यते । घटाभावव्यहारे तद्विविक्तप्रदेशज्ञानस्यैवोपयोगाद् अनुपलब्धित्वं 6 युक्तं नान्यस्येत्य् {प्. 390} आशंक्य द्वयोर् अप्य् उपयोगाविशेषं प्रतिपादयन्न् आह यथे [174 . 12]ति । प्रतियोगी निषेध्या(ध्यो) विवक्षितस् तत् स्मरणापेक्षम् [174 . 13] । एतद् एव प्रतिपत्तृव्यवहारेणोपपादयन्न् आह तथाही [174 . 14]त्यादि । अथैकैकत्रैकैकं नास्तीति कथं द्वयोस् तत्त्वार्थम् इति चेत् । नैतद् अस्ति । एकैकस्मिन्न् एकैकस्य विशेषण 7 त्वेनावश्यं भावात् । तथाहि यस्मात् केवलप्रदेशाकारं ज्ञानं मया संवेद्यते तस्माद्धटो नास्तीति व्यवहरमाणस्यापि प्रदेशो विज्ञानावच् छेदकत्वेनोपयुज्यत एव । तथा ग(य)तः केवलः प्रदेशोयं दृश्यते ततो नास्ति घट इति व्यवहरतोपि दर्शनं प्रदेशोपाधिभावेन व्याप्रियत एवेति ।
आहत्ये [174 . 2]ति निपातस् त 8 त्क्षणम् इत्य् अस्यार्थे ।
तयो [174 . 16] र् भावाभावांशयोः । उद्भवाभिभवाभ्यां यथासंख्य ग्रहणाग्रहणव्यवस्था [175 . 16] ।
धर्मभेदे धर्मिरूपेणाभेदे ऽपि धर्मयोर् भेद इष्टः [175 . 18] । नो ऽस्माकं स्थानं[189] स्थितं व्यवस्थानं मतम् इति यावत् तस्मिन् । उद्भवाभिभवात्मत्वात् [175 . 18] उद्भूतानुद्भूतरूपत्वात् । ग्रहणं [175 . 18] च शब्दाद् अग्रहणं चावतिष्ठते तयोर् इति प्रकर[63अ] 1 णात् ।
__________नोतेस्__________
[189] स्थिते स् ।
एतस्मिन् व्याख्याने भावप्रधानः साधनशब्दोवार्तिककारस्य विवक्षित उन्नेतव्य इत्य् अभिप्रायेण साधनत्वम् इ[176 . 6]ति व्याचष्टे । सिद्धिहेतुत्व शब्दसामर्थ्याच् च कस्यचिद् इति लब्धम् । तदयोगात् सि [176 . 7]द्धिहेतुत्वायोगात् । दूषणान्तरम् अत्र समुच्चिन्वन्न् आह अभावस्ये [176 . 9]ति च । अभावस्य नास्तीति ज्ञानजनने [176 . 10] नित्यं तज्जननप्रसङ्ग [176 . 10] इति योजयित्वा कुत एतद् इत्य् अपेक्षा 2 याम् अनपेक्षितसहकारिण [176 . 9] इति हेतुभावेन विशेषणपदं योज्यम् । तदनपेक्षत्वम् एव कथम् अस्येत्य् अपेक्षायाम् अनाधेयातिशयं [176 . 10] तत्प्रति (यतयेति) योज्यम् । साध [190] नत्वायोगात् त [176 . 11]स्य प्रतिषेधमात्रस्येति प्रक्र्तत्वात् प्रत्येयम् । तस्य साधनासिद्धेर् इत्य् अस्य एकं(एकां) विधाम् अभिधाय अपराम् उपदर्शयितुम् आह अथवे [176 . 11]ति । साधनम् एव [176 . 12] साधकम् एव निश्चायकम् एवेति 3 यावत् तदुभ(द)यप्रसङ्गात् [176 . 15] नास्तीति ज्ञानोदयप्रसंगात् ।
__________नोतेस्__________
[190] साधकत्व- स् ।
अन्यथा [176 . 25] भावरूपसंसृष्टत्वप्रकारेण । तदयोगात् [176 . 26] तस्याभावांशस्यायोगात् । सा पररूपात् सं(पासं)सृष्टरूपता ।
{प्. 391} प्रकारान्तरेणाप्य् अभावव्यवहारसिद्धेर् अविबन्धात् किं तवैतत्पक्षाश्रयणप्रयत्नेनेति परपक्ष एवाशंक्यापरस्यैवाभिप्रायं 4 वर्णयन्न् आह एवं मन्यत [177 . 9] इति । घटज्ञानाभावप्रतिपत्त्या [177 . 10] वा घटाभावं प्रतिपद्यत [177 . 11] इति वर्तते । ततो [177 . 11] घटाभावप्रतिपत्तेः । घटाभावव्यवहारम् इति प्रतिपद्यत इत्य् अस्यानुवर्तनाद् उक्तम् केवलप्रदेशाभिप्रायेण साक्षाद् ग्रहणम् [177 . 15] । तज्ज्ञानाभिप्रायेण पारंपर्यग्र हणम् । स च तथा हानतो(भावतो) घटाभावः । एवं हि लोकप्रतीतिर् अनुकूलिता भवतीति भावः । मध्ये घटाभावप्रतीतेर् भावात् पारंपर्येणापि [177 . 18] इत्य् आचष्टे परः । इति [177 . 19]ना मननीयस्याकारो दर्शितः । केवलप्रदेशज्ञानापेक्षया स्वसम्वेदन [178 . 2]प्रत्यक्षेण चेत्युक्तं द्रष्टव्यम् । पर एव विशेषम् आशंक्य परिहरन्न् आह नन्व् अस्त्य् एवे [178 . 8]ति । इतरया [178 . 9] प्रतिषेधमा 6 त्रया रूपयानुपलब्ध्या तदवगतया अन्यस्ये [178 . 12]ति व्यवधानाव्यवधानकृतस्य । एवं सति को गुण इत्य् आह --सांख्य(ख्यः) स्वमते गुणं दर्शयन्न् आह तथे [178 . 18]ति तथा सही(ती)ति योज्यम् । हि र् यस्माद् अर्थे द्रष्टव्यः ।
तस्य वस्तुनो लिङ्गं भवति । [179 . 1] तल्लिङ्गम् एवं सति भवतीत्य् अर्थो ऽवसेय इति ।
भावाभावयोर् विरोधा [179 . 10]द् एकात्मत्वानुप 7 पत्तेः तुच्छरूपत्वं [179 . 15] न किञ्चिद् रूपत्वम् । तद् अपि पररूपेण न किञ्चिद् इत्य् अभिप्रायेणाह -- पररूपेण [179 . 16] तस्यापि तुच्छरूपत्वाद् इति शून्यविकल्पप्रतिभासी [179 . 17] तदभावमात्रविकल्पप्रतिभासी । तद् [191] रूप परिहारात् [179 . 18] प्रतिषेध्यरूपविरहात् । तथा तद्वत् । विरुध्येत [179 . 20] नोपपद्येत । अन्यथा [179 . 21] स्वरूपेणापि तुच्छरूपत्वप्रकारेण । कथं पुनस् तथात्वे परस्य तत्राभावो न स्याद् इत्य् आह -- यो ही [179 . 22]ति रूपान्तरन्तु सदृशरूपान्तरन्तु ।
__________नोतेस्__________
[191] तद्रूपविरहात् स्
कीदृशं पररूपशून्यं [179 . 28] निषेध्यरूपरहितम् । विषयेण वामुना विषयिणो विधानस्य विधीयमानधर्मस्य -- निर्देशो द्रष्टव्यः । पर्युदास इति [179 . 28] कथ्यत इति वर्तते । ततो विवक्षिताद् रूपात् तत्प्रतीतिः [180 . 2] रूपान्तराभाव प्रतीतिः । नेति प्रकृतं निषेधयति । प्रतीताव् इत्य् अन्तर्भू[63ब्] 1 तो ञिजर्थो द्रष्टव्यस् तेन् आकारण स्य प्रत्यायकाजनकस्य प्रतीतौ प्रत्यायने सामर्थ्यासम्भवात् [180 . 2] प्रकरणात् तस्य [180 . 5] विवक्षितस्य रूपस्येति । अर्थान्तरस्य सतो {प्. 392} गमकत्वे हि तज्जनितत्वं सामर्थ्यं वाच्यम् । नचार्थान्तरप्रसज्यप्रतिषेधेन सकलशक्तिविकलेन तज्जनितं येनास्य तथाभावो भवेद् इति भावः । अवश्यं किं तेन तत्कारणेन भाव्यं येनाकारणस्येत्य् उ 2 च्यमानं शोभेतेत्य् आह तादात्म्ये [180 . 3]ति । अन्यस्य [180 . 9] अव्यभिचारनिबन्धनस्य भावाद् इति भावः । तेन [192]प्रत्यक्षेण अग्रहणात् [180 . 9] ।
__________नोतेस्__________
[192] तेन ग्रहणात् स्
स्याद् एतद् यदि तत्त्वव्यवस्थापकाद् एव प्रमाणाद् घटस्याधेयभूतस्याभावः सिद्ध्यति, तर्हि तस्य घटासंसृष्टरूपत्वसिध्यर्थम् अभावप्रमाणम् अभ्युपेयम् । घटासंसृष्टरूपत्वम् अस्य ततः सिद्ध्यति । एवं तर्हि घटं प्रत्याधा 3 रभावो ऽस्याभावप्रमाणप्रतिषेध्यः प्राप्त इत्य् आशंकायां यथा द्वयम् अप्य् एतत् तत एव प्रसिद्ध्यति तथा प्रदर्शयितुं द्विविधो ही [180 . 9]त्यादिनोपक्रमते । अयम् इ[180 . 10]ति । इदमात्रे(त्र) देशमात्रं विवक्षितम् । तद् व्यावृत्तरूपतया [180 . 10] घटव्यावृत्तस्वभावतया । घटसंसृस्तरूपो न घटेन सम्बन्धस्याहैकरूपम् । तद्व्यावृत्तरूप 4 तयैव च घटवान् अपि घटसहितो ऽपि । ततो घटात् अन्य इति । सर्वथा घटाद् अन्यत्वं तस्यैका विधा । घटवान् इ[180 . 10]ति तु प्रमादपाठः । द्वितीयां बा(वि)धाम् आह केवलश् चे [180 . 11]ति । केवल इति, घटाद् अन्य एव सानु(सन्) -- तत्संयोगीति विवक्षितम् तद् एव कैवल्यं स्पष्टयन्न् आह -- घटं प्रती [180 . 11]ति । तस्य प्रदेशस्य तद्विवेकेन [180 . 12] घट 5 रूपविवेकेन च प्रत्यक्षेण ग्रहणे सति । घटविरहश् च [180 . 12] संयोगिघटविरहश् च । इतिस् तस्मात् । वस्तू नाम् असङ्करो [180 . 13]साङ्कर्यम्, मत्सरशब्दवद्धर्मवचनस्यापि संकरशब्दस्या(स्य) भावात्, तत् सिद्ध्यर्थं तन्निश्चयार्थं, परानभ्युपगतापेक्ष(क्ष्य)ते [180 . 20][193] तदेति [180 . 20] इहैवच्छेदः स्वज्ञान एव । परानभ्युपगतत्वम् एव 6 तस्याः प्रतिपादयति अन्यभावाद् इति । अन्यथा [180 . 21] यदि तस्य तद्भावरूपता परानभ्युपगतानपेक्षते(क्षिता) तेन प्रकारेण । प्रत्यक्षसिद्धता च [180 . 22] तदभावस्येति प्रकरणात् । तदैवे [180 . 23]ति तयोस् तादात्म्योपगमकाले । यद् वा प्रत्यक्षसिद्धता तदैव नेति योज्यम् । यद् वा सा परानभ्युपगतापेक्ष्यते किं तदा प्रत्यक्षसिद्धतेत्य् आशंकायां ने [180 . 23]त्य् उत्तरम् । के(क्व) तर्हि साभिहितेत्य् अपेक्षायाम् उक्तं प [194] क्षान्तर [180 . 23] इति । तादात्म्योपगमपक्ष इत्य् अर्थः । संयोग एव समवायशब्देनोक्त
इति व्याचक्षाणश् च धूमो हि संयोगी हेतुर् इत्य् अभिप्रैति । कुतः पुनः स्वशब्देनैव {प्. 393} गो नोक्त इत्य् आह -- संयोगे [181 . 2]ति । भेदेने [181 . 3]तरभिन्नेन रूपेण यो व्यपदेशो [180 . 3] व्यपदिश्यमानत्वं तत्र् आनादरात् । यद् वा भेदेन भिन्नेन वाचकेन यो व्यपदेशम् आ(श आ)ख्यानं तत्रानादराद् इति । किं पुनः समवाय एव नोच्यत इत्य् आह परेषां त्व् इ[180 . 3]ति । एवं तावद्भट्टार्चटोव्याचष्ट अन्ये पुनर् अस्थान एवास्य मतिविभ्रमो जात इत्य् आचक्षते । तथाहि धूमावयविधर्मिणि पर्वते वा धूमत्वे(मवत्त्वे)न धूमत्वेन च हेतुना साग्नि[64अ] 1 त्वं साध्यत इत्य् एकार्थसमवाय्येव धूमो हेतुर् इति परे संसचते (संचक्षते) । पुरस्ताच् चायं तस्माद् धूम एवात्र धर्मी कर्तव्यः । साग्निर् अयं धूमो धूमत्वाद् इत्युद्योतकरमतम् अदर्शयद् इदानीं तु तद्विस्मृत्यैवं व्याचक्षाणोवार्तिककारम् अप्य् अवज्ञयात्र(ज्ञापात्र)म् आपादयतीति -- किम् अत्र ब्रूम इति । इतरस्य [181 . 6] धूमस्य ।
__________नोतेस्__________
[193] तद् इति स् ।
[194] पक्षान्तरेण स्
ननु चे [181 . 8]त्यादिना प्रकृतम् आक्षि[प]ता सत्यं [181 . 10] प्रसङ्गोरनित्या (ङ्गेनेत्या)दिना 2 च परिहरता अनेन यदीश्वरसेनमतानुप्रवेशेन कश्चिद् अन्यभावतदभावयोर् अमीषाम् अन्यतमं सम्बन्धम् इच्छति तदभावोपदर्शनेन स तावत् कण्ठोक्तेनैव निरस्यते । सामर्थ्याच् च येपिनैयायिका-- "न वयम् अनयोर् गम्यगमकभावं वर्णयामो ऽपि तु संयुक्तविशेषणसन्निकर्षजन्मना प्रत्यक्षेण घटाभावः प्रतीयते" इत्य् अभि 3 मन्यन्ते तेप्य् अन्यभावतदभावयोः सम्बन्धाभावेन विशेष्यविशेषणभावानुपपत्तेः कथं तज्जन्मनः प्रत्यक्षस्य वार्तापि येन तदवसेयो ऽसत्त्वाद् भवितुम् अर्हतीति निरस्ता भवन्तीत्य् अभिप्रायेणान्यभावतदभावयोः सम्बन्धाभावो विभावित इति वेदितव्यम् । अस्यैवार्थस्य पुनर् उक्ततां परिहर्तुम् आह 4 पूर्वं हि [181 . 11] इति । तस्य तदन्यासंसृष्टरूपस्येत्यादिना प्रागभिहितत्वाद् उक्तम् । प्रत्यक्षान्तरम् इ[181 . 12]ति हानादिबुद्धिव्यपेक्षया बोद्धव्यम् । न च विशेषणविशेष्यभावलक्षण एव संबन्धः । सम्बन्धेन च संबन्धान्तरं मृगणीयम् इति तेन शक्यते वक्तुं षट्सु पदार्थेष्व् अस्यानन्तर्भावेन सप्तमपदार्थोपगमयन्वि 5 प्र(गमनप्र)सङ्गात् दण्डदण्डिनोर् जातितद्वतोश् च विशेषणविशेष्यभावोपपत्तेः संयोगसमवायसम्बन्धयोर् अस्तंगमनप्रस(सं)गाच् च किं कुर्वच् च तत् तस्य विशेषणम् इत्यादिविचारासहत्वाच् चेति । एवं चास्याक्षेपपरिहारापुनर् उक्तताप्रदर्शनं चानवगतवक्ष्यमाणग्रन्थार्थस्य त्वरया चोदितस्य चोद्ये 6 सत्य् आदितो द्रष्टव्यम् इतरथा संबन्धाभावोपदर्शनग्रन्थव्याख्यानानन्तरम् इदं भ्राजेतेति ।[195] तेन प्रदेशावयवा द्रव्यात्मानो [181 . 25] द्रव्यस्वभावाः । नवैव [181 . 26] नवसंख्याव्यवच्छिन्नान्येव पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनोलक्षणानि । तद् आहप्रशस्तकरः"तत्र द्रव्याणि -- {प्. 394} पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्म 7 मनांसि सामान्यविशेषसंज्ञोक्तानि नवैवेति । "[प्रश. भा. प्. 3] आदि [181 . 17]शब्दाद् गुणवत्त्वसमवायिकारणत्वावबोधेः(धः) ।
__________नोतेस्__________
[195] तेहि स्
तत्र [181 . 17] अभावो[वे] गुणरूपेणैवाभावो द्रव्ये वर्तिष्यत इत्य् आह न चे [181 . 28]ति । तत्र द्रव्ये रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्[त्व]संयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्म 8 शब्दाश् चतुर्विशतिगुणाः । न चायम् अभावस् तेषां चतुर्विशतेर् गुणानां रूपादीनाम् अन्यतमः । कर्मरूपतया तर्हि तत्रासौ वर्तिष्यत इत्य् आह -- नापी [182 . 1]ति । कर्मरूपतया [182 . 1] वर्तत इत्य् अनुवर्तते । कस्मान् न वर्तत इत्य् आह पञ्चस्व् इ[181 . 1]ति । उत्क्षेपणापक्षेपणावकुञ्चनप्रसारणगमनलक्षणेषु पञ्चसु कर्मस्वनन्तर्भावात् । कथं तस्य तत्रान[64ब्] 1 न्तर्भाव इत्य् आह तल्लक्षणविरहाद् इ[182 . 2]ति । किं पुनः कर्मणो लक्षणं यद्विरहस् तस्योच्यत इत्य् आह एकद्रव्यम् इ[182 . 2]ति । भावप्रधानत्वान् निर्देशस्यैकद्रव्यत्वम् इत्य् अर्थः । आदि [182 . 3]ग्रहणेन कर्मत्वसम्बन्धः क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं गुरुत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वं स्वपराश्रय 2 समवेतकार्यारम्भकत्वं सगानजातीयानारम्भकत्वं द्रव्यारम्भकत्वं च परिगृहीतम् । सामान्यादिरूपेण तर्हि तत्रासौ वर्त्स्यतीत्य् आह -- नापी [182 . 3]ति । अपि शब्दाद् विशेषसमवायपरिग्रहः । कुतस् तथा न वर्तत इत्य् आह तद्रूपे [182 . 3]ति । एवं ब्रुवतो ऽस्यायम् आशयः -- स्वविषयसर्वगतम् अभेदात्मकम् अनेकवृत्त्यनुवृत्तिबुद्धिकारणं हि सामान्यस्य रूपं न 3 चायं तथा । तथान्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वावि(त्वाद् वि)शेषा विनाशारम्भरहितेषु नित्यद्रव्येष्व् अण्वाकाशदिक्कालात्मनःस्व(त्मनःसु) प्रतिद्रव्यम् एकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, न चायं तथा । अयुतसिद्धानाम् आधार्याधारभूतानां च सम्बन्धः इहप्रत्ययहेतुः समवायो न चायं तद्रूप इति । 4 तदभ्युपगमात् त [182 . 5]स्य संयोगस्याभ्युपगमात् । पञ्चानां [182 . 9] द्रव्यगुणकर्मसामान्यविशेषाणां समवायित्वं [182 . 9] समवायाश्रयत्वम्
। प्रदेशाभावेपि [182 . 13] विशिष्टोद्देशाभावेपि घटाभावसंभवात् [182 . 13] । अनेन व्यतिरेकाननुविधानं दर्शितम् । न चास्य प्रतिविषयं भेद [182 . 18] इति अनेन चेतरकार्यधर्मातिक्रमो दर्शितः । सम्बन्धिभेदात् [182 . 19] । सम्बन्धिनां घटपटादीना भेदात् नानात्वात् अन्यादृशत्वाद् वा । भेदे [182 . 20] नानात्वे अन्यादृशत्वे वेष्यमाणे । तत्प्रसङ्गो भयप्र(भेदप्र)सङ्गः । समनन्तरम् एवोक्तं (?) ।
ननु च वाच्यवाचकभूताव् इह शब्दार्थौ प्रकृतौ तथा बुद्धिघटिते च शब्दार्थसामान्ये वाच्यवाचकरूपे न तु शब्दार्थस्वलक्षणे, न च तयोः 6 शब्दार्थसामान्ययोर् जन्यजनकभावः {प्. 395} सम्भवी तत् कथम् एवम् उक्तम् इत्य् आशङ्क्य विशेषाभिधानार्थम् अभ्युपगच्छन्न् आह -- यद्य् अपि चे [183 . 4]ति । शब्दार्थयोर् इ[183 . 5]ति । वाच्यवाचकभूतयोर् इति विवक्षितम् । बुद्धिकल्पितसामान्यरूपते [183 . 5]ति प्रबुद्धसंकेताहितवासनस्य या बुद्धिः "स एवायं यो मया वाचकत्वेन प्रतिपन्नः स 7 एवायं यो वाच्यत्वेन प्रतीत" इति संकेतकालोपलब्धशब्दार्थभेदेन स्वाकारं प्रतीयती जायते तया यद्रूपं कल्पितं सामान्यं तद्रूपतेति विशेषविवक्षया न । तथापी [183 . 5]ति उत्प्रेक्षा समाकलनमध्यवसाय इति यावत् तस्या निबन्धनस्य [183 . 6] बीजस्य । शब्दस्वलक्षणानुभावाद् एव हि वाचकशब्दसामान्या(न्यो)त्प्रेक्षा भव 8 तीति भावः । तन्मुखेन [183 . 7] वाचकशब्दसामान्योत्प्रेक्षाबीजशब्दस्वलक्षणोत्थापनद्वारेण अन्यभावस्य [183 . 13] केवलप्रदेशादिभावस्य । अनेन च प्राग् अपि [183 . 15] इत्यादिना सत्य् अपि तदभिप्राय [183 . 16] इत्यादिना च तदन्वयव्यतिरेकानु(काननु)विधानं तस्य दर्शितम् । भेदे सत्य् असति कार्यकारणभावे अविनाभावानुपपत्तेस् तद् द्वारक [183 . 16] [65अ] 1 इत्य् आह ।
ननु यदि यद्य् अस्य सिद्धेर् निबन्धनं तस्य तेन सह कार्यकारणभावादिकः सम्बन्धो ऽवश्यं भावीत्य् उच्यते । न तर्हि चक्षुरादीन्द्रियं स्वविषयस्य रूपादेः प्रतिपत्तिनिबन्धनं स्याद् इत्य् अभिप्रायवान् परः प्राह --[196] कथं तर्हि [183 . 28] इति । सिद्धान्त्य् आह -- परस्परे [183 . 28]ति । अनेन यदि नाम तयोः समकालिकयोः साक्षात् कार्यकारणभावो ऽस्तीति दर्शयति । अनयोर् अप्य् एवम् एव भवि 2 ष्यतीत्य् आह -- नैवम् इ[184 . 1]ति । इह अन्यभावे तदभावसाधने । एवं [184 . 1] अनन्तरोक्तं नास्ति । कुत इत्य् आह -- अन्यभावे [184 . 1]ति । तदयोगाद् ए[184 . 1]कसामग्र्युत्पादायोगात् । अयोगश् चाभावस्य कुतश्चिद् उत्पादे भावरूपताप्राप्तेस् ताद्रूप्यहानिप्रसङ्गात् घटाभावेन च विना तत्प्रदेशक्षणसदृशस्य क्षणस्याभावप्रसङ्गाच् च द्रष्तव्यः । प्रौढवादितया तत् तद् उक्तं अयुक्तं प्रतिपाद्य 3 सम्प्रत्यप्रस्तुताभिधानम् अस्य दर्शयन्न् आह -- लिङ्गलिङ्गिभावलक्षणस्य च [184 . 2] इति ।
__________नोतेस्__________
[196] कथम् इन्द्रिय स् ।
न तु केवलो [184 . 24] घटाभाव इति प्रकृतत्वात् । कैवल्यम् एव दर्शयति धर्मिणः कस्यचिद् गुणभावं [184 . 24] विशेषणत्वम् अनापन्न इति ।
तद [197] न्यस्य [185 . 23] धर्मिणो ऽभावाद् इति केवलप्रदेशरूपाद् अन्यस्य । धर्मिणो [185 . 24] लिङ्गाश्रयस्याभावाद् इति ।
__________नोतेस्__________
[197] ततश् चान्यस्य स् ।
{प्. 396} देशकालव [198] स्तुनियत [186 . 8] इति 4 हेतुभावेन विशेषणम् । प्रतिज्ञा [186 . 10] साध्यनिर्देशस् तस्याः । कृतकत्वादिपरिजिहीर्षया विशिंसन्न् आह -- व्यावृत्तितो ऽपी [186 . 12]ति । प्रदेशमात्रम् इ[186 . 14]ति ब्रुवता परेण प्रदेशत्वसामान्यं हेतुः प्रदेशविशेषो धर्मीति दर्शितम् ।
__________नोतेस्__________
[198] देशकालाव् अस्यानियतो स् ।
यो ऽसौ केवल [186 . 23] इति । पुरो ऽवस्थितघटजातीय इति द्रष्टव्यम् तस्यैव प्रकृतत्वात् । लिङ्गवज् ज्ञापकत्वाद् अवश्यप्रत्येतव्यम् इत्य् अभिप्रायेणाह -- लिङ्गभूतस्य [186 . 25] केवलस्य प्रदेशस्य [186 . 26] प्रतिपत्ताव् इति पूर्ववत् प्रतिज्ञार्थैकदेशताप्य् अत्र द्रष्टव्या । ततः केवलप्रदेशाल् लिङ्गीभूतात् ।
विषयविषयिभावेने [187 . 10]तीत्थंभूतलक्षणा तृतीया । तथाविधा भिप्रायान् अभिज्ञा(ज्ञ)तये ति[199]पाठो ऽवदातो यथाभिधानाभिप्रायान् अभ्ज्ञा(ज्ञ)तयेति पाठे तु महान् क्लेशः ।
__________नोतेस्__________
[199] अभिप्रायान् अभिज्ञतया स् ।
प्रमेय 6 त्वेन [187 . 19] साध्यत्वेन । आदि शब्दाद् अन्योन्याभावप्रध्वंसाभावयोर् न विरोधोमीमांसकमते ऽत्यन्ताभावस्य च ।
एते [188 . 3] प्रागभावादिरूपा भेदाः इतरप्रतीतेश् चा [188 . 6]भावांशप्रतीतेश् च । तत्संयोगे [188 . 6] तेनेन्द्रियेण प्रत्येतव्यस्य सम्बन्धे । इत्थं तु [188 . 5] यत् प्रतीयत [188 . 6] इति प्रकरणात् । तदसंयोगहेतुकम् इ[188 . 7]न्द्रियासम्बन्धहेतुकम् । 7 ज्ञानम् इति प्रकृतत्वात् । यद् वा तत् तथाविधं ज्ञानं असंयोगहेतुकं प्रकरणाद् इन्द्रियासंयोगहेतुकं न भवतीति । ननु भावांशयोर् भेदात् कथं "तदन्यभाव एवे"त्य् उक्तमाचार्येण इत्य् आशङ्क्याह -- एवं मन्यत [188 . 15] इति । तद्रूपवैकल्यात् [188 . 17] घटरूपविरहितत्वात् । तद्रूपवैकल्यं [188 . 17] घटरूपवैकल्यम् । तदभावे [188 . 18] घटरूपवैकल्याभावे । तस्य घटाद् अन्यस्य भावस्य प्रदेशादेः । तथा च [188 . 20] तस्यापि घटरूपत्वप्रकारे सति । अभावांशे ऽपि घटाभावो ऽपि न [200] सिद्ध्यति घटात्मनिवेति भावः । तत्संयोग एव [188 . 24] अन्यभावसंयोग एव । विचारयता [189 . 2] मयेति बुद्धिस्थम् । अवधार्यो [189 . 3] ज्ञातव्यः ।
__________नोतेस्__________
[200] न सिद्ध्येत् स् ।
सकलत्रैलोक्यविलक्षणं [189 . 11] सर्वपदार्थव्यावृत्तम् । असांकर्येण [189 . 12] अभिश्रत्वेन । संप्र [201] मुग्धाकारं [189 . 5] संदिह्यमानसर्वाकारम् {प्. 397} अनिश्चिताकारम् इति । कामलो विद्यते ऽस्येति कामली [189 . 17] तस्य । तत्परिच्छदाभावः [189 . 20] तस्य पुरोवर्तिनो भूतलादेर् अप्य् अभावस्य परिच्छेदाभावः ।
__________नोतेस्__________
[201] सम्मुग्धाकारं स् ।
ननु च कस्यचिद् दर्शनाद्योयं क्वचित् प्राप्तिपरिहारार्थो व्यवहार इति प्रकृते अदृष्टस्य च परिहारार्थ [189 . 23] इति व्याख्यानं कथम् इव न साहसम् न ह्य् अदृष्टस्य दर्शनम् अस्ति । अथ दर्शनम् इत्य् उपलक्षणम् एतत्, ततो ऽदर्शना[65ब्] 1 द् इत्य् अपि द्रष्टव्यम् इति चेत् । तद् अवद्यम्, दर्शनस्यैव संकीर्णासंकीर्णरूपावभासितया विचारयितुं प्रकांतत्वात्, यदि चादृष्टपरिहारार्थो व्यवहारो भवेत् तर्हि कण्टकादेः परिहारार्थो व्यवहारो न भवेत् किन्तु प्राप्त्यर्थो एव, सम्यक्ज्ञानपूर्विका च सर्वहानोपादानलक्षणा पुरुषार्थसिद्धिर् न स्याद् इति । स्थाने पराक्रान्तं भवता केवलं विवक्षिते दृष्टादृष्टशब्दार्थे समीचीनं मनो न प्रणिहितम्, दृष्टशब्देन हि सुखम् अत्रविवक्षितम् अदृष्टश ब्देन च तद्विपर्ययेण दुःखम्, तते......... -- कस्यचिद् वस्तुनः सुखहेतोर् दर्शनाद्योयं क्वचिद् देशे संवित्सामर्थ्यमाववि(भावि)स्मरणादिना दृष्टस्य सुखस्य प्राप्त्यर्थो व्यवहारः प्रवृत्तिलक्षणो यश् च दुःखहेतोर् दर्शनाद् अदृष्टस्य 3 दुःखस्य परिहारार्थो व्यवहारो निवृत्तिलक्षणः स न स्यात्; सर्वत्रैव सुखहेतुदुःखहेतुविषयत्वेन संप्रमुग्धाकारत्वात् सर्वस्यैव दर्शनस्येति । अतश् चैवं यद् विनिश्चयः"सुखदुःखसाधने हि ज्ञात्वा यथार्हं प्रतिपित्सवः" इत्य् अलं बहुना । किं भूतस् तदर्थो व्यवहार इत्य् आह प्रवृत्तिनिवृत्तिलक्षण [189 . 24] 4 इति यथासंख्य सम्बन्धः कार्यः । अन्यथा [189 . 26] संकीर्णरूपाप्रतिभासनप्रकारेणा स्य [189 . 26] प्रत्यक्षस्य ।
ज्ञानद्वयेन [190 . 6] प्रत्यक्षानुपलम्भरूपेण । पर [190 . 16]म् इतिमीमांसकम् इत्य् अवसेयम् । एवम् अभ्युपगमे कारिते ऽपि किं फलम् इत्य् आह तथा चे [190 . 17]ति । यथाश्रुति ज्ञा परिणामाख्येन धर्मेणे [190 . 18]त्य् उक्तं द्रष्टव्यम् । भावां [202] शस्यैवाभावत्वेनोप 5 गतत्वाद् इ[190 . 20]ति । "भावान्तरविनिर्मुक्तो ऽभावोत्रानुपलंभवद्" इत्यादिवचनाद् उक्तं भावान्तरस्याप्य् अतुल्ययोग्यतारूपस्य तथात्वेनेष्टत्वात् । न त्वदुपगतानुपलब्धिरूपत्वम् अभावप्रमाणस्य भविष्यतीत्य् अत आह तुल्ययोग्यतारूप [203] स्यै [190 . 20]वेति । अन्यथा तस्य तदभावरूपत्वानुपपत्तेर् इति भावः । भवत्य् एवं 6 तथाप्य् एकज्ञानसंसर्गित्वानपेक्षितया भेदो भविष्यतीत्य् आह तुल्ययोग्यतारूपस्य [190 . 20][204] एतज्ज्ञानसंसर्गिण एव चे [190 . 20]ति । अन्यथा तुल्ययोग्यतारूपतैव {प्. 398} न सिद्ध्येत् । असत्यां च तस्यां न प्रतियोग्यताभावनश्चयः स्याद् इत्य् आशयः । तथोपेयम् अ[190 . 21]भावप्रमाणतयोपगन्तव्यम् । तज्ज्ञानात् [190 . 21] तस्य तदतुल्ययोग्य 7 तारूपस्य तदेकसंसर्गिणश् च वस्तुनो ज्ञानात् । एतद् एव साधयन्न् आह नही [190 . 22]ति । कथम् अभावः [190 . 28] प्रसज्यप्रतिषेधयोर् निरूपाख्यानत्वात् कस्यचित् परिच्छेदो [191 . 1] भवति । तद्धेतुभावः [191 . 2] प्ररिच्छेदहेतुत्वम् ।
__________नोतेस्__________
[202] भावान्तरस्यैव- स्
[203] स्यैक- स्
[204] एकज्ञान-
तदे [191 . 10]त्य् एवम् अभ्युपगमकाले । कस्यचिद् अपी [191 . 10]त्य् अनेन कस्यचिद् अपीति मूलग्रन्थम् अनुभासते । तद् एवाहे ति कस्यचिद् इति ग्रहणकपदविवक्षि 8 तम् एवाहआचार्यः। तस्ये [191 . 10]त्य् अनेन तस्येति मूलपदमुल्लिङ्गार्थम् आह सलिलोपलम्भाभावस्ये [191 . 10]ति । तदन्यस्य वे [191 . 14]ति । मूल(लं) व्याचक्षाण आह --[205] ततो ऽपी [191 . 11]ति । कस्मात् पुनस् ततः सलिलाद् अन्यस्यानलादेर् इति व्याख्यायते न तु तत्प्रतिषेधमात्रपुरस्कारेणेत्य् आशंक्याचार्यस्यैतद् द्वयोपन्यासे ऽभिप्रायं वचनभङ्ग्या वर्णयितुम् आह वि [66अ] 1 ज्ञान [206] ञ् चे [191 . 11]ति । तत्रापि [191 . 12] "विज्ञानं वान्यवस्तुनि" इति लक्षणे तदङ्गीकरणे ऽपरिणामशब्देनान्यवस्तुज्ञानाभ्युपगमं इति यावत् । तदात्मकत्वाद् अ[191 . 13]न्यवस्तुज्ञानात्मकत्वात् । तत आत्मनो यः परिणामो मा भूद् भेदेन व्यवस्थाप्येत "विज्ञानं वान्यवस्तुनि" इति लक्षणम् इति प्रकरणात् । कस्यचिद् अपी त्यादेर् मूलग्रन्थस्य समुदायार्थम् इदानीं ततश् च 2 कस्यचिद् अपी [191 . 14]त्यादिना वक्तुम् उपक्रमते । स्थाप [191 . 15]शब्देन गाढस्वापो ऽभिप्रेतः । प्रगाढनिद्राक्रान्तस्य हि विषयग्रहणवैकल्यं भवति । यदि यत् तदपेक्षेणान्यस्यान्यत्वेन सर्वं सुस्थं स्यात् परस्य तदा व्यवधानाद्यवस्थैव प्रसङ्गार्थमाचार्येण नोपदर्शिता स्याद् इति भावो व्यवधानादिग्रहणेन च एतद् दर्शयती [191 . 16]ति ब्रुवतो द्रष्टव्यः । प्रकारान्तरेणा स्मद् अभिमतात् प्रधानाद् अन्येन प्रकारेण । न तिष्ठेद् इति अस्यार्थकथनं प्रवर्तेते [191 . 25]ति । तर्हि प्रतिष्ठेतैवार्थक्रियावाप्तये प्रस्थानम् एव कुर्याद् इत्य् आह नापी [191 . 25]ति । न प्रतिष्ठेते त्य् अस्यार्थं कथयति न प्रवर्तेतेति [191 . 25] एतद् एव प्रदर्शयितुम् उपक्रमते । तथाही [191 . 26]ति ।
__________नोतेस्__________
[205] ततो वे- स् ।
[206] इज्ञानं वे- स् ।
तत एकदशनाद् अन्या 4 भावे ज्ञानम् उत्पद्यते तथोच्यते [192 . 19]न्यद् इत्य् उच्यते । तद्रूपतया [192 . 19] सकलासंकीर्णवस्तुरूपावभासितया । तदन्यद् वस्तु {प्. 399} प्रतियद् एवम् अन्याभावं प्रत्येतीति व्यपदिश्य [192 . 20] तदयोगाद् अ[192 . 20]न्यभावप्रतिपत्त्ययोगात् । यश् चान्यो विकल्पो पाश्चात् यो [193 . 8] विधिविकल्प इत्य् अर्थात् । अभावाख्यप्रमाणं [193 . 9] नेत्य् अनुवर्तनीयम् । वहनं 5 वहित्रं तद् आरूढैः [193 . 17] ।
तदात्मनो [195 . 5] शेषपदार्थवृत्तात्मनः सकाशात् तत् [195 . 6] प्रत्यक्षम् । तत्प्रामाण्यसमाश्रिता [195 . 7] अभावप्रामाण्यसमाश्रिता ।
स्वभावत एव [195 . 10] स्वहेतुत एव । तस्या(स्य) [195 . 13] अभावाख्यस्य प्रमाणस्य ।
अध्यात्मनः [195 . 24] परात्मनः सकाशात् । तदन्येभ्यो निवर्तनं [196 . 1] व्यवच्छेदनं तस्य गृह्यमाण 6 स्येत्य् अर्थात् तत्परिच्छेदप्रसङ्गात् [196 . 7] अन्यात्मपरिच्छेदप्रसङ्गात् ।
तदात्मनः [196 . 10] सकाशाद् अशेषमन्यन् निवर्तयतीति वर्तते । तदात्मनोपलभमानेति कथम् उच्यत इत्य् अपेक्षायां तथाविधस्वभावस्यैवानुकाराद् इ[196 . 13]ति योज्यम् । उपलभमाने [196 . 14]ति हेतौ शानयोर् विधानाद्धेतुपदम् इदम् अन(म् अव)वसेयम् । 7 अन्यदेशे [196 . 15]त्यादि तथात्वप्रच्युते [196 . 14]र् व्याख्यानम् । तथाभूताद् इ[196 . 24]त्यादेर् मूलग्रन्थस्य अभावात् कार्यम् आह । अभावकल्पनया [196 . 28] इत्य् अभावप्रमाणकल्पनयेति प्रकरणात् । विषयम् एवा(विषयेणैव) विषयिणो निर्देशात् द्रष्टव्यम् ।
[207] अन्यच् चैवम् आत्मकं [197 . 1] न भवतीति वर्तते । ततो [197 . 3] निर्विकल्पकात् प्रत्यक्षात विधिप्रतिषेधविकल्पाव् इ[197 . 4]ति यथावासनाप्रबोधं 8 विधिविकल्पञ्चेति बोद्धव्यम् । अथ वैकल्यस्य (?) साक्षाद् इतरस्य सामर्थ्याज् ज्ञानाद् विधिप्रतिषेधविकल्पद्वयोपजनन उक्तः ।[208] तदर्थाद् इति [197 . 21] तत्त्वान्यत्वाभ्याम् भिन्नतया विकल्पता(ना)द् इत्य् अर्थः । येन निमित्तेन विवक्षितस्य ततो ऽन्यत्वं न व्यवस्थाप्यते, तस्य निमित्तस्य समानत्वात् [197 . 27] । कथं प्रकारान्तराभावं सूचयतीत्य् अपेक्षायां योज्यम् [66ब्] 1 तद्विरुद्धस्येति [197 . 27] तेन परिच्छिद्यमानेन विरुद्धस्यैतत्परिहारेण व्यवस्थितस्य तदसंकीर्णस्येति यावत् । तद्विरुद्धस्य सर्ववस्तुनो द्वैविध्यसाधनम् {प्. 400} एव कुत इत्य् अपेक्षायां सर्वस्यान्यतया व्याप्तिसाधनाद् इति [198 . 4] योज्यम् ।
__________नोतेस्__________
[207] अन्यथैतदात्मकम् स् इति तु न सम्यक् ।
[208] ततो ऽर्थात् स्
एकस्य प्रमाणस्य व्यापार एव [198 . 6] इति ब्रुवतो ऽयं भावः -- तस्यैवैकस्य प्रमाणस्य वृत्तं विमृष्यमान(ण)म् एवम् अवतिष्ठते । यत 2 इति तद्रूपत्वात् [198 . 10] परासंकीर्णरूपत्वात् । वस्त्वनतिक्रमेण यथावस्तु [198 . 10] इति दृष्टतदन्यत्वेन सर्वस्य व्याप्तिसाधनाद् इत्य् अपि प्रमाणवृत्तविचारेणोच्यत इत्य् अवसातव्यम् ।
इतिना [198 . 27][न]न्तरोक्तस्य न्यायस्याकारो दर्शितः । अनन्यसहायत्वं [199 . 1] च कार्यस्य [199 . 1] एकजातीयकार्यापेक्षया द्रष्टव्यम् । द्वयोर् भावो द्वितैव द्वैतं तत् सिद्धेः [199 . 3] । ह(प्र)तीयत्य् एव [199 . 6] बुद्धिः व्यवस्था [209] पककाल एवा [199 . 6]तद्रूपं ततः पृथक् करोतीति अनुवर्तनीयम् । इतरथा शतृप्रत्ययस्यानुपपत्तिः प्रसज्येत । अत्र कथं प्रत्ययान्तराभावः सिद्ध्यतीत्य् अपेक्षायाम् आह -- तद्विपरीते [199 . 6]त्यादि ।
__________नोतेस्__________
[209] व्यवस्थापनाकाल एव स्
एकप्रमाणनिबन्धनां [199 . 9] इति प्रत्यक्षैकनिबन्धनाम् अनुमानैकनि 4 बन्धनां वेति विवक्षितम् । न तु परोप्येनाम् अनेकप्रमाणनिबन्धनाम् इच्छति यद् अनेन व्यवच्छिद्येत । अभावप्रमाणमात्रनिबन्धनतया तेनोपगमाद् इति तस्योपलभ्यमानस्य [199 . 11] तदात्मनो [199 . 12] व्यवच्छेद [199 . 12] इति सम्बन्धः । "तदन्यात्मन" इति मूले निर्देशात् कथं त्वया तदन्यात्मताया [199 . 14] इति व्याख्यायत इत्य् अ 5 नुयोगम् आशङ्क्याह भावप्रधानत्वान् निर्देशस्य [199 . 14] इति ।
अवच्छिद्यते [199 . 18] व्यवच्छिद्यते । सा तदेकाकारनियता प्रतिपत्तिः ।
स च [200 . 3] तद्देशकालश् च स्यात् । तद्देशता च लोकप्रसिद्धदेशाभिप्रायेणोक्ता द्रष्टव्या । न तु वस्तुनो मूर्तं वस्तु वस्त्वन्तरेणैकदेशं नामेति । नो चेत् कथम् इति वर्तते । अभावसिद्धिर् इ[200 . 9]त्य् अ 6 भावव्यवहारसिद्धिर् मूढं प्रतीति च द्रष्टव्यम् । अमूढस्य प्रत्यक्षाद् एवाभावव्यवहारसिद्धेः । एतच् चानन्तरम् एव प्रतिपादयिष्यते । यथोक्तम् एवानुपलम्भं दर्शयितुम् आह् ओपलब्धिलक्षणप्राप्तस्य [200 . 9] इति । अनुपलम्भाद् इति चावर्तनीयम् । तेनायं वाक्यार्थः -- उपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् इति । ननु उप 7 लब्धिलक्षणप्राप्तानुपलम्भ एव कीदृशो यस्मात् तत्सिद्धिर् इत्य् आह तत्तुल्ये [200 . 10] ति । तेन निषेध्येन सह तुल्या स्वज्ञानोपजननं प्रति योग्यता सैव रूपं स्वभावो यस्य {प्. 401} स तथा तस्य यदुपलम्भ उपलभ्योपलभमानधर्मः स आत्मा यस्य [200 . 10] तस्मात् । चो [200 . 10] व्यक्तम् एतद् इत्य् अस्यार्थे । यद् वा उपलम्भशब्देन ज्ञानमात्रस्याभिधानं । तेन तु तत्तु 8 ल्ययोग्यतारूपोपलभ्यमानसेन इति समुच्चीयते इत्य् एवंरूपाद् अनुपलम्भात् । अन्यथा व्याख्याने तूपलब्धिलक्षणप्राप्तस्येत्य् असङ्गतं स्याद् इति । न तु सामान्येन [200 . 10] अनुपलम्भमात्राद् इत्य् अर्थः । किम् एवंवादिनो ऽपि सम्भवति येनैवम् उच्यत इत्य् आह -- यथाहुः पर [200 . 11] इति । वस्तुसत्तावबोधार्यं [200 . 13] यत्र वस्तुरूपेण प्रमाणपञ्चकं [67अ] 1 न जायते तत्रेति [200 . 12] योज्यम् । पञ्चावयवा यस्येति पञ्चकम् । "संख्यायातिसदत्ताया कन्" इत्य् अनेन कन् । प्रमाणं च तत् पञ्चकं चेति पश्चात् कर्मधारयः कार्यः प्रमाणपञ्चकं [200 . 12] न जायत इति च पञ्चानां प्रमाणानां मध्ये यत्रैकम् अपि न जायत इत्य् अर्थः । सति वस्तुनि तदनुदय एव कथम् इत्य् आह सत्य् अपी [200 . 15]ति ।
तद्विषयाया उपलब्धे [200 . 19]र् लिङ्गत्वम् अपि प्रकरणात् । तदभावेन सह सम्बन्धाभावस्य तुल्यत्वाद् इ[200 . 25]ति योज्यम् ।[210] भावरूपाया उपलब्धिरूपभावरूपायाः ।
__________नोतेस्__________
[210] अन्यभावरूपायाः स्
कस्मात् सकाशात् प्रमाणान्तरं प्रत्यक्षादिकं नास्तीत्य् आह -- अन्यभावविषयोपलब्धेर् इ[201 . 27]ति । किम् इति [202 . 6] सामान्यतः पृच्छति । पुनर् इ[202 . 6]ति विशेषतः सो ऽन्यभावो [202 . 6] योसौ केवलप्रदेशलक्षणो ऽन्यभावः प्रत्यक्षलक्षणेने [202 . 7]न्द्रियजप्रत्यक्षलक्षनेन । एतच् च प्रायेण लोको यस्मात् केवलम् इदं भूतलं वे 3 द्यते तस्माद् घटो ऽत्र नास्तीति प्रत्ययमुखेन प्रतिपद्यत इत्य् अभिप्रायेणोक्तं द्रष्टव्यम् । अनुपलम्भेन सिद्ध [202 . 8] इति च तस्यापि प्रत्यक्षस्य तदनुपलम्भरूपत्वात् वास्तवानुवादो बोद्धव्यो न तु तस्यानुपलम्भरूपताप्रतिपादनम् इदानीं प्रकृतं नाप्य् उपयुक्तम् इति । अभावव्यवहारं साधयेत् [202 . 8] नाभावम् इत्य् अर्थात्, तस्य केवल 4 प्रदेशोपलब्धिकाल एव सिद्धत्वाद् इति भावः । ननु अनुपलब्ध्या अभावव्यवहारः साधनीयो न चासौ प्रदेशस् तथेत्य् आह कर्मस्थक्रियापेक्षये [211][202 . 8]ति । उपलब्धेः कर्मस्थत्वापेक्षया तत्पर्युदासेनान्यभावस्य तथात्वम् इत्य् अर्थः । प्रत्यक्षणाभावव्यवहारं प्रवर्तयितुम् अनीशानो ऽस्य मते मूढो वाच्यस् तस्य प्रतिपत्तौ [202 . 10] प्रतिप 5 त्तिशब्देन चाभावव्यवहारैकदेशो ज्ञानलक्षणो अनुष्ठानलक्षणो वा वक्तव्यः । तस्यां साध्यायां व्यवहारश् च तद् इतरो द्रष्टव्यः । मूढं प्रतिपत्तारं प्रति तं साधयति नामूढम् इति च समुदायार्थः । अमूढस्य {प्. 402} तर्हि किं निबन्धनो ऽसद्व्यवहार इत्य् आह -- यस् त्व् इ[202 . 11]ति । प्रसङ्गेना [202 . 13]स्यैव प्रस्तावेनालं न किञ्चित् । अत्रधर्मोत्तरःप्रा 6 ह -- "तदेकाकारनियतं पटीयो ऽपि प्रत्यक्षं नाभावव्यवहारं प्रवर्तयतुम् अलम् अदृष्टानाम् अपि सत्त्वान् नित्यं शंक्यमानानुपलम्भव्यभिचारो ह्य् अभावः" इति । दृश्यत्वविशेषणापेक्षायां चानुपलब्धिर् एवायातेति चाभिप्रैति । अत्र तु यथा प्रतिवक्तव्यं तथास्माभिःस्वयूथ्यविचारे विचारितं विस्तरेणेति तत एवापेक्षितव्यम् इति ।
__________नोतेस्__________
[211] -पेक्षायाम् स्
यद्य् अपि बहुप्रकारानुपलब्धिस् तथापि मूलभूतप्रकारप्रदर्शनार्थं त्रिविधे [202 . 21]त्य् उक्तं द्रष्तव्यम् । सविशेषणा [202 . 28] सह विशेषणेन उपलब्धिलक्षणप्राप्तत्वलक्षणेन वर्तत इति ।
तथा कारणव्यापकानुपलब्धिलक्षणस्ये [203 . 26]ति कारणव्यापकयोर् यानुपलब्धिः तद्विविक्तप्रदेशज्ञानात्मिका तल्लक्षणस्येति । सिद्धसम्बन्धयो [204 . 3]र् इति कारणव्यापक 8 योर् इति मूलग्रन्थस्यापेक्षणात् सङ्गतम् इदम् । तथाभावदर्शने [204 . 10]ति एकदर्शनेनान्यदर्शने तथैकादर्शनेनान्यदर्शने ऽपि भूयस् त्व् अविशेषणत्वे च क्रियमाणे लोहलेख्यत्वपार्थिवत्वादिना प्रत्ययवत् तल्लब्धी तद्विविक्तपदार्थज्ञानात्मिके तयोः संदेहरूपत्वात् । तदभावस्य च तयोः कारणव्यापकयोर् अभावस्यच संदिग्धलक्षणता वाच्या । एतद् एव विदर्भवचनेन मात्रया दर्शयन्न् आह -- [67ब्] 1 पुरुषस्य त्व् इ[204 . 11]ति । यदृच्छासंवाद [204 . 12] इति ब्रुवतो यथामलककषायरसत्वादिना संस्कारादिना अन्यथाभावसम्भवे ऽपि साहचर्यादर्शनसंवादस् तथा विवक्षिते ऽपि भविष्यतीति भावः ।
प्रतिबन्धः [204 . 16] सम्बन्धो ऽभिधातव्यो न तत्प्रतिबद्धत्वं यथान्यत्र । साध्यसाधनयोर् इ[204 . 16]त्यादेर् अनुपपत्तिप्रसङ्गात् । प्रतिबन्धे चेष्टौ च सर्वेषां साधनवत्त्वेन 2 च साध्यवतां साध्याभाववत्त्वेन च साधनाभाववताम् अर्थतां द्रष्टृम(?) पेक्षत्वेपि व्याप्तिमतोर् अन्वयव्यतिरेकयोर् निश्चयः सञ्जायते । सोयम् उपानटधर्ममात्र (?) पृथिव्याच्छादनं न्यायः प्रायः प्रकारो द्रष्टव्यः ।
जरन्नैयायिकाभिप्रायेण नैयायिक [205 . 23] 3 ग्रहणम् अस्य बोद्धव्यम् । अधुनतनाः पुनर् अन्वयव्यतिरेकिणं पंचलक्षणम् अन्वयिनं व्यतिरेकिणं चतुर्लक्षणलक्षणम् आचक्षत इति सामान्येननैयायिकग्रहणे व्याख्यायमाने तन्मतावेदनमस्यावेदितं स्याद् इति । संख्याया गुणत्वेन द्रव्याश्रितत्वाद् धेतुद्रव्यस्ये [205 . 28]त्य् आह । एकसंख्यानवच्छिन्नायाम् इत्य् अस्यैवार्थकथनं {प्. 403} प्रतिहेतुरहितायाम् [206 . 3] इति । साध्यप्रतिपक्षसाधको हेतुः प्रतिहेतुः तद्रहितायाम् । सिषा 4 धयिषितविरुद्धं न व्यभिचरतीति ।
तथा ज्ञातत्वं चा [206 . 6]परं रूपम् इति प्रागुक्तम् अनुवर्तते । यथोक्तबाधाप्रमाणेन साध्यधर्मनिराकरणं तस्मिन् [206 . 17] साध्ये ऽसति [246 . 17] ।
वतेति [207 . 2] निपातो ऽनुविषये । यंत्रद्वय [207 . 3]शब्देन प्रकरणादाकर्षकनिष्काषकलक्षणे यन्त्रे वक्तव्ये ।
यथा किल केनचित् कुतूहलिना कश्चित् तपस्वी स्त्रीरूपधारिणी तृतीयां प्रकृतिं परिचरणायोग्यां शब्दवाच्याम् उद्वाह्य पुत्रं तदर्थक्रियां वा व्यपदेशेन प्रार्थ्यते तेन तुल्यम् इदं यदविनाभावविकलं हेतुम् उपदर्श्य धर्मिणि साध्यकथनम् इति मन्वानः परोपहासपूर्वकमाहाचर्यः शण्ढम् उद्वाह्ये [207 . 15]ति मूलमनूद्यस्यात्वं(र्थं?) प्रकृते योजयन् दर्शयति -- तस्मिन्न् इ[207 . 15]ति । 6 तस्मिन् साध्यधर्मिणि साध्यधर्मसाधनशक्तिविकलं [207 . 16] साध्यधर्मप्रकाशनशक्तिवियुक्तम् । तद्वैकल्यञ् च तस्य तत्र तदविनाभावितयानिष्टेः । शब्दार्थस्यैतद्व्याख्यानं प्रतिच्छायया द्रष्टव्यम् । उद्वाह्य [207 . 15] पदार्थं तथैव व्याचक्षाण आह -- परिणाय्ये [207 . 16]ति । परिणाय्यपदेन च तत्संबन्धत्वोपदर्शनं तल्लक्षितम् । तल्लक्षणं 7 पुत्रं मृ [212] ग्यते [207 . 17] प्रार्थ्यते याच्यत इति यावत् । ननु चान्यत्राविनाभाव्यपि हेतुस् तत्र साध्यं विभावयेद् इति को ऽयम् उपहास इत्य् आह नही [207 . 20]ति । यदम्भस् तल्लवणरसं यथा सामुद्रम् । अम्भश् चेदं नादेयम् इति प्रयोगे चैतद् उच्यत इत्य् अवसेयम् । लवणतया [207 . 21] लवणरसतया ।
__________नोतेस्__________
[212] मृगयते स् ।
अम्भस् त्व् आदिषु [207 . 25] हेतुयोपनीतेषु तथा दर्शनात् । अबाधितधर्मा [207 . 27] 8 अबाधितसाध्यधर्मा ।
तन्निपतस्य [208 . 13] बाधकप्रमाणवृत्तिनियतस्य । व्यापकाभावे व्याप्यस्याप्य् अवश्यम् अभाव इति भावः । तद्भावस्य [208 . 20] साध्यभावस्य । अत एवे [208 . 21]ति बाधकप्रमाणे सति साध्याभावाद् एव ।
तदभावेपि [208 . 23] बाधकप्रमाणवृत्त्यभावेपि वा भावात् साध्याभावस्येति प्रकरणात् ।
हेतोः सामर्थ्यं हेतुसामर्थ्यं तत्प्रतिपादयन्न् आह परः [209 . 2] । कथं [68अ] 1 हेतुसामर्थ्यं प्रतिपादयतीत्य् अपेक्षायां योज्यम् -- तत्रान्यथात्वम् [213]इ[209 . 1]ति । {प्. 404} दर्शयन्न् इति [209 . 2] हेतौ शतुर्विधानात् तत्राबाधाया अन्यथात्वप्रदर्शनाद् इत्य् अर्थः । तत्सिद्धये [209 . 6] साध्यसिद्धये । यत्रासौ तदर्थम् अभिधानीयः स हेतुप्रयोगस्य विषयः [209 . 6] ।
__________नोतेस्__________
[213] तत्रान्यथार्थम् इति स्
वै [209 . 9]शब्दो ऽक्षमायां बाधानुपलब्धिर् अबाधेत्यादि यद् उच्यते तत्र क्षम्यत इत्य् अर्थः । किंत्व् इ[209 . 9]ति निपातानिपातसमुदायः 2 प्रश्ने । तस्या [209 . 10] इतिर् मात्रार्थानां भयहेतुर् अपादानम् इत्य् अपादानत्वाद् अपादाने पञ्चमीयम् ।
काकु [209 . 16]शब्देनात्र वचनविन्यासो विवक्षितः । प्रश्नार्थस्य किं शब्दस्याप्रयोगेपि काकुर् एव शिरःकम्पसहिता प्रश्नं प्रकाशयतीत्य् अभिप्रायेण पृच्छती [209 . 16]ति व्याचष्टे । बाधानुपलब्धिर् अबाधेति अभिधानाद् उक्तम् एतद् इ[209 . 16 - 17]त्य् अभिप्रायवान् परः प्राहोक्तम् एवै 3 तद् इति । किम् अर्थं प्रयुज्यते [209 . 18] स हेतुर् इति सामर्थ्यात् । अभावनिश्चयं [209 . 24] परमार्थतो ऽसद्भावनिश्चयं प्रति ।
संशयितस्य [210 . 6] बाधां प्रति जातसंदेहस्य । ज्ञान [ नि ] वृत्त्या [211 . 4] बाधकज्ञान[नि]वृत्त्यासौ साध्यबाधा ।
आदि [212 . 21]शब्दाद् अनुमानविरुद्धादेः संग्रहः तेषां [212 . 23] {15] प्रत्यक्षविरुद्धादीनाम् उपवर्णनं [212 . 23] स्वरूप 4 प्रदर्शनम् ।
तद्भावायोगाद् विषयत्वायोगात् साधकप्रमाणस्यानुमानस्यावृत्तेर् यद् उक्तं "व्यस्तोहेतोर् अनाश्रय" इति भावः ।[214] किं यथा बाधाविनाभावयोर् इ[213 . 9]ति पाठो युक्तरूपः । किंशब्दवियुक्ते तु पाठे सशिरःकम्पयाकांक्षा एवंवदतः प्रश्नो ऽभिप्रायगतो द्रष्टव्यः ।
__________नोतेस्__________
[214] कथं -- यथा बाधाविनाभावयोः स्
तल्लक्षणं [213 . 14] तस्य हेतोः लक्षणम् । अन्वयव्यतिरेकात्मा विनाभावः [213 . 14] । लक्षणशब्दस्य चासति बहुव्रीहावजहल्लिङ्गत्वात् स्वलिङ्गेन निर्देशः ।
विरुद्धस्यापि विपर्यये सम्यग्धेतुत्वात् तदभिप्रायेण विपर्ययस्य चे [213 . 23]त्य् उक्तम् ।
भावसिद्धि [214 . 14]स् तत्त्वसिद्धिस् तदयोगात् ।
विवक्षितैकसंख्यत्वप्रतिपादित [214 . 17]म् इति विवक्षितैकसंख्यत्वशब्देन प्रतिपादितम् इत्य् अर्थः । 6 पूर्वकस्ये [214 . 21]त्यलक्षणम् एतद् इत्य् अस्य । अत्रापि बाधितत्वादिरूपान्तरयोगिन्य् अपि पूर्वयोजितुम् उपदर्शितम् ।
निष्प्रमाणिके [214 . 59]त्य् एतद्धेतुभावेन विशेषणम् । स इति [215 . 3] स एवेति विवक्षितं । निरस्तप्रतिपक्षत्वम् एव कुत इत्य् आह -- तथाविधे [215 . 12] तथा {प्. 405} भूतविशेषवति पटू तथाविधे साध्ये क्वचिद् धर्मिणि [215 . 13] संभवति सति । तद 7 व्यभिचारिणः [216 . 7] साध्याव्यभिचारिणः ।
वेदप्रामाण्यनिराकर्तृष्व् इ[217 . 14]ति प्रत्यक्षाद्यधिकारोपि तेनासंवादादीत्यादिष्व् इत्य् अभिप्रेतं -- यद् आह --वार्तिके कुमारिलः--
"स्वर्गयागादिसम्बन्धविषयाश् चोदना मृषा ।
प्रत्यक्षाद्यधिकारोपि तैर् अर्थांसंगतिर् यत[215]" [श्लोकवा. 2.26] इत्यादि ।
__________नोतेस्__________
[215] श्लोकवार्तिके तु -- "प्रत्यक्षाद्यगताथत्वादीदृग्बुद्धादिवाक्यवत्" इति उत्तराधर्म
सौगतैर् इ[217 . 14]तिवार्तिककारात् पूर्वैर् इति विवक्षितम् । प्रतिहेतव [217 . 16] इत्य् अदुष्टकारणजन्य 8 त्वाद् इत्यादयः । यथाहकुमारिलः--
"चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः ।
कारणैर् जन्यमानत्वाल् लिङ्गाप्तोक्त्यक्षबुद्धिवद् ॥" [श्लोकवा. 2.184] इत्यादि ।
तन्निमित्तसंभवाद् अ(द् आ) [217 . 20]शंकानिमित्तसंभवात् । आक्रोशमात्रेण [217 . 20] विपूर्वपक्षे भाषिकामात्रेण । केषां न कश्चिद्धेतुः स्याद् इत्याह एकसंख्यावादिनाम् इ[218 . 1]ति ।
सम्यग्ज्ञानविपर्ययहेतुर् इष्ट [218 . 6] इति प्राक्तनेनआचार्यग्रन्थेन । अ [68ब्] 1 थाप्रदर्शितहेतुर् इ[218 . 6]त्य् अस्याचार्यग्रन्थस्य सम्बन्धः कार्य इति । न कथञ्चिद् व्यवच्छेदहेतुकं [216][218 . 9] केनापि प्रकारेण नित्यानित्यव्यवच्छेदहेतुत्वम् । ताभ्याम् अस्यान्वयव्यतरेकासिद्धेर् अभिप्रायेणैवोक्ते ।
__________नोतेस्__________
[216] -हेतुत्वम् -- स्
भुजम् उत्क्षिप्य [218 . 16] बाहुमूद्ध्...वीर्कृत्य फूत्कुर्वन् [218 . 17] फूत्कारं मुञ्चन्न् इत्य् अर्थः । कैश्चिद् [218 . 18]ईश्वरसेनजिनेन्द्रबुद्धिप्रभृतिभिः । अप्रच्छादनीयं [218 . 20] अनावरणीयम् ।
मी 2 मांसकमतेन निरंतरा प्रीतिः स्वर्गे(र्गो) वाच्यः । अपवर्गस् तु मोक्षः । स च दर्शनभेदाद् अनेकविध इष्टः । स्वर्गापवर्गयोजनम् एववैयाकरणमताश्रयेण दर्शयन्न् आह -- तथाही [219 . 1]ति ।मीमांसकमताश्रयेण् आथवे त्य् अनेन पक्षान्तरम् आह -- वेदान्तनिषेवणात् [219 . 5] आत्मतत्त्वनिषेवणात् । प्रज्ञाजातीयेन [219 . 5] प्रशस्तप्रज्ञेन । उप 3 हासेप्य् अयं प्रयोगः प्रकरणात् ज्ञातव्यः । यद् अस्य सामर्थ्यम् आसीत् तत् तदुपदर्शनेनोत्कीलितं {प्. 406} अपनीतं [219 . 8] इति व्याचक्षाणश् चोत्कीलितम् अपनीतं साधनसामर्थ्यं यस्य श्रावणत्वलक्षणस्य हेतोः स तथोक्तो मूलग्रन्थ इति दर्शयति । ननु तानि वस्तूनि ते च पुरुषाः प्रतिहेतुनैतद्विपरीतरूपोपदर्शनद्वारा तथाभूतायाः संपदः प्रच्याव्यन्ते, न तु तेन हेतुनेति किम् उच्यते तानि वस्तूनि नित्यत्वसंपदः प्रच्याव्य तांश् च पुरुषाण् स्वर्गापवरसम्पद [219 . 8] इति चेत्, सत्यम् एतत् केवलं यस्माद् असौ विद्यमान एव स्वयं प्रापितायास् तथाभूतायाः संपदः प्रच्याव्यमाना न समानजातीयेन परेण 5 तानि वस्तूनि तांश् च पुरुषांस् त्रायस्व त्रायस्वेति फूत्कारं विप्लवम् आभाषमाणानीव स्वजीवितम् अपेक्षमाण इवोपेक्षते । तस्मात् प्रच्याव्या वयं तं परं प्रयुक्तं इवेत्य् अभिप्रायाद् अदोषत्रय (?) इति चेत्, सर्वञ्चैतत् किं यो वस्तुतो असंभवात् प्रतिहेतुर् इत्यादिदूषणम् अवाधितविषयत्वे ऽपि लक्षणे प्रतिहेतुप 6 दम् अपोद्धृत्याबाधपदं प्रक्षिप्य वक्तव्यं । अत एवस्माभिर् एतन्न् इदानम् एव किं वस्तुतो ऽसंभवद्बाधत्वम् अबाधितविषयत्वम् अभिप्रेतमुताप्रतिभासमानबाधत्वम् अपि किं तदैव किं वा अन्येषाम् अपि । तत्रापि किं तदैवाहोस्विद् उभयं वदापि (?) । अन्येषाम् अपि किं तदैवाथ कालान्तरे ऽपीत्यादि विकल्प्य सर्वत्र यथा 7 योगं दूषणम् उपनयद्भिर् आत्मनिराकरणे ऽ...आधि[त]त्वम् आत्मसाधनस्य प्रतिसंधानलक्षणस्य हेतोर् विशेषणम् अपहस्तितम् । ततो ऽन्यैर् अपि जिगीषुभिर् अबाधि[त]त्वे विशेषणे सर्वत्रैवानयैव दिशा प्रत्यवस्थेयम् इति ।
तल्लक्षणं [220 . 23] लिङ्गलक्षणम् । ज्ञानस्यैव भावप्रत्ययेन [220 . 24] त्वत्प्रत्ययेन । एतद् एव साधयन्न् आह तथाही [220 . 24]ति । स्वतन्त्र 8 एव [220 . 29] वाच्य्वस्तुनिरपेक्ष एव । अनर्थप्रतिलम्भ एव स्यात् [221 . 1] अर्थप्रतिलम्भो न स्याद् एवेत्य् अर्थः । अस्य [221 . 2] विकल्पप्रतिभासिनः सामान्याकारस्य । यद्य् एवं बाह्यस्यैव हेतुत्वम् अस्तु तत्किम् अनेन प्रयासेनेत्य् आह -- साध्ये [221 . 3]ति । कथं तर्हि विकल्पारूढानां सामान्याकाराणां परमार्थतो बाह्याङ्गासंस्पर्शिनां संपादकत्वं साध्यसाधनभावः [69अ] 1 कार्यादिरूपत्वं चेत्य् आशङ्क्याह -- तद्धर्मताम् एवे [221 . 4]ति । तस्यैव तद्धर्मतां बाह्यवस्तुधर्मताम् । बाह्यगतं(तां) तद्व्यावृत्तिरूपतां इति यावत् । अनु [217] सरंतो [221 . 4] भेदाप्रतिपत्त्या अविद्यमाननिबन्धनयाध्यवस्यन्तो नानैकव्यतिरेकान् [221 . 4] एकस्मिन्न् अप्य् अर्थे नानारूपं कृतकत्वानित्यत्वादि, एकत्वं सामान्यम् अनुगामिरूपं, व्यतिरेकं तयोः परस्पर(रं) धर्मिणश् च भेदं हेतौ 2 शतुर्विधानात् प्रदर्शनाद् इत्य् अर्थः । साध्यसाधनभावसमर्थनार्थम् एतद् उक्तं द्रष्टव्यम् । {प्. 407} संवादकत्वसमर्थनार्थम् आह -- वस्तुनि [221 . 5] इति । वस्तुनि -- साध्ये ऽर्थे । परम्परया [221 . 5] संबद्धसंबद्धतया । कार्यादिव्यपदेशसमर्थन(ना)याह कार्यादी [221 . 5]ति । कार्यादिदर्शनद्वारायातत्वात् तत्त्वेनाध्यवसायाच् च कार्यादि [218] व्यपदेशनिबन्धनं [221 . 5] त एव इति प्रकरणात् । तेन व्यपदेश 3 निबन्धनम् इति च व्यपदेश "इन्द्रियम् अस्थानम् एतद् राजन (?)" इति निर्देशवद् द्रष्तव्यः ।
__________नोतेस्__________
[217] अनुस्मरंतो स् ।
[218] कार्यादिलिङ्गव्यपदेशनिबन्धनं स् ।
ज्ञानस्य बाह्यलिङ्गरूपत्वं निराकृत्य सामान्याकाररूपत्वम् अपि निराकुर्वन्न् आह विकल्पावभासी च [221 . 7] इति । तस्य [221 . 8] विकल्पावभासिनः । सामान्याकारस्य निरूपस्ये [221 . 8]ति च व्याचक्षाणो ऽलीकरूपताम् अपोहस्याभिप्रैति । तद्रूपस्य [221 . 9] अवृक्षव्यावृत्ति 4 रूपस्य विचारतो ऽसद्रूपस्य विकल्प [219] प्रतिबिम्बकस्य [221 . 9] इति । विकल्पाकाराद् भेदेन प्रत्येतुम् अशक्यत्वात् प्रतिबिम्बस्येव प्रतिबिम्बकस्यापोहस्य अथवा अनया वचनभङ्ग्या बुद्धयाकारो ऽपि तथाध्यस्तो ऽपोहो वाच्य इति दर्शितम् अनेन । कथं तस्य सामान्यात्मत्वव्य्वस्थेत्य् आह -- यस्माद् इ[221 . 10]ति । अनुयायितया [221 . 11]ध्य[220]वसित 5 स्येत्य् अन्तरोक्तम् अनुवर्तते । एवंविधस्यापि किं न विकल्पात्मता । तथा च ज्ञानं किं न रूपं लिङ्गस्येत्य् आह -- तथात्वे च [221 . 11] इति । तथात्वे [221 . 11] अनुयायित्वे । विकल्परूपा [221] त्मता [221 . 12] विकल्पस्वलक्षणात्मता । प्रकृतायां [221 . 17] प्रस्तुतायाम् । रूप [222] म् अभिधीयते [221 . 17] एवंविधं लिङ्गस्य रूपम् इत्य् अभिधीयते । प्रत्ययात् [223][221 . 21] संप्रत्ययात् ।
__________नोतेस्__________
[219] विकल्पप्रतिबिम्बचक्रस्य स् ।
[220] व्यवसितस्य स् ।
[221] विकल्परूपता स् ।
[222] स्वरूपम् अभि- स् ।
[223] संप्रत्ययात् स्
परमतापेक्षया प्रमातुर् इ[221 . 28]त्य् उक्त 6 म् । तथा संयोगसमवायादीनाम् [222 . 1] इति, आलोकमनस्कारादीनाम् [222 . 2] इति, वस्तुवृत्त्यपेक्षयोक्तम् । न हि तेष्व् असत्स्व् इ[222 . 2]ति ब्रुवतो ऽयं भावो यदि तत्र साध्यं न भवेत् तदा तदव्यभिचारिवस्तुदर्शनप्रनाडिकया तत्र ज्ञानम् एव न भवेत् । यदि च लिङ्गे धूमादौ महत्त्वादिसमवायो न स्यात्, यदि च तस्येन्द्रियेण संयोगो न 7 भवेत्, तदा तद्विषयं प्रत्यक्षम् एव न भवेत् । असति च तस्मिन् न लिङ्गिनि विज्ञानम् उत्पद्येत तथालोका भावे ऽपि तथैव लिङ्गिज्ञानानुत्पत्तिर् ज्ञातव्या । तथासति मनस्कारे ऽसति । मनस्कारसाद्गुण्य इति बोद्धव्यम् । पूर्ववाल्लिङ्गिज्ञानानुत्पत्तिश् च । निश्चयो ऽपी त्य् एव पाठः यत्र पुस्तके {प्. 408} निश्चयो ही [222 . 9]ति पाठः । तत्र हिशब्दो ऽपिशब्दस्य वार्थे 8 द्रष्तव्यः । तद्विशेषत्वात् [222 . 10] ज्ञानविशेषत्वात् । अस्य [222 . 11] निश्चयस्य ।
"सपक्षे भावेन" [222 . 19] किं भूतेनेत्य् आह -- विपक्षे [222 . 19] इति । सर्वत्र विपक्षे यो ऽभावः तद् विशिष्टेन [222 . 21] किं भूतेन सर्वत्र विपक्षे यो ऽभावेनेत्य् आह -- सपक्ष [222 . 20] इति । तादात्म्यतदुत्पत्ती लक्षणे निमित्ते यस्य भावस्य स तथा तद्विशिष्टेन [222 . 21] । ननु च दर्शनादर्शननिबन्धनौ सपक्षासपक्षयो[69अ] 1 र् भावाभावाव् अप्य् अन्योन्यविशिष्टाव् एव तत् को ऽतिशयो ऽनेनोक्त इत्य् आशङ्क्याह -- एतद् उक्तं भवती [222 . 22]ति । प्रतिबन्धसाधकप्रमाणवृत्त्या नि [224] श्चितो (तौ) [222 . 23] न तु दर्शनादर्शनाभ्याम् इत्य् अर्थात् । तथाविधाव् इ[223 . 6]ति व्याप्तिमान्ताव् इत्य् अर्थः ।
__________नोतेस्__________
[224] निश्चितौ स्
तादात्म्यतदुत्पत्तिसाधनविषयं [223 . 10] तादात्म्यतदुत्पत्तिसिद्धिविषयम् । तयोर् एव [223 . 19] भावाभावयोर् एव । आक्षिप्यते [223 . 20] प्रकाश्यते । उत्पत्त्यतिरेकि 2 ण्याः सत्ताया अनुत्पत्तेर् या सत्ता उत्पत्ति [223 . 19]र् इति व्याचष्टे । अभावलक्षणस्य [223 . 29] प्रतियोग्यपेक्षया तद्विविक्तपदार्थलक्षणस्य परमताश्रयणेन चैवम् अभिधानम् सिद्ध्यन्ति [224 . 1] व्यवहारयोग्यताम् उपयान्ति । सर्वस्य [224 . 1] इति पुंसः । तथा च अयत्नसिद्धः सर्वः सर्वदर्शीत्य् आशयः । नैवम् इ [228 . 1] तीदम् इति सम्बन्ध्यते । लिङ्गस्य प्रकृतत्वात् ज्ञापकस्य [224 . 13] इत्य् आह 3 । आचार्येण [224 . 21] इतिआचार्यदिग्नागेन ।सूत्रकारीयनिश्चितग्रहणसाफल्यम् उपवर्णयतावार्तिककृतास्वानुमतिर् अत्र दर्शितैवेत्य् अभिप्रायेण आचार्यवचनम् इव कृत्वा इह अस्माभिश् च [224 . 21] इत्यादि ।
तथाभावो [225 . 3] व्याप्त्यान्वयः । सर्वत्र तदभावे अवश्यम् अभावो नेति पूर्वकम् अनुवर्तनीयम् । तस्माद् यत [225 . 9] इत्यादिकवस्तु(-कस् तु) मूलस्यादि 4 ग्रन्थो अनेन सुबोधत्वान् न व्याख्यातः । अयं त्व् अस्यार्थो ऽवसेयो यत एवं तस्माद् [224 . 20] यतः प्रमाणाद् अनयोर् भावाभावयोर् भवति निश्चयस् तदधीनता तयोर् भावाभावयोः सत्ता व्यवस्थेत्य् अस्यार्थस्य ज्ञापनार्थं निश्चितवचनं कृतम् इति ।आचार्यदिग्नागकृतनिश्चितग्रहणार्थे भूयः संह्रियमाणेवर्तिककारेण कथम् अस्मा 5 भिर् इत्य् उच्यत इत्य् आशंक्याह -- अस्माभिर् इ[225 . 9]ति । आचार्यकृते [225 . 9] सूत्रकाराचार्यकृते । निश्चितग्रहणे [225 . 9] अस्माकम् अभिमतत्वाद् इ[225 . 10]ति वचनेन चैवंआचार्यस्याभिप्रायं दर्शयति । तच् चेद् अस्माकम् अभिमतम् एव तदास्माभिर् एवोक्तम् इति । एवं तावद् अनेन व्याख्यातं लक्ष्यते पुनर् अयम् अस्यार्थः -- {प्. 409} एतद् अर्थं सूत्रकारेणप्रमाणसमुच्चये 6 -- मया च विनिश्चयादौ निश्चितग्रहणं कृतम् इत्य् अभिप्रेत्याचार्यवार्तिककारेणावाभ्याम् इत्य् अस्मिन्न् अर्थे ऽस्माभिर् इत्य् अभिधायीति । द्वयोर् अर्थयोर् बहुवचनं केन वचनेनेति "अस्मदोर्द्वयोश् च" इत्य् अनेनेति ब्रूम इति ।
अतो ऽपि न्यायात् इति पाठोः अत एव न्यायात् [225 . 12] इति तु प्रमादपाठः । प्रतिपन्नत्वात् [225 . 15] ज्ञानस्येति प्रकरणात् । त्रैरूप्यात् ज्ञानं [225 . 1 ... ] " रूपान्तरं न भवती "त्य् अनुवर्तते ।
सपक्षे भाव उच्यत [226 . ] इत्य् अनेन च साध्ये सत्य् एव भावो लक्षितस् तथा अभावो ऽसपक्ष [226 . 1] इत्य् अनेन असति साध्ये अभाव एव विवक्षितः । व्यावृत्तिकृतं भेदम् उपादाय [226 . 9] इति तत्राभावव्यावृत्त्या भावो व्यवस्थाप्यते । तत्र भावयावृत्त्याभाव इति । परमार्थतो भेदो नास्ति [226 . 10] इति ब्रुवतो 8 यं भावः तस्मिन् सत्य् एव भावो भवितृत्वं तदभावो चाभाव एवाभवितृत्वं एवम् एव हेतोः स्वगत एवायं धर्मो ऽत एव यत्रान्वयस् तत्र व्यतिरेक इति स्वभावहेतुसाध्यम् एतद् अवतिष्ठते । न तत्त्वा(त्व् अर्था)पत्तिगम्यम् इति । ननु च यद्य् अनयोः परस्परान्तर्भावो न भवेत् तर्हि कथम् एकं वाक्यम् उभयं गमयेत् । तथा चैतत् पूर्वोक्तं [70अ] 1 किं ...... र्हीति ।
भिन्नलक्षणम् एव [226 . 15] व्यावृत्तितो भिन्नस्वभावम् एव सन्तं ततश् च भिन्नत्वात् अनयोर् लिङ्गरूपत्वाच् च पृथगवयवान्तरत्वं युक्तम् इति भावः । यद्य् एकः स्वभा...............यदुक्तपूर्वं तदवस्थम् एवेत्य् आह परस्पर [226 . 16] इत्यादि । एकवाक्यात् [226 . 16] एकवाक्यार्थरूपत्वात् एकवाक्यप्रकाश्यरू 2 ......सपक्षविपक्षयोर् भावाभावयोर् अपरस्पराक्षेपाद् इति सिद्धान्तवादिनाभिहितं किम् अनेन तदप्रतिविधायकेन न त्व् इ[226 . 17]त्यादिनोक्तेन इत्य् आशङ्क्य पूर्वपक्षवादिमत एव ...............दर्शयितुम् आह -- अयम् अभिप्राय [226 . 17] इति । तदभावो ऽभावो गम्यते अन्यथा तदर्थैवास्या वाक्यस्य न स्याद् इत्या 3 .........त इति वर्तते । प्रतिबन्धश् च [226 . 22] प्रतिबद्धत्वञ् च हेतोर् इत्य् अर्थात् । तादात्म्यतदुत्पत्तिभ्यां [225 . 22] तादात्म्येन तदुत्पत्त्या वा । तद्भावे भावरूप एवे [226 . 23]ति विचारत एतद् अवतिष्ठते । यत इत्य् अभिप्रायेणोक्तं एकवाक्येनेति पीनो देवदत्त इत्यादिना तत एवैकवाक्या [225] न्तरभावाद् इ[227 . 17]ति
__________नोतेस्__________
[225] -वाक्यार्थान्तर-स्
{प्. 410} कदाचित् 4 .........पादनकाले दृष्टाद् इत्य् अभिप्रायेणोक्तम् -- एकवाक्यार्थानपेक्षावे [227 . 18]कवाक्यार्थावतवन्ता(?)व् इत्य् अर्थः । तदन्तर्भावमात्रेण [227 . 18] एकवाक्यार्थान्तर्भावमात्रेण नियमवद्वाक्यव्यपक्षेया कदाचिद् दृष्टेन तदन्तर्भावात् । एकरूपान्तरर् भावात् तु द्वितीयगति [227 . 27]र् नेति वर्तते । भिन्नरूपाव् एवे [228 . 6]ति यथा तया क 5 ......त तथा भिन्नरूपाव् एवेति ।
ततः [228 . 19] शास्त्रात् । सर्वदा चात्र ज्ञान [228 . 15]ग्रहणं ज्ञातत्वोपलक्षणं ज्ञातव्यम् । ज्ञात(न)शब्देन अस्यैव विवक्षित्वात् । एतच् च पुरस्ताद् उपदर्शितम् एव । स्याद् एतत् ये तावत् ज्ञातत्वशब्देन ज्ञानम् एवाभिदधते ते सन्तूक्तया नीत्या निराकृताः । ये तु ज्ञानकर्मत्वं ज्ञातत्वं 6 .........निराक्रियन्ते इत्य् आशङ्कायाम् आह तद् अयम् अत्र [228 . 20] इत्यादि । तदपेक्षो ऽपि [228 . 25] ज्ञानापेक्षो ऽपि । प्रकरणम् उपसंहरन्न् आह -- तद् एवम् इ[228 . 28]ति । त्रीणि पक्षधर्मान्वयव्यतिरेकात्मकानि लक्षणानि यस्य स तथोक्त इति सर्वम् अवदातम् ।
आचार्यश्रीधर्मकीर्तिविरचितस्यास्यहेतुबिन्दुसं 7 ...............थ तत्त्वप्रकाशिकां टीकां पटीयसीम् ईदृशीं परार्थम् उद्दिश्य प्रणयता नियतं मयापि किम् अपि पुण्यं उपार्जितं तद् अप्य् अहं परार्थम् उपनयाम् इति मन्वानो ऽनेकजन्माभ्यस्तकृपायोगात् सात्मीभूतपरार्थकरणो ऽयं भदन्तधर्माकरदत्त इमम् [229 . 1] इत्यादि परिणामनाश्लोकेनाह । अस्यायं समुदाया[र्थः 8 मुनीशराद्द्धा ] न्तनयप्रदीपम् [229 . 2] विवृ [226] त्य यत् पुण्यम् उपार्जितं तत् जगतो विशुद्धिं विधेयात् [229 . 3] इति । कायवाङ्मनोमौनयोगान् मुनयः प्रत्येकबुद्धादयस् तेषां ईशः शास्ता बुद्धो भगवान् सवासनक्लेशपरिहाणियोगेनात(?)भ्यस् तस्य प्रकर्षप्राप्तया तायित्वात् तस्य नयो नीतिः प्रवचनं तस्य राद्धान्तः सिद्धान्तस् तस्य [70ब्] 1 ............क्षणिकाः सर्वसंस्कारा इत्यादि प्रवचनार्थस्यानेन यथावत्प्रकाशनात् कु त्सितः प्रमाणानुपपन्नार्थप्रकाशनात् तर्को न्यायदर्शनादि[र् इ]ति तथा । अशेषश् चासौ स चेति तथा । तस्य मार्गः [229 . 1] पन्थाः सिद्धान्त इत्य् अर्थः । क्षतः खण्डितः तद्वैरूप्यापादनाद् अशेषः कुतर्कमार्गो येन स तथा । तं विवृ [227] त्य व्याख्याय 2 ...............र्थात् । तत् पुण्यं [229 . 3] कर्तृ विशुद्धिं [229 . 3] विमलचित्तसंतति परां [229 . 4] प्रकृष्टां सर्वावरणप्रहाणाद् इति सर्वम् अनवद्यम् इति ।
__________नोतेस्__________
[226] वितत्य स्
[227] वितत्य स्
{प्. 411} दारिद्र्यदुःखाद् अभियोगमात्राद् विशुद्धबुद्धेर् विरहाद् अबोधात् ।
नास्तीह सूक्तं मम यत् पुनः स्यात् गुरोर्जितारेःस खलु प्रसादः ॥
कुतूहलेनैव यदृच्छया वा मात्सर्यतो दोषजिघृक्ष 3 [या वा]
......स्वत एव रूपं विज्ञास्यते ऽस्येति न वर्णयामः ॥
कृतो ऽयमर्चटालोको निबन्धो बालबान्धवः ।
यत्र मूर्तिर् इवादर्शे दृश्यते स्वपरस्थितिः ॥
परार्थम् उद्दिश्य यथार्थमर्चटंविवृण्य पुण्यं यदुपार्जितं मया ।
निहन्तु तेनावरणानि विद्विषो जनोन्तरायेण विनैव सर्वथा ॥
समाप्तश् चा 5 ............... निबन्धः ॥
कृतिर् इयं पण्डितदुर्वेकमिश्रस्येति ।
मूल पाठ: Hetubinduṭīkāloka (subcommentary on Arcaṭa's Hetubinduṭīkā on Dharmakīrti's Hetubindu) · Edition: Pandit S. Sanghavi and Muni Shri Jinavijayaji: Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0