हेतुबिन्दुटीकालोक · भाग 120
{प्. 233}
पण्डितदुर्वेकमिश्रकृतो
हेतुबिन्दुटीकालोकः ।
[1 ब् ] । 1 नमो बुद्धाय ।
प्रहीणावृतिसंघातं प्रणिपत्य तथागतम् ।
विवृणोमि यथाशक्ति भट्टार्चटगुरोर् गिरः ॥
अभिमानधना ये च ये च बुद्धिधना जनाः ।
न तदर्थम् अयं यत्नस् तस्मान् नैव निरर्थकः ॥
स्वेष्टदेवतानमस्क्रिया हि पुण्यप्रसवभूमिर् इतश् चान्तरायरहिता ईप्सितपरिसमाप्तिर् भवतीत्य् आगमाद् वेदिता शिष्टाचारानुरक्षणधर्मा 2 चायं धर्माकरदत्तो हेतुबिन्दुतीकां चिकीर्षुरादित एव स्वाधिदैवतं स्तुतिपुरःसरं नमस्यति । नमस्कारश्लोककरणे चाक्षेपपरिहारौधर्मोत्तरप्रदीपादितनीतिदिशा अनुगन्तव्यौ ।
आशयप्रयोगभेदेन हेत्ववस्थाम् उभयीं स्वार्थपरार्थप्रकर्षभेदेन फलावस्थां द्वयीं दर्शयिष्यते । अस्य हेतुफलावस्थोपदर्शनं 3 मुनीन्द्रस्य नमस्याभिमता । बोधिसत्त्वावस्थायां हि भगवान् अनेकजन्माभ्यासयोगात् कल्याणमित्रसंपर्काच् च प्रथमम् आशयविशेषसम्पदम् उदपीपदत् । याम् इह प्रणिधिबोधिचित्तम् आतिष्ठन्ते तत्त्वविदः । तस्य परस्ताद् आशंसितार्थसंपादनाय प्रयोगविशेषम् अशेषम् अकार्षीत् । यं प्रस्थानबोधिचि 4 त्तम् आचक्षते । तस्योपरिष्टात् प्रयोगविशेषप्रकर्षप्राप्तेः परमपुरुषार्थफलं सकलम् अलब्ध । अथातः सत्त्वोपकारं विविधम् अबाधितं व्यधित ।
अत एवायं यः संजाते [1 . 5 . [त्यादिनादौ कण्ठोक्ताम् अकृत आशयावस्थाम् । तदनु पुण्यज्ञाने [1 . 6 . [त्यादिना प्रयोगावस्थाम् । तस्य पश्चात् कृत्स्ने [1 . 7 . ] त्यादिना फलावस्थाम् । तदनन्तरं लोक [1 . 8 . ] इत्यादिना च सत्त्वोपकारावस्थाम् इति ।
यत्र च एवंविधो जिनरविः [1 . 8 . ] तं नमस्यामि [1 . 8 . ] नमस्कारोमीति सम्बन्धः ।
उपकार्योपकारिणोः समं प्रवर्तमाना निरन्तरम् उदीयमाना च महत्त्वयुक्ता महती च सा दुःखात् दुःखहेतोर् वा समुद्धरणकामता नाम या करुणा तदात्मिका कृपा चेति तथा । संजाता 6 महाकृपा यस्य स तथोक्तः ।
किं कर्तुं स तथाविध इत्याकांक्षायाम् आह -- त्रातुम् [1 . 5 . ] इति ।
{प्.234}किं त्रातुम् इत्यपेक्षायां त्राणक्रियाकर्म जनम् [1 . 5 . ] आह ।
तं विशेषयन्न् आह -- समग्रम् [1 . 5 . ] परिपूर्णं सकलम् इति यावत् ।
पुनर् अपि विशिनष्टि व्यसनिनम् [1 . 5 . ] इति । व्यसनं दुःखम्, तद्वन्तम् । नित्ययोगे चायमिनिर्द्रष्ट्व्यः । कृपाशब्दप्रत्यासत्तेः 7 सामर्थ्यात् दुःखात् दुःखहेतोर् वा त्रातुम् इत्य् अर्थो ऽवतिष्ठते । अविवक्षितापादनाद् वा अनपादानत्वम् ।
दुःखाद् दुःखहेतोश् च सर्वसत्त्वा मया मोचयितव्या इत्याशयसंपद्योगिन्य् अवस्था आशयावस्थेत्य् उच्यते ।
हेतुः [1 . 6 . ] निमित्तम्, सार्वज्ञपदस्येति वक्ष्यमाणस्वार्थप्रकर्षप्राप्तिसामर्थ्याद् अवसेयम् । चितिक्रियाभिसम्बन्धाद् द्वितीया ।
कीदृशम् इ 8 त्याशङ्कायां तद्विशेष्टुम् उक्तं पुण्ये त्यादि पश्चाद् योज्यम् । पुण्यज्ञानम् अयं [1 . 6 . ] पुण्यज्ञानस्वभावम् ।
अन्यथा विशिनष्टि विपुलं [1 . 6 . ] विस्तीर्णं महान्तं यावत् । पुण्यज्ञानसंभाराव् एव हि सार्वज्ञं पदम् आवहतः ।
पुण्यज्ञानसंभारोपार्जनम् एव सत्त्वोद्धरणाय प्रयोगः । तेन तत्पदप्राप्त्यैव सत्त्वोद्धरणसंभवात् । अन्यथा तत्पदाभावात् । [2अ] 1 एवंविधप्रयोगसम्पद्योगिन्य् एवावस्था प्रयोगावस्थेत्य् उच्यते ।
अयं प्रयोगः प्राचीनश् चाशयो द्वाव् एतौ पारंपर्येण परमपदप्राप्तेः कारणम् इति तत्पदप्राप्तिहेतुत्वमात्रविवक्षया, अवस्थामात्रविवक्षया च हेत्ववस्था भगवतो व्यपदिश्यते । भेदविवक्षया पुनर् आशयप्रयोगावस्थेति ।
प्रचित्य [1 . 6 . ] उपचित्य राशीकृत्येति यावत् । तथा 2 भूताद्रिसमाश्रितौ समाश्रयणापेक्षायां पौर्वकालिकः प्रत्ययः ।
किम् एवंकारं चकारेत्य् आह -- कृत्स्ने [1 . 7 . ]त्यादि । यच्छब्दो ऽत्रापि सम्बध्यते । उत्तरत्रापि अभिसम्भन्त्स्यते । किं भूतः सन् यस् तम् आश्रित इत्याह -- विधूते [1 . 6 . ]ति । सर्वथा निरस्तः सादरनिरन्तरचिरकालाभ्यासायासो येन स तथा । मतद्वयाश्रयणेन 3 सदाव्यापनेन इच्छाधीनत्वात् योग्यतया वा व्यापनेन उपयुक्तकार्त्स्न्ये कृत्स्नशब्दप्रयोगात् सोपायहेयोपादेयात्मक कृत्स्नज्ञेयविसर्पिणी चासावावरणादिलक्षणस्य मलस्यातिशयेन प्रहाणान् निर्मलप्रज्ञा चेति तथा । सैव परार्थोदयस्थानत्वाद् उदयाद्रिर् इव तथा । तं श्रितः [1 . 7 . ] प्राप्तः तद्योगी 4 जात इति यावत् । इदम् एव च सर्वज्ञस्य पदं परमपुरुषार्थफलम् । एवंलक्षणफलसंपद्योगिन्य् अवस्था फलावस्थेत्य् उच्यते ।
{प्.235}हृदि भवं हार्दम् [ 1 . 8 . ] सदसत्पथविवेकविबन्धकत्वात् तम इव तमः [1 . 8 . ] अज्ञानम् कयाचिद् व्यपेक्षया तु हृदो मनसो भेदविवक्षायां तदुभयत्वम् उक्तम्. लोकोक्त्यपे 5 क्षया वा । तद् अपहन्ति विध्वंसयति धर्मदेशनाद्वारेण अन्यथा चेति तथा ।
जिनो मारजयनाद्बुद्धो भगवान्। क्व हार्दतमोपह इति अपेक्षयाम् आह -- लोके [1 . 8 . ] इति । लोकविषयं यच् चैतसं तमस् तस्य हन्ता । लोकस्यैव तथाभूततमसोपहन्तेति यावत् लुप्य(क्य)त इति लोकः । हार्दतमः 6 शब्दप्रत्यासत्तेः प्राणी ज्ञातव्यः । एवंकारिण्येवावस्था सत्त्वोपकारावस्थेत्य् उच्यते ।
स एव व्यसनिजनत्राणनिमित्तकृपाधारणसाधर्म्यात् । रवेर् अपि तदागमे तथार्थोप्वर्णनात् । तदा तु व्यसनं रोगो ज्ञातव्यम् । उदयाद्रिसमाश्रयणसाम्याल् लोके तमोपहत्वसाधर्म्याच् च । तदा 7 तत्तमो ऽन्धकारं द्रष्टव्यम् । रविर् इव रविः । रूपकालङ्कारश् चात्र काव्यगुणो दर्शितः ।
मूर्ध्ना नमस्यामि [1 . 8 . ] इति शिरः प्रणमयत एवंविधं वचनम् अवसेयम् । तेन कायिको नमस्कारो दर्शितः स्यान् नान्यथा । शब्दानुपूर्वीविशेषोच्चारणेन तु वाचिको दर्शितः । कायव्यापारव्याहारयोश् च तदुत्थापकमनःपूर्वकत्वात् 8 मानसिको ऽपि इति सर्वम् अवदातम् ।
सोपायस्वार्थसम्पदाख्यानद्वारेणेयं नमस्क्रिया इति तत्त्वाव्याख्यानम् उद्घृष्टं नातिश्लिष्टञ्चेति नोद्घटितम् ।
अथवा अन्यथा व्याख्यायते । परार्थः खल्व् अयं टीकालक्षणो ग्रन्थो ऽभिप्रेतः । परश् च विषयदोषाशङ्कायां श्रवणाय नावधत्ते । ततश् चानवधानं विषयदोषाशङ्क[2 ब्.] 1 या व्याप्तं तद्विरुद्धोपदर्शनेन अनवधाननिषेधार्थं व्यापकविरुद्धविषयविशुद्धिम् उपदिदर्शयिषुर् आह -- य [1 . 5 . ] इत्यादि ।
टीकाविषयोश् चा( 0 षयश् चा)चार्यधर्मकीर्तिग्रन्थः । तद्विषुद्धिश् च प्रवचनविशुद्ध्या, प्रवचनार्थसमर्थनपरतया आचार्यशास्त्रस्य तदेकविषयत्वात् । ततश् चाचार्यशास्त्रविशुद्धिनिबन्धनप्रवचनविशुद्धिं बोधयितुं भगवतो गुणेदि 2त त्वनिर्दोषते नमस्कारापदेशेन दर्शयति । उपायोपदर्शनपूर्वकतथाभूतप्रज्ञोदयाद्रिसमाश्रयणाभिधानेन भगवतः सर्वाज्ञानविगमो दर्शितः ।
सर्वाज्ञानवैधुर्याद् अस्तु निर्दोषः, स तु स्वार्थप्रकर्षप्राप्तः कस्मात् परस्मै सोपायहेयोपादेयतत्त्वम् उपदिशति येन तस्य तथाभूतं प्रवचनं सम्भवेद् इत्य् अपे 3 क्षायां -- यः संजाते [1 . 5 . ]त्यादिना महाकरुणया योगम् उपदर्शयति । ततो महाकरुणा या गात् समीचीनम् उपदिशति प्रज्ञाप्रकर्षयोगाच् च भूतं समाधा(ससाध)नमिति प्रकाशितम् । तेनानुपदेशो ऽन्यथोपदेशश् च व्युदस्तः । यद् आह --
{प्.236}"दयया श्रेय आचष्टे ज्ञानाद् भूतं ससाधनम्" [प्व् 1.284] इति ।
तथा --
"वैफल्याद्वक्ति 4 नानृतम्"
इति । अत एवाविपरीतज्ञेयाद्युपदेशद्वारेण हार्दतमोपहः [1 . 8 . ] संवृत्तः इत्यर्थाद् एव वचनं विशुद्धं दर्शितम् । तद्विषयतया चाचार्यग्रन्थविशुद्धिः । तद्विषयतया च टीकाविशुद्धिश्च सामर्थ्याद् आख्याता भवति । शेषम् समानं पूर्वेणेति ।
भवतु भगवतो निर्दोषतया प्रवचनविशुद्धिः । तथाप्याचार्यस्य 5 वाङ्मनसो(सयो)र् वैगुण्यसम्भवेन तच्छास्त्रं न विशोत्स्यति इत्य् आशङ्क्याचार्यस्यापि जगदतिशायिप्रज्ञायोगप्रदर्शनेन वाङ्मनसो(सयो)र्वैगुण्याभावो न्यायमार्गे [1 . 13 . ]त्यादिना दर्शयिष्यते । वाङ्मनसो(सयो)र्वैगुण्यं हि जाड्ये सति भवत्तेन व्याप्तम् । तद्विरुद्धं चात्यन्तप्रकृष्टबुद्धित्वं । तस्मिन् सति कथम् भवेद् इत्य् अभिप्रायात् ।
6 आचार्यग्रन्थविशुद्धाव् अपि तवैव वाङ्मनसयोर् वैगुण्यात् टीका अवदाता न भविष्यति इति चाशङ्क्य औद्धत्यपरिहारापदेशेन आचार्यवचनापेक्षया आत्मनो जडत्वम् अभ्युपेत्य वैदर्भ्यपरया वचनम् अङ्ग्या तथापि [1 . 15 . ] इत्यादिना स्ववाङ्मनसो(सयो)र् वैगुण्यवैकल्यम् अपि प्रकाशैष्यते ।
आदौ कस्य 7 चित् पार्श्वस्थस्य अश्रुतैतत्पूर्वपक्षवादिवचनस्य तत्रानादृतस्य वा व्याख्यातग्रन्थव्याख्यानेन चर्वितचर्वणम् अनुतिष्ठता त्वया [कथं] तत्त्वातिशयप्रकाशनलक्षनं माधुर्यम् अन्तस्तृप्तिकरम् आसादयितव्यः (व्यम्) तत् किम् एवम् आचरितम् इति त्वरयाभिप्रायं स्वयम् उद्घाटितं विघटयितुम् आह -- वरं हि [1 . 10 . ] इत्यादि । --
त्वरायोगिनो ऽस्य पूर्वपक्षं क्षे 8 पयित्वा तु ते एवाशङ्के निराकुर्वन्न् आह -- न्यायमार्गे [1 . 13 . ]त्यादि ।
पूर्वव्याख्याने तु वरम् अव्याख्याते ऽन्यत्र क्लेशः क्रियतां यत्र रसविशेषास्वादः सम्भवी, न पुनर् अत्र तदसम्भवाद् इति आशङ्कायाम् इदं योज्यं । उत्तराभ्यां तु श्लोकाभ्यां स्वकीयौद्धत्यपरिहारः केवलः कृत इति ।
धर्मकीर्तेर् इमानि वचनानि तेषु । आकृष्टरसं हि र[3अ] 1 सनीयं चर्वित म् उच्यते । अमीषाम् अपि बहुभिर् व्याख्यातत्वेन आकृष्टरसत्वात् चर्वितम् इव चर्वितेषु चर्वणं [1 . 10 . ] रसास्वादार्थो व्यापारविशेषः । अचर्वितचर्वणरूपादव्याख्यातान्यग्रन्थव्याख्यानाद् इति प्रकरणलभ्यम् अवधिम् अभिसम्बन्धाय (सन्धाय) किञ्चिद् इष्टौ -- वरम् [1 . 10 . ] इत्य् अव्ययम् आह ।
{प्. 237}"वरम् अद्य कपोतः श्वो मयूरात्", "मृताद् वरं दुर्बलते"त्यादि यावत् । न पुनर् अच 2 र्वितान्यग्रन्थचर्वणम् इति बुद्धिस्थीकृतवर्जनीयाङ्गम् एव चैवम् आह । सामर्थ्यगम्यत्वाच् च वर्जनीयत्वेनाभिमतं नावादीत् । ` अपि ` न्यायतः सम्भावनाम् आह ।
अन्ये पुनर् अनिपातम् एव श्रेष्ठवचनं चर्वणसमानाधिकरणं वर शब्दं वर्णयन्ति । न केवलम् अचर्वितेष्व् इति चापि शब्दं व्याचक्षते । महतो ऽपि महीयांसमाचार्यम् । विदुषश् चा 3 स्य सर्वथैवाभिधानं द्रष्टव्यम् ।
ननु च व्याख्यातत्वाद् आन्तरतया निष्पीडितस्य मनाग् अपि माधुर्याभावाद् एव तदप्राप्तौ कथं वरम् इत्य् अभिधीयत इति आशङ्क्य प्रतिवस्तूपमालङ्कारेण प्रतिवचनम् आह निष्पीडितापि [1 . 11 . ] इति । मृद्वीका द्राक्षाफलम् । किमः क्षेपे प्रयोगात् नैव जहाती त्य् अर्थः । अनया वचनव्यक्त्या 4 असूयाम् अपि । गम्भीराणाम् आचार्यगिरां नूनं न सर्वम् अर्थजातम् यथावत् पूर्वे व्याचख्युर् अतस् तथाविधरसास्वादस् तेन भविष्यतीति नितरां वाच्यम् इति सूचयति । पूर्वपक्षनिषेधाभिप्राये हिः [1 . 10 . ] यस्माद् अर्थे, व्यक्तम् इत्य् अस्मिन्न् अर्थे वा ।
न्यायमार्गः [1 . 13 . ] युक्तिमार्गः एव तुले त्यन्तर्नीतनियमः समासः । एकत्र [1 . 13 . ] इत्य् अयं शब्दः का 5 काक्षिवद् उभयोर् अपि पार्श्वयोर् व्याप्रियते । तेनायम् अर्थः जगत् कर्मभूतम् एकत्र एकस्मिंस्तुलान्तर्वर्तमानम् एकत्रा वस्थिता यस्य मतिर् जयेद् अधरीकुर्यात् । जयेद् इति सम्भावनापदम् एतत् । यन्मतेर् जगद् अभिभवनं सम्भाव्यते इत्य् अर्थः । शक्यार्थं वा । जगज् जेतुं शक्तेति यावत् ।
तस्य [1 . 14] एवंमतेः गिरः [1 . 14 . ] वाच 6 । परोक्षार्थे त्याद्यात्मिकाः । क्वति वदन्स्वव्याख्येयतया तान् संभावयति । दुरवगाहतया गम्भीराः [1 . 14 . ] । अत एव क्वेत्य् आह ।
अहं जडधीः क्व चे त्य् अनेन तदव्याख्यातृत्वेनात्मानम् असंभावयन् दूरीकरोति ।
तथापि [1 . 15 . ] इत्य् अनेन निपातसमुदायेन प्रकृतं प्रतिसमाधत्ते ।[1] यान् उद्दिश्य [1 . 16 . ] यान् अधिकृत्य 7 यदर्थम् इति यावत् । मयापि [1 . 16 . ]एवंविधेनापि मया । वक्त्रोक्तिपक्षे त्व् आचार्यं प्रति जडधीर् इति ब्रुवता लोकं प्रति विपर्ययो ऽन्तर्निहितः ।
__________नोतेस्__________
[1] टिबेतनभाषान्तरम् आश्रित्य "तेषां कृते" इत्य् एवंरूपः पाठो ऽस्माभिः कल्पितः मुद्रितश् च। किन्तु इमां टीकाम् आश्रित्य तत्रत्यमूलपाठः "यान् उद्दिश्य" इत्य् एवं पूरणीयः ।
मन्दमतयः सन्ति मत्तोपि केचन [1 . 15 . ] इति विदर्भवचनेन दुर्जनमनस् तोषकरेण -- यदि दुर्जनो मयि नाहत्य यदा चरति तदा बहुबिर् एवाचार्याभिप्रायो न सम्यग्व्यज्ञायीति बहुजनोद्देशेनैव 8 मयैतद् विभज्यते । अन्यथा तु सोपि जनः {प्. 238}पूर्वादपव्याख्यानग्रन्थादाचार्यग्रन्थार्थं ज्ञास्यति । न ह्य् अज्ञो ज्ञकृताद् एव किञ्चिद् अवगच्छति नान्यत इति नियमः । ततः कथम् अहम् अस्मिन् निष्फले महीयसि प्रयासे प्रवर्तेयेति दर्शयति । पूर्वव्याख्याने पुनर् औद्धत्यपरिहारमात्रपरं विवक्षितम् एतन् नैतत् पर्यवसानव्यापारम् इति [3ब्] 1 सर्वम् अनवद्यम् ।
अवच्छेद्यावच्छेदकभावेनावस्थितौ विशिष्टौ वाच्यवाचकराशी प्रकरणम् [1 . 18 . ] तस्या रम्भ [1 . 18 . ] आरभ्यत इति कृत्वा । सामर्थ्यात् तदादिस् तत्र प्रयोजनं [1 . 18 . ] फलं प्रकरणस्येत्य् अर्थात् । इदं च शाब्दीङ्गतिम् आश्रित्योक्तं द्रष्टव्यम् । आर्थेन तु न्यायेन प्रकरणाभिधेयस्यानुमानस्य प्रयोजनं परोक्षार्थप्रतिपत्तिरूपं व्याख्यार्थतया ज्ञातव्यम् । 2 तथा ह्य् अनुमनव्युत्पादनम् एवानेन कस्मात् क्रियते ? यस्मात् परोक्सार्थप्रतीतिस् तदाश्रया । अतस् तत्परं वदन् वाक्यम् इति सैव वाक्यार्थः । एतच् च "परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वात्" इत्य् अनेन तु [3 . 23 . ] इत्यादिना परस्ताल्लेशतो निर्ने(र्णे)ष्यत इति ।
तत् [1 . 16 . ] प्रयोजनाभिधानम् । चो [1 . 16 . ] अवधारणे प्रवृ [ त्त्य ] र्थ मित्य् अस्मात् परो द्रष्टव्यः । इतिः [1 . 19] 3 एवम् अर्थे । केचिद्व्या ख्यातारो मन्यन्त इति विशेषः [इति शेषः]त एव तदनुसहायकम् अन्यं साक्षिणम् उपक्षिपन्त आचक्षते तद् उक्तम् [1 . 20 . ] इत्यादि । कस्यचिद् [1 . 21 . ] इत्य् अनेन सर्वं संगृह्णाति अल्पस्येतरस्यापि वेत्य् अर्थः । अत एव पूर्वस्माद् अविशेषप्रदर्शनार्थो वा [1 . 21 . ]शब्दः । यावत् [1 . 22 . ] इत्यव्ययम् अवधौ । नोक्तम् [1 . 22 . ] इत्य् अस्मात् परो ऽस्तिर् भवन्तीपरः 4 सामान्यप्राय[ः] सिद्धो द्रष्टव्यः । तावद् इति प र्ववदवधौ । तच् छास्त्रं तच् च कर्म केन गृह्यताम् [1 . 22 . ] प्रवृत्तिविषयि क्रियताम् ।
किमः क्सेपे प्रयोगात् न केनचिद् इत्य् अर्थः ।
तत् [1 . 24 . ] श्रोतृप्रवृत्त्यर्थं प्रकरणादौ प्रयोजनाभिधानम् अयुक्तम् [1 . 24 . ] ।
ननु येनाभिप्रायेण तैस् तत्प्रवृत्यर्थम् उपवर्ण्यते स एवाभिप्रायो भवता ना 5 बोधि तत् कथम् एतत् प्रतिषिध्यत इत्य् आशङ्क्य यत [1 . 24 . ] इत्यादिना तदभिप्रायम् उद्भिनत्ति । इति ना [1 . 24 . ] वचनस्याकारम् आह । तं प्रति प्रकरणस्योपायतां निश्चित्य प्रवृत्तिः स्याद् यथा स्याद् इति प्रकरणात् ।
किमुपायनिश्चयेन तेषाम् इत्य् आह -- अनुपाय [1 . 25 . ] इति ।
प्रेक्षावताम् [2 . 1]इति काकाक्षिन्यायेन द्वयोर् अपि पार्श्वयो 6 र् अभिसम्बध्यते ।
उपायनिश्चयेपि कस्मात् प्रवृत्तिर् इत्य् आह -- तदर्थितया [2 . 1 . ] तस्य फलस्याभिलाषेण । क्व प्रवृत्तिर् इत्य् आह -- प्रकरणस्य श्रवणं [2 . 1 . ] आदि ग्रहणात् चिन्तादेः {प्. 239} संग्रहस् तत्र । इति [2 . 2] हेतौ । तद् अभिधानस्य [2 . 2] तस्य प्रयोजनस्योक्तेः । अर्थवत्ता [2 . 2] सफलत्वम् वर्ण्यते [2 . 2] तैर् इति प्रकरणात् ।
यदि सोपपत्ति 7 कम् एतत् तैस् तथोपवर्णितम् तर्हि सुन्दरम् एवेत्य् आह -- न चैतद् इति [2 . 2] । चो ऽवधारणे । एतद् अनन्तरोपनीतोपपत्तिगर्भितं तद् अभिधानं न युक्त्या सङ्गतम् ।
तद् उपाये [2 . 3] तस्य प्रयोजनस्योपाये । तद्भावः [2 . 3] तद् उपायत्वम् । तस्य निश्चयात् [2 . 3] । सस्यद्युपाये बीजादौ [2 . 4] प्रवृत्तिः ।
अवधृते [1 . 4]त्यत्रान्तर्भूतो णिजर्थो द्रष्टव्यः । तेन अवध्र्तः अवधारितो बी 8 जादि भावो यैस् तेषाम् । कर्षका अपि बीजादिविषये बुद्धिपूर्वकारिण इति प्रेक्षावत्त्वपुरस्कारेणोदाहरणम् ।
ननु यथोपेयार्थिनाम् उपायानिश्चयेन प्रवृत्तौ प्रेक्षावत्त्वे क्षतिस् तथोपेयानिश्चयेपि प्रवृत्तौ किं न तत्क्षतिर् इत्य् आह उपेये तु [2 . 6] इति । तुः पूर्वस्माद् अस्य भेदं दर्शयति ।[2] भाविनि [1 . 6] इति हेतुभावेन विशेषणम् । अनिश्चयेपि [2 . 7] इत्य् उपे[4अ] 1 यस्येति प्रकरणात् ।
__________नोतेस्__________
[2] हेतुबिन्दुटीकायाः प्रतेर् अत्र त्रुटितत्वात् "भाविनि" इति पदं पूरयित्वा न मुद्रितं निर्दिष्टपृष्ठे, तथापि "उपेये तु" इत्य् अनन्तरं तत्पदं तत्र स्थाप्यम् एव आलोकानुरोधेन । 32 हे.
इतिः [2 . 8] सम्भावनाया आकारं दर्शयति । एतद् उक्तं भवति -- शक्यनिश्चयम् अनिश्चित्य प्रवर्तमानाः स्वकर्तव्याकरणाद् उपालभ्याः, न त्व् अशक्या(क्य)निश्चयम् इति ।
यद्य् एवं प्रकरणस्यापि प्रयोजनविशेषं प्रत्युपायभावं निश्चित्य तदर्थितया प्रवर्तिष्यन्त इति आह -- निश्चयश् च [2 . 10] इति । चो ऽवधारणे ।
कस्मान् नास्ति इत्य् आह -- शब्दानाम् [2 . 11] इति ।
न 2 नु च वाच्यवाचकभावलक्षणप्रतिबन्धसद्भावात् प्रतिबन्धाभावो ऽसिद्धः । तथाहि -- यदि शब्दस्य वाचकशक्तिर् अर्थस्य च वाच्यशक्तिर् वस्तुसती न स्यात् तदा पौरुषेयी स्यात्। पुरुषाधीनत्वे च शक्तेः -- यो ऽयम् "शब्द एव वाचको ऽर्थस्य, अर्थ एव वाच्यः, न त्व् अर्थः शब्दस्य वाचकः" इति दृष्टो नियमः, स न स्यात् । पुरुषेच्छाया अव्याह 3 तप्रसरत्वात् । न च नियमविलोपो ऽस्ति । न हीच्छन्न् अपि समयकारः पुरुषो ऽर्थे वाचकशक्तिम्, शब्दे च वाच्यशक्तिम् अर्पयितुं पारयति । तस्माद् यथा घट-प्रदीपयोः प्रकाश्यप्रकाशकशक्तिर् वैपरीत्यमननुभवन्ती नियमवती वास्तवी तथा शब्दार्थयोर् अपि वाच्यवाचकशक्तिर् नियमवती वास्तव्येवेति ।
{प्.240}अत्रोच्य 4 ते । यद्य् अर्थशब्दमात्रापेक्षया नियमः प्रतिपाद्यते तदासाव् असिद्धः । तथाहि -- सङ्केतवशात् तृणजूटादिर् अर्थो यथार्थान्तरस्य ममत्वक्रियाविशेषविधातादिलक्षणस्य प्रकाशको वाचकस् तथा समयसामर्थ्याद् एवार्थः शब्दस्यापि वाचको भवत्य् एव । तद् यथा भूतहस्तलक्षणायां कलायां 5 कनिष्ठाद्या अङ्गुल्यः ककारादीनां तत्पर्वरेखाश् चाकारादीनाम् । न च शब्दस्यापि अर्थप्रकाशनाद् अर्थप्रतीतिजननाद् अन्यद्वाचकत्वं नाम ।
अथ घटार्थो घटशब्दस्य वाचको न भवतीत्य् उच्यते । हन्त! तस्यापि सङ्केतवशात् तथाभावः केन निवार्यते? । "यदाहं युष्मभ्यं घटम् अ 6 र्थं दर्शयामि तदा घटश दमुच्चारयितव्यम्, अन्यथा वा ज्ञास्यथेति" -- तदा किं तस्य तथात्वं न भवति? । यदि सत्यवादी भवान् नैवं वक्तुम् अर्हतीति यत् किञ्चिद् एतत् । तस्मात् सिद्धः प्रतिबन्धाभावः ।
ननु शब्दस्य तावद् वक्तुकामतायां अस्ति प्रतिबन्धः । सा च यथावस् त्व् एव वर्तत इति प्रणालिकया बाह्ये प्रति 7 बन्धात् शब्दस्य प्रामाण्यं को ऽपहस्तयेद् इत्य् आशङ्क्याह -- विवक्षायाम् [2 . 11] इति ।
अपिः [2 . 12] विशेषविवक्षाया अभ्युपगमे । वस्त्वनतिक्रमेणापि क्वचिद् भवतीति नियम ग्रहणम् । ततः [2 . 12] इति विवक्षायां प्रमाणात् शब्दात् ।
स्याद् एतत् -- ये यम् अर्थं यथा विवक्षया विषयीकुर्वन्ति वक्तारस् ते तथैव तम् अर्थम् अनुतिष्ठन्ति इत्य् अत्र अप्य् एवं विवक्षितुर् एवम् एवानुष्ठानं 8 भविष्यतीति निश्चये कुतो निश्चयाभावः इत्य् आशङ्क्याह -- न हि [2 . 13] इति । हिः यस्मात् ।
कथं तथानुष्ठाननियमाभाव इत्य् आह -- विसंवादे [2 . 14]ति ।
"सरितस्तीरे शर्कराशकटं पर्यस्तम् आस्ते । तदागच्छत भो गच्छामः" इत्य् अभिधायाप्य् अन्यथा प्रवृत्तिदर्शनात् लोके [2 . 15] व्यवहर्तरि जने । सर्वग्रन्थकारवचने ऽपि अनाश्वासात् [2 . 16] आस्थाया अभावात् ।
प्रयोजना[4ब्] 1 भिधानात् प्रकरणस्य तदुपायभावविषयो ऽर्थसन्देहः प्रवृत्त्यङ्गम् उपजायते । ततश् च प्रकरणे प्रवृत्तिर् अर्थिनाम् इति प्रकरणस्य प्रयोजनविशेषं प्रत्युपायत्वसंशयं प्रवृत्त्यङ्गकर्तुम् आदिवाक्यम् उक्तम् इति मतं पश्चात्धर्मोत्तरादिनाप्य् अर्थात् दर्शितं येषाम्, तान् कटाक्षयन्न् आह -- प्रयोजने [2 . 17]त्यादि ।
प्रकरणस्य [2 . 17] इति प्रथमतो योज्य 2 म् । तस्य तस्मिन् वा उपाय स् तद्भावस्तत्ता सैव[3] विषयो यस्य स तथा ।
__________नोतेस्__________
[3] अस्माभिः "तदुपायताविषये" इति पाठः कल्पयित्वा मुद्रितः किन्तु आलोकम् आश्रित्य "तदुपायताविषयः" इति पाठः कल्पनीयः ।
{प्. 241} कस्य तदुपायतेत्य् एकदेशाकाङ्क्षायां तु प्रकरणस्य [2 . 17] इति श्रुतत्वाद् द्रष्तव्यम् ।
जन्यते [2 . 18] जायते । अत एव "जनिः कर्तुः प्रकृतिः" [पा. 1.3.23] इत्य् अनेन लब्धापादानसंज्ञकात् पूर्वं पञ्चमी ।
ततः [2 . 18] सन्देहोदयात् । तद्भावनिर्धारणाय [2 . 18] तदुपायनिश्चयार्थम् । कृषीवलो [2 . 18] हालिकः । आदि[2.18]शब्दात् 3 तद् इतरः । अङ्कुरादिजननयोम्यं बीजं , तद्विपरीतम् अबीजम्[4] । तदवधृतये [2 . 18] तन्नियमार्थम् ।
__________नोतेस्__________
[4] अत्रालोकसम्मतः टीकापाठः "बीजाबीजावधृतये" न तु यथा मुद्रिते लभ्यते "बीजाद्यवधृतये" इति ।
चेत् [2 . 19] इति पराभ्युपगमे सर्वत्र । न [2 . 19] इति युक्तत्वेनाभिमतां प्रवृत्तिं प्रतिषेधयति । हेतुम् आह -- प्रयोजने [2 . 19]ति ।
असति वचने कथं सम्भव इत्य् आह -- तत्साधके [1 . 20]ति । तस्य [2 . 21] संशयस्य ।
"अनुमानव्युत्पत्तिः प्रयोजनम् अस्य" इत्य् 4 अनभिधाने विशिष्टं प्रयोजनं प्रति प्रकरणस्योपायत्वं कथम् इह सन्दिग्धे विदग्ध इत्य् आशङ्क्याह -- अनुमाने [2 . 21]ति ।
दर्शनात् [2 . 22] इत्य् उपलम्भात् । सामर्थ्यात् तेषां श्रवणादित्य् अर्थो ऽवसातव्यः ।
अयम् अत्रभट्टार्चटस्याभिप्रायः -- यद्व्युत्पत्त्य यो ऽर्थीश्रुततदुपायग्रन्थसम्भवश्च स कस्यचिद् ग्रन्थस्य दर्शनात् तस्य चार्थित्व 5 विषयोपायभावं प्रति साधकबाधकप्रमाणाप्रतिसंवेदी तथाविधवचनम् अन्तरेणापि अर्थित्वमात्रचोदितो ऽर्थित्वविषयोपायभावं संशयानो जिज्ञासादित एवान्यत्र आदिवाक्यवियुक्त इव ग्रन्थे प्रवर्तिष्यति(ते) -- तत्पाठश्रवणादिलक्षणां प्रवृत्तिम् आचरिष्यति । अन्यथा आदिवाक्यविकले भूयसि शास्त्रे प्रवृ 6 त्तिर् न स्यात् । तत्र च यद् एव प्रवृत्तिनिबन्धनं तद् अत्रापि भविष्यति ।
नापि आदिवाक्ये सत्य् अप्य् आश्वासो युज्यते, अन्यत्प्रतिज्ञातवताम् अपि अन्यव्युत्पादनदर्शनात् । यथातः (यथा --"अथातः) धर्मं व्याख्यास्यामः" [व्स् 1.1.1] इति प्रतिज्ञाय षट्पदार्थीप्रतिपादनंकणादस्य ।
ततो निष्फलैवादिवाक्यक्रिया स्याद् यदि तद्विषय 7 संशयोत्पादनेने प्रवृत्त्यर्थं तद् उपवर्ण्यते । अन्यथा त्व् आदिवाक्येपि कथम् इव प्रवर्तेत श्रोतेति? ।
{प्. 242} अनयैव चर्चद्वाराधर्मोत्तरादिमतेपि प्रत्यवस्थेयम् । तथाहि --यद्य् अर्थसंशयं प्रकरणे प्रवृत्त्यङ्गं कर्तुम् अभिधेयादीनि अभिधीयन्त आदिवाक्येन, तत्करणाद् एव च तफलम् उपवर्ण्यते, तर्हि तत्रैवादिवाक्ये कथं प्रवृत्तिः 8 श्रोतॄणाम् असति तस्यादिवाक्यस्याभिधेयाद्यभिधायके वाक्यान्तरेऽ इति प्र्ष्टोधर्मोत्तरादिराचष्टां तावत् ।
का प्रवृत्तिर् आदिवाक्य इति चेत्; तस्य पठनं श्रवणम् अर्थावगाहनम् । अन्यथा प्रकरणेपि का प्रवृत्तिर् इति तुल्यचोद्यम् । व्याख्यातृवचनात् तत्र प्रवृत्तौ प्रकरणे ऽपि का क्षतिः? । तद्वचनं क्रीडाद्यर्थम् अन्यथापि [5अ] 1 संभाव्यत इति चेत्; समानम् इदम् अन्यत्रापि । जिज्ञासया प्रवृत्तौ चादिवाक्यं वैयर्थ्यम् अश्नुवीत । आदिवाक्यविकलशास्त्रप्रवृत्त्यैव च प्रयासाल्पीयस्त्वात् । तत्र तदन्तरेणापि प्रवृत्तिर् नान्यत्रेति प्रतिवचनं प्रतिक्षिप्तम् । तस्माद् दूरम् अपि गत्वा तेनेदम् अभिधानीयं यद् एवास्मदभिमतम् इति किम् अतिनिर्बन्धेन [कृ]तं बहुतिथेन दोषेण ।
संशयस्य 2 स्वरूपम् उपदर्शयन्न् आह -- किम् अस्य [2 . 22] इति । न वा किञ्चिदि [2 . 22]त्य् अनेन निश्चयेनान्यानुसरणबीजं दर्शितम् ।
संप्रति प्रयोजनविशेषं प्रति प्रकरणस्योपायभावसंशयं तदभिधानात् प्राण् न्यायप्राप्तं प्रदर्श्य प्रयोजनमात्रापेक्षयापि तस्योपायत्वसन्देहस् तदभिधानस्य पुरस्तात् सम्भवी ततो ऽपि प्रकरणे प्रवृत्तिर् अव्याहतेति दर्शयन् 3 तत्रैवाभ्य्च्चये हेतुम् आह -- अपि च [2 . 23] इति ।
एवं जिज्ञासोः [2 . 24] इत्य् एतज्जिज्ञासात इत्य् अर्थात् ।
प्रवृत्त्युपयोगिप्रयोजनशून्यं निष्प्रयोजनम् [2 . 24] तद्विपरीतं प्रयोजनवत् [2 . 24] । उत [2 . 24] इति पक्षान्तरावद्योतने । अनेन प्रेक्षापूर्वकारि[त्व]प्रयुक्तत्वजि(प्रयुक्तजि)ज्ञासा दर्शिता । सप्रयोजनत्वानुसरणे कदाचिद् अस्मदभिमतम् अपि प्रयोज 4 नं सम्भाव्यत इति भावः । अत एव व्यनक्ति -- अस्मदभिमतेन वा [2 . 24] इति । इति ना [2 . 25] जिज्ञासायाः स्वरूपं दर्शितम् ।
व्यर्थः [2 . 25] निष्फलः प्रयोजनप्रतिपादको वाक्य स्य प्रस्तावादादिवाक्यस्यो पन्यासः [2 . 26] प्रदर्शनम् ।
यद्य् एवम् अर्थो वाक्योपन्यासो व्यर्थस् तर्हि किम् अर्थंवार्तिककारेणाकारीत्य् आशण्क्य तस्माद् [2.27] इत्या 5 दिनोपसंहारव्याजेन फलम् अस्य दर्शयति । यस्माद् एवम् अर्थः सम्बद्धः तस्माद्धेतोः ।
कर्तुं प्रतिपादयितुं वा नारभ्यते [2 . 28] नानुष्ठीयत इति यथासंख्यं सम्बन्धः । तयोः साध्ययोः यथासंख्यम् एवोदाहरणे प्राह ।
{प्.243} इतिः [3 . 2] प्रतिषेध्यस्य तत्करणप्रतिपादनानुष्ठानलक्सणस्य व्यापकस्यानुप 6 लब्धेर् आकारं कथयति । तया प्रत्यवतिष्ठमानस्य [3 . 2] प्रत्यवस्थानं कुर्वतः । तस्या असिद्धता , यस्या उद्भावनं प्रदर्शनं तद् एवार्थः प्रयोजनम्, तद् यथा भवतीत्य् उपन्यसनक्रियाया विशेषणम् एतत् ।
आदीयते अस्माद् इति आदिः [3 . 3] तत्र । अस्मात् खलु अर्था आदाय आदाय व्याख्यायन्त इति ।
स्याद् एतत् -- वचन 7 स्यास्य बहिर् अर्थे प्रामाण्याभावात् कथम् असौ तद्वचनात् तदसिद्धतां बुध्यते? । यदि परस्मादस्य तद्विषयो ऽर्थसंशयः प्रव्र्त्त्यङ्गं जायत इति तद् एव मतमायातम् इति किम् अनेन मसीम्रक्षितकुक्कटन्यायेनाचरितेनेति ।
अत्राचष्टे -- केवलं यः प्रतिपत्ता सति प्रयोजनादौ प्रेक्षापूर्वकारिणं कर्तारं 8 नियमेन आदौ तद्वादिनं मन्वानः तदर्थं वचनम् अस्याप्य् अपश्यन्न् अप्रेक्षावत्प्रयुक्तत्वगर्भप्रयोजनादिकम् अत्रापि जानीते, तं प्रतिपत्तृविशेषं प्रतीदम् अकृतादिवाक्यंवार्तिककृद् इति । अन्यथा कथम् असौ निष्प्रयोजनं चेदि(दमि)त्यादि निःसन्दिग्धम् अभिदध्यात् ।
आद्यस्य तूक्तया नीत्या प्रवृत्तिर् अव्याहतेति सर्वम् अवदातम् ।
अत्र 1 [5ब्]भट्टार्च्चटमते सर्वैर् एवधर्मोत्तरादिमतानुसारिभिः पराक्रम्यते । इत्थम् अस्माभिर् इदं गमितम् । एतच् च साध्व् असाधु वा मध्यस्थया धिया सद्भिर् एव विज्ञास्यत इति ।
पूर्वं सामान्येन प्रयोजनाभिधानम् आख्यातम् इदानीं विशेषेणावच्छिन्दन्न् आह तत्रेति [3 . 5] वाक्योपन्यासे । एतद् अर्थात्मनोपि संभवात् प्रकरणात्मन इत्य् आह । तद् उक्तम्काव्याल 2 ङ्कारे "शब्दार्थौ सहितौ काव्यम्" [काव्या. 1.16] इति ।
कथं पुनर् व्युत्पादनं " परोक्षार्थे "त्यादिशब्दरूपस्य प्रकरणस्य प्रयोजनम् इत्य् आशंक्य सर्वशब्दसाधारणप्रयोजनोपन्यासपूर्वकम् अस्य तद्योगं दर्शयितुम् यथास्वम् [3 . 6] इत्यादिनोपक्रमते । यस्य यदात्मीयम् इत्य् अस्यार्थः । वाक्यस्य [3 . 6] एकस्मिन्न् अर्थे प्राधान्येन प्रतिपाद्ये ऽर्थाद्वारेणान्योन्या 3 पेक्षिण उपकार्योपकारकभावेनावस्थितस्य पदसमूहस्य । हिः [3 . 6] यस्माद् अर्थे ।
तद् एवात्र नास्तीत्य् आह तच्चे [3 . 7]ति । चो यस्माद् अर्थे । पदानां [3.7] सुप्तिङ्न्तानां शब्दानाम् अवान्तरवाक्यान्तर्गतानाम् । अवान्तरवाक्यानामि [3 . 7]ति ।हेतुबिन्दुसंज्ञकमहावाक्यापेक्षया तदन्तर्भूतानां वाक्यानाम् । आकांक्षापूरण 4 योग्यं(ग्य)तत्तदर्थद्वारेण परस्परं[5]सम्बन्धो [3 . 7]व्यपेक्षा तेन ।
__________नोतेस्__________
[5] परस्परसंसर्गात्ऽ स्[अतः परं सर्वत्र मुद्रितहेतुबिन्दुटीकायाःस्ऽ इति संज्ञा बोध्या ।]
{प्. 244} नन्व् एतावतापि न ज्ञायते कोत्र समुदायार्थो यस्मिन् प्रतिपाद्ये अमीषां परस्परसम्बन्धेन व्यापार इत्य् आह तथाहि [3 . 8] इति । निपातसमुदायश्चायं यस्माद् इत्य् अस्मिन्न् अर्थे सर्वत्र ।
व्युत्पाद्यते [3 . 8] विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते । 5 इतिः [3 . 8] हेतौ ।
यदि तच्छब्देन तत् परामृष्येत तदा तदभिधेयं व्युत्पाद्यतयोक्तं भवेद् यावता तच्छब्देन तन् न परामृष्टम् इति आह -- तस्यैव [3 . 9] इति ।[6] चः यस्माद् अर्थे । वाक्यभेदेश् च द्रष्टव्यः । ततो ऽयम् अर्थः -- यस्मात् तच्छब्देन तस्य सम्बन्धः स्वीकारः तस्मात् सम्बन्धात् [3 . 9] इति ।
__________नोतेस्__________
[6] आलोकानुरोधेनतस्यैव च तच्छब्देनऽ इतिटीकापाठः स्यात् । मुद्रिते तुचऽ वर्जितः पाठो ऽस्ति ।
स्याद् एतत् -- अयं खलु तच्छब्दो अनन्तरप्र 6 कान्तं प्रधानं परामृशन् दृष्टः, अनुमानञ् च सामान्ये(समासार्थे) गुणीभूतम् । तत् कथं तस्य तेन परामर्शः? इत्य् अशंक्याह -- यद्य् अपि [3 . 9] इति । निपातसमुदायश् चायं विशेषार्थाभिधानाभ्युपगमे सर्वत्र । गुणीभूतम् [7][3 . 10] उपसर्जनीभूतम् अप्रधानीभूतम् इति यावत् । बहुव्रीहावन्य् अस्यैव पदार्थस्य प्राधान्यात् ।
__________नोतेस्__________
[7] टीकायां प्रतेर् अत्र त्रुटितत्वात्गुणभूतम्ऽ इति कल्पयित्वा स्थापितः पाठः, किन्तु आलोकसम्मतःगुणीभूतम्ऽ इति पाठः ।
त 7 थापि [3 . 10] इत्य् अभ्युपगपूर्वं विशेषोक्तौ । शब्द स्य वृतिः प्रवृत्तिः -- अर्थाभिधानम्, तस्याः ।
प्रधान स्य संस्पर्शः स्वीकारः सम्बन्धः इति यावत् । तेन समं वास्तवसम्बन्धात् तत्परामर्शः स्यादित्य् आह -- शब्दानाम् [3 . 12] इति । स्वभावतः [3 . 12] स्वरूपेण सङ्केताव्यवधानेनेत्य् अर्थाः ।
अथवा मस(श)कसंकाशे किं महास्त्राकर्षणप्राये 8 णेति मन्यमानस् तदभिमतं प्राधान्यम् एव दर्शयन्न् आह -- पक्षे [3 . 13]त्यादि ।
अयम् अस्याशयः -- यद्य् अपि समासार्थोपसर्जनं प्रत्यवम्रस्टुम् अशक्यं तथापि व्युत्पाद्यतया शास्त्रे प्रकृतत्वात् बुद्ध्यन्तरेण गृहीतं स्वतन्त्रं सत्प्रत्यवमृष्यते । यथायद्गृहम् एतत् तम् आनयऽ इति ।
अविपरीतस्वरूपप्रतिपत्तिः [3 . 14] शिष्यसन्तानवर्त्तिनीति द्रष्टव्यम् । [6अ] 1 साध्यत्वाद् [3 . 15] एवेत्य् अवधारणीयम् ।
{प्. 245} यद्य् एवं तद्व्युत्पत्त्यर्थम् इति वक्तव्ये णिचा निर्देशेन किं प्रयोजनम् इत्य् आह -- अत एव [3 . 15] इति । यतो ऽनुमानव्युत्पत्तिः प्रकरणस्य साध्यत्वाद् एव प्रयोजनं नान्यथा अतः अस्मात् कारणात् प्रकरणस्य व्यापारस् तथार्थाभिधानं तद् दर्शयितुं[8] [3 . 16] । किंरूपं तद् दत्शयितुम् इत्य् आह -- अनुमाने [3 . 15]ति । अनुमानव्युत्पत्तिः विषयः साध्यत्वाद् य 2 स्य स तथोक्तस् तं दर्शयितुं व्युत्पत्तिविषयं प्रयोजकव्यापारं दर्शयितुम् इति यावत् । निर्दिशति [3 . 16] आचार्य इत्य् अर्थात् । णिच्निर्देशस्यैवाकारं इतिः दर्शयति ।
__________नोतेस्__________
[8] प्रतिपादयितुम्ऽ इति कल्पयित्वा पूरितो टीकापाठः । तथापि आलोकानुरोधेनदर्शयितुम्ऽ इत्य् एव सम्यक् ।
एवं च व्याचक्साणः शिष्यस्यानुमानव्युत्पत्तौ प्रकरणस्य हेतुकर्तृतां दर्शयति । शब्दो ऽर्थं प्रतिपादयति इति लोकस्य व्यवहारदर्शनात् । सामर्थ्याच् चाचार्यस्यापि तथाभाव 3 म् अभिप्रैति । सति चैवं कर्तुः श्रोतुश् च करण-श्रवणप्रयोजनम् अपि सूचितं भवति ।
अथासति साध्यसाधनसम्बन्धाभिधाने कथं तत्प्रतीतिर् येन तस्य तत्प्रयोजनं सिद्धिम् अध्यासीतेत्य् आह -- ततश् च [3 . 17] इति । यतः प्रकरणव्यापारो ऽनुमानव्युत्पत्तिविषय उक्तः ततः कारणात् । चः [3 . 17] अवधारणे उक्तः [3 . 17] प्रकाशितः 4 । अन्यथा प्रकरणव्यापारस्य तद्विषयत्वायोगाद् इति भावः ।
ननु च प्रणेतुर् ज्ञानस्थम् अर्थं प्रतिपादयितुम् उच्यते न (ंउच्चरितेन) शब्दात्मना प्रकरणेन तदभिधानं कर्तव्यम् । न हि अन्यथा तम् अर्थं प्रतिपाद्या(द्याः आ)कृत्या दर्शयितुं शक्यन्ते । तथा चार्थाभिधानम् एवात्र प्रयोजकस्य प्रकरणस्य व्यापारः । स च ण्यन्ताभिधेयः 5 । तस्मात् व्युत्पादनं प्रकरणस्याभिधानम् एव । ततश् चास्यैवाभिधानार्थम् इदम् आरभ्यत इति प्रसक्तम् । न चैतद् युक्तम् । अनुमानव्युत्पत्त्यर्थं हीदम् आरभ्यते । न त्व् अस्यैवाभिधानार्थम् इति चोद्यं प्रतिविधातुम् अभ्युपगच्छन्न् आह -- यद्य् अपि [3 . 18] इति । शब्द स्य वृत्तम् वर्तनम् प्रवृत्तिः व्यापार इति यावत् । तेन शाब्देन न्या 6 येन प्रकरणव्यापारस्य प्राधान्यम् इत्य् अर्थः ।
एतद् उक्तं भवति -- शब्दस्य हि व्युत्पत्तिविषयः प्रयोजकव्यापारो ऽभिधेयः प्रधानं तेन् तादर्थ्यं गम्येतेति ।
यदीदम् अनुमतम् एव तर्हि किम् अर्थम् एवम् अभिहितम् इत्य् आशङ्क्य प्रतिसमाधानम् आह -- तथापि [3 . 19] इति । वस्तुवृत्तेन [3 . 19] वस्तुवृत्त्यपेक्षया आर्थेन न्यायेनेति 7 यावत् ।
{प् 246}वस्तुवृत्त्यापि कथं व्युत्पत्तेः प्राधान्यम् इत्य् आह तस्या [3 . 18] इति । अयम् आशयः -- सर्वो हि प्रयोजकव्यापारः प्रयोज्यक्रियार्थः । उक्तं हि "विक्लेदनोपसर्जना विक्लित्तिः पचेः प्रधानार्थः" इति । तस्माद् व्युत्पादनार्थम् इति प्रयोजकव्यापारवद् व्युत्पत्त्यर्थम् इत्य् उक्तं भवति । तद्व्युत्पत्त्यर्थम् इति तूच्यमाने अन्यैस् तदर्थैस् भोजना 8 द् इव (जनाव)स्थानादिभिः प्रयोजकस् तदर्थमात्रव्यापारतया समान उक्तः स्यात् । अस्ति चास्यासाधाराणो व्यापारः । स कथं नाम् गम्येत इति न्याय्यो णिङ्निर्देशः इति ।
शाब्दीं गतिम् आश्रित्य वाक्यस्य प्रकरणप्रयोजनाभिधानप्रवृत्तत्वम् अभिसन्धाय परोक्षार्थेत्य् आदेर् एकदेशस्य शाब्द्यैव गत्या गुणभूतार्थवाचकत्वं द[6ब्] 1 र्शयन्न् आह -- परोक्षार्थे [3 . 23]ति ।
शब्दात्मनश् चेत् प्रकरणस्य प्रयोजनम् उक्तम्, कृतम् अर्थात्मनस् तेनाभिहितेन इत्य् आशङ्क्याह -- न हि [3 . 24] इति ।
तात्पर्यार्थप्रदर्शनेनैवं व्याचक्षाणश् चार्थेन न्यायेन अभिधेयप्रयोजनम् एव वक्तुं प्रवृत्तम् इदं वाक्यम् इति दर्शयति । यथा [4 . 5] इति सामान्योक्तस्यास्य विषयोपदर्शने । भूतं [4 . 5] सत्यं । किं तद् इ 2 त्य् अपेक्षायां ब्राह्मणीत्यु क्तौ स्त्रीत्वावगताव् अपि यथा न तत्र स्त्रीप्रत्ययस् तद्वत् सर्वत्र द्रष्टव्यम् इत्य् अर्थः ।
आ समन्ताद् उप्यते ऽनेन इति आवपनम् [4 . 5] किम् इत्य् अपेक्षायां इयम् [4 . 5] इति । उष्ट्रिका पिटकिका ।
ननु परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वात् यदि तद् व्युत्पाद्यते तर्हि शब्दादेर् अपि तन्निमित्तत्वात् तद् अपि किं न व्युत्पाद्यते इत्य् आशङ्क्याह -- अनेन [4 . 7] इति । अनेन 3 तत्प्रतिपत्तेः त्रिरूपलिङ्गाश्रयत्वकथनेन । चो यस्माद् अर्थे । प्रमाणभूता [4 . 8] प्रमाणरूपा अव्यभिचारिणीति यावत् ।
कस्माद् एवम् उक्तं भवतीत्य् आह -- अन्यस्मात् [4 . 8] इति उक्तत्रिरूपलिङ्गाद् अन्यस्मात् तत्प्रतिपत्तेर् अव्यभिचारिण्याः परोक्षार्थप्रतिपत्तेर् अयोगाद् अप्रयुज्यमानत्वात् ।
असत्य् अवधारणे अयम् अ 4 र्थः कुतस्त्य इत्य् आह -- अवधारणात् [4 . 10] नियमाद् इति । इतिः [4 . 10] अवधारणस्य आकारं दर्शयति ।
ततः [4 . 10] परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वाद् एव । आदि [4 . 10]शब्दाद् अर्थापत्त्यादिपरिग्रहः । उक्ताद् अन्येन प्रकारेणानुमानत्वे प्रामाण्ये सति इति यावत् । तेषां [4 . 11] शब्दादीनाम् ।
{प्. 247} स्याद् एतत् -- अलिङ्गजापि परोक्षार्थप्रतिपत्तिर् 5 अव्य्भिचारिणी भविष्यति तत्कहं शब्दादीनां सत्य् अपि प्रामाण्ये तथात्वम् इत्य् आशङ्क्याह -- तथाहि [4 . 13] इति ।
सर्व शब्देनाशेषपरिग्रहं दर्शयति । स्वतन्त्रा [4 . 13] स्ववशा लिङ्गानपेक्षेति यावत् ।
हेतुम् आह -- तस्याः [4 . 14] इति । यस्तया व्यवसीयते स तस्याः स्वार्थः ।
मा भूत् संवादिका, प्रमाणं तु कस्मान् न भवति? । आह -- अवि 6 संवादन म्[9]अविसंवादकत्वं, तद् एव लक्षणं स्वभावो यस्य तद्भावस् तत् त्वं तस्मात् [4 . 15] ।
__________नोतेस्__________
[9] आलोकसम्मतः मूलपाठःअविसंवादनलक्षत्वात्ऽ न तु यथा मुद्रितः --अविसंवादलक्षणत्वात्ऽ इति ।
स्वतन्त्राया अयोगात्, अन्यत एव सा भविष्यति किम् एतावतानुमानत्वम्? । न हि पक्षधर्मतैव लिङ्गस्य रूपं येन तज्जायाः तथात्वं स्यादित्य् आह -- अन्यत्रापि(तोपि) [4 . 15] इति ।[10] असम्बद्धात् [4 . 16] सिषाधयिषिताप्रतिबद्धात् ।
__________नोतेस्__________
[10] स्ऽ प्रतेर् अत्र त्रुटितत्वात्यदि स्याऽ इति पूरितम् अस्माभिः । आलोकम् अनुसृत्यअसम्बद्धात् यदि स्याऽ इति -- पाठः पूरणीयः ।
अस्तु तर्हि प्रतिबन्धो न तु 7 पक्षधर्मता । ततश् चान्वयव्यतिरेकवतो ऽपि शब्दादेर् अपक्षधर्मात् परोक्षार्थप्रतिपत्तिर् अव्यभिचारिणी नानुमानम् इत्य् आशङ्क्याह -- धर्म्यसंबन्धेपि [4 . 16] इति ।
यद्य् एवम् अस्तु तत्प्रतिपत्तिहेतोः पक्षधर्मत्वम् अपि । किम् अतः इत्य् आह -- एवम् [4 . 18] इति । एवं[11]रूपं [4 . 18] साध्यसम्बद्धं विशिष्टधर्मसम्बद्धञ् च । इतिः हेतौ । सर्वा [4 . 18] कृत्स्नैव । न भिद्यते [4 . 19] न पृथक् प्रमाणम् 8 ।
__________नोतेस्__________
[11] अयम् आलोकसम्मतः पाठः । सेवम्भूतःऽ ।
सर्वत्रायम् इतिः [4 . 19] वाक्यार्थपरिसमाप्तौ । यत्र तु अर्थविशेषे वर्तते स प्रायेण कथ्यते ।
स्याद् एतत् -- उत्सूत्रो ऽयम् अर्थस् त्वया व्याख्यायते न त्व् अयम् अत्राचार्यस्य विवक्षित इत्य् आह एष च [4 . 19] इति । चः [4 . 20] यस्माद् अर्थे ।
ननु प्रकृतसम्बन्धाद् अर्थितम् अयम् अर्थो ऽत्यन्त (-दर्शने ऽयम् अर्थो ऽसङ्गत) इत्य् आह -- पक्ष [4 . 20] इति । व्याप्त एव च [4 . 22] इति समुच्चीयमानावधारणम् इदम् ।
नरञ् च नारायण[7अ] 1 म् एव चादौ स्वतः सुतौ द्वौ जनयां बभूव
इति यथा
{प्. 248} "विवक्षातो ऽप्रयोगे ऽपि तस्यार्थो ऽयं प्रतीयते"
इति च भावः अवधारणात् [4 . 22] इति ध्रु(ब्रु)वतः ।
तद्व्युत्पादनार्थम् इत्य् अत्रापि अर्थग्रहणसम्भवाद्[12] अत्रे [4 . 24]त्य् आह ।
__________नोतेस्__________
[12] आलोकसम्मतःअत्रार्थग्रहणंऽ इति पाठः । सर्थग्रहणंऽ ।
इतिः [4 . 24] पदस्याकारं दर्शयति । स्वलक्षणविषयं [4 . 24] वस्तुविषयम्, न सामान्यविषयम् इत्य् अर्थात् ।
कथम् अर्थविषयत्वाभिधाने ऽनुमानप्रामाण्यस्य स्वलक्षण 2 विषयत्वम् उक्तं भवतीत्य् आह -- अर्थे [4 . 25]ति ।
एवम् एवाचार्यस्य तथाभिधानं सङ्गच्छते नान्यथेति दर्शयितुम् आह -- अत एव [4 . 26] इति । अनुमनप्रामाण्यस्य स्वलक्षणविषयत्वाद् एव । अन्यथाप्रत्यक्षव्यवस्थायाःऽ इति विशेषो(ष्यो)क्तं स्यात् न सामान्येनेत्य् आशयः । अत्र प्रामाण्यस्य वस्तुविषयत्वाद् अन्येन सामान्यविषयत्वप्रकारेण तत्र [4 . 27] स्वलक्षणे, नान्यविषया 3 ज् ज्ञानाद् अन्यत्र प्रवृत्तिर् युक्ता, अतिप्रसङ्गाद् इति भावः ।
ननु सामान्यम् अपि वस्तु, तेन तदर्थक्रियार्थितयैवे प्रवृत्तिर् उपपत्स्यत इत्य् आह -- सामान्यस्येति [5 . 1] । अपि ना [5 . 1] वस्तुत्वे ऽभ्युपगमं दर्शयति ।
तस्याम् एवार्थक्रियायां प्रवृत्तिर् भविष्यतीत्य् आह -- तस्याश् च [5 . 2] इति ।[13] तदुत्पत्ताव् एव [5 . 2] सामान्यालम्बनज्ञानोत्पत्ताव् एव ।
__________नोतेस्__________
[13] तदु[त्पाद्य]त्वेनऽ स् ।
तर्हि वाहदोहार्थक्रि 4 यार्थितयैव प्रतीते गोत्वे सामान्ये प्रवर्त्स्यतीति अत आह -- न हि [5 . 2] इति । हिः अवधारणे ।
हेतुम् आह -- तस्य [14][ ? ] इति । अन्वयव्यतिरेकाभ्यां तत्रैव तद्व्यापारावधारणाद् इति भावः ।
__________नोतेस्__________
[14] स्वलक्षणस्यैव स् ।
भिन्नस्य सतः कार्यकारणभावाद् अन्यस्य सम्बन्धस्याभावाद्[15] अनुपकार्यतये [5 . 4]त्य् आह ।
__________नोतेस्__________
[15] अनुपकार[कत्वेन]ऽ स् ।
अभ्युपेत्यापि सम्बन्धम् इदानीम् आह -- सत्यपि [5 . 5] इति । चः [5 . 5] वक्तव्या 5 न्तरसमुच्चये ।
धूमार्थिनोपि धूमप्रतिपत्तौ धूमध्वजे प्रतिपत्तिः प्राप्नोति इति इष्टम् धर्मम् अतिक्रान्तः प्रसङ्गः अतिप्रसङ्ग [5 . 6]स् तस्माद्धेतोः ।
{प्. 249} अनवसितः -- अनवधारितः, विवेकः -- अन्यत्वं येन स तथा तस्य [5.6] ।
तदनवसाय एव कुत इत्य् आह -- समवायस्य [5.3] इति । समवायेन हि सम्बद्धं सामान्यम् इति --नैयायिकादीनांमतम् । तस्य [16]सामान्यस्य् आध्यवसायात् [5 . 7] समारोपात् । तत्र [5 . 7] स्वलक्षणे ।
__________नोतेस्__________
[16] आलोकसंमतःतदध्यवसायात्ऽ इति पाठः ।अवसायात्ऽ स् ।
ननु किम् इदं समवायस्य सूक्ष्मत्वं विवक्षितम्? । यदि परिमाणविशेषयोगित्वम्, तद् अस्य न सम्भवति । अथाप्य् उपलब्धिजननयोग्यरूपरहितत्वं तद् अपि तदभावात् तद् एव नोपलभ्यताम्, न तु तस्य ताद्रूप्येण सामान्यतद्वेतोर् भेदानुपलक्षणम् उपपद्यते । न च समवायो नोपलभ्यतेनैयायिकमते समवेतविशेषणभावेन तस्योपलब्धेर् इष्टत्वात् । तन्मतस्य चाशंक्यमानत्वाद् इति ।
न, अभिप्रायापरिज्ञानात् । इह हि सूक्ष्मत्वं समवायस्य समवायिनोर् भेदेनानुपलम्भकत्वं विवक्षितम् । एष हि समवायस्य महिमा येन समवायिनौ निर्लुठितगर्भवद्भेदेन नोपल 8 म्भयति पटतन्त्वादिवद् इति । अन्यथा व्याख्यानं तु साहसम् एव ।
अत्र एवं तर्हि [5 . 7] इति प्रतिविधानम् । इह भ्रान्तेस् त्वयाप्य् अवश्याभ्युपगन्तव्यत्वाद् भ्रान्तिमात्रम् एवास्तु [5 . 8] इत्य् आह ।
वासनाद्वयनिबद्धो हि विकल्पः स्वाभासम् एवागोव्यावृत्तं प्रतियन् बाह्यस्याप्य् अगोव्यावृत्ततया भेदम् अवगाहितुम् अनीशानो बाह्य एव गौर् मया प्रतीत इत्य् अभिमन्यमा[7ब्] 1 नः प्रकृत्यैव भ्रान्तिरूपो जायते ।
भ्रान्तिर् एव भ्रान्तिमात्रम् [5 . 8] वस्तुभूतसामान्यशून्यं स्वक्षणाश्रयतया अनुमानज्ञानाश्रयतयोपगतत्वेन च तयोर् अन्तर्वर्तित्वाद् अनुपयोगितया च घाटामस्तकान्तरालवर्तिमांसपिण्डरूपगडुस्थानीयत्वात् गडुरूपं [5.8] तेन तद्विषयतयोपगतेनेति प्रकरणात् किं [5 . 8] न किञ्चिद् इत्य् अर्थः ।
अयम् अस्याशयः -- 2 यदि विकल्पो दृश्यविकल्प्याव् अर्थाव् एकीकृत्य लोकं प्रवर्तयितुं न शक्नुयात् यदि च तदुपगमे ऽपि भ्रान्तिः प्रवृत्तिनिमित्तं नोपगम्येत, तदा तथा प्रवृत्तौ सामान्यम् उपयुज्येतापि । यदि च तत् प्रमाणप्रसिद्धं भवेत् गडुवदेवानुपयुक्तम् अपि उपगम्येत, उपगम्य च तथा प्रवृत्ति इष्येत, यावता सर्वम् एवेदम् असम्भवीति ।
ननु निर्निबन्धनो ऽन्यत्रा 3 न्यस्य समारोपो नोपपद्यते । न च व्यक्तिषु सर्वतो व्यावृत्तासु अनुगताकारस्य बुद्धिप्रतिभासस्यारोपे किण्चिन् निमित्तम् अस्ति । तत् कथं भ्रान्त्या प्रवृत्तिकल्पना ज्यायसीत्य् अभिप्रायवानाह -- निर्बीजे [5 . 8]ति ।
{250} ता एव [5 . 9] इत्य् उत्तरम् । याः स्वहेतुभ्यस् तथोत्पन्नास् ता व्यक्तयः स्वहेतुसामर्थ्यात् तदेक प्रत्यवमर्षार्थज्ञानाद्य् एकं कार्यं 4 यासां तास् तथा ।
एतद् उक्तं भवति -- अतत्कार्यव्यावृत्त्या तदेककार्यत्वं सर्वसजातीयानुगतं तासु विद्यमानम् अनुगताकारस्य बुद्धिप्रतिभासस्यारोपबीजं किन् न भवतीति? ।
स्याद् एतत् -- तदेककार्यतया तथाभूता अपि व्यक्तयः तथाभूताया भ्रान्तेर् बीजम् उपपद्यन्ते । सामान्यम् इत्य् अस्मत्पक्षस्यापि न किञ्चित् प्रमाणम् इत्य् अभि 5 सम्बन्धम् आकलय्य परस्परसामान्याभिधानम् उन्मूलयितुम् आह -- वर्णे [5 . 10]ति । वर्णः शुक्लादिः, आकृतिः संस्थानं संयोगविशेषः, ताभ्यां समानो ऽविशिष्टः आकार आभासो यस्य यत्र वा तत् तथोक्तम् । वर्णसमानाभासम् आकृतिसमानाभासं वर्णाभासम् आकृत्याभासम् इति यावत् ।
वर्णाकृतिप्रयुक्त 6 त्वात् सामान्यस्य, तज्ज्ञानस्यापि तथात्वं नायुक्तम् इत्य् आह -- न च [5 . 11] इति । तद्रूपं [5 . 11] वर्णाकृतियुक्तरूपम् । तदुक्तम् --
"वर्णाकृत्यक्षराकारशून्यं गोत्वम् हि वर्ण्यते" [प्व् 2.147] इति ।
तत् [5 . 11] तस्मात् ।
वर्णाकृतिप्रयुक्तं हि प्रतिभासमानं हि तद्वर्णाकृतियोगिन्य् अपरत्र भ्रान्तेर् बीजं [5 . 11] निबन्धनं भवेत्, नान्यद् इतिभावः ।
यदि नाम सामान्य 7 तद्वतोर् वर्णादियोगाभ्यां वैसदृश्यं तथापि सामान्यं तत्र भ्रमनिबन्धनं किं न भवति इत्य् आह -- सादृश्ये [5 . 11]ति । अस्ति हि काचिद्भ्रान्तिर् या अन्तरुपप्लवसम्भवे इत्य् अभिप्रेत्य परैः [5 . 12] इत्य् आह ।
यदि एवं बाह्यस्य बुद्धिप्रतिभासेन सामान्येन किं सादृश्यं येन ब्रान्तिर् उत्पद्यत इति आह -- व्यक्तय [5 . 12] इति ।
[17] सामान्यालम्बनं यज् ज्ञानं तस्य य आकारो 8 विजातीयव्यावृत्तरूपं तस्य सरूपाः [5 . 13][18] विजातीयव्यावृत्ता [5 . 12] इति हेतुभावेन विशेषणम् । तेन विजातीयव्यावृत्तत्वाद् इत्य् अर्थः । बुद्धिप्रतिभासस्य वा अतद्रूपपरावृत्ततयैवावभासनाद् इति च भावः ।
__________नोतेस्__________
[17] आलोकसम्मतःसामान्यालम्बनज्ञानाकारसरूपाःऽ इति पाठः ।सामान्याकारज्ञानस्वरूपाःऽ स् ।
[18] आलोकसम्मतःविजातीयव्यावृत्ताःऽ इति पाठः ।अ[समानजा]तीयव्यावृत्ताःऽ स् ।
यैर्वैशेषिकादिभिर् व्यक्तेर् भिन्नं सामान्यम् इष्टं तैर् अप्य् अवश्यम् उक्तया नीत्या स्वलक्षणविषयम् अनुमानस्य प्रामाण्यम् एष्टव्यम् इति प्र[8अ] 1 तिपाद्य संप्रतिमीमांसकादीन् प्रतिपादयितुं यैः [5 . 16] इत्य् आदिनोपक्रमते ।
{प्. 251} तुः [5 . 16] विशेषार्थः ।
सामाण्यं अनुमाने प्रतिभासमानं प्रवृत्तिविषयः, तच् च व्यक्तिस्वरूपम् इति स्वलक्षणविषयम् एव प्रामाण्यं तस्यापतितम् इत्य् आशयः ।
यद्य् एवं भवन्मतवत् तद् अपि मतम् अतिशोभनम् इत्य् आशङ्क्य आह -- स्वलक्षणे [5 . 17]ति ।
तद्देशोपसर्गणजन्मनीन्द्रियज्ञान इव 2 प्रतिभासनप्रसङ्गेन शब्दाद् अपि तं(तत्)प्रतीतौ चक्षुरिन्द्रियादिवैयर्थ्यप्रसङ्गेन व्यक्तेर् अप्रतिभासने तदात्मकं सामान्यं कथम् इव प्रतिभायाद् इति भावः ।
ननु यद्य् अनुमानस्यापि प्रामाण्यं स्वलक्षणविषयं तर्हि प्रत्यक्षाद् अस्य भेदः कथम् इत्य् आशङ्क्याह --[19] परोक्ष इति । तुः प्रत्य्क्षाद् अनुमानं भेदवद् दर्शयति ।
__________नोतेस्__________
[19] स् संज्ञकहेतुबिन्दुटीकायाः प्रतेर् अत्र त्रुटितत्वात् मूलपाठाभावः बोध्यः ।
यस्माद् अर्था[त्]साक्षाद् अनुदय 3 मानम् उत्पत्तुं लिङ्गम् अपेक्सते, अर्थञ् च न साक्षात्करोति तस्माद् इत्य् अर्थः । सति भाव आश्रयार्थः ।
स्यान् मतम् -- यद्य् अस्यापि स्वलक्षणं विषयः, तर्ह्य् अन्यत् सामान्यलक्षणं, सो ऽनुमानस्य विषयः[न्ब् इ] इतिन्यायबिन्दुर् विरुध्येतेत्य् आह -- तदेवे ति । चो यस्माद् अर्थे ।
कथं तथा वक्तुं शक्यत इत्य् आह -- लक्ष्यत इति ।
सा 4 मान्यम् अतद्रूपपरावृत्तिर् लक्षणं लक्षकं यस्यातद्रूपपरावृत्तस्य वस्तुनः ।
त एव भेदाश् च अविवेचितभेदाः सामान्यम् इत्य् अर्थः । पुनर् उक्ताशङ्काम् इत्य् अर्थपुनरुक्ताशङ्का इत्य् अवसेयम् । शब्दपुनरुक्तस्यानुम्भवाद् एव तदाशङ्काया अभावात् ।
द्विविधं हि पुनर् उक्तम् । अर्थपुनरुक्तम् -- यदा विशेषविधित्सा 5 द्यभावे स एवार्थः शब्दान्तरेणाभिधीयते । शब्दपुनरुक्तं तु विधित्साद्यभाव एव यदा स एव शब्दः पुनर् उच्चार्यते । विशेषविधित्सादिभावे तद् एव द्वैधम् अर्थानुवादशब्दानुवादात्मना द्वैधं भवतीति ।
वार्तिकादौ तर्ह्य् अनैपुण्यमाचार्यस्येति चेत् । न, मन्दबुद्धीनधिकृत्य तत्प्रवृत्तेः ।
प्रमाणेनेति तृतीयान्तात् तसिर् द्रष्टव्यः ।
तन्निश्चयतः प्रभेदनिश्चयतः पुरुषव्युत्पादनम् इति विग्रहः । प्रभेदस्य व्युत्पादनम् इति सम्बध्यते । प्रभेदो ऽपि द्विधा द्रष्टव्यः -- अनुपलब्ध्यादिभेदेन पक्षधर्मत्वाद्यात्मना च । यदि कार्यादिभेदनिश्चायकं प्रमाणम् अत्रोक्तम्, तर्हि अन्वयादिप्र(स्व)रूपप्रभेदनिश्चायकं प्रमाणं नोक्त 7 म् एवत्य् आशंक्याह त्रिविधेति । त्रिभिर् अन्वयव्यतिरेकपक्षधर्मतात्मकैः प्रकारैः । {प्. 252} प्रकर्षेण भिन्नस्य भेदम् उपगतस्य । एवम् अभिधानाद् एव चास्य प्रभेदस्येत्य् अत्रास्माभिस् तथा व्याख्यातम् अन्यथा एतन् न संगच्छेत ।
स्याद् एतत् -- लिङ्गलक्षणानुमानस्वरूपस्य व्युत्पादनं स्याद् यदि लक्ष्यं लक्षणं तन् निर्दिष्टं भवेत् । प्रभेदस्य च 8 तदा स्याद् यदि तन् निर्देशः स्यात् । न चात्र तद्वाचकम् अस्तीत्य् आह तत्र त्रेधाव्युत्पादने व्यवस्थिते सतीति । एवञ् च निर्देशप्रदर्शनं परं कृतं बोद्धव्यं न तु लक्षणानुवादेन लक्ष्यविधिर्दर्शितः ।
हेतु र् इति तु लक्ष्यमनूद्य पक्षधर्म इत्यादिलक्षणं विधेयम् अवसेयम् । इतिना नियमस्याकारो दर्शितः । प्रतिपाद्योपलक्षणं [8ब्] 1 भावग्रहणं । तेन भावेषु अभिधेयेषु इत्य् अर्थः । अभावेषु तथा न स्यात् ।
अत्र तु साहायकंकुमारिलसाक्षिणम् अपक्षिपन्न् आह तद् उक्तम् इति । संवित्तेर् अनुगमो ऽनुबन्धः स्थैर्यम् । धारावाहित्वम् इति यावत् । सकृज्जाता तु विपक्षाभावसंवित्तिर् अदृढा यत्र, न तत्र, यथावधारणम् इत्य् अनेन सूचयति ।[20]हिर्यस्माद् इन्द्रियस्य भावाङ्गे(वांशे)नैव संयोगः । संयोग शब्देन 2 संबन्धो विवक्ष्यते । न त्व् अन्यतरकर्मादिगुण एव । सामान्यादेर् अप्रत्यक्षत्वप्रसङ्गात् । सो ऽपि कस्माद् इत्य् आह -- योग्यत्वाद् इति । भावांशेन सह सम्बद्धम् इन्द्रियं योग्यंमीमांसकमते । सतोर् एव सम्बन्धोपपत्तेर् इति भावः । स विषयो ऽस्येति तद्विषय स् तस्य भावस् तत्ता । कस्या सेत्य् अपेक्षायाम् आह प्रत्य्क्षस्य् एति । कस्माद् इत्य् आह -- अर्थे ति । विरो 3 धिन्य् अनुपपन्ना चतुर्धा चतुर्भिः प्रकारैः ।
__________नोतेस्__________
[20] भावांशेनैव संयोगो योग्यत्वादि इन्द्रियस्य हिऽ इति स्व्, अभाव 18 ।
असामान्यतयैव तत्साधनीभविष्यतीत्य् आह -- तत्र इति ।
अनुक्रान्तं रूपं [6 . 9] स्वभावो यस्य तत् तथा । अनुक्रान्तं प्रकान्तम् एकज्ञानसंसर्गितुल्ययोग्यतालक्षणं वाच्यम् ।
हेत्वन्तरम् अपि तथा भविष्यति इत्य् आह -- यदि [6 . 9] इति सम्भावयति । हिः [6 . 9] यस्माद् अर्थे । स्यात् तथारूपम् इति प्रस्तावात् । आदि [6 . 9] 4 शब्दात् कालस्य संग्रहः । घटवद् इति चाशयः ।
अयं प्रकारः [21][6 . 12] कार्यकारणव्याप्यव्यापकलक्षणः । तस्मात् [22][6 . 12] कार्यकारणभावाद्यभावात् । ते [6 . 12] कारणव्यापकानुपलब्धी । न च तस्य चात्यन्तासतो ऽविकलकारणस्य भावः सम्भवति इति भावः ।
__________नोतेस्__________
[21] प्रकारो ऽयंऽ --स्
[22] तत्ऽ -- स्
{प्. 253} अमूषां सम्भवम् अभ्युपपद्येदानीं दूषणं दत्ते -- सम्भवे च[23] [6 . 14] 5 इति ।
__________नोतेस्__________
[23] वाऽ स्
ननु कथम् अयं नियमः सिध्यतीति प्रश्ने किम् इदम् अकृतं नियमसिद्ध्यनङ्गम् अभिधीयत इत्य् आशङ्क्याह -- एवं मन्यत [6 . 18] इति । एवं वक्ष्यमाणकम् । इह [6 . 18] वाङ्मये व्यवहारे । तद्विपर्ययेण [6 . 18] तस्य नियम्यमानस्य विपर्ययेण । तद्विपक्षस्य [6 . 19] तस्य नियमविषयस्य विपक्षः तद्विपक्षस् तस्य व्याप्तौ । [6 . 21] सत्याम् । 6 प्रतिषेध्यस्य हेतुत्वस्य यः स्वभावस् तेन यद् विरुद्धं हेत्वाभासत्वं तस्य उपलब्ध्या [6 . 25] ।
ननु हेतूक्तलक्षणप्रतीतिकाम्(मो)हेतोर् एव रूपं प्रतीयताम्, कथं पुनः परस्परपरिहारवत्तया तयोर् विरोधः प्रतीयत इत्य् आह -- तदात्मे [7 . 1]ति । तस्य हेतोर् य आत्मा तत्र नियतो यः प्रतिभास स् तस्य यज् ज्ञानं संवे 7 दनं तस्माद्धेतोः विपरीतस्य अन्यतया तदनात्मतया सामर्थ्यात् ज्ञातया । इत्थंभूतलक्षणा चेयं तृतीया । तदाभासता तस्याः प्रतीतेः [7 . 2] सामर्थ्येन निश्चयात् ।
तस्मात् किं भवतीत्य् आह -- परस्परम् इति [7 . 2]
स्याद् एतत् -- अत्यन्तासतो हेत्वन्तरस्य न केनचित् सह विरोधावगतिः येन विरुद्धोपलम्भात् अभावगतिर् भवति । तत्र च हेतुत्वम् अ 8 त्यन्तासत् कथं निषिध्येत इति पूर्वपक्षद्वयम् उत्प्रेक्षमाण आह -- ते च [7 . 4] इति । चो यस्माद् अर्थे । नापि च तेन निषिध्यमानं हेतुत्वम् अत्यन्तासत्तयोपगतम् इति सम्बन्धनीयम् । तर्हि किम् अत्र तत्त्वम् इत्य् आह -- केवलं [7 . 6] इति ।
अन्यत्र [7 . 6] कार्यादौ प्रसिद्धं निश्चितं व्यामोहाद् अज्ञानात् तत्र [7 . 6] हेतुत्रयबाह्ये अर्थे आरोपितं [7 . 7] सत्त्वेन व्यवस्थापितम् । शङ्कित [9अ] 1 म् अस्ति न वेतिऽ संशयास्पदीकृतम् ।
तत् [7 . 7] तस्मात् । किं कस्मात् सामर्थ्यात् प्रकाश्यमानम् इत्य् उक्तम् । एवम् उपलक्षणत्वाद् अस्य कथं निषेध इत्य् अपि द्रष्टव्यम् ।
ननु किं हेत्वन्तरे हेतुत्वं भवत्वा[भवत् हेत्वा]भासत्वभावान् निवर्तमानम् अवगतं येन तस्यानेन विरोधो वक्ष्यत इत्य् आह -- न च [7 . 8] इति ।
इदानीम् अत्यन्तासत्त्वम् अभ्युपगम्यापि दोषाभावं प्रदर्शयितुम् आह -- नापि [7 . 10] इति ।
{प्. 254} कथं पुनस् तत्रैव 2 तदवगमो न भवतीत्य् आशङ्क्याह -- न हि [7 . 11] इति ।
मा तत्रावधारि विरोधो ऽन्यत्रापि कथम् अत्यन्तः(ता)सतस् तदवगम इत्य् आह -- सर्वत्र[24] [7 . 13] इति ।
__________नोतेस्__________
[24] स् प्रताव् अत्र शङ्कितः पाठः । आलोकानुरोधेन स तु "विरोधो ऽपि तु सर्वत्र" इति गम्यते ।
लक्षणं [7 . 15] वस्तूनां विभक्तरूपं, तत् प्रयोजनम् अस्य इति तथा[25]। नियतरूपप्रतीतिर् एव सर्वेण समं तस्य विरोधप्रतीतिर् इति समुदायार्थः ।
__________नोतेस्__________
[25] लाक्षणिकः [7.15]
दुर्मतीनां विस्पन्दितानि [7 . 18] व्याकृतानि, तेषु ।
प्रकरणं निगमयन्न् आह -- इति स्थितम् ए 3 तत् [7 . 18] इति । इतिः [7.18] इति अनन्तरोक्तम् उपपत्तिप्रकारं प्रत्यवमृषति । इतिः [7 . 20] अभिप्रायस्याभिप्रायेण विषयीकृतस्याकारं दर्शयति ।
प्रमाणयोर् द्वैतात् द्वयोर् अनियतरूपदर्शने कतरेणे [7 . 25]त्य् उक्तम् । उपगतम् इत्य् अनेनारोपम् आह । विशेषप्रतिषेधात् शेषविधानं लब्धम् इत्य् अभिप्रायेण पक्षधर्मतासद्भावे
पि 4 [7 . 27] इत्य् आह ।
भवतु अविनाभावाभावो हेत्वाभासत्वन् तु कस्माद् इत्य् आह -- अविनाभावेति [8 . 2] । असिद्धविरुद्धानैकान्तिका नां सामान्यधर्मेण [8 . 3] साधारणेन धर्मेण ।
संप्रति विशिष्टेन नाम्ना साधनम् इदम् अवच्छिन्दन् आह -- इति [8 . 3] इत्यादि ।
अविनाभाववैकल्यम् एव तु कुतः सिद्धिम् इत्य् आह -- अविनाभाववैकल्यञ् च [8 . 5] इति ।
तेभ्यः 5 स्वभावादिभ्यो व्यतिरिक्तानां व्यापकानुपलब्ध्या[26] [8 . 6] वक्ष्यमाणस्य व्यापकस्यानुपलब्ध्या ।
__________नोतेस्__________
[26] व्यापकानुपलब्धितः -- स्
तदनुपलब्धिर् एव कुत इत्य् आह -- त्रिविधे [8 . 5]ति । तद्भावे हि त्रिविधान्तर्भावाद् एव तद्व्यतिरिक्तत्वम् एव न भवेद् इति भावः ।
किं तद्व्यापकानुपलब्ध्या तत्सिद्धिम् अध्यारोहतीत्य् आह -- तथाहि [8 . 6] इति ।
तादात्म्येन तदुत्पत्ता 6 व् एवेति(त्पत्त्या वेति) विवक्षितम् । न तु द्वाभ्याम् एव । तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिश् च तदुत्पत्तिर् इष्टा द्रष्टव्या ।
कुतस् ताभ्यां तस्य व्याप्तिर् इत्य् आह -- तयोः [8 . 7] इति । तत्र [8 . 7] अविनाभावे । तस्य [8 . 8] अविनाभावस्य । तयोः [8 . 8] सतोर् एव ।
{प्. 255} कस्मात् तयोर् एव तस्य भावः? । किं पुनर् अन्यथापि न भावह् इत्य् आह -- अतत्स्वभावस्येति [8 . 8] ।
पूर्वोक्तत 7 दुत्पत्तिनिषेधेन यस्य यस्माद् अनुत्पत्तिर् यत्कारणाद् वा तस्य् आतदुत्पत्तेर् इति [8 . 8] बोद्धव्यम् ।
अत्र स्वातन्त्र्यजिहासयावार्तिकम् उपन्यस्यति -- तदुक्तम् [8 . 9] इति ।
स्याद् एतत् -- दृष्टचरम् इदं यत् अतत्स्वभावेन अनुत्पन्नेन च केनचित् कस्यचिद् अव्यभिचारो यथा रसादिना रूपादेर् इत्य् आह -- रूपादिना [8 . 15] इति ।
रसादेर् अविनाभावः [8 . 15] अव्यभिचारित्वम् ।
3 केनेत्य् आह -- रूपादिना [8 . 15] इति । आदि शब्दात् स्पर्शादिसङ्ग्रहः ।
तत्कारणोत्पत्तिर् एव [8 . 16] इत्य् अभिदधानस् तदुत्पत्तिशब्देन पूर्वं द्वे विधे विवक्षिते इति स्फुटयति ।
एतद् एव् आन्यथा [8 . 17] इत्यादिना द्रढयति ।
विशेषाभावो ऽसिद्धः, एकार्थसमवायित्वम् एव विशेष इत्य् अभिप्रेतुर् वचनम् एकार्थ [8 . 19] इत्यादिना शङ्कते ।
एकार्थसमवाय इत्य् अत्र द्वयी व्युत्प[9ब्] 1 त्तिः -- एकस्मिन्न् अर्थे एकस्मिन् समवाय एकार्थस्य वा समवाय इति ।
अत्र तु एक स्मिन्न् अर्थे द्वयोः समवायः इति विवक्षितम् । स निमित्तं यस्य अविनाभावस्य स तथा ।
सिद्धान्ती प्रतिविधास्यमानश् चोदयति -- ननु [8 . 20] इति ।
"अयुतसिद्धानाम् आधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः" [प्रशस्त. प्. 696) इत्यादाव् आधार्याधारग्रहणाद् उपवर्ण्यते इत्या 2 ह ।
अस्तु तथाविधयोर् असौ का क्षतिर् इति आह -- स च [8 . 20] इति । चो यस्माद् अर्थे ।
तस्याभिधेयत्वेनाभिमतस्वरूपान्धकारे अतिप्रसक्तिदोषान् न सिध्यति [8 . 21] । स्थित्यादिकरणेनाधारभावस्यान्यत्र निषिद्धत्वाद् इति भावः । इतिः [8 . 21] हेतौ ।
समवायम् अभ्युपेत्य एतद् उक्तम् । तद् एव तु नास्तीति संप्रति प्रतिपादयन्न् आह --[27] यथा च [8 . 22] इति । तादा 3 त्म्ये चे [28][9 . 1]ति तेन सहेत्य् एव योजनीयम् ।
__________नोतेस्__________
[27] स् प्रतेर् अत्र त्रुटितत्वात् "-समवायो[वसे]यः" इति कल्पनया पूरितः पाठः । आलोकानुरोधेन तु स एवं स्यात् -- "-समवायो ऽवसेयः । यथा च समवायः"
[28] वा -- स्
{प्. 256} ये [9 . 2] वस्तुस्वभावाः एवं भवन्ति [9 . 2] तथाभूताव्यभिचारिणो भवन्ति ।
भवन्तस् तर्हि किं कर्तार इत्य् आह -- केवलम् [9 . 3] इति । द्रष्टारः [9 . 3] परिच्छेदकाः तथाभूतवस्तुस्वभावानाम् इति प्रकरणात् ।
"अकस्मात्"शब्दो ऽनिमित्तवचनः तेनाकस्माद् भवो ऽहेतुक इत्य् अर्थः । इतिः [9 . 4] तस्मात् न कस्य चिद् व 4 स्तुनः स स्वभावो विरमेत् । सर्वस्य सर्वः स्वभावः स्याद् इत्य् अर्थः ।
दिगादिवद् अहेतोः सतो देशकालनियमो नेष्ट एवेति वादिनि तु देशकाल ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेन यथा देशकालनियमो हेतुरहितस्य नास्ति तथा द्रव्यनियमो ऽपि न स्याद् इत्यर्थः ।
एतद् एव तद्धि [9 . 5] इत्यादिना समर्थयति । 5 हिर् यस्मात् तद् गमकं वस्तु कर्तृ किञ्चिद् गम्यं[29] कञ्चिद् (क्वचिद्) धर्मिण्य् उपनीयेत अग्निर् वा न वेति [9 . 5] तद्विपरीतं वा स्यात् । यस्य [9 . 5] वस्तुनो यत्र [9 . 6] गम्ये किञ्चिद् द्रव्यम् आयत्तं , न वे ति अस्य विवरणं अनायत्तम् इति ।
__________नोतेस्__________
[29] "क्वचिद्" इति मुद्रिते संपूरितः पाठः सम्यक्
अन्वयमुखेनोक्त्वा व्यतिरेकमुखेणाप्य् उपपादयति अन्यथा [9 . 6] इति ।
[30] तस्माद् [9 . 7] इत्यादिनोपसंहरति ।
__________नोतेस्__________
[30] "ततो" इति मुद्रिते संपूरितः पाठः ।
पादप्रसारिका [9 . 9] इति । सुखावस्थानोपलक्षणम् इदं द्रष्टव्यम् । अभिधातव्यम् एव कारणम् ।
न तु भवदभिप्रेतम् इत्य् आह तच् च [9 . 10] इति । इतिः [9 . 10] तस्मात् । तद्विकला [9 . 11] अविनाभावरहिताः । एतद् एवाचार्यवचनेन संस्यन्दयन्न् आह -- तथा चाह [9 . 11] इति ।
स्याद् एतत् -- असत्य् अपि तत्स्वाभाव्ये तत्कार्यत्वे वा किञ्चिद् अर्थान्तरम् अव्यभिचरदृष्टम् एव यथा 7 तपे तरुच्छाया । यथा तुलाया अर्वाग्भागोन्नामावनामौ परभागावनामोन्नामाव् इति । एवम् आद्यस्माभिर्धर्मोत्तरप्रदीपे विस्तरेण निरूपितम् इत्य् आस्ताम् तावद् इह ।
स्याद् एतद् -- अविनाभावस्य तादात्म्यतदुत्पत्त्योर् अव्यभिचारे निमित्तम् न तावत् तादात्म्यतदुत्पत्ती स्तो यथा चायं तथा तदन्योपि तदव्यभिचारी च स्या 8 न् न च तस्य तत्स्वभावत्वं तत्कार्यत्वञ् चेति ।
{प्. 257} अत्रोच्यते । नाविनाभावो नामान्य एवान्वयव्यतिरेकवतो ऽविनाभाविनो रूपात् । केवलं कयाचिद् व्यपेक्षया ततो भिन्न इव कथ्यते. न तु तावता वस्तुतो भिन्न एव. अविनाभावि च रूपं किञ्चिद् अव्यभिचरितव्याद् अर्थान्तरं किञ्चिद् अनर्थान्तरम्, तस्य तत्कार्यतयाइव प्रतिबन्धो ऽनर्थान्त[10अ] 1 रस्य तु तादात्म्येन । अत एवाविनाभावभावात् तादात्म्यतदुत्पत्तिव्यवहारः साध्यते । तदभावं तु तद् अपि रूपं नास्तीति प्रतिपाद्यत इति सर्वम् अवदातम् ।
अत्र [9 . 15] अस्मिन्न् अर्थे प्रयोगो [9 . 15] द्व्यवयं साधनवाक्यम् । तदुत्पत्तिपक्षे तु तत्कारणेन चेत्य् अपि ।
स्याद् एतत् -- यथा तादात्म्यतदुत्पत्त्यभावो ऽप्य् अनुपलब्धिः साध्याव्यभिचारिणी तथान्यद् अपि किं न भवेद् इत्य् आशं 2 क्याह स्वभावे [9 . 18]ति । अभावव्यवहारयोग्यतायाः साधनादित्य् अभिप्रायः । तादात्म्यं [9 . 19] लक्षनं निबन्धनं यस्य स तथा । तद् अपिआचार्यस्याभिमतम् इति दर्शयन्न् आह तदुक्तम् [9 . 22] इति ।
इदानीम् इमम् एव "पक्षधर्म"इत्यादिश्लोकं अन्यथा व्याचिख्यासुरनेन यावन्तो ऽर्था निर्दिष्टाः तावतः परिसंख्यातुम् आह -- तद् एवम् [9 . 25] इति ।[31] तस्य संख्यानियमस्य् ओपपत्ति 3 र् युक्तिः ।
__________नोतेस्__________
[31] "तदुपदर्शकं च प्रमाणम्" -- स् । "तदुपपत्तिश् च" इति आलोकसंमतः पाठः ।
एतच् छ्लोकव्याख्यानस्यापराम् अपि विधां दर्शयन्न् आह -- अथवा [9 . 28] इति । पूर्वन् तु लक्ष्यानुवादेन लक्षणविधानपरं विवक्षितम् । न त्व् अवधारणचिन्ताकृतेति ततो भिन्नम् इदं व्याख्यानम् । कथम् इदम् उक्तम् अवधारणम् उपपद्यत इत्य् अभिप्रेत्य पृच्छति । किं कारणम् [10 . 1] अत्रेति प्रस्तावात् । किम् इति सामान्यतः कारणं पृच्छति । अवि 4 नाभाव[32]भावाद् इति श्लिष्टनिर्देशम् अभिसन्धाय त्रिविधस्य च [10 . 3] इत्य् उक्तम् । तथा ह्य् अविनाभावे नियमान् नियतत्वाद् इत्य् उक्ते कस्येत्य् आशंकायां त्रिविधस्य च श्रुतत्वात् त्रिविधस्येति युज्यते वक्तुम् ।
__________नोतेस्__________
[32] अविनाभावनियमात् -- स्
एवम् उभयावधारणे(णेन) व्याख्यातेन कोर्थातिशयः प्रकाशितो भवतीत्य् आह तेन [10 . 3] इति । द्वाव् अपि इति शब्दौ हेत्वर्थाउ । एवम् उ 5 क्तं भवति । ततः [10 . 7] कारणात् त्रिविधहेतुवाह्येषु हेतुव्यवहारं कुर्वन्तो निरस्ता भवन्ति । कुतः? अवि [33] नाभाव स्या भावात् । त्रिवेधे च हेताव् अहेतुताम् आचक्षाणा निरस्ता भवन्ति । कुतः अत्रा वि [34] नाभावस्यावश्यं भावात् [10 . 8] ।
__________नोतेस्__________
[33] आलोकसंमतः पाठः सम्यक्, न तु यथा संपूरितः
[34] अहेतुत्वम् -- स्
{प्. 258} अस्मिन् व्याख्याने "हेत्वाभासास् ततो ऽपरे" इति व्याख्यातुं पूर्वपक्षं रचयन्न् आह[35] तथैतत् [10 . 11] 6 इति । द्वेधा हि तदंशव्याप्तिविरहो विपर्ययव्याप्तेः विपर्यये बाधकप्रमाणाभावाद् इत्य् अभिप्रायेणाह विपर्यये [10 . 17]त्यादि । ते [10 . 17] बुद्धिनिविष्टा असिद्धविरुद्धानैकान्तिका हेतुरूपविकलतया हेत्वाभासा गम्यन्त एव । असिद्धेत्यादि तु वास्तवानुवादः । न तु तत्संज्ञया ज्ञातैस् तैः प्रयोजन(नं) हेतुत्वमात्रज्ञाने 7 न चरितार्थत्वात् । एवम् अपि वा प्रज्ञाइः ज्ञायन्त इति न काचित् क्षतिः ।
__________नोतेस्__________
[35] तत्रैतत् -- स्
एवदेव सामान्यन्यायोपदर्शनमुखेन प्रसाधयन्न् आह -- तथाहि [10 . 19] इति ।
अत्रापि व्याख्याने अङ्गाङ्गिभावेन प्रतिपादितानाम् अर्थानाम् अवच्छेदं कुर्वन्न् आह -- तद् अत्रेति [10 . 27] । तदुभय स्य -- त्रिविधो हेतुर् एव, त्रिविध एव हेतुर् इत्य् अस्यावधारणद्वयस्य कारणम् [11 . 1] उपपत्ती द्वे 8 इत्य् अर्थत्वात् । श्लिष्टस्य षष्ठ्या सप्तम्या च संगतस्य, अविनाभावनियमात् -- इत्य् अस्य निर्देशात् । अनन्तरोक्तास् त्रयो ऽर्था इमौ च द्विकारणलक्षणौ द्वाव् अर्थापत्तयश् चक इति षडर्था भवन्ति ।
अस्मिन्न् एव श्लोके पूर्वव्याख्यानापरित्यागेनावृत्त्यैवापरम् अपि व्याख्यानम् अभ्युच्चिन्वन्न् आह किञ्चेति [11 . 4] ।
ननु प्रथम एव व्याख्याने "त्रिविधैव(त्रिधैव) स[10ब्] 1 इति प्रभेदस्य व्युत्पादनम्" इति ब्रुवता स हेतुस् त्रैधा कार्यस्वभावानुपलब्धिभेदभिन्न इति प्रकाशितम् एवैतत्, कथं व्याख्यानान्तरम् इदम् इति चेत् । सत्यम् एतत् । केवलं "त्रिधैव स" इत्य् अत्र व्याख्यानान्तरम् इदं विधेयं तच् च तदा सुज्ञातं भवति, यद्य् अस्य प्राक्प्रवृत्तं व्याख्यानम् उपदर्श्य प्रदर्श्यत इत्य् अभिप्रायेण तद् व्याख्यानम् अनूदितम् । एतद् अपेक्षेण तु अ 2 थवेत्य् अनेन किञ्चशब्दार्थम् उज्ज्वलयता यत् प्रदर्श्यते तद् एव व्याख्यानान्तरं द्रष्टव्यम् । अजहत्कार्यत्वादिप्रभेद एवायं प्रभेदो ज्ञातव्यः । तेनायम् अर्थः -- कार्यादिभेदभिन्न एव प्रत्येकं पक्षधर्मत्वान्वयव्यतिरेकात्मकस् त्रिरूप एवेति । एतेनैकद्विपदपर्युदासेन षट्पक्षान् प्रतिक्षिप्य सप्तमपक्षपरिग्रहेणानुमानलक्षणम् अभिप्रे 3 तं वार्तिककृतो दर्शयति ।
यत एकपदपरिग्रहेण त्रयः पक्षा, द्विपदपरिग्रहेणापि त्रय इति षट्कम्, तत्पर्युदासेन सप्तिका(सप्तम)परिग्रहः । तथाहि पक्षधर्मो हेतुर् इत्य् उच्यमाने यस्य सपक्षेनन्वयो विपक्षे च प्रवृत्तिः सोपि हेतुः स्यात् । यथा नित्यः शब्दः कृतकत्वाद् इति । सपक्षे यस्यान्वय इत्य् उच्यमा 4 ने विपक्षप्रवृत्तेर् अपक्षधर्मस्य हेतुत्वं स्यात् । यथा नित्यः शब्दश् चाक्षुषत्वात् सामान्य{प्. 259}वद् इति । य(त)था सपक्षव्यतिरेक इत्य् उच्यमाने यो ऽपक्षधर्मः सपक्षे च नास्ति स हेतुः स्यात् । यथा अनित्यः शब्दो ऽसत्त्वाद् इति । पक्षधर्मे सपक्षे च यो ऽस्ति स हेतुर् इत्य् उच्यमाने नित्यः शब्दः प्रमेयत्वाद् इति 5 विपक्षवृत्तिर् हेतुः स्यात् । पक्षधर्मः सपक्षे नास्तीत्य् उच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वाद् इत्य् अयं सपक्षवृत्तिहीनो हेतुः स्यात् । सपक्षे ऽस्ति विपक्षे च नास्तीत्य् उच्यमाने अनित्याः परमानवः कृतकत्वाद् इत्य् अयम् अपक्षधर्मो हेतुः स्यात् । तद् एतत् सर्वम् मा भूद् इति समुदायोपादाने प्रयो 6 जनम् इति । इदम् एव च सर्वं बुद्धावाधायधर्मोत्तरप्रदीपे ऽस्माभिर् अभ्यधायि "त्रिरूपाल् लिङ्गाद् इति च आचक्षाणेन" इत्यादि ।
ननु पक्षधर्मवचने पक्षधर्मतोक्ता । अन्वयव्यतिरेकात्मकयोस् तु रूपयोः केनाभिधानं येनैवं व्याख्यायत इत्य् आह तदंशे [11 . 6]ति । अत्रैव सामर्थ्यावच्छिन्नम् अवदर्शयन्न् आह 7 नाबाधिते [11 . 7]त्यादि । पूर्वप्रभेदापरित्यागेनास्य भेदस्य विवक्षितत्वात् । उभयम् अपि तच्छब्देन परामृषति । अविनाभावभाव एवाबाधितविषयत्वस्य भावात् न तद्रूपान्तरम्, वस्तूनाञ् च विरुद्धस्वभावद्वयाभावात् तत्रैकस्मिंस् तदविनाभाविनि तद्विरुद्धरूपाविनाभाविनो ऽन्यस्यासंभवेनापि(प्य)प्रतिपक्षत्वं नाम तदन्तर्गतम् एव । यस्य तु तद्व्य 8 तिरिक्तम् इष्टं तदभिप्रायेण व्यतिरिक्त [11 . 10]ग्रहणम् । रूपान्तरस्य [11 . 12] सम्भवः [11 . 12] सद्भावः, स यस्यास्ति तस्मिन् ।
अविना[भावा]भावम् एव नहि [11 . 13] इत्यादिना समर्थयति । रूपान्तरयोगिन्य् अप्य् अविनाभावासम्भवाद् असिद्धस् तद्भाव इत्य् आह तद्वति [11 . 14] प्रतिबन्धनिबन्धना[विना] भाववतीति । यदि तस्मिन्न् अपि रूपान्तरं स्यात् केवलम् अप्रमाणकम् एतद् उच्यत इत्य् आह यथा चे [11 . 15]ति । [11अ] 1 वक्ष्य ते[36]हेतुना व्यक्तीक्रियत इति ।
__________नोतेस्__________
[36] वक्ष्यति -- स्
पक्षो धर्मधर्मिसमुदायः । तथाभूतसमुदायसाधकप्रमाणाभावेन तद्धर्मतया सर्वस्यैव ग्रहीतुम् अशक्यत्वाद् इति भावः । अथ कथञ्चित् तद्धर्मस्य सिद्धिः [11 . 19] निश्चयस् तस्यां वा सिद्धप्रयोजनत्वात् तस्य हेतोर् वैयर्थ्यम् ।
परस्थानपतितत्वात् पर एवासाव् इत्य् अभिप्रायेणईश्वरसेन एव परः [12 . 6] अभिप्रेतः ।
अधि(व्यधि)करण त्वेन 2 साध्याधिकरणाद् वि भिन्नाधिकरणत्वेन असिद्धम् [12 . 12] अनिश्चितम्, तत्र चिरास्पदीभूते धर्मिणि द्वयोर् अप्य् अन्ययोर् असिद्धत्वात् । इदम् इह स्वरूपासिद्धम् इदं तु व्यधिकरणासिद्धम् इत्य् एतद् एव कुतो व्यवस्थाप्यम् इति चेत् । सत्यम् एतत् । केवलं तत्रासिद्धो ऽपि हेतुर् अन्यधर्मिगतत्वेनोपादीयते, स व्यधिकरणासिद्धो बोद्धव्यः । {प्. 260} कस्मात् तत्संबन्धना 3 र्थं नाशङ्कनीयम् इत्य् आशंकायां तद् अभिधानीयं तदभिव्यक्तत्वाद् अनेन नोक्तम् । धर्मो हेतुस् तदंशेन व्याप्त इत्युक्ते वा [सक]लोपि हि जानात्य् एव । न तस्यात्मन एवांशेन व्याप्त इत्यभिप्रायात् ।
आचार्येण [13 . 22] इति ।आचार्यदिग्नागेन ।
पक्सस्य धर्मिणो धर्मस्यानुपपत्तेः न तावत् कर्मधारयो त एवासंख्यापूर्वकत्वा 4 च् च न द्विगुः । अनव्ययत्वाच् च नाव्ययीभावः । यच् छब्दवाच्यासंभवात्, न हि स एव धर्मी स एव धर्म इत्य् अर्थविरोधाच् च समासान्तस्यानिच्प्रत्ययप्रसक्तेश् च न बहुव्रीहिः । नपुसंकलिङ्गात् द्विवचनप्रसङ्गाच् च "चा"अर्थासंभवाच् च न द्वन्द्वः । सप्तमीसमाससूत्रे च धर्मशब्दस्यासंग्रहाद् योगविभागेन तत्समासभावे 5 पि षष्ठीसप्तम्योर् अभेदाद् इत्य् अभिप्रायवान् प्राह [37] षष्थीतत्पुरुषाद् [14 . 22] इति । षष्ठीसमासे च राजपुरुषादौ स्वाम्यन्तरव्यवच्छेदो दृष्टो राज्ञः पुरुषो वाच्युस्येति(-षो नान्यस्येति) । तद्वद् इहापि पक्षस्य धर्मो नान्यस्येत्य् अन्ययोगव्यवच्छेदः स्याद् इत्य् अभिसम्बन्धः ।
__________नोतेस्__________
[37] षष्ठीसमासाच् च -- स्
ननु ज्वाला [15 . 21] वह्निः । आदि शब्दाद् बुद्ध्यादि क्षणिकत्वेनेष्टम् इति तत् क 6 थम् अक्सणिवादिनं तं प्रति पक्षस्य(स्या)भाव इत्य् आह यद् अपीति [15 . 21] । न प्रत्यक्षतः [15 . 22] इति ब्रुवतोयं भावः -- यदि प्रत्यक्षेण क्षणस्योपलक्षणं स्यात्, तदा दृष्टान्तपर्येषणा पर्यवसानं गच्छेत् । यदा त्व् अनुमानतस् तदा तद् अपि तेषाम् अनुमानम् अदृष्टान्तकं कथं स्याद् इति साधनं दुःखम् इति । एतच् च कस्यचित् परस्य क्षणिकत्वाभ्यु 7 पगमम् अभ्युपगम्योक्तम् । न तु सहेतुनाशवादिभिर् बुद्ध्यादेर् अप्य् उत्पत्तिक्षण एव भावो न तु द्वितीये क्षण इति एवं लक्षणं क्षणिकत्वम् एष्टव्यम्, आशुतरविनाशित्वाभिप्रायेण क्षणिकशब्दप्रवृत्तेर् इष्टत्वाद् इति द्रष्टव्यम् इति । तत्र प्रति.....न्धनस्याविनाभावस्य बाधकप्रमाणतः सिद्धाव् अप्य् अन्यत्वे ऽत्रैव वृत्तिर् अपेक्षणीयेति परिभा.... 8 काल्पनिकत्वं [15 . 24] तस्य प्रतिपन्नं स्याद् इत्य् आशयः । प्रतिपन्नं [15 . 25] स्वीकृतम् अभ्युपगतम् इति यावत् । स्व (स) [15 . 26] इति स्वसाध्यप्रतिबन्धः । अन्यत्र [16 . 1]विनिश्चये । यद् वस्तु धूमादिकं क्वचित् पर्वतादौ दृष्टं निश्चितं तस्य धूमादेः यत्र वह्न्यादौ प्रतिबन्धः प्रतिबद्धत्वम् तद्विदः प्रतिबन्धविदः पुंसस् त् अस्य प्रतिबन्धविषयस्य वह्न्यादेः तद् धूमादि[11ब्] 1 कं गमकम् अनुमापकं तत्र पर्वतादौ इतिः एवम् अर्थे । गतिर् बलं सामर्थ्यम् इति यावत् ।
एवंपरम् [16 . 5] एवंप्रधानम् एतद् अर्थं "तत्तुल्ये सद्भावः" इति वचनम् । स हेतुनापि तत्त्वेन (हेतुः कल्पितत्वेन) धर्मो यस्य स तद्धर्मा [16 . 5] साध्यधर्मी तस्य । वस्तुबलाद् आगतं वास्तवम् ।
{प्. 261} पक्षत्वेन तस्य सपक्षत्वं निराक्रियत इत्य् आह साध्यत्वेने[16.6]ति । इच्छाव्यवस्थितलक्षणत्वेन तस्यावास्तवत्वं 2 दर्शितम् । तेन हीनबलत्वम् साध्याविनाभावित्वस्याविनाभावाद् इति संबन्धः । कस्मात् तन्निबन्धनं तद् इत्य् अपेक्षायाम् आह -- अन्यथा [16 . 8] इति । तस्या विनाभावित्वस्य् आयोगाद् अयुज्यमानत्वाद् इति । इदम् [16 . 10] अत्राननुवृत्तेर् इति ।
सत्यम् इ [16 . 10]त्यादिना प्रतिविधत्ते । कस्यचिदि [16 . 14]ति शिंशपात्वादेर् वृक्षत्वादिव्यवहारसाधनस्य । यदापि तथाविधस्य हेतोर् अन्यत्वे च प्रसिद्धेन 3 प्रतिबन्धेन् कार्यं तदाप्य् अन्यत्राप्य् अननुवर्तमानः कथं दुष्येद् इत्य् आह तदा ही [16 . 18]ति । विरुद्धोपि विपर्यये सम्यग्धेतुनेति चेति विपर्ययानिश्चितवृत्तित्वम् उक्तम् । तस्मिन् धर्मिणि संशयहेतुः स्यात् । साध्यभावाभावयोर् इत्य् अर्थात् ।
साध्यभावाभावविमुक्त एव धर्मी भविष्यति प्रकारान्तरसद्भावात्, तत् कथम् असौ तत्र संशयहे 4 तुः स्याद् इत्य् आशंक्याह -- तदुभयबहिर् भावायोगात् [16 . 19] साध्यवृत्तिव्यवच्छेदे वह्निभावायोगात् । कस्येत्य् आशंकायाम् आह तद्धर्मिणः [16 . 19] तस्य हेतोर् आश्रयस्येति । कस्मात् पुनस् तेन साध्यधर्मव[ता] । तदभाववता वा भवितव्यः(व्यम्) प्रकारान्तरस्यापि सम्भवाद् इत्य् आह साध्ये [16 . 20]ति । अन्योन्यव्यवच्छेदरूपाणाम् एकभावस्या 5 परविधिनान्तरीयत्वात् कुतः प्रकारान्तरं संभवतीति भावः ।
स्याद् एतत् -- अन्तर्व्याप्तिप्रसाधकाद् एव प्रमाणाद्विवादाध्यासितस्य धर्मिणस् तद्धर्मत्वज्ञानान् मौलस्य हेतोह् कथम् अतिव्यक्तम् अपि वैयर्थ्यंभदन्तधर्माकरदत्तेन न लक्षितम् इति । अहो अभिप्रायापरिज्ञानविलसितम् । एवं हि ब्रुवतो ऽस्यायम् आश 6 यः -- दृष्टान्तधर्मिणीव साध्यधर्मिण्य् अपि सर्वोपसंहारेण धर्मानवच्छेदेन व्याप्तिग्रहे मौलाद् एव साध्यसिद्धेः कुतो वैयर्थ्यम् । इतरथा दृष्टान्तधर्मिण्यपि विपर्यये बाधकप्रमाणवृत्ताविष्यमाणायां कथम् इव मौलो हेतुर् वैयर्थ्यं नाश्नुवीत । तथाहि तत्रापि तत्प्रवृत्तं धर्मिसामान्योपग्रहेण व्याप्तिं प्रतिपद्यते । 7 तथा च पक्षीकृतस्यापि जिज्ञासितधर्मवत्त्वं तत एव सिद्धम् इति ।
अथोच्यते -- बाधकप्रमाणमाहात्म्यात् सत्त्वस्य क्षणिकत्वसिद्धाव् अपि किं न शशविषाणादेस् तत्त्वं सिद्धं ततस् तद्व्यावृत्तिरूपताप्रतिपादनार्थं धर्मिणो ऽवश्यं "संश्चायम् शब्दादिः" इत्य् अर्थः [उप]संहर्तव्यः । इतः सत्त्वहेतोर् एवासंहृतात् शब्दादेः क्षणिकत्वावगतिर् नास्मन्मते हेतोर् वैयर्थ्यम् इ 8 ति ।
ननु समानम् इदम् अस्माकम् अपि । तथाहि व्याप्तिग्राहकात् प्रमाणात् तत्र प्रवृत्ताद् अपि धर्मिविशेषापरिग्रहेण प्लवमानाकारा प्रवृत्तिः क्षणिकत्वसत्त्वयोस् तादात्म्यग्राहिणी जाता न तु प्रवृत्त्यङ्गम् । "य(स)च्चेदम्" इति तु दर्षिते सति "इदं क्षणिकं शब्दादि" इति प्रवृत्त्यङ्गं प्रतीतिर् उपजायते, यतो विशिष्टे देशादौ प्रवर्त्तत इति । कथम् अस्मन्मते मौल[12अ] 1 स्य हेतोर् वैयर्थ्यम् {प्. 262}अमन्दमन्दाक्षेणोच्यत इति ।धर्मोत्तरादिभिर्विगर्हिते ऽप्य् अस्मिन्मते गतिर् इयं अस्माभिर् उपवर्णिता । अत्रापि तु किञ्चिद् वाच्यं तद् अस्माभिर् एवस्वयूथ्यविचारे दर्शितम् इह तु मा भूद् विरसीभाव इति नोच्यत इति ।
ननु विशेषणेन सहोदितो निपातो ऽयोगं व्यवच्छिनत्ति । "विशेषणविशेष्याभ्याम् इति" वचनात् । अत्र च पक्ष एव 2 व्यवच्छेदकवद् विशेषणम् इति तेनैव सहावधारणं वाच्यम् । तथा च पक्षस्यैवे धर्म इत्य् उक्तौ तदवस्थो दोष इति चेत् । नैतद् अस्ति । "विशेषणविशेष्याभ्याम्" इत्य् अत्र शाब्दीं गतिम् अनाश्रित्याश्रितत्वाद् विशेषणम्, आश्रयत्वाद् विशेष्यम् इत्य् आर्थेन विशेषणविशेष्ययोर् अभिप्रेतत्वात् । सति चैवं पक्षो न विशेषणम्, आश्रयत्वाद् विशेष्यस् तु भवति, धर्मस् त्व् आश्रि 3 तत्वाद् विशेषणम् एव न विशेष्य इति । तेन सहोदितनिपातो ऽयोगम् एव व्यवच्छिनत्तीति सर्वम् अवदातम् ।
चैत्रो [17 . 4] नाम कश्चित् पुरुषः । तेनैवाकारेण ज्ञातस्य ज्ञानाय प्रश्नानुपपत्तिः । साम [38] र्थ्यम् [17 . 11] । आदि [17 . 11] शब्दात् प्रकरणादिसंग्रहः । प्रकृष्टे अनन्यसाधारणे गुणे ऽतिशये वृत्ति र् यस्य स [17 . 12] तथा । तद् उक्तं " 4 न हि विशेषसन्निधिर् एव सामान्यशब्दानां विशेषावस्थितिहेतुर् अपि तु प्रकरणसामर्थ्यादिकम् अर्पय(म् अपि" इ)ति । पार्थे ही [17 . 12]त्यादिनैतद् एव समर्थयते । पार्थः पृथायाः कुन्ताया अपत्यम् । योगरूढिश् चैषा तेनार्जुन एवाभिधीयते । श्रोतुः [17 . 19] अर्थात् प्रष्टुः प्रतिपाद्यस्येति यावत् । तादृशं [17 . 13] सातिशयं धानुर्द्धर्य(यं य)दान्य 5 गामि निषिध्यते ।
__________नोतेस्__________
[38] आलोकसम्मतः "सामर्थ्यादिना" इति सम्यक् । न तु यथा मुद्रितः "प्रकरण सामर्थ्यादिना" इति ।
कमात् तत्र धनुर्धरत्वमात्रम् इत्य् आह प्रतिपाद्ये [17 . 15]ति ।
परामृष्यते[39][17 . 21] वाच्यत्वेन परिगृह्यते ।
__________नोतेस्__________
[39] परामृश्यते -- स्
अनभिमतं प्रतिषेधयति न धर्म [17 . 21] इति । कुत इत्य् आह -- धर्मस्ये [17 . 22]ति ।
ननु कैषा वाचोयुक्तिर्द् धर्मस्य धर्मासंभवाद् इति । किं धूमादीनां आश्रितत्वेन धर्माणां धूमत्वपार्थिवत्वादयो धर्मा न सन्ति 6 ? येनैवम् उच्यत इति । सत्यम् एतद् वा केवलं बोधे यत्नः करणीयः । धर्मशब्देनेह साध्यो वह्न्यादिर् अभिप्रेतः स च तस्य धर्मो नास्त्य् एवेति किम् अवद्यम् । अथात्र केन धर्मो ऽभिहितो येन धर्मस्य धर्मभावप्रतिपादनं युज्यत इत्य् आह {प्. 263} अंशश् च [17 . 22] इति । चो यस्माद् अर्थे । अंश इवांशो यथांशो ऽ 7 शिविशेषणस् तथा धर्मोपि धर्मिविशेषक इत्य् अभिप्रायः । पक्षशब्देन समुदायवचनात् तद् एकदेश एवांशो वक्तव्य इत्य् आह पक्षशब्देन [17 . 22] इति । तस्यैवैकदेशः किं नोच्यत इत्य् आह तस्य [40] च [17 . 22] इति ।
[40] मुद्रिते "च" रहितः पाठः कप्लितः किन्तु आलोकसम्मतः पाठः "तस्य च एक-" इति ।
धर्माणां धर्मा [41] धारत्वासंभवादि [17 . 28]ति पूर्वं बोद्धव्यम् । यतो व्याप्ये सति व्यापकस्य नियमेनोपस्थापनम् एव व्यापकनिष्ठा व्याप्ति 8 स् तत्करणात् । व्याप्यस्यैव [18 . 3] न तु व्यापकस्य व्याप्तताप्रतीति र् अविनाभाविताप्रतीतिः । किम् अपेक्षा सा तथा प्रतीतिर् इत्य् आह[42] व्यापके [18 . 2]ति । व्यापकभावम् अपेक्षते "ईक्षिक्षमिभ्यांञ् च" [वा. 1981] इति कर्मोपपदे णः । व्यापक स्य भावं नियमविषयं रूपम् अपेक्ष्य पर्यालोच्य तथा प्रतीतिर् भवतीत्य् अर्थः ।
__________नोतेस्__________
[41] अयम् एव सम्यक् पाठः न तु यथा कल्पितो ऽस्माभिह् "धर्माणां धर्मान्तरत्वाभावात्" इति ।
[42] आलोकसम्मतः "व्यापकभावापेक्षा" इति पाठः सम्यक्, न तु यथा अस्माभिः कल्पितः ।
तत्र भावम् एवेत्य् अभिमतम् अवधारणं प्रदर्श्यानभिमतं निरा[12ब्] 1 कुर्वन्न् आह न त्व् इ [18 . 3]ति । नापि तत्रैवे [18 . 5]ति । अवधार्यत इति वर्तते । साधारणः [18 . 6] सपक्षासपक्षसाधारणः । दोषान्तरसमुच्चयार्थश् चकारः । वा [18 . 8]शब्दो व्यापकधर्मापेक्षया पक्षान्तरम् अवद्योतयति ।
तत्रैवे [18 . 8]त्य् अवधारणम् अभिमतं प्रतिपाद्यान्यथावधारणं निषेधयन्न् आह अत्रापी ति [18 . 9] ।
एतद् एव सूत्रकारवचनेन संस्यन्दयन्न् आह तद् उक्तमि [18 . 17]ति । 2 लिङ्गे साधने सति लिङ्गी साध्यं भवत्य् एव । अनेन व्यापकधर्मगता व्याप्तिर् दर्शिता । इतर ल्लिङ्गं पुनर्लिङ्गिन्य् एव साध्य एव भवतीति । अनेन व्याप्यधर्मगता व्याप्तिर् उक्ता । उक्तेन प्रकारेण नियमस्या वधारणस्य विपर्यासे वैपरीत्ये-विपर्यासश् च एकत्रायोगव्यवच्छेदेन विशेषणा(णम)परत्रान्ययोगव्यवच्छेदेन तस्मिन् विपर्यासे सति 3 लिङ्गलिङ्गिनो [ र ] सम्बन्धो ()व्याप्तिर् इत्य् अर्थः ।[43] तेन [18 . 20] व्याप्तेर् उभयत्र एकाकारताप्रतिपत्तिप्रतिषेधप्रदर्शनेन । अयञ् च दोषआचार्येणये धूमं संयोगिनं हेतुम् इच्छन्ति, तान् प्रत्यभिहितो न तुनैयायिकान् प्रति । तैर् धूमस्य एकार्थसमवायित्वाल् लिङ्गत्वेनोपगतत्वात् । ते हि धूमा{प्. 264}वयविनं प्रदेशं वा धर्मिणम् आधाय 4 साग्नित्वसिषाधयिषया धूमत्वं धूमवत्त्वं वा सामान्यं हेतुम् उपाददत इति ।
__________नोतेस्__________
[43] एतेन -- स्
इह [18 . 23] व्याप्तिवत्सद्गमकत्वे आख्यातं [18 . 23] प्रकाशितम् । तथाही [18 . 23]त्यादिनैतद् एव समर्थयते ।
एतद् अपि तद्वचनेन संस्यन्दयन्न् आह -- तथा च [19 . 1] इति । द्विष्ठत्वात् सम्बन्धस्य कथम् उभयत्रैकाकारताव्याप्तिर् न स्याद् इत्य् आशंक्य यद्य् अपि इ त्य् अनेन द्विष्ठं सम्ब 5 न्धं वास्तवम् अभ्युपगम्यापि प्रतिविधत्ते । कयोर् असाव् इत्य् आह = अङ्ग [19 . 2] इति । अंगेज्ञप(अङ्गेर् ज्ञानप)रस्य ग्रहणाद् अंग्यते लिङ्ग्यते प्रतीयते ऽनेन परोक्षार्थ इत्य् अङ्गं लिङ्गम् । तेन लिङ्गलिङ्गिनोर् इत्य् अर्थः ।
किंभूतः स इत्य् आह । सहे[19.2]ति । तयोर् एव युगपद्भाविप्रकृतत्वात् । द्विष्ठत्वाभ्युपगमाद् एव च सहभावित्वाभ्युपगमो 6 प्य् आयातः । " यद्य् अपि "शब्दसान्निध्यात् "तथापी"त्य् अर्थतो द्रष्टव्यम् । तस्य संबन्धस्य वृत्तिर् वर्तनम् । तयोर् लिङ्गलिङ्गिनोर् इत्य् अर्थात् । कयोर् इव सेत्य् आह -- आधाराधेययोर् इवेति सप्तम्यन्ताद् वतिः ।
यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्ठोपि नैकरूपया वृत्त्या द्वयोर् वर्तते यत एवैकसम्बन्धयोगेपि नाधारस्या 7 धेयत्वम् आधेयस्य वाधारत्वं तथा लिङ्गलिङ्गिनोर् व्याप्तिर् अपि धूमत्वादाव् अन्यथा, अन्यथा च वह्नित्वादौ । अत एव धूमत्वादिर् एव व्याप्यतया गमको न प्रमेयत्वादिः । वह्नित्वादिर् एव व्यापकतया गम्यो न तु तार्णत्वादिर् नापि धूमो गम्यो वह्निर् गमक इति ।
यत एवं तस्य वृत्तिः तेन [19 . 4] कारणेन । इती [19 . 4]त्यादिना प्रकरणोपसंहारः ।
अन्यत्र 8 [19 . 10] इतिन्यायबिन्दौ ।विनिश्चये ऽपि "त्रिरूपाल् लिङ्गात्" इत्यादिनोक्तः ।
स्पर्धयावस्थानं कक्षा । तुल्या कक्षा [19 . 22] यस्य स, तद्भावस् तत्ता, तस्याः सूचकं प्रकाशनं तद् एव अर्थः प्रयोजनं यस्य " वा "शब्दस्य ।
परमार्थतस् तादात्म्यात् [19.24] इति ब्रुवता तदुपपादयता चान्वयेन व्यतिरेकगतौ व्यतिरेकेण चान्वयगतौ स्वभावहेतुर् अधिकृत इति दर्शितम् । तेन यत् के[13अ] 1 नचिद् उपक्षिप्तम् --
"सामर्थ्यम् इच्छतःकीर्तेर् नष्टं द्वित्वावधारणम्" इति
- तद् अपहस्तितम् द्रष्टव्यम् ।
{प्. 265}[44] प्रसङ्गतो निश्चयरूपात् प्रस्तावात् । "पक्षधर्मस् तदंशेन व्याप्तो हेतुः" इति वचनात् । सूत्रस्य क्रमेण परिपाट्या । सर्वस्ये ति सर्वस्यैवेत्य् अवधारणीयम् । प्रत्यक्षानुमानाभ्याम् इति सामस्त्य् अनिषेधो बोद्धव्यो न तु कस्यचित् । द्वाभ्याम् अन्यस्य पुनर् एकैके 2 नेति ।
__________नोतेस्__________
[44] अत्र स् प्रतेर् एकं पत्रं नष्टम् ।
अविकल्पनत्वात् प्रत्यक्षास्य कथं ततो निश्चयस् तस्य सम्भवीत्य् आशंक्याह -- प्रत्यक्षेण[45] प्रती [20 . 8]ति । चो [20 . 8] यस्माद् अर्थे । सामान्यविकल्पजननाद् इ [20 . 9]ति धूमादिलिङ्गप्रत्यक्षाभिप्रायेणोक्तम् । उपचारत [20 . 9] इति प्रत्यक्षतो निश्चय इत्य् उपचारतः उच्यत इति ।
__________नोतेस्__________
[45] स् प्रतौ "प्रति" इति नास्ति ।
ननु सामान्यं लिङ्गं कथं तस्याध्यक्षतो निश्चय इत्य् आह यद्य् अपी [20 . 11]ति ।
यस् तु [20 . 19] इत्यादिनाउद्द्यो 3 तकरमतम् आशंक्यते । अग्निसम्बन्धी [20 . 19] वह्निमान् । स देशो ऽप्रत्यक्षो ऽधोदेशस्य ताद्रूप्याद् इत्य् आशयः । किं तथाभूतं नभोस्ति? सत्त्वे वा किं तस्य भागोस्तीत्य् आशंक्यबौद्धाभिप्रेतम् एव दर्शयन् पर आह आलोके [20 . 20]ति । आदिरहणात् तमसो ग्रहणम् । तद् उक्तम् " आलोकतमसी नभः" इवा(इत्या)शयः । प्रदेशे वस्तुतः साधर्म्या(साध्या)धा 4 र इति द्रष्टव्यम् । तर्ह्य् अनुमानोत्सेद एव प्राप्त इत्य् आशंक्य पुनेर् एव व्यवस्थां कुर्वन्न् आह तस्माद् [20 . 22] इति ।
कथं पुनः स एव धर्मी स एव हेतुर् भवितुम् अर्हतीत्य् आह साग्निः [20 . 22] इति । अनेन धूमविशेषस्य धर्मित्वं धूमसामान्यस्य हेतुत्वं दर्शयति । समानचोद्योपदर्शनमुखेन तुल्या(तस्या)पि [20 . 23] इत्यादिना सिद्धान्ती प्र 5 तिविधातुम् उपक्रमते । तस्य इवं मतेः । तावत [20 . 27] इति दृश्यादृश्यविभागवतः धूमेपि धर्मिणि उक्तेन प्रकारेण एतत् संगच्छत इति साम्याभिमानशष्यं(शस्यं) परस्य सा(शा)तयन्न् आह प्रदेश एव चे [21 . 1]ति । च शब्दः परमताद् विशेषार्थः । अन्यत्रोपलभ्यमानस्यान्यदेशापेक्षया गमकत्वं कथम् इत्य् आह देश 6 काले [21 . 2]ति ।
आचार्येणाप्य् एतद् अभिमतम् इत्य् उपदर्शयन्न् आह यदाचे(हे) [21 . 3]ति । अतश् चैवम् अभ्युपेतव्यम् इति दर्शयन्न् आह पथे [21 . 9]ति । अनुमानहेतुत्वाद् अनुमानं प्रत्ययभेदभेदित्वादि ।
धर्मिणो वा [21 . 15] स्वरूपग्रहणम् अपि तावत् कथं युज्यते इत्य् एव योज्यम् ।
तयोः सम्बन्धस्य [21 . 15] आधाराधेयलक्षणस्य ग्रह 7 णम् । इतिः [21 . 16] प्रत्यवस्थीयमानस्याकारं दर्शयति ।
{प्. 266} एवम् असौ प्रत्यवतस्थ इति कथं ज्ञायत इत्य् आशंक्याह तेन ही [21 . 16]ति । हिर् यस्मात् तेन कुमारिलेन। ज्योतिष्टोमादेः श्रेयःसाधनत्वं धर्मो बोद्धव्यः । यद् आहशबरस्वामी"को धर्म्मो यः श्रेयःसाधनः" [शाबरभा.1.1.2] इति । अतएवकुमारिलोप्याह
"श्रेयःसाधनताप्य् एषां नि 8 त्यं वेदात् प्रतीयते" [श्लोकवा. 2.14] इति ।
जैमिनिसूत्रे शबरस्वामीयम् एतद् भाष्यम् [21 . 17] । एतद्भाष्यम् इति चार्थद्वारेणोक्तम् । न त्व् ईदृश एवभाष्यग्रन्थः। प्रमाणस्येति विवक्षायाम् अनुमानादिन [21 . 18] इति निर्देशः ।
कदा तत्पूर्वकं तद् इत्य् आह यदे ति । निर्विकल्पा कल्पनाशून्या इन्द्रियस्य धीः [21 . 19] । सैव कथं तथेत्य् आह स्मृती [21 . 19]ति ।
यस्माद् अर्थे वा [13ब्] 1 यदाशब्दो द्रष्टव्यः । विकल्पनम् अन्तरेणापि कथं न तथा ग्रहणम् इत्य् आह नचे [21 . 20]ति । लिङ्गादेः प्रत्यासन्नत्वात् लिङ्गादिकम् एवा विकल्प्येति द्रष्टव्यम् । तथा सम्बद्धत्वेन गृहीतिर् ग्रहणम् । इतिः आक्षेपस्याकारं दर्शयति ।
प्रत्यक्षेणाग्रहणं कस्येत्य् अपेक्षायाम् आह लिङ्गादे [21 . 23]र् इति । कुत इत्य् आह -- अविकल्पनाद् इति । तद् इत्य् अग्रहणम् । ने ति निषेधयति । विकल्प 2 स्यापीष्टत्वात् प्रत्यक्षेणेति प्रकरणात् । किं विकल्पमात्रस्य तथोत्पत्तिर् इत्य् आशंक्याह -- अर्थे [21 . 24]ति । अर्थरूपम् उपकारि यस्य, तस्माद्वोपकारोप्य् अस्तीति तथा ।
ननु निर्विकल्पसविकल्पभेदेनार्थविज्ञानस्य द्वैते सतीदं वक्तुं युज्यते । न चैतत् संभवीत्य् आह -- अस्ती [21 . 25]ति । हिर् यस्मादर्थे । विकल्पात् पूर्वं भावात् प्रथमम् [21 . 25] आद्यम् बालादिषु तथा 3 विधविकल्पानिष्टेर् ज्ञानं दृष्टान्ततयेष्टम् । शुद्धवस्तुजम् [21 . 26] शब्दस्मरणरहितवस्तुजम् इत्य् अर्थः । ततः [21 . 27] आलोचनाज्ञानात् पर म् उत्तरकालम् । पुन र् अप्रथमे । जात्यादिभिर् विशिष्टं यया बुद्ध्यावसीयते सापि न केवलम् आलोचनाज्ञानम् इति अपि शब्दः । एवं च ब्रुवतो ऽयं भावः -- यद्य् अपि प्रथमं निर्विकल्पकबोधेन द्व्यात्मकं 4 वस्तुगृहीतम् इन्द्रियसंबन्धात्, तथापि न विशेष्यविशेषणभावापत्त्या गृहीतम्, अयःशलाकाकल्पयोर् जातितद्वतोः साक्षात्करणात् । तथा गृह्णत्त्व् इदं प्रमाणम् एवेति । इति ना [22 . 1] उक्तेः आकारं दर्शयति । उक्तं [22 . 3] सामर्थ्याद् एतद् उक्तम् । न तु साक्षात् तेनोक्तम् एतत् । यस्मात् तेनैवं ब्रुवता सामर्थ्याद् एतत् प्रकाशितं ततः [22 . 3] तस्मात् । तेन कुमारिलेन उपद [46] र्शितो यो दोषः "सौगतानाम् एव प्रत्यक्षेण लिङ्गाद्यग्रहणाम्" इत्य् एवंलक्षणः, तस्य प्रतिविधानाय ।
__________नोतेस्__________
[46] उपवर्णित स् ।
{प्. 267} शिष्याणां सुखप्रतिपत्त्यर्थं सधूमं ही [22 . 4]त्यादिफक्किकायाः समुदायार्थम् उपदर्शयन्न् आह अयम् अत्रे [22 . 5]ति ।
ननु चाविकल्पकं प्रत्यक्षं नेयतो व्याधान(व्यापारान्)कर्तुं समर्थं तत् 6 कथं तन्निबन्धनस् तन्निश्चय इत्य् अभिधातरि कथम् इदं "सधूमं ही"त्यादिवचो न प्लवत इत्य् आशंकायाम् अत्रे [22 . 5]ति । हिः [22 . 5] अवधारणे ।
एकस्य साक्षाद् इतरस्य सामर्थ्याज् जननात् विधिप्रतिषेधविकल्पद्वयं जनयती [22 . 9]त्य् उक्तम् ।
कदाचिद् विधिविकल्पं कदाचित् प्रतिषेधविकल्पं जनयतीत्य् अभिप्रायेण चैतद् उक्तम् । एवम् एतदि [22 . 10]ति यथायोगं वि 7 धिविकल्पो दर्शितः । नान्यथा [22 . 10] इत्यादि यथायोगं प्रतिषेधविकल्पः । किम् अनुभूते ऽर्थे विकल्पोदयः? नैवम् उच्यत इत्य् आह[47] यथाभ्यासमि [22 . 11]ति (यथानुभवम् इति) । यद्य् अनुभवानतिक्रमेण विकल्पोदयस् तदा सर्वत्रांशे तदुदयप्रसङ्गः इत्य् आह अभ्यासे [22 . 11]ति । अभ्यासादिसहकारिणाम् इत्य् अभ्यासादिसहकारिकाणाम् इति बोद्धव्यम् । न तु विकल्पस्योत्पद्यमानाभ्या(मानस्याभ्या)सादिः 8 सहकारी, अनुभवस्य तु भवति । केचित्(कश्चित्) खलु यन्नम(?)नुभवो भूयोदर्शनलक्षणाभ्याससहकार्यनुरूपं विकल्पं जनयति । अस्याप्य् अयम् अर्थः -- नानुभव इत्य् एव विकल्पं जनयति । किंतु कश्चित् पुनः पुनस् तत्रोत्पद्यमानस् तादृशो भवति । यथा रूपकादिपरीक्षकाणाम् । कश्चित् तु स्वभावातिशयलक्षणं पाटवम् अपेक्ष्य जनयति । अस्याप्य् अय[14अ] 1 म् अर्थः -- कश्चिद् अनुभवः प्रकृत्यैव पटीयान् जायते यस् तत्र क्षमः । यथा योगिनां सर्वत्र । अस्मादादीनां के(क्व)चिद् विषये । क्वचित् पुनर् अविद्यानुबन्धात् सदृशापरापरोत्पादविप्रलब्धश् च सर्वदैव तिरस्कृतपटिमा यो नैव तत्क्षमो भवति । यथार्वाग्दर्शिनां क्षणिकत्वादौ । पाटवादी [22 . 11]त्य् अत्रादिग्रहणात् प्रत्यासत्तितारतम्यादयो गृह्यन्ते ।
__________नोतेस्__________
[47] यथानुभवम् इति -- स्
स्याद् एतत् -- स 2 म्बन्धो ऽयम् इति निश्चयाननुभवनात् कथं सम्बन्धनिश्चयस् तन्निबन्धन उच्यत इत्य् आशंक्याह तथाही [22 . 13]ति । पाश्चात्यविधिप्रतिषेधविकल्पजननं यथोक्तः प्रकारस् तेन ।
ननु सम्बन्धस्याधाराधेयलक्षणस्याननुभवात् कथं तन्निश्चयस् तन्निबन्धन उपवर्ण्यत इत्य् आह न चे [22 . 16]ति । तथा [22 . 19] औत्तराधर्येण अवस्थितम् अर्थद्व्यम् आश्रित्य [22 . 19] गृहीत्वा ।
{प्. 268} यदि 3 तथाभूतवस्तुद्वयाद् अन्यो नास्ति तर्हि कथम् "अनयोर् अयं संबन्धः सम्बन्धिनौ चैतौ" इति व्यवहार इत्य् आह -- तेनेति [22 . 20] । येन तथाभूतवस्तुद्वयानुभवाश्रयतः समारोपितः सन्बन्धः तेन कारणेन व्यवहार [22 . 21]श् च "अयं धर्मी अयं धर्मः" इति शाब्दो ऽभिप्रेतः । धर्मधर्मितये [22 . 21]तीत्थंभूतलक्षणा चेयं तृतीया । एतद् व्यवहारे कारणम् आह भे 4 दान्तरे [22 . 20]ति । न त्व् अयं परमार्थिको व्यवहार इत्य् अर्थः ।
ननु च तथाभूतवस्तुद्वयाद् अन्यस्य सम्बन्धस्याभावात्, तस्य च प्रत्यक्षेण ग्रहणात् सम्बन्धनिश्चयस् तथाभूतवस्तुद्वयकृतोस् तु, लिङ्गसामान्यनिश्चयस् तु कथं तत्कृतः । प्रत्यक्षेण लिङ्गसामान्यस्याग्रहणात् । न च विशेषो लिङ्गम् इत्य् आशंक्याह सामान्ये [22 . 22]ति । 5 अपि शब्दः सम्बन्धव्यवहारात् सामान्यव्यवहारस्यानतिशयख्यापनार्थः ।
स्याद् एतत् -- अनुगतस्य वस्तुनो ऽभावे ऽनुगतप्रत्ययो निर्हेतुकः कथं भवेद् इत्य् आह तेषाम् एव [22 . 23] इति । न स्वलक्षणस्य विकल्पजनने साक्षाद् व्यापरस् तस्यातद्विषयत्वाद् इत्य् आह -- अनुभवे [22 . 23]ति । यदि ते विजातीयस्वभावास् तथापि कथं त 6 त्प्रत्ययहेतुत्वं तेषाम् इत्य् आह -- विजातीये [22 . 23]ति । एकाकार स्याभिन्नकारस्य परामर्षः , स चासौ प्रत्यय श् च [तत्र] हेतुत्वात् ।आचार्यवचनेनैतत् संस्यन्दयन्न् आह तथा चाह [22 . 25] इति । [एकस्या]भिन्नस्य प्रत्यवमर्षस् तद् एवेदम् इति सम्बन्धाहार (समन्वाहार) इति विग्रहः कार्यः न त्व् एकश् चासौ प्रत्यवमर्षश् चेति । एवं हि प्रत्यवमर्षश् चा(स्या)पि भिन्न 7 त्वात् कथम् एकत्वं? तदपरैक(परा)मर्शाद् इति यद्य् उच्येत तदा तस्यापि तत्त्वं तत इत्य् अनवस्था । तथा च यावद् अन्तिमस्य तथात्वं न ज्ञायते तावद् आदिमस्यापि तत्त्वव्यवस्था न स्यात्, असत्यां च तस्याम् एकधीहेतुभावेन व्यक्तीनाम् अप्य् अभिन्न[त्वम् अ]र्पायितुं न शक्येतेत्य् अलम् इह विस्तरेण ।
यस्मात् तैर् अयं विकल्पो जन्यते ततः [23 . 1] ।
अनुभूतालम्बनं ज्ञानं स्मृतिः, अत्र तु 8 सामान्यं केनानुभूतम् अयं गृह्णाति, येन स्मृतित्वं स्याद् इत्य् आह तत्प्रतिभासिन [23 . 1] इति ।
विजातीयव्यावृत्तं स्वलक्सणं प्रत्यक्षेणेक्षितम्, न तु व्यावृत्तिर् इत्य् आह नही [23 . 3]ति ।
स्याद् एतत् -- विकल्पानाम् अनर्थग्राहितया बाह्यार्थासंस्पर्शाद् एव कथं गृहीतग्राहित्वलक्षणं स्मृतित्वम् इत्य् आश्चर्य उपसंहारापदेशेनाह -- तस्मात् [23 . 4] इति । यद्य् एवं द्वैधम् अपि विकल्पः प्रतिपत्तुर् अध्यवसा[14ब्] 1 यवशाद् गृहीतबाह्यार्थग्राहितया स्मृतिर् उच्यते, तर्हि परमार्थतः किंविषय इत्य् आह वस्तुत [23 . 7] इति । यतो ऽयं विकल्पः परमार्थतो निर्विषयोपि प्रतिपन्त्रध्यवसायानुरोधात् स्मृतिर् अभिप्रेतः ततः [23 . 7] तस्मात् । यद् एतद् वक्ष्यमाणकम् आह {प्. 269} कश्चित्कुमारिलादिः। किम् आहेत्य् आह सामान्ये [23 . 7]ति । अभेदेना भिन्नाकारं यद्विज्ञानं तद् एतत् स्मार्तं स्मृतिरूप 2 म् इति यो बौद्धो वदेत् । तस्या इवंवादिनो नूनं निश्चितं वन्ध्यासुते ऽपि विषये यत् स्मरणं तत्र शक्तता सामर्थ्यम् अस्तु । वन्ध्यासुतस्यापि स्मर्त्तुं यत् सो(-र्तुम् असौ) शक्त इति यावत् कथं तस्यात्यान्ताभावस्मरणशक्ततोपकल्प्यत इति आशंकायां चूर्णकेनोपपत्तिम् आह सामान्यस्याननुभूततया अननुभूतत्वात् । एवं ब्रुवतो ऽपि (यं) भावः -- अनुभूते 3 हि स्मृतिर् भवति । यदि वाननुभूतेपि स्मरणम् उपपद्यते तदा वन्ध्यासुतेप्य् अननुभूतत्वाविशेषात् स्मार्ता बुद्धिः किं न कल्प्यत इति ।
अङ्ग [23 . 18]शब्दो ऽध्येषामन्त्रणे । किं शब्दः सामान्यतः प्रश्ने । पुनः शब्दस् तु विशेषतः । तेनायम् अर्थः -- युष्मान् एवाध्येष्य सामान्यतो विशेषतश् च एतत् पृच्छाम इति । शतं संवत्स 4 राः पुरुषायुषम् । अत्र स्वातन्त्र्यपरिजिहीर्षया तत्कारिका उपक्षिपन्न् आह -- तथा चाहे [23 . 19]ति । यस्य [23 . 20]बौद्धस्यमतेन । तस्य एकलिङ्गिनि [23 . 28] गतिर् युगसहस्रेषु बहुष्व् अपि न विद्यत [23 . 29] इति सम्बन्धः कार्यः ।
आनन्त्यात् [23 . 28] इति हेतुः । तस्यैव समर्थनं सर्वम् ।
अलिङ्गजम् एवानुमानं भविष्यतीत्य् आह -- नचे [23 . 21]ति । चो यस्माद् अर्थे । 5 लिङ्गविनिर्मुक्तं [23 . 21] लिङ्गरहितम् । असामान्यस्य स्वलक्षणस्य अनवगतम् एव लिङ्गं लिङ्गिज्ञानं करिष्यतीत्य् आह -- नचे [23 . 23]ति । चः पूर्ववत् । प्रदीपयोग्यतया गमकस्वस्याभावाद् इति भावः । तस्य [23 . 24] सामान्यरूपस्य लिङ्गस्य । तस्य लिङ्गसामान्यग्राहिणो ऽनुमानान्तर स्योद्भूतिः [23 . 25] जन्म । किंभूताल् लिङ्गात् सामान्यज्ञा 6 नसंहितात् सामान्यज्ञानयुक्तात् सामान्यात्मना ज्ञाताद् इति यावत् । अस्य च लिङ्गसामान्यस्य ज्ञायमानस्यानुमेयत्वम्, प्रत्यक्षेण त्वन्मते सामान्याग्रहणाद् इति भावः । तस्य लिङ्गस्य सामान्य स्योद्भवस् तदुद्भवो [23 . 26] लिङ्गेनापरेणेत्य् अर्थात् । तेनापि सामान्यरूपतया अनुमानान्तराद् एव ज्ञातेन तथाभाव्य 7 म् इत्य् अभिप्रायेणाह -- अनुमानान्तराद् एव ज्ञातेने [23 . 27]ति । अस्त्व् एवं का क्षतिर् इत्य् आह एवं चे [23 . 27]ति ।
नन्व् एवं लिङ्गानुमानस्यैवानन्त्यं न तु लिङ्ग्यनुमानस्य तत् कथंलिङ्ग्यनुमानानाम् इत्य् उक्तम् इति चेत् । सत्यं, केवलं तद् एवाद्यं लिङ्गं ज्ञापकहेत्वधिकारात् ज्ञायमानसामान्यरूपतया चानुमानता (-मानेन) निश्चीयमानं लिङ्गि जातम् । स्वलिङ्ग्यपे 8 क्षया लिङ्गम् अपेक्षत(म् अपीष्यत) इति अभिप्रायाद् अदोष एव ।
{प्. 270} एक स्मिल् लिङ्गिनि [23 . 28] धर्मिणि ।
ननु च सामान्यरूपस्य लिङ्गत्वे तस्य चानुमानेनैव ग्रहे न प्रत्यक्षतस् तन्निश्चय उपपद्यत इत्य् अभिधातरि कथम् इदमाचार्यीयं सधू मेत्यादिना प्रत्यक्षतस् तन्निश्चयस्योपवर्णनं युज्यत इत्य् आशंक्याह एवं मन्यत [23 . 30] इति ।
प्रकृत्या विभ्रमाद् [24 . 1] भ्रान्तत्वात् । [15अ] 1 सामान्यं हि विजातीयव्यावृत्तिः । अयम् अर्थो -- विजातीयव्यावृत्तेर् अन्यस्य सामान्यस्याभावात् विजातीयव्यावृत्त्यवगम एव सामान्यावगमः । वासनाद्वयनिबद्धश् च विकल्पः स्वप्रतिभासम् एव नियतं बहीरूपतया साधारणतया प्रतिपद्यमानो बाह्य एव विजातीयव्यावृत्त्या मया प्रतीयत इति मन्यत इति । प्रक्र्त्या भ्रान्तत्वात् सामान्यस्य । स विवेचित 2 भेदो []भेद एव विकल्पेन प्रतीयत इत्य् उक्तम् ।
अथ यदि प्रकृतिभ्रान्तो ऽयं विकल्पस् तर्हि कथं तस्य अतद्व्याव्र्त्तवस्तुप्रापकत्वलक्षणं संवादकत्वम् इत्य् आह लिङ्गविकल्पस्य चे [24 . 2]ति । कस्मात् पुनर् विकल्पाभाससामान्यस्य लिङ्ग(ङ्गत्वम्) न तु धूमादिस्वलक्षणस्येत्य् आह नही [24 . 6]ति । तस्ये [24 . 6]त्यादिनोपपत्तिम् आह । अत्रैवोपचयहेतुं दर्शयन्न् आह साध्ये [24 . 7]ति ।
अय 3 म् अत्राभिप्रायः । अवश्यं हि किञ्चिद् अनुमित्सता धूमादिस्वलक्षणदर्शनोत्तरकालम् -- "इदं साध्यम् इदं साधनम्" इति संकलयितव्यम् । सति चास्मिन् संकल्पे सतः क्षणभङ्गितया वस्तुदर्शनाभावात् । दर्शनेन च विषयिणा विषयस्य दृश्यस्या[48]भिधानं तेन दृश्यस्य लिङ्गं(लिङ्ग)स्वलक्षणस्याभावाद् इत्य् अर्थः । ततश् च कथम् स्वलक्षणदर्शनाश्रयो 4 गम्यगमकभावो भवेद् येन कल्पितधर्मद्वारको गम्यगमकभावो [न भ]वेद् इति ।
__________नोतेस्__________
[48] प् दृश्यस्य लिङ्गं । न् प्रतेर् अत्र सम्यक् पाठः । अत एव स एव मूले स्थापितः ।
ननु यदि प्रत्यक्षपृष्ठभाविनापि विकल्पेन सामान्यं प्रतीयते, तर्हिन्यायबिन्दौ यदवादि [ते]न "अन्यत्सामान्यलक्षणं सो ऽनुमानस्य विषयः" इति विरुध्येतेत्य् आशंक्याह यत् तूक्तम् इ [24 . 9]ति । तदन्यस्ये[24.11]त्य् अनुमानोत्तरकालभावि 5 नो ऽप्राप्तप्रामान्यस्याग्निर् अत्रेत्याद्याकारस्यान्यस्यापि स्वतन्त्रस्य विकल्पस्य ।
एवम् अपि किम् अर्थम् अवधार्यत इत्य् आह स्वलक्षणेति [24 . 12] । स्वलक्षणं विषयो ग्राह्यत्वेन नैव भवतीति प्रतिपादयितुम् इत्य् अर्थः ।
पूर्वपक्षद्वयपूर्वकं फक्किकायाः समुदायार्थं व्याख्यायावयवार्थं व्याख्यातुं तत्र [24 . 13] इत्यादिनोपक्र 6 मते । आदि [?]शब्दाद् एकविनाशे सर्वविनाशादिसङ्ग्रहः "प्रत्यक्सेण दृष्टवतः" {प्. 271} इत्य् अस्य तात्पर्यार्थम् आह न त्वि [24 . 26]ति । कथं पुनर् अस्य तथामननम् अनुपपन्नम् इत्य् आह नही [24 . 27]ति । वस्तुवलभाविने [24 . 27]ति हेतुभावेन विशेषणम् ।
स्याद् एतत् -- कथं विविक्तताप्रतीतिः । यदि केवलप्रतीतिस् तर्हि साभावसंवित्तिभन्तरेण 7 नतरां प्रसिद्द्यतीति कथं प्रत्यक्षेण तथाग्रहणम् उपवर्ण्यत इति । तद् असत् । तथाहि भिन्नम् अभावम् इच्छतापि वस्तूनां स्वरूपं पराननुप्रविष्टम् अवश्यैष्टव्यम्, अन्यथा प्रातिस्विकाम् एवं तदभावस्यैवायोगानाम् (?) । अतः पराननुप्रवेशेन ग्रह एव केवलग्रहः । इतरथेतरेतराश्रयत्वप्रसङ्गः । तावत् खल्व् अभावसंवित्तिर् नास्ति तदा 8 त्मवद् यावत् केवलग्रहो न भवेत् । तावच् च केवलग्रहो नास्ति यावत् नाभावसंवित्तिर् इति ।
किञ्च यथा केवलो ऽभावो ऽपरणाभावेन विना प्रतीयते तथा भावोप्य् अन्तरेणापराभावं केवलः किं न मीयेत । एवम् अनभ्युपगमे वानवस्था प्रसज्येतेति । तद् आहवार्तिकालंकारे प्रज्ञाकरगुप्तः
"प्रपराननु[15ब्] 1 वेशेन प्रतीतिः केवलग्रहः ।
ननु केवलसम्व(संवित्ति)र् अभाववित्तितः कुतः ।
सापि केवलसंवित्तिं विना नेति समानता ॥
यथा वा केवलो ऽभावो विनाभावेन मीयते ।
तथाभा(तथा भा)वोपि नैवञ् चेद् अनवस्था प्रसज्यते ॥" इति ।
कथं निर्विषयस्य विकल्पस्य यथादृष्टभेदस्य परमार्थविषयत्वम् उच्यत इत्य् आह[49] निश्चयेत्य् आदि ।
__________नोतेस्__________
[49] स् प्रतिर् अत्र त्रुटितः ।
अनेनै तद् उपपत्त्यपे 2 क्षया । परमार्थशब्दयोगोवार्तिककारस्य टीकाकृतादर्शितः । लक्ष्यते चायमाचार्यस्याभिमतः । समानो यद्वत् यादृशो दृष्टो यथादृष्टः । स चासौ भेद एव परमार्थः । स एव विषयो ऽध्यवसायवशाद् यस्येति स तथा । इतरथा तु परमार्थतो ऽविषय एव ।
"परमार्थशब्दं प्रयुंजानो वार्तिककारः कथं न प्रमाद्ये(द्य?)" एवं तुभट्टा 3 र्चटेन कथं न व्याख्यातम् इति न प्रतीमः ।
प्रमाणलक्षणसामान्येन योगम् उपदर्श्य प्रमाणविशेषस्य प्रत्यक्षस्यापि लक्षणेन योगं दर्शयन्न् आह सद् इति । । इन्द्रियाणां इति व्यक्तिविवक्षया बहुवचनम् । चक्षुर् इन्द्रियापेक्षया ग्रन्थस्यास्य योजनायां तु इन्द्रियस्य नायनरश्म्यवयविन इन्द्रियस्यानु 4 मानसिद्धस्य संभारदंशेन संयोगे संबन्धे सत्य् अस्य विकल्पस्य नीतोपनित्यात्मनो भावाद् इति ।
{प्. 272-278} "यद्वेन्द्रियं प्रमाण(णं) स्यात् तस्य चार्थेन संगतिः [श्लोकवा. 4.60] इत्यादिवचनात् स्वाभिमानात् प्रत्यक्षत्वेनेन्द्रियम् उदाहरणीकृतं परेण । न पुनः प्रतिपाद्यप्रतिपादकयोर् बुद्धिसाम्यविषयो दृष्टान्तो भवितुम् अर्हति ।बौद्धस्यै 5 वम् अनिष्टेर् बाधकाभिधानाच् चेति ।
प्रथममिती [25 . 13]त्य् अत्र च्छेदः सुबोध एव । आद्यमि [25 . 12]त्य् एतद् व्याचक्षाण आह आदौ [25 . 14] इति । कस्मादा[द]वित्याकांक्षायां आह विकल्पप्रवृतेरि [25 . 14]ति । आदौ भवम् इति त्व् अर्थ[ः] यस्यार्थस्येत्यादिना स्वलक्षणेनासाधारणस्यैवोपलक्षणाद् असाधारणविषयं स्वलक्षणम् इति व्याचष्टे । इतरयो [25 . 16]र् विधिप्रतिषेध 6 विकल्पयोः । उक्तम् एवार्थं तथाही[25.17]त्यादिनोपपादयति ।
असंकीर्णरूपे [25 . 25] [अ]परामिश्र(मृष्ट)स्वभावे ।
ननु च तस्यासंकीर्णरूपता [न] स्वतः किं त्व् अभावांशसद्भावात् । तत् कथम् एवम् अभिधीयत इत्य् आशंक्य कारणम् आह तथाही [25 . 26]त्यादि । अन्यथा [25 . 27] तस्य पररूपमिश्रताप्रकारेण । स एवाभावांशः [25 . 28] पराभावो न सिद्ध्येत् परात्मव 7 द् इति भावः । अत्रैवाभ्युच्चयहेतुम् आह न चेति [25 . 28] । सा [26 . 1] संकीर्णरूपता कथं न युक्तिमतीत्य् आह स्वहेतुबले [26 . 2]ति । स्वहेतुबलायातस्य तद्धेतुभावेन विशेषणम् । योगपरिवर्जनं तस्यायोगात् तेन वस्तुनेति सामर्थ्यात् ।
ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषाम् एव भावानाम् उदयक्षणाद् ऊर्ध्वम् अभावाद् अभावैक 8 रसं जगत् स्याद् इति प्रसंजयितुं युक्तं न भू(तु) तेन संकीर्णरूपविनाशेन [50] वरं स्वहेतोर् एवासंकीर्णरूपाणाम् उदयो ऽस्त्वि [26 . 4]ति । सत्यम् । यथाश्रुतिः(ते) स्याद् एष दोषः । केवलम् अस्य तात्पर्यार्थबोधे यत्नः करणीयः । इह खलु भावानां क्षणभङ्गित्वेपि सदृशापरापरक्षणोदयाद् वस्तुसन्तानविषया प्रतीतिर् अस्ति न त्व् अभावविष[16अ] 1 यैव । अतएव तत्त्ववार्मतथ(?)याम् उपप्लवतोत्पद्यते । उदयोत्तरकालम् अव्यवधानेन वस्तुविषया च प्रतीतिः कथम् उपपद्येत यदि स एवाभावः पूर्वसिद्धं संकीर्णरूपं विनास्याद् अन्यसं(विनाश्यात्य् अदसं)कीर्णरूपम् उत्पादयेत् । सति चैवं वरं स्वहेतोर् एव तथाविधाताम् उदयोस् त्व् इत्य् उच्यत इति । हेतुत्वेनार्थाक्रियाकारित्वेन वस्तुरूपत्वाद् अभाव 2 रूपतैव हीयेतेत्य् एतद् उपेक्षे(क्ष्यै)व चैतद् उक्तं द्रष्टव्यम् ।
__________नोतेस्__________
[50] -विनाशने च वरं -- स्
प्रथमं संकीर्णरूपाणाम् उत्पादोभ्युपेयते पश्चाद् असंकीर्णरूपाणाम् उदयम् उपगन्तुम् -- का पुनर् अत्र हानिर् इत्य् आशंक्याह किमि [26 . 5]त्यादि । कश्चित् किल परिव्राडशुचौ पतितं {प्. 279} मोदकं करण गृह्णन् केनचित् सोत्प्रासं पृष्टः " किम् अशुचेर् मोदकम् उद्ग्र्ह्णासि" इति । स एवं पृष्टस् तं प्रत्य 3 वादीत् "प्रक्षाल्यों(ल्या) त्रैव त्यक्षा(क्ष्या)मि" इति । सो ऽयं परिव्राजको(क)मोदके(क) ग्रहणार्थो न्याय स् तद् उपगमेन किम् [26 . 6] । यथा च तत्र तन्मतम् "अत्रैव त्यक्तव्य एवायम्" तदा किम् अशुचिम् रक्षितस्यान्नस्य ग्रहणेन, वरम् अयं पूर्वावस्थाने नै(ए)वास्तु इत्य् उपालम्भस् तथात्रापि । यदि त्व् अभावत एवासंकीर्णरूपाणां पश्चाद् उत्पादो ऽभ्युपेतव्यो 4 वरं प्रथमत एव तथाभूतानाम् उदयो ऽभ्युपगम्यताम् इत्य् आभिप्रायः । ततस् तथाविधो(ध)स्य प्रमाणप्रसिद्धौ चायम् उपालम्भाभिप्रायो द्रष्टव्यः । तस्मादि [26 . 6]त्यादिना प्रकृतोपसंहारः ।
प्रत्य्क्षबलेन [26 . 13] इत्य् अस्य तात्पर्यार्थं दर्शयन्न् आह -- यदि तु [26 . 13] इति । यदिः संभावयति तुर् भिनत्ति । व्यवच्छेदेविषया [26 . 14] व्यवच्छिन्नऋउपविष 5 यातद्रूपपरावृत्तरूपविषयेति यावत् । तथा सत्य् अपि स्मृतिर् न स्यात् । व्याप्तिग्राहकप्रमाणानधिगतस्य विशिष्टदेशादिवर्तितद् असाधारणरूपस्य ग्रहणाद् इति भावः ।
"अन्यरूपम् इदं न भवति" इत्य(ती)यम् अभावप्रतीतिः केन प्रमाणेनेष्टा येनास्याः प्रामाण्यम् आचार्येण निवार्यत इत्य् आशंक्याचार्यस्याभिप्रायं 6 परिस्फुटयन्न् आह -- नाभावे [26 . 20]ति । कस्मात् पुनर् एतत् प्रतीतिजनकत्वेनान्यद् अ[भा]वाख्यं प्रमाणं न भवति, एषा च तत्फलम् इत्य् आह नही [26 . 20]ति । आक्रियते अध्यवसीयत इति आकारो [26.21] विशेषो व्यावृत्तिर् एव । किंभूत इत्य् आह -- पाटवे [26 . 22]ति । पाटवं तीक्ष्णता बुद्धेर् इति प्रकरणात् । आदि शब्दात् प्रत्यासत्तितारतम्यादेर् ग्रहणम् । पाटवा 7 दिप्रत्ययान्तरं स्वनिश्चया[या]पेक्षत इति तत्सापेक्ष उक्तः । एतद् एवोपपादयन्न् आह नही [26 . 22]ति ।
अनधिगमाद् इति [27 . 10] वस्तुनो विशेषणत्वेनाग्रहणाद् इति द्रष्टव्यम् । न तु सर्वथा []ग्राह एव वाच्यः । अयःशलाकाकल्पस्य स्वतन्त्रस्य तेन ग्रहणस्याभिमतत्वात् । अ(न्य)था "निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनो ग्रहणम् ।" (श्लोकवा. प्. 118) इत्यादि विरुध्येत । इन्द्रिय 8 सम्बधाधीनालोचनाज्ञानोत्पत्तिश् च कथम् अनिष्टमात्रेन निर्वर्त्येते(निवर्त्येते)ति । पुनर् अ[27.14]प्रथमे । वर्ण्यत [27 . 16] इति वदन् प्रमाणाप्रसिद्धतां दर्शयति । प्रख्यानं प्रकाशनं प्रतिभासनं प्रख्या । तै [ मि ] रिकादिज्ञान स्येव प्रख्या [27 . 27] यस्य स तथोक्तः । अत एव तत्सदृश इत्य् आर्थः ।
अथ मा भूत् सामान्यम् अर्थक्रियासाधनं व्यक्तिस् तावत् तत्साधनीभवति । [16ब्] 1 तदध्यवसायितयैव च विधिविकल्पः प्रमाणं किं न भवतीत्य् आशंक्य न तत्र प्रामाण्यम् इति [27 . 24] दूरस्थेन सम्बन्धः कार्यः । तस्य [27 . 23] विधेर् विकल्पस्येति प्रस्तावात् । {प्. 280} कथम् अप्रामाण्यम् इत्य् आशंक्यं योज्यम् । तस्य निर्विकल्पकप्रत्यक्षविषयस्य निर्विकल्पकज्ञानेनाधिगमाद् इति । चो [27 . 23] व्यक्तम् इत्य् अस्मिन्न् अर्थे । न मयार्थक्रियासाधननिर्विकल्पप्रत्यक्षविषयाध्यवसातृत्वं 2 तस्योच्यते, येन त्वयैवम् उच्यत इत्य् आह ततः परम् इ [27 . 19]त्यादि । चो [27 . 21] यस्माद् अर्थे । ततोयम् अर्थः -- यस्माद् एवम् उच्यते पूर्वपक्षवादिनेत्य् अर्थात् । एवम् अभिधाने ऽपि कथं तदध्यवसाय उक्तो भवतीत्य् आशंक्याह तत्रेति [27 . 21] ।
जातिम् अतिरिक्ताम् अधिगच्छतो ऽस्य प्रामाण्यं भविष्यतीत्य् आशंक्योक्तम् एवार्थम् अधिकविधानार्थम् अनुवदन्न् आह जातेस् त्व् इति [27 . 24] । अपिः [27 . 25] अक्षमायाम् । तस्या अर्थक्रियासाधनत्वाभावेनानर्थत्वाद्, अर्थक्रियासाधनस्याइव चार्थत्वात् । अपूर्वार्थविज्ञानत्वस्य प्रमाणलक्षणस्याभावाद् अभिप्रेत्य न प्रामाण्यम् इत्य् उक्तम् ।
अनेन यः परेण विधिविकल्पस्य "तत्रापूर्वार्थविज्ञानम्" इत्यादिना सामान्येन प्रमाणलक्षणयोगो दर्शितः स नास्तीति दर्शितम् । योपि "सत्संप्रयोग" इत्यादिना 4 विषेशेण प्रत्यक्सलक्षणयोगो दर्शितः सो ऽपि नास्तीति दर्शयन्न् आह अत एवेति [27 . 25] । अतएव -- जातेर् अर्थक्रियासाधनत्वाभावेनानर्थत्वाद् एव । प्रत्यक्षतापि अस्य विकल्पस्य असंभविनी । कथं न संभवतीति आह -- अर्थक्रिये [27 . 25]ति । तेन सहेन्द्रियाणां [26 . 26] यः संप्रयोगः सम्बन्धस् तस्या अभावात् [27 . 26] ।
मीमांसकमतेन सदै(तै)व सहेन्द्रियं सम्बन्धं (बन्द्धुं) प्रभवति नासतेत्य् अभिप्रायः । तद् उक्तंकुमारिलेन --
"भावांशेनैव सम्बन्धो योग्यत्वाद् इन्द्रियस्य हि" (श्लोकवा. प्र. 18) इति ।
[51] अस्य [28 . 13] अर्थक्रियासाधनस्य वि(साधनवि)षयस्य ज्ञानस्य अर्थक्रियासाधने [28.14] वस्तुनि प्रवृत्त्यङ्गत्वाद् उपदर्शितार्थप्रापकत्वाद् इति यावत् । नेतरत् प्रमाणं व्रवीती [28 . 13]ति संबन्धनीयम् । इतरद् इ [22 . 8]त्यर्थक्रियासाधनविषयं यन् न भव 6 तीति । तद(द्)विपरीतत्वाद [27 . 14]र्थक्रियासाधने प्रवृत्त्यनङ्गत्वात् । एतद् एव समर्थयन्न् आह तथाहीति [28 . 14] । अप्रतारक [28 . 15]म् उपदर्शितार्थप्रापकम् इत्य् अर्थः । लोकेपी [28 . 15]त्य् अत्रच्छेदो व्यक्त एव । लोके व्यवहर्तरि जने । अपि व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे ।
__________नोतेस्__________
[51] तस्य स् ।
ननु यदि नाम तदर्थक्रियासाधने प्रवर्तकं न भवति तथापि तत् प्रापकत्वेनाविसंवाद 7 कतया प्रमाणं किं न भवतीत्य् आशंक्याह यच् चे [28 . 16]ति । अनधिगच्छन्न् इति (गंच्छदि)ति [28 . 16] । अत्र हेतौ शतुर् विधानात् प्रवर्तते । अनधिगमाद् इति कारणम् उक्तम् ।
{प्. 281} तत्सध्यतया [28 . 22] सामान्यजन्मजन्य(सामान्यजन्य)तय् ओपगताम् अभिन्नज्ञानाभिधानलक्षणाम् । "समानप्रसवात्मिका जातिः" इति वचनात् । व्यक्तिसाध्याम् [28 . 23] इति व्यक्तिसाध्यतयोपगताम् इति प्रत्येतव्यम् । अनेन यौवार्थक्रिया 8 युष्माभिर् व्यक्तिसाध्यतयोपगम्यते सैव तत्साध्या भविष्यतीत्य् अपि पक्षः प्रतिक्षिप्तः । उभयत्रापि व्यक्तेर् एवान्वयव्यतिरेकाभ्यां साक्षात् पारंपर्येण च तत्र सामर्थ्यस्य प्रमाणेनावगतत्वाद् इत्य् अभिप्रेतम् ।
ननु कस्मिन् काले करोतीति प्रश्ने "स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम्" [28.23] इत्य् उक्तम् युक्तम् । न तु[52] कीदृश इति प्रश्ने इति चेत् । सत्यम् केवलं स्वलक्षण [17अ] 1 प्रतिपत्तेः [28 . 24] उत्तरकालं प्रतीयमानत्वाद् ऊर्ध्वम् उत्तरकालम् इत्य् उक्तम् उपचारत इति बोद्धव्यम् । तत्प्रतिपत्तेर् ऊर्ध्वं प्रतीयमानत्वम् एव दर्शयन्न् आह तत्सामर्थ्येति [28 . 25] । यद् वा कीदृशम् इति प्रश्नयित्वैव तत्सामर्थ्येति योज्यम् । तत्सामर्थ्योत्पन्नविकल्पग्राह्यत्वम् अपि किं स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम् एव किं वा कियत्कालपरि(र्य)वसाने इत्य् अपेक्षायाम् उक्तम् तत्प्रतिपत्ते 2 र् ऊर्ध्वम् इति एवं ब्रवीति [28 . 27] । किंविशिष्टं सामान्य तथातया प्र(ब्र)वीतीति । पराभिप्रायेणाप्य् एवम् अभिधानं किम् अर्थम् इत्य् आह दर्शनेति [28.27] । ननु किं सामान्यमात्रम् एवार्थक्रियासाधनं न भवति, येन परैस् तथा भिधानाद् एवं ब्रवीती त्य् उच्यत इत्य् आशंक्याभ्युपगमम् एवोत्तरं रचयन्न् आह -- सर्वम् एवेति [28 . 29] ।
__________नोतेस्__________
[52] कीदृशं स्
यदि एवम् अनुमानविकल्पग्राह्यस्यापि सामान्यस्य तथात्वा 3 त् तद्विषयस्यानुमानविकल्पस्यापि प्रामाण्यन् न स्यात् । ततश् च शब्दप्रवेशे ऽक्षितारानिर्गमवृत्तान्तो जात इत्य् आशंक्याह यत् त्व् अपि [29 . 1] । तुर् विशेषार्थः । यत् सामान्यम् अर्थक्रियाम् उपकल्पयति [29 . 3] । कीदृशम् इत्य् अपेक्षायाम् आह -- अनधिगतेति [29 . 2] । अनधिगतं पूर्वज्ञानेनापरिच्छिन्नं यद् अर्थक्रियासाधनं तद्विषय आश्रयत्वा 4 ध्यवसायेन यस्य तत् तथा । हेतुभावेन चैतद् विशेषणम् । अनेन च विधिविकल्पावभासिसामान्यस्यार्थक्रियासाधनविषयत्वेपि नानधिगतार्थक्रियासाधनविषयत्वम् इति न तद्विषयस्य प्रामाण्यम् इति दर्शितम् । तद्विषयत्वम् एवास्य कुत इत्य् आह सम्बद्धेति [29 . 2] यद् अर्थक्रियायां सम्बद्धं क(का)रणभावेन तत्संबन्धा 5 त् तदारूढत्वात् तन्निष्ठत्वाद् इति यावत् । सम्बद्धसम्बन्ध(द्ध)त्वम् एवेदृशम् अस्य क्व इत्य् अपेक्षायां कारणे [29 . 1]त्यादि योज्यम् । तथाभूतलिङ्गनिश्चयद्वारेण प्रतीयमानत्वात् कारणव्यापकसंबद्धलिङ्गनिश्चयद्वारायातम् [29 . 1] उक्तं वेदितव्यम् । कार्यञ् च व्याप्यञ् च तथावसीयमानं स्वकारणं व्यापकं चातद्रूपपरावृत्तं 6 प्रत्याययतीति भावः । अनेन सर्वणैतद् उक्तं अनुमानविकल्पेन हि परमार्थतो ऽर्थक्रियासाधनम् एव वह्न्यादि विशिष्टदेशाद्यवच्छेदेन । {प्. 282} एकतो व्यावृत्त्योल्लिख्यमानं सामान्यं, नान्यद् अतस् तदध्यवसायिनस् तस्य प्रामाण्यम् उपपद्यते ।
ननु दर्शनोत्तरकालभाविनो विकल्पस्य विशिष्टदेशादितया गृहीत 7 स्यैवार्थक्रियासाधनस्य तथाध्यवसायाद् इति विधिविकल्पग्राह्यम् अपि सामान्यम् अनधिगतार्थक्रियासाधनविषयं सत् स्वग्राहिणं विकल्पं प्रामाण्येन जोजयिष्यतीत्य् आह -- इदम् इति [29 . 4] । तुः पूर्वाद् वैधर्म्यम् अस्य द्योतयति ।
उदाह्रियते [29 . 9] । उदाहरणीक्रियते । प्रकृतपरित्यागे किं कारणम् इति चाशयः । निराकर्तुम् उ [29 . 10]दाह्रियत इति संबन्धनीय् 8 अम् ।
दृष्टान्तम् एव विवटयितुं कां पुनर् इ [29 . 10]त्यादिनोपक्रमते । परस्परं व्यावृत्त्या हि व्यक्तयो भिन्नम् एव ज्ञानम् उपजनयेयुः । कथं पुनर् अभिन्नां धियम् अभिधानं चादधतीत्य् आशंक्याह -- एवम् [29 . 23] इति । तद् एकं वाहदोहादिकार्यं तत्र प्रतिनियमः । प्रतिनियतत्वम् अवश्यं प्राग्भावित्वं लक्षणं [29 . 23] यस्या सा तथोक्ता । उपकर्तव्यम् अभिव(व्य)क्तव्यं न तु जनयितव्यम् इत्य् अवसे[17ब्] 1 यम् । नित्यतया तस्य परेण तथात्वानुभ्युपगमात् । पराभ्युपगमान् अपेक्षायां चास्य दृष्टान्तत्वानुपपत्तेः । तस्माद् विवक्षिताद् अपरं सामान्यं [29 . 24] तदेकसामान्यं व्यंजकत्वाख्यम् । अन्यथा [29 . 24] तदपरसामान्ययोगेन व्यंजकत्वप्रकारेण । तदभिव्यक्तयेपि तदपरं सामान्यं तदेकसामान्याभिव्यंजकाख्यं सामान्याभिव्यञ्जकत्वाख्यम् अपरम् उपेयम् । 2 तथा तदभिव्यक्तयेप्य् अन्यद् इत्य् अन वस्थाया अपर्यवसानस्य प्रसंगात् [29 . 24] प्राप्तेर् हेतोः । साधयिष्यन्ति विवक्षितसामान्ययोगम् अन्तरेण स्वभावत एवेति प्रकरणाद् अवसेयम् ।
ननु किं प्रमाणपरिदृष्टार्थापलापे प्रयतिर् भवतां येनैवम् अभिधीयत इत्य् आह किम् [29 . 6] इति । अथ किम् अज्ञायमानप्रमाणकम् असद् अवश्यं भवति येन सर्वथा तदर्थक्रियो 3 च्छेदः क्रियत इत्य् आह प्रमाणाबाधितेन चे [29 . 26]ति ।
प्रमाणाबाधाम् एव मात्रया दर्शयितुं तथाही [29 . 27]त्यादिनोपक्रमते नोपलक्षयाम [29 . 28] इति वदन् दृश्यानुपलम्भं बाधकं दर्शयति । अविभावनं [30 . 2] निर्लुठितगर्भवद्विभागेनाप्रतिपत्तिः । रूपरूपिणोर् अनन्यत्वेन भेदे रूपिण एम भेदापत्तेर् इत्य् अभिप्रेत्याह पदार्थ 4 द्वयोपगमप्रसंगाद् इति [30 . 5] । आदि [30 . 5]शब्दाच् छब्दज्ञानपरिग्रहः ।
ननु भिन्नसामान्ययोगाद् भेदो भावानां, न पुनः प्रतिभासभेदाद् इत्य् आशंक्य यदि अप्य् अत्र शतं दोषाः सम्भवन्ति, तथापि ग्रन्थावस्तिरभयाद् एकम् एव दूषणं दत्ते सामान्यस्येति {प्. 283} [30 . 7] । एवं मन्यते यदि सामान्यभेदाद् भावभेदस् तदा गवाश्वरस्येव गोत्वा 5 श्वत्वयोर् अपि भेदस् तदपरसामान्यभेदाद् भवेद् इति सामान्यस्याप्य् अपरसामान्यप्रसक्तेर् इति । अस्त्व् एव का क्षितिर् इत्य् आह -- निःसामान्यस्येति [30 . 7] । अस्ये [30 . 7]ति सामान्यस्य ।
एतेनेति [30 . 10] "न तथाविधम् उपलक्षयाम्" इत्यादिनोपदर्शितेन दृश्यानुपलम्भेन । कथं पुनर् दृश्यानुपलम्भः सिद्धो येन तन्निराक्र्टम् ए 6 तत् स्यात् यत [30 . 15] इति । तदासिद्धम् इ [30 . 15]त्य् अन्व(नु)गमापेक्षत्वं बुद्धेर् इति प्रकरणाद् द्रष्टव्यम् । तत्र [30 . 16] इन्द्रियबुद्धाव् अनुपलक्षणाद् [30 . 16] अप्रतिभासनात् । अस्पष्टनीलाद्याकाराः सा(रा सा)मान्यबुद्धिर् अभिमतं संवेद्यत इति चात्राभिप्रेतम् । व्यक्तिरूपम् अपास्यान्यस्येष्ट(स्पष्ट)म् एव रूपम् उपगतम् । तत्रावभासते तद् एव सामान्य 7 म् अस्माकम् इत्य् आशंक्य तद् अपि नास्तीत्य् अभिप्रायवान् आह स्पष्टस्यापी [30 . 27]ति । अनुपलक्षणाद् इत्य् अभिसम्बद्ध्यते । संप्रति द्वितीयस्य स्पष्टरूपस्योपलक्षणम् अभ्युपगम्य तस्यानुगाभिरूपत्वं प्रतिषेधयन्न् आह । तद् भावे चे [30 . 17]ति । चो विशेषार्थाभिधानाभ्युपगमे । अनेन किं तद् द्वितीयं स्पष्टं रूपं साबलेयबाहुलेयव्यक्तिद्वयान्तरालं न व्याप्नोति 8 किं व्याप्नोतीति विकल्पयोर् बुद्धिस्थीकृतयोर् मध्ये ऽव्यापनपक्षे दोषं दर्शयति । व्यक्तिद्वय स्य् आन्तराल म् अवकाशम् अव्याप्नुवतः [30 . 17] स्वसत्तयान् अभिसम्बन्ध(ध्न)तः । कथं तदनुगमो [30 . 18] व्यक्त्यन्तरानुगमो व्यक्त्यन्तरव्यापित्वं निष्क्रियत्वेन गत्वा व्यापारासंभवात् तथात्वेपि पूर्वव्यक्तिवियोगानुषङ्गात् । न च तत्साङ्गम् इति च भावः ।
द्वितीय [18अ] 1 विकल्पेप्य् आह व्याप्तौ चे [30 . 18]ति । तत्र [30 . 19] अन्तराले ।
न तस्य तत्र व्यक्तं रूपम् अस्ति व्यञ्जकाभावात् तेनानुपलक्षणम् इत्य् आह नही [30 . 19]ति । अवश्यं हि भूतले तत् कयाचिद् व्यक्तम् इति न तस्याव्यक्तरूपसंभव इति भावः ।वार्तिककारस्याप्य् अयम् अर्थो ऽभिप्रेत इति प्रतिपादयन्न् आह -- तथा चे [30 . 20]ति । प्रकृतोपययोगिभाग एव पठितुं युज्यत इतिवार्तिकस्य पादत्र 2 यम् एवायम् अपठत् । उक्तयोपपत्त्या व्यक्तैकरूपसंभवे चेदम् अन्यदा(त्रा)पीति निदर्शयन्न् आह -- एकत्रापीति [30 . 23] । चो वक्तव्यान्तरसमुच्चये । सर्वसर्वगतवादिनम् अधिकृत्योक्तं सकलेति [30 . 23] । स्वाश्रयसर्वगतवादिनं तु प्रति स्वाश्रये [30 . 24]ति । नाम [30 . 25]शब्दो ऽसम्भावनायाम् । इह एकत्रैवाश्रय इत्य् अने 3 नाप्य् अंशेनायं न दृष्टान्तः किन्तु यथा क्षणिकत्वस्य निर्विकल्पकबोधेन दृष्टस्यापि न दर्शनावसायस् तथा सकलस्वाश्रयरूपप्रतिभासेपि न दर्शनावसाय इत्य् अनेनैव । अस्तु तर्हि सर्वभुवनवर्तिरूपस्य निश्चयः । सर्वस्वाश्रयवर्तिनो वा का {प्. 284} क्षतिर् इत्य् आह तत [30 . 27] इति । तत स् तादृशरूपनिश्चयात् । तच् [31 . 1]छब्दे 4 न सामान्यं प्रत्यवमृष्यते । सहचारि शब्देन च संबद्धं विवक्षितम् । तेनायम् अर्थस् तत्सहचारिणः सामान्यसंबद्धस्य तत्समवायविषयस्येति यावद् इति । एतच् चनैयायिकादीन्प्रत्यभिहितम् ।
मीमांसकंप्रत्याह -- तदभिन्नस्वभावस्य चे [31 . 1] ति ।
किम् इन्द्रियबुद्धौ सामान्यस्य प्रतिभास आहोस्विद्विकल्पबुद्धा 5 व् अनुमानात्मिकायाम् इति विकल्पयोर् अन्तर्निहितयोर् एकं विकल्पं निराकृत्यापरं निराकर्तुम् आह अथे [31 . 3]ति । आदि शब्दाद् शब्दबा(शब्दादि)परिग्रहः । प्राक्तनम् एवाभिप्रेत्ये [30 . 15]ति पदम् अत्राभिसंबध्यते । ततः अनुमानादिबुद्धिम् इति द्वितीयया निर्देशः । यथास्पष्टो व्यक्त्याकारो ऽर्थाकारो वा लक्ष्यमाणः सम्वेद्य 6 मानोस्ति न तथा स्वलक्षणप्रतिभासो व्यक्त्याकारो लक्ष्यमाणोस्तीति योज्यम् । कस्माद् एवम् इत्य् आह -- तदभाव [31 . 5] इति तस्य स्वलक्षणस्याभावे तासां [31 . 6] सामान्यबुद्धीनाम् । अत्रैवाभ्युच्चयहेतुम् आह आकारान्तरेण चे [31 . 6]ति । स्वज्ञाने इन्द्रियजन्मनि ज्ञाने । स्पष्तास्पष्टरूपद्वययोगि स्वलक्षणं तेनेन्द्रि 7 यज्ञाने स्पष्टेन रूपेण प्रतिभात्य् अन्यत्र पुनर् अस्पष्टेनेत्य् आह अनेके [31 . 6]ति । अतिप्रसङ्गादि [31 . 7]ति घट प्रतिभासेपि पटप्रतिभासकल्पना स्यात् । घटपटलक्षणरूपद्वय(या)योगित्वात् पटस्येत्यादेर् उत्तरस्यात्रापि सुवचत्वाद् इत्य् अभिसन्धिः । तस्मादि [31 . 7]त्यादिनोपसंहरति । इयम् अभिन्नाभासा सामान्याकारा स्वलक्षणाद् उद्भवो ऽस्या इति स्वलक्षणोद्भवा सती भिन्नार्थग्राहिणी व्यावृत्तवस्तुग्राहिणी न प्रतिभाति । किं त्व् अनादी [31 . 9]ति ।
"दृढत्वात् सर्वदा बुद्धेर्" इति ब्रुवता यदि बुद्धेर् दार्ढ्यम् अभिहितं तद् अपि निऋउपयन्न् आह -- दृड्ःअत्वञ् चे [31 . 10] ति । सहेतुकविनाशवादिपक्षे क्षणिकत्वाभ्युपगमाद् इ [31 . 10]त्य् आशुतरविनाशित्वाभ्युपगमाद् इति वेदितव्यम् । अस्याः [31 . 11] सामान्यबुद्धेः । तद् [31 . 10] अबाध्यमानत्वम् ।
[18ब्] 1 स्या च्छब्दो ऽनेकान्तवचनो नियतोस्ति तेन स्याद्वादो [31 . 12]नकान्तवाद यद् वा स्याद् अक्षणिकः स्यात् क्षणिक इत्यादि [31 . 12] स्याद् इति वादः स्याद्वाद स् तस्य भंगो निराकरणं तस्माद् एवावधारणीयो बाधक इति प्रकृतत्वात् । स्याद्वादभङ्गम् अधीत्येति कर्मणि ल्यब्लोपे चेयं पञ्चमी द्रष्टव्या ।
एवं मन्यत [29 . 22] इत्यादिना यद् उपक्रान्तं तद् उपसंहरन्न् आह 2 तस्माद् इ [31 . 16]त्यादि । यस् तु [31 . 18] मिथ्यात्वे [53] दोष [32 . 1] इति सम्बन्धः । {प्. 285} उक्तः [32 . 1] परेणेत्य् अर्थात् । किं कृत्वासाव् उक्त इत्याह पूर्वपक्षयित्वेति [31 . 19] । सामान्यम् [31 . 22] इत्यादिर् भविष्यती [31 . 22]त्यन्तः पूर्वपक्षग्रन्थः । अस्यैव पूर्वपक्षस्याकारम् इति [30 . 23]शब्दो दर्शयति । तस्य [31 . 19] सामान्यस्य वृत्ते [31 . 19]र् वर्तनस्य । नियामकं व्यवच्छेदकम् । साबलेयादिषु कर्कादिसाधारणे परस्परं भिन्न 3 त्वेपि गोत्वम् एव वर्तते नाश्वत्वम् इत्य् एतन् निमित्तम् । यथै कस्मात् साबलेयात् कर्को भिन्नस् तथा बाहुलेयोपि ततस् तुल्येपि भिन्नत्वे [31 . 21] भेदे केषुचित् [31 . 21] साबलेयादिषु वृत्तिर् गोत्वस्य अवृत्तिताविद्यमानवृत्तित्वम् अविद्यमानत्वम् एवाश्वत्वस्यादिशब्दसंगृहीतस्य । कस्य केषुचिद् वृत्त्यवृत्तितेति अपेक्षायाम् उक्तं 4 गोत्वादेर् इ [31 . 22]ति । अनिमित्ते [54] ति काकाक्षिन्यायेनोभयत्रापि वृत्त्यवृत्तितायां बुद्धाव् अपि संबध्यते । तेनायम् अर्थो यथा गोत्वादेः केषुचिद् वृत्त्यावृत्तितानिमित्तापि नियामकसामान्यरहितापि तथा [31 . 22] तद्वद् बुद्धि [31 . 22]र् अभिन्नाभासा धीरनिमित्ता जनकगोत्वसामान्यशून्यानादितथाविधवासनासामर्थ्यात् केषु 5 चिद् एव भविष्यती [31 . 22]ति । तेन विषयं विना कुतोत्प(विना बुद्ध्युत्प)त्त्यभावेन तत् [31 . 25]सामान्यं ध्रुवं नित्यम् इच्छंति । यद् वा तेन कारणेन तत् सामान्यम् इच्छन्ति ध्रुवं निश्चितम् । तेनाभि न्नेन विषयेण विना अनुगमात्मिकानां बुद्धीनाम् उत्पादे को दोष इत्य् आह । ता हीति [31 . 26] । ता अभिन्नाभासा सामान्यबुद्धयः । अनेन सामान्याभावे तथाभूतबुद्ध्युत्पादे बाधकप्रमाणम् उक्तं परेण । असाव् एव वन्दीकृतम् अर्थं प्रतिकुर्वन्न् आह -- न त्व् इति [31 . 27] । वृत्तिर् नियतेति प्रकरणात् । न दुष्यती [31 . 27]ति ब्रुवतो ऽयं भावस् तदन्तरेण तथाविधबुद्द्युत्पादे मिथ्यात्वदोषोस्ति बाधकः । सामान्यस्य [31 . 27]
तु सामान्यान्तरेण केषुचिद् एव वृत्तौ किम् अस्ति बाधकं येन तत्रान्य 7 सामान्यम् अभ्यनुजानामीति । असौ [32 . 1] मिथ्यात्वप्रसक्तिदोषो न तथागत सिद्धान्ततीति परिशुद्धबुद्धीन् अ [32 . 2]स्मदादीन् बाधते व्यथयति । कस्माद् इत्य् आह सामान्ये [32 . 2]ति । यद्य् अपि पूर्ववत् सामान्यबुद्धेर् मिथ्यात्वव्यवस्थानिबन्धनं प्रमाणं मात्रया दर्शितं तथापि बहुमुखम् एवास्या मिथ्यात्वव्यवस्थापकं प्रमाणम् अस्तीति प्रतिपादयितुं तथाही [32 . 3]त्यादिनो 8 पक्रमते । साम्ना [32 . 4] गलकम्बलः । आदि शब्दात् ककुदादिपरिग्रहः ।[55] नासाधारणं सामान्यरूपताहानिप्रसङ्गात् । नोदयव्ययप्रसङ्गयोगि नित्यत्वाभावप्रसङ्गभावाद् इति बुद्धिस्थम् । इतिः [32 . 8] अनन्तरोक्तं प्रत्यवमृषति । कुतो न युक्तम् इत्य् आह विरुद्धे [32 . 9]ति । अमुम् अर्थं सातिरेकं कारिकाभिर् वक्तुं पर {प्. 286} मुखेनाह ने (-खेनाह आहचे) त्यादि । नाश इति व्यक्ते[19अ] 1 र् इतिप्रकरणाद् द्रष्टव्यम् । अजातता [32 . 10] केनेष्ठे [32 . 11]ति लिङ्गविपरिणामेन संबन्धनीयम् । केन [32 . 11] कारणेन । तद्वद् व्यक्तिवत् । अनन्वयो [32 . 11] व्यक्त्यन्तराननुगामित्वम् ।
__________नोतेस्__________
[53] "मिथ्यात्वप्रसङ्गदोषः" -- स्
[54] "अनिमित्ता" -- स्
[55] न चासा--- स्
ननु च "सामान्यान्य् अपि चैतानि नाशीन्य् आश्रयनाशत" [श्लोकवा. पृ. 380] इति वचनान्मीमांसकैर्व्यक्तिनाशे नाश इष्ट एवेति किम् उच्यते व्यक्तिनाशे ऽनाशः । केनेष्ठे(ष्ट इ)ति प्रकृतं मीमांसकमतम् इति । सत्यम् एत 2 त् । केवलम् एवंवक्तुर् अयम् आशयः यद्य् एकं सामान्यं ततो भिन्नञ्चाभिन्नञ् च संगच्छते तदा व्यक्तिरूपेण व्ययते तद्व्यतिरिक्तेन च रूपेणानुवर्तत इति स्याद् अपि यदि परं मनोमोदकोपयोगमात्रवद् एतद् इति । एतच् चाधस्ताद् यथावसरम् इहैव प्रतिपादयिष्यते । अत एव च कैश्चिन्नैयायिकाइर् नाशीनीत्य् उपलभ्यानीत्य् एतद् अर्थं 3 कुमारिलेनोक्तं व्याख्यातम् इति ।
व्यक्तिजन्मनि जन्मानिष्टौ सामान्यस्य दूषणम् इदम् उपस्थितम् इति दर्शयन्न् आह -- व्यक्ती [32 . 12]त्यादि । जातिर् इति वक्ष्यमाणापेक्षया स्त्रीलिङ्गेन निर्देशः । निष्क्रियत्वाज् जातेर् इत्य् अभिप्रेत्य नागतेत्य् अभ्युपगमयति । प्राग् [32 . 13] व्यक्त्युदयात् पूर्वम् । दृश्याया अनुपलब्धत्वाद् इत्य् अभिप्रायेण च नासीद् इत्य् उ 4 [32 . 13] पगमयति । चेदि [32 . 12]त्य् अत्रापि संबध्यते । तस्या व्यक्तेर् उत्पद्यमानाया देशो दिश्यते ऽस्मिन्न् इति कृत्वाधार उक्तः । अनेनैतद् दर्शयति । तत्संबब्धोरु(?)बन्धनेन वा प्रकारेण भवेत् स चैकोपि न भवतीति । सा जातिः तया व्यक्त्या सङ्गता संबद्धा कथं [32 . 13] न कथञ्चित् । तज्जन्यजन्मनि सामान्यस्येष्यमाणे 5 तादात्म्यं तावद् अतिभवान् न(तावद् भेदान् न) युज्यते । तत्सम्बन्धमात्रम् अपि न संगच्छत इत्य् अभिप्रायो ऽस्यैवं च वदितुर् बोद्धव्यो ऽन्यथामीमांसकमतेतादात्म्याद् अन्यस्य सम्बन्धस्यानिष्टेर् आगताश्रयान्तरादित्यादिद्वारा सम्बन्धमात्रनिषेधो ऽनुपयुक्तः प्रसज्येत प्रस्तुतञ् च तन्मतम् इति । व्यक्तिनाशे ऽविनाशित्वेष्तौ 6 च सामान्यस्ये(स्या)यं दोषः स्याद् इति दर्शयन्न् आह व्यक्ति (क्तीति) [32 . 14] । निष्क्रियत्वाद् इत्य् अभिप्रायेण नागते [32 . 14]त्य् आह । तच्छून्ये [32 . 14] नष्तव्यक्तिरहिते दृश्यादर्शनाभिप्रायेण च न स्थिते त्य् आह । क्वेति [32 . 15] काकाक्षि(काक्वा) प्रश्नयुक्तः कथं(कथ)नाशक्यत्वं प्रतिपादयति । जातेर् व्यक्त्यात्मकत्वोपगमे तदुदयव्यययोस् तदन्वय 7 व्ययौ न स्याताम् । सत्याञ् च तद्विष्ताव् अयम् अयञ् च दोष इति प्रतिपाद्य तत्तदिष्टौ च जातेस् तादात्म्योपगम एव जघन्य इति प्रतिपादयन्न् आह व्यक्ते [32 . 16]र् इत्यादि । सा व्यक्तिर् आत्मा स्वभावो यस्य तद्भावः । अनुपप्लुतं [32 . 17] वाद्यादिभिर् अप्रापितास्वास्थ्यं चेतो {प्. 287} येषां तेषाम् । कथम् इष्टम् । क्षेपे चायं किमः प्रयोगः । उपप्लुतचेत 8 साम् एवमीमांसकानामिदम् इष्टम् इति सामर्थ्याद् दर्शितम् । प्रमाणासि(मासि)द्धौ प्रकृष्टं कारकं प्रमाणम् उच्यते ऽविशेषाधायित्वे च साधकतमत्वाभावात् कथम् अस्य तत्त्वं स्याद् इत्य् आशयः ।
नैवै [32 . 27]ति व्याचक्षाणश् च [32 . 27]कारम् अवधारणे दर्शयति । लिङ्गग्रहणात् तरकालभाविनो [32 . 28] विकल्पस्येति प्रकरणात् । तस्मिन् विकल्पे [19ब्] 1 प्रतिभासनात् तस्य सामान्यम् इति प्रकाशितम् । संबद्धसंबन्धाद् इत्यादि पूर्वोक्तः प्रकारः । व्यक्तिस्वभावत्वे तस्य कथं तदकर्तृत्वम् इत्य् आह तस्येति [33 . 3] । कल्पितं विकल्पेन घटितं रूपं [33 . 3] स्वभावो यस्य तस्य । तदसंभवाद् [33 . 3] रञ्जनाद्यर्थक्रियानुपपत्तेः । सर्वनित्यसाधारणदूषणम् इह समुच्चिन्वन्न् आह । नचे [33 . 4]ति । अन्या [56] चे [33 . 5]ति तदेकसाध्यतयोपगताभिन्नज्ञानाभिधानल 2 क्षणम् अवसेयम् । इति [33 . 6]र् एवम् अर्थो मन्यते [33 . 6] चेतसि निधत्तेवार्त्तिककार इत्य् एवं ब्रुवाण इति चार्थाद् द्रष्टव्यम् ।
__________नोतेस्__________
[56] वेति स् ।
अनधिगतार्थविषयं प्रमाणम् इति प्रमाणलक्षणं परेण कारिकया दर्शितम् इति दर्शयन्न् आह तत्रापूर्वेति [33 . 11]. अहम् अहमिकया क्रिया आहोपुरुषिका तया [33 . 16] करणभूतया । तत्स्वलक्षणम् अस्पष्टरूपतया अनुकरोतीति तदनुकारी 3 ति विवक्षितम् इति प्रकट्यन्न् आह । अस्पष्टनीलस्वलक्षणानुकारी [33 . 27] अस्पष्टनीलस्वलक्षणाभासम् इत्य् अर्थः । सर्व एव हि विकल्पो ऽस्पष्टस्वलक्षणाभः । नीलादि पश्यतस् तु विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः, स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । यथा चैतत् तथोभे(चे) समीचीनम् आचार्यो 4 विनिश्चयम् इति (य इति) तत एवा[व]गन्तव्यम् । कथं पुनर् अस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत् स्पष्टस्वलक्षणानुकारीत्य् आशंक्य योज्यम् -- साक्षाद् [33 . 27] व्यवधानेन अनुत्पत्तेस् ततः स्वलक्षणाद् इति प्रकरणात् । यदि ततस् तन् नोत्पन्नम्, तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्त्य इत्य् आशंक्य योज्यम् -- दर्शने [33 . 17]ति । दर्शने 5 नामुधेना(नानुभवेना)हितः संस्कारो [33 . 27] वासना तस्या [57] वेध [33 . 27] आक्षेपस् तद्वशात् । चो [33 . 27] व्यक्तम् एतद् इत्य् आस्मिन्न् अर्थे ।
__________नोतेस्__________
[57] आधेय स् ।
ननु यत् तत्रावभासते तत् स्वलक्षणम् । येन स्पष्टनीलस्वलक्षणानुकारीत्य् उच्यत इत्य् आह दृश्ये [33 . 28]ति । दृश्यविकल्प्ययोर् एकीकरणात् । दृश्यविकल्प्याव् अर्थाव् एकीकृत्यास्य प्रवृत्तेर् इत्य् अर्थः । दृश्यविकल्प्यैकीकरणं 6 च तस्य तथोत्पत्तेर् एव द्रष्टव्यम् । तदवभासिनो ऽबाह्यत्वाद् एव न परमसावनुकरोतीत्य् आशयः । स [34 . 1] विकल्पः । त पो(पा)नालम्बने कथं गृहीतग्राहित्वलक्षणं स्म्र्तित्वम् इत्य् आशंक्याह तथाही [34 . 4]ति ।
{प्. 288} स्मृतिरूपत्वम् एवानुमानविकल्पस्य प्रतिपादयन् परः प्राह -- तथाहि [34 . 11]त्यादि । अग्नित्वादिना रूपणानवच्छिन्न् 7 अत्वात् अनग्निव्यवृत्तं वस्तुमात्रम् इत्य् आह महानसस् सूपकारशाला । आदि [34 . 12]शब्दादयस् कारकुट्यादेर् ग्रहणम् । प्राक् [34 . 15] पूर्वं व्याप्तिग्रहणकाल इत्य् आकूतम् । प्रदेशविशेषे पर्वतादौ । तद्वस् [34 . 13] अनुमानविकल्पवत् ।
नन्व् अधिगताव् अधिगन्तुर् अप्य् अनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यम् आवेदितम् एवति किम् अनेनोक्ता 8 नतिशायिनोक्तेनापीत्य् आशंक्याह एवं मन्यत [34 . 14] इति । पूर्वपक्षिणैतस्मिन्न् उक्तेप्य् एवं ब्रुवाणो नियतम् एवं वक्ष्यमाणकं मन्यते [34 . 14] चेतसि निवेशयति । यद् इ [34 . 14]त्यादिना मननीयम् एव दर्शयति । आदि [34 . 15]शब्दात् कालस्य परिग्रहः । साध्यधर्मिग्राहि [34 . 17] पर्वतादिग्राहि । दृष्टान्तधर्मिगाहि [34 . 17] महासादिधर्मिग्राहि । तत्र दृष्टान्तधर्मिग्राहिणा दर्शने[न] नैव [20अ] पर्वतादिविशिष्टम् अनग्निना व्यावृत्तं वस्तु गृहीतम् । नापि तदाह न पर्व(नापि पर्व)तादिसाध्यधर्मिग्राहिणान्वयाद्यवेदिनो(ना)पि । तथात्र विपत्ति (तथात्वे ऽविप्रतिपत्ति)प्रसंगात् तद्विशिष्टम् अनग्निव्यावृत्तम् वस्तु गृहीतम् इतिदर्शनान्वया(दर्शनद्वया)नधिगतम् उक्तम् । अयोगोव्यवच्छेदेन [34 . 18] संबन्धव्युदा...एन तद्विपरीतत्वाद् [34 . 20] अनुमानविकल्पविपरीतत्वात् । तेन यदा(था) डृ..यत्यैव निश्चयनात् ।
ननु वस्त्वधिष्ठानत्वाद् व [34 . 23]स्त्वालम्बनत्वाद् इत्य् अभिप्रेतम् । तथा चानुमानासंग्रहः इत्य् आह वस्त्वधिष्ठानत्वं चे [34 . 23]ति । चकारस् तुशब्दस्यार्थे । प्रमाणस्य व्यापारः प्रापणम् तस्य विषयस् तम् अभिप्रेत्योच्यते । नालम्बनलक्षणं [34 . 25] विषयम् अभिप्रेत्योच्यते इति सम्बन्धनीयम् । आलम्बनलक्षणं ग्राह्यरूपम् । उक्ताद् अन्येन प्रकारेण अन्यथा व्यापिनी सर्वप्रमाणासंग्राहिका । विप्रकृष्टो दे 3 शकालस्वभावैर् व्यवहितो विषयो यस्याः सा तथोक्ता ।
तत्रापी [35 . 1]त्यादि प्रतिविधानम् । विकल्परूपस्यैव वस्तुनो धर्मित्वात् । तस्यैव च तत्प्रधानत्वाद्यनुपादानत्वसाध्यत्वात् । तत्रापि प्रमाणव्यवस्थायास् तद् एव विकल्परूपं वस्त्वधिष्ठानम् अस्तीति समुदायार्थ । दर्शनविधिप्रतिषेधविकल्पानां दर्शनस्यैव 4 प्रामाण्यं नेतरयोर् इति प्रकृतम् । उक्तञ् च "तत्र तदाद्यम् एव"[25 . 11] इत्यादिना । तत्कुतो ऽस्य वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनस्यार्थोत्पा(स्योपपा)दनम् इत्याशंक्य संगति दर्शयितुम् इदं चे [35 . 12]त्यादिनोपक्रमते । तस्य अनधिगतवस्तुरूपाधिगन्तृत्वस्य असि द्धता । तस्या उद्भावनं [35 . 16] प्रकाशनं तदर्थम् । {प्. 289} तस्यैव [35 . 20] स्वलक्षणस्यैव । सामा 5 न्यस्याप्य् अर्थ्क्रियास(सा)मर्थ्यलक्षणत्वात् तद्विषयोपि विकल्पः प्रामाण्यान्नापैतीति पूर्वपक्षम् उत्पश्यन्न् एवं ब्रुवाणः किं मन्यत इत्य् आह सामान्यस्येति [35 . 21] । तद्विपरीतत्वाद् अ[35 . 21]र्थक्रियासामर्थ्यलक्षणविपरीतत्वात् । यथा च तस्यार्थक्रियाकारित्वसंभवि तथा पुरस्ताद् उक्तम् इति । गूढाभिसन्धिश् चैवं मन्यत [35 . 21] इति द्रष्टव्य 6 म् । ततोपि [35 . 23] वस्तुन्य् एव [35 . 24] पुरुषस्य प्रवृत्तेर् इ [35 . 23]ति संबन्धः । तत्सामर्थ्यजन्मा विकल्पो न प्रमाणम् इ [35 . 23]ति साध्ये च हेतुपदम् एतत् । कथं प्रवृत्तिर् इत्य् आह तदध्यवसायेने [35 . 24]ति । कस्मात् तदध्यवसायेन प्रवृत्तिः कल्प्यते इत्य् अन्यथे [35 . 25]ति । तत्र [4 । 35 . 24] स्वलक्षणे पूर्वस्या उपपत्तेर् अस्याश् च तुल्यत्वात् किम् अनेन पुनर् उक्तेने 7 त्य् आह पूर्वम् इ [35 . 27]ति । एतञ् च शाब्दीं गतिम् आश्रित्य भेदो दर्शितो द्रष्टव्यः । अथार्थाभेदात् किं मुखभेदमात्रेण भेदेनोपदर्शितेनेति निर्बन्धस् तद् एवोच्यत इत्य् अभिप्रायवान् आह यद् वे [36 . 1]ति । किम् इती [36 . 6]तिनिपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते ।
स्याद् एतत् स्वलक्षणे निर्विकल्पकविषये प्रवर्तयन्न् अपि तदनुभवात् प्रमेया 8 न्तरविषयः सन् प्रामाण्यं प्राप्स्यतीत्य् आशंक्याह अयम् अस्याभिप्राय [36 . 12] इति । तत्रैव [36 . 13] प्रमेयान्तरे स्वविषय एव[58] प्रवर्तयेद् इ[36 . 14]ति । सम्भावनपदम् एतत् । शक्यार्थं वा । किं कर्तुं प्रवर्तयेद् इत्य् आह -- रूपं [59] तत्साध्यम् इ[36 . 14]ति । प्रमेयान्तरमात्रं तद्विषयम् अभिप्रेत्य तत्रैव प्रवर्त्तयेत् तत्साध्याम् अर्थक्रियाम् अधिगन्तु म् इ[36 . 14]त्य् उक्तम् अधुना तु यदि सामर्थ्य[20ब्](सामान्य) 1 लक्षणं तत्प्रमेयान्तरं तदा नैव वा [36 . 14] इत्य् उक्तम् । नैव वा प्रवर्तयेत् न स्वलक्षणे नापि सामान्ये न क्वचिद् अपीति प्रवृत्तिमात्रप्रतिषेधाद् घ्रियते ।
__________नोतेस्__________
[58] प्रवर्तयतु स् ।
[59] तत्साध्याम् अर्थक्रियाम् स् ।
यद् वा पूर्वं सामान्यसाध्याम् अर्थक्रियामनाकल्य्याभिहितम् तत्रैव [36 . 13] इत्यादि । इदानीं तु तत्साध्याम् अर्थक्रियामाकाल्य्योक्तम् -- नैव वे [36 . 14]ति । कस्माद् एवाम् इत्य् आह -- तद्विषये [36 . 15]ति । तत्सिद्धय एव प्रवर्तयिष्यतीति आह विकल्पे [36 . 16]ति । तत्सि 2 द्धे [36 . 14]र् अभिन्नज्ञानलक्षणाया अर्थक्रियाया निष्पत्तेः । सामार्थ्याच् चाभिन्नाभिधानलक्षणायाश् चेत्य् आभेदम् (श् चेत्य् अपि वेद्यम्) ।
ननु ततः प्रमेयान्तरविषयोपि प्रत्ययस् तद्विषये प्रवर्त्तयन्निष्पादितस्वविषयार्थक्रियो वा क्वचित् प्रवर्त्तयन् प्रामाण्यम् अपि प्राप्स्यतीत्य् आह -- नही [36 . 16]त्यादि । प्रत्यया [36 . 17] इत्य् अत्र बहुवचनेन साकल्यं दर्शयति । साधिता निष्पादिता अर्थक्रिया [36 . 18] । {प्. 290} स्वविषयार्थक्रि 3 या येषान्ते तथा, तेषां क्वचिद् अपि [36 . 19] न प्रवर्तयन्ती ति पूर्वकेणाभिसम्बन्धः । विशेषेण [36 . 19] विशेषेष्यैव यैर् मीमांसकैर् एवं व्याख्या [ य ] ते [36 . 19] तेषां मत इति सामार्थ्यात् । द्व्यात्मकस्य [36 . 21] सामान्यविशेषात्मकस्य । विज्ञानाभिन्नहेतुत्वाद् इच्छादेर् विज्ञानात्मकं(कत्वं) सिद्धम् अभिप्रेत्य प्रामाण्यानुषङ्गः कुतो(कृतो) वेदितव्यः । प्रमाणानामियत्ता [36 . 26] व्य 4 वच्छेदः ।कुमारिलमतेन प्रत्यक्षानुमानोपमानार्थापत्तिशाब्दाभावाः षड् एव प्रमाणानीत्य् एवंरूपा विशीर्येत [36 . 27] त्रुट्येत् । धारया प्रवाहेन वहनशीलानि [37 . 1] भवनधर्माणि । अनेकान्तस् तद् अभिन्नयोगक्षेमत्व लक्षणो हेतुर् इति प्रकरणात् । एकस्मिन्न् अर्थे सजातीयानि सजातीयविजातीयानि वा 5 प्रमाणानि संप्लवन्ते प्रवर्त्तन्त इति वादी [37 . 5] । प्रतिक्षणं [37 . 7] भिद्यत [37 . 8] इति सम्बन्धः । केषां क्षणिविशेषे(ष)साध्ये ऽर्थे वाञ्छा भवति । यद्य् अस्मदादीनां तथार्थादर्शित्वाद् एव न संभवतीत्य् आह योगिनामि इ[37 . 11]ति । योगश् चित्तैकाग्रता स येषाम् अस्ति तेषाम्, नित्ययोगे प्रशंसायां वाय[मि]निर्द्रष्टव्यः । शमथविपश्यने वा योगस् तद्व 6 ताम् । ननु तेषां स्वार्थासंभवात् किम् अभिप्रेत्यास्मिन् वाञ्छा भवतीत्य् आह -- परे [37 . 11]ति ।
अथ परोपकारिणः परेषाम् एवोपकुर्वन्तु कस्मात् पुनः क्षणविशेषसाध्यम् अर्थं प्राप्तुं परिहर्त्तुं वाभिलषन्तीत्य् आह कस्यचिद् इ[37 . 12]ति । कस्यचित् क्षणविशेषसाध्यस्यार्थस्य कथं चित् साक्षात् पारंपर्येण वोपयोगाद् उप [37 . 12]युज्यमान 7 त्वात् । क्वचित् [37 . 12] प्राणिनीति प्रकरणाद् अवसेयम् । अनेन परोपकाराङ्गत्वं तस्य दर्शितम् । तदा [37 . 12] नानायोगक्षेमत्वम् इति सम्बन्धनीयम् । तदेत्य् अत्रच्छेदो व्यक्त एव । एतद् एव निदर्शयन्न् आह -- यथे [37 . 12]ति । सामान्योच्छेदस्यार्थस्य विषयोपदर्शने यथैतद्दर्शितम्, तथान्यद् अपि द्रष्टव्यम् इति यथाशब्दस्यार्थः ।
भावनामार्गव्युदासेन[60] दर्शनमार्ग [37 . 12] इत्य् उ 8 क्तम् । दुःखे धर्मज्ञानक्षांतिः, दुःखे धर्मज्ञानम् । दुःखे ऽन्वयज्ञानक्षांतिः, दुःखे अन्वयज्ञानम् । समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम् । समुदये ऽन्वयज्ञानक्षान्तिः, समुदये ऽन्वयज्ञानम् । निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम् । निरोधे ऽन्वयज्ञानक्षान्तिः, निरोधे ऽन्वयज्ञानम् । मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञान[म्] । मा[21अ] 1 र्गे ऽन्वयज्ञानक्षान्तिर् इत्य् एवं पञ्चदशक्सणा दर्शनमार्गः तदुक्तमभिधर्मकोशे "अदृष्टदृष्टेर् दृङ्मार्गस् तत्र पञ्चदशक्षणाः" [अक्. 6.28] इति । तस्मिन् दर्शनमार्गे फलभूताः पञ्चसंक्लेशस्कन्धाः । दुःखाख्यं सत्यम् । {प्. 291} तस्मिन् दुःखे धर्मज्ञानक्षान्तिः [37 . 13] स्वरूपज्ञानयोग्यता । दुःखसाक्षात्संका(क्षात्का)रिज्ञानोपजननयोग्यः कुशल इति यावत् ।
__________नोतेस्__________
[60] अत्र विशेषार्थिना विसुद्धिमग्गो ऽनुसतव्यः पृ. 359 ।
स क्षणः किं करो 2 तीत्य् आह ।[61] दशानाम् इ[37 . 13]ति । राग-प्रतिध-मान-अविद्या-विचिकित्सा पञ्च, सत्कायदृष्टि-मिथ्यादष्टि-अन्तह्राहदृष्टि-दृष्टिपरामर्ष-व्रतपरामर्षलक्षणा दृष्टयः -- दशानुशयाः एषाम् वासनां निरोधयति [37 . 13] विनाशयति । कथं करोतीत्य् आह । तद्विरुद्धे [37 . 14]त्यादि । तैर् अनुशयैर् विरुद्धो ऽयम् आशयश् चित्तसंतत्यवस्थाविशेषस् तस्यो 3 त्पादनात् । दुःखे धर्मज्ञानक्षान्तिक्षणस्यार्थक्रियाम् उपदर्श्य दुःखे धर्मज्ञानक्षणस्य ततो भिन्नाम् अर्थक्रियां दर्शयितुम् आह -- दुःख [37 . 14] इति । दुःखे धर्मज्ञानं [37 . 14] दुःखस्वरूपसाक्षात्कारि(र)प्रवृत्तज्ञानम् । निर्वाणं [37 . 15] मोक्षः प्राप्यते अनयेति व्युत्पत्त्या, निर्वाणस्य प्राप्तिर् यस्माद् इति व्युत्पत्त्या वा तावत् क्लेशविविक्तता निर्वाण 4 प्राप्ति शब्देनोक्ता । दर्शनमार्गप्रहेयाणां द्वात्रिंशतः क्लेषानां मध्ये ऽनेन दशानां एव क्लेषानां वि(नि)रोधाद् दग्ध(द् दश)क्लेशविविक्ततानाततस्यात् पादनात (?) समुदयादिज्ञानादिप्रहातव्यक्लेशप्रहाणिप्रतिरूपा निर्वाणभावस्य दवीया(यः) सिद्ध्यवस्थानाद् अन्यथाइतद् असमंजसं स्याद् इति । अथवा निर्वाणशब्देन नैवार्चटःपरमनिःश्रयसात्मने यद् एवम् ऊचे किंत्ववान्तरनिःश्रेयसं तथाभूतम् इति न किञ्चिद् अवद्यम् । कथं तथाकरोतीत्य् आह अनुशयति [37 . 15] । सति तस्मिन् मनागपि ते पुनर् नोत्पद्यन्ते । अपि तु तद्विविक्त एव क्षणप्रबन्ध इति तदा सुदार्ड्ःयापादनं तस्याधीसयम् (?) । पूर्वकेन च क्षणेन क्लेशा निष्क्लेशिता उत्तरेण तु यथा ते 6 पुनर् न प्रविशन्ति, तथा आचरितम् इत्य् अनयोर् व्यापारप्रयोजनम् । अतएवाभिधर्मकोषे "चौरनिष्काशनपाटपिधानवद्" इति (अक् 6.28 भ्) दर्शितम् । दुःखे धर्मज्ञानक्षान्तिधर्मज्ञाने च कामावचरक्लेशप्रतिपक्षतया ज्ञातव्ये दुःखे धर्मज्ञानक्षान्तिधर्मज्ञानयोर् उदाहरणा(ण)दिङ्मात्रत्वेन अन्येषाम् अपि तथा विवि 7 क्तत्वाद् एषाम् इ[37 . 16]ति बहुवचनेनाह ग्राहकाण्यालम्बकानि । कानि पुनस् तानि ग्राहकाणीत्य् आह परे [37 . 16]ति । परचित्तविषयाणि ज्ञानानि परचित्तज्ञानानि [37 . 16]
।
__________नोतेस्__________
[61] दमानां स् इति त्व् असम्यक्
एतद् उक्तं भवति । दर्शनमार्गम् अधिगच्छतो दुःखे धर्मज्ञानक्षान्त्यादिक्सणाः । क्रमभाविनः क्रमभाविभिर् ज्ञानैर् योग्यंतरेण यद् आलम्ब्यते परार्थोद्देशेन तथा तद्विषयाणि त 8 द्योगान्तरज्ञानानि पृथग् एव [37 . 16] पूर्वपूर्वज्ञानाद् भिन्नान्य् एव प्रमाणानीति दर्शनमार्गाधिगन्तृक्षणविषयाणां योगिज्ञानानां पृथग् एव प्रामाण्यम् इति प्रतिपाद्य संप्रति सामान्येनैव योगिज्ञानानि भिन्नार्थक्रियासामर्थ्यक्षणविषयाणि सर्वाण्य् एव प्रमाणानीति प्रतिपादयिष्यन्न् आह -- परहिते [37 . 17]त्यादि । {प्. 292} भगवताम् [37 . 18] अध्यक्षचेतसां नानायो [21ब्] 1 गक्षेमत्वात् [37 . 21] । पृथग् एव प्रामाण्यम् इति शेषः प्रकरणलभ्यं वा । अधिकरणे चेयं षष्ठी । तेन भगवत् सम्बन्धीनि यान्य् अध्यक्षचेतांसि साक्षात्कारप्रवृत्तानि ज्ञानानि तेषाम् इत्य् आर्थः । किंभूतानां भगवताम् इत्य् आह सर्वे [37 . 19]ति । सर्वभावान् भावनाबलजेन ज्ञानेन प्रतिक्षणमी [62] क्षमाणानां [37 . 20] पश्यताम् । कथं तेषां नानायोगक्षेमत्वम् इत्य् आह तद्विषये [37 . 20]ति । तेषां भगवत् स 2 म्बन्ध्य ध्यक्षचेतसां [37 . 20] ये विषयाभिन्नाः क्षणास् तषां भिन्नास्वर्थक्रियासूपयोगतो [37 . 21] व्यापारात् । अनेन विषयस्य तथात्वाद् विषयिणस् तथात्वम् उक्तम् अवसेयम् । कस्मात् पुनस् ते प्रतिक्षणं भावान् वीक्षन्त इत्य् आह -- कश्चिद् एवे [37 . 18]ति । इतिः [37 . 19] हेतौ । अनुग्राहकविबन्धकानुरूपम् आचरितुम् इत्य् अर्थाद् एव स्थितम् ।
__________नोतेस्__________
[62] -क्षणं वीक्षमाणानां -- स्
ननु तथापि सिद्धार्था भगवन्तः स्वार्थमणी 3 यांसम् अप्य् अपश्यन्तः कस्यचित् क्षणस्य कस्यचित् प्राणिनो ऽनुग्राहकत्वे विबन्ध[क]त्वेपि कस्माद् भावान् प्रतिक्षणं वीक्षन्त इत्य् आशंक्यतेहे(क्य हे)तु भावेन भगवद् विशेषणपदम् आह परहिते [37 . 17]ति । परस्मै हितमायति पथ्यं तस्याधानं करणम् । तस्य दीक्षा अनुष्ठेयम् एवैतद् इति नियमस् तद्वताम् । नित्ययोगे चायं मतुप् 4 । ज्ञानम् एव सदसद्विवेककरणाद् आलोक इव् आलोक स् तेन् आवभासित उद्योतितो ऽन्तरात्मा येषान् तेषाम् [37 . 18] अन्तरात्मेति लोकभाव(न)योक्तं परमार्थ(त)स् तु तथाभूतज्ञानाव् अलोकवताम् इत्य् अर्थः ।
अशब्दविषये प्रथने वाच्ये वेः परात्स्तृणातेर्घञो ऽभावाद् वस्तुविस्तर इत्य् असाधुर् अयं प्रयोग इति 5 चेत् । तत् तु नातिश्लिष्टम् । यतः सूत्रे प्रथनं विस्तीर्णत्वम् अभिप्रेतम् । तद् आहकाशिकाकारः"प्रथनं विस्तीर्णता" इति । न चात्र विस्तरशब्देन वस्तूनां विस्तीर्णत्वम् अभिप्रेतम् अपि तु बाहुल्यं यथा तृणस्य विस्तर इत्य् अत्र । अतएव "प्रथन इति किं? तृणविस्तर" इति प्रत्युदाहृतम् । अस्य चार्थंभागवृत्तिकारोपि अञ्जसा 6 व्य(सा व्या)ञ्जीत् "तृणस्य विस्तरो बाहुल्यम् इत्य् अर्थः" । तत् कथम् अप्रथने वर्त्तमानाद् अस्माद् धातोर् घञ् भवितुम् अर्हतीति । अतएवप्रज्ञाकरगुप्तोपिवार्तिकालङ्कारस्यादौ "प्रायः प्रस्तुतवस्तुविस्तरभृतो नक्षन्त एवोच्चकैर् वक्तारः" इत्य् अवोचद् इति ।
किं सर्ववेदिनो ऽधिकृत्य भवतायं हेतुर् अनेकान्त उच्यते, अ 7 थास्मदादीन् इति विकल्पयोर् बुद्धिस्थीकृतयोः पूर्वस्मिन् विकल्पे प्रतिसमाधायापरस्मिन्न् अपि प्रतिविधातुकामः तद् यदी [37 . 21]त्यादिनोपसंहर्तुम् उपक्रमते । क्षणानां विवेकः पृथक् त्वं तद् द्रष्टुं शीलं येषां तान् अधिकृत्यो [37 . 21]द्दिश्य उच्यते ।
{प्. 293} प्रकरणात् "पूर्वेणाभिन्नयोगक्षेमत्वाद्" इति हेतुर् अनैकान्तिक इत्याख्यायते । तदा "नानेकान्तः स हेतुर्" इति 8 प्रकरणात् । विपक्षगमनाभावाद् इति भावः । अथे [37 . 23]ति पक्षान्तरम् उपक्षिपति । संव्यवहारः प्रवृत्तिनिवृत्तिलक्षणम् अनुष्ठानं प्रयोजनं येषां तान् [37 . 23] । परमार्थतो भेदकारणम् उक्तम् अन्यान्यकारणतये [38 . 5]ति । तत्राद्य एव प्रमाणम् । न सम्यञ्चो ऽपि पराञ्चः प्रत्यया इति समर्थयितुं तथाही [38 . 8]त्यादिनोपक्रमते । तत्साधन [38 . 8]म् अर्थक्रियासाध[22अ] 1 नं तस्य प्रापणं तत्र समर्थे [38 . 9][63] अक्लीवा विद्यमानविप्लवा धी [38 . 10]र् येषाम् ते तथा तेषां प्रेक्षापूर्वकारिणाम् इत्य् अर्थः अर्थ स्य क्रिया निष्पत्तिस् तस्याः साधनं निष्पादकं तस्य भेदो भिन्नत्वात् । संधुक्षण [38 . 16] संदीपनमादिशब्दात् पवनस्वेदनादिपरिग्रहः ।
__________नोतेस्__________
[63] "अक्लीवधियां" इति आलोकसंमतः पाठः । "अविक्लवधियां" इति स्
यद्य् एवम् इ [39 . 18]त्यादि यच् चोद्यम् । तथाही [406 ? ]त्यादि
प्रत्यक्षं प्रमाणम् अभ्रान्तम् इत्य् उक्तं भवतीति वक्त 4 व्यम् । अनन्तरोक्ताद् एव कारणकलापात् । प्रत्यक्षलक्षणानुक्तौ च प्रत्यक्षस्यैवानभिधाने परोक्षप्रतिपत्तेः सर्वस्या अनुमाने ऽन्तर्भावप्रदर्शनेपि कथं प्रमाणद्वैतमाख्यातं भवति? दर्शनम् एव प्रमाणम् इत्याख्यानाच् च नाज्ञानम् इन्द्रियादि प्रमाणम् इति दर्शितं भवति । भिन्नायास् तु प्रथमायाः कथम् अपाक 5 रणम्? किं च मुख्यवृत्त्या यद् उद्दिश्य शास्त्रं प्रवर्तते तद् अर्थं तद् उच्यते । न तु सामर्थ्यानुषंगतो वा यद् व्युत्पादयति तद् अर्थं तद् उच्यते । न च प्रत्यक्षव्युत्पादनाभ्युपगमेपि मुख्यवृत्त्या तद्व्युत्पादने प्रवृत्तम् इदम् इति कथं सामान्येन सम्यग्ज्ञानव्युत्पादनार्थम् उच्यते । अन्यथा अनुमानव्युत्पादनार्थत्वेपि तस्य सामर्थ्याद् अनु 6 मानाभासप्रतिपादनम् अनुषङ्गतो विकल्पस्य धारावाहिनाञ् च पराञ्चा(पराचां)विकल्पज्ञानानां प्रमाणाभासत्वप्रतिपादनम् अस्तीति अनुमानतदाभासव्युत्पादनार्थम् इति प्रमाणाप्रमाणव्युत्पादनार्थम् इति वा किं नोच्यते? यद्य् अ(यद)प्य् अन्यत् सम्यग्ज्ञानव्युत्पादनार्थम् अभिप्रेतम्, तत्रापि कल्पनाप्रवृ(भृ)तोर् मिथ्याज्ञानस्यापि 7 प्रसंगतो व्युत्पादनम् अस्तीति तद् अपि सम्यग्ज्ञानव्युत्पादनार्थम् इति किं नोच्यत इति यत् किञ्चिद् एतत् । तथा यद्य् अनुमानतस् तथाभूतस्य निश्चयात् तस्य प्राधान्यम् उच्यते, तदा प्रत्यक्षतो धर्मिग्रहणं व्याप्तिग्रहणञ् चान्तरेण नानुमाने प्रवृत्तिर् अस्तीति तस्यापि किं न प्राधान्यम् उच्यते? न च तस्यापरभावात् प्राधान्यकल्पना ज्यायसी । कि 8 ञ् च तद् अपि तत्त्वे निश्चायकम् अनुमानं समस्ततत्त्वनिश्चायकसाक्षात्कारप्रवृत्तप्रत्यक्षाङ्गम् उपसर्जनम् । तद् एतभूयेयं (?) प्रधानं भवितुम् अर्हतीति कथं विपर्यस्तास् तत्त्वविदः ।
अपि च स्वसंवेदनं प्रत्यक्षाम् अन्तरेण सर्वथा न कस्यचित् तत्त्वव्यवस्थानम् इति तस्याइव प्राधान्यं किं न कल्प्यत इति । स हि मिथ्याज्ञानं प्रत्यक्षस्य विषयो [22ब्] 1 यत(त्र) तेनानुरूपो निश्चयो जनितः न च तत्र विवादः संभवति येनानुमानात् तन्निश्चयः पार्थ्यते । {प्. 294} अथोत्तरकालभाविनः संशयस्यानुमानतो निरासात् तस्य तथात्वम् उच्यते । तर्हि प्रत्यक्षस्यातिशयेन तद्वाच्यम्, तत्संशयोनो(यानु)त्पादस्य प्रत्यक्षनिबन्धनस्य बहुलम् उपलम्भात् । अथ तदा तत्प्रत्यक्षं गृहीतग्राहितया न प्रमाणव्यपदेशयोग्यं सत्सशयं निरस्य 2 ति अनुमानम् अपि तथैवेति किम् अनेनोक्तेन? न च क्षणिकत्वादि प्रत्यक्षस्य विषयो येनानुमानतस् तन्निश्चयात् प्राधान्यं तस्य कल्प्येतेत्य् अलं बहुना । प्रत्यक्षस्यापि पटुनः प्रवर्तकत्वात् किं न प्राधान्यं? नहि योग्यता योग्याद् वस्तुनो ऽन्या या परोक्षा सती तेन निश्चेतुम् अशक्यान्येन निश्चीयेत तन्निश्चायकं तज्ज्ञानम् अन्यत् प्रमाणं सद् अनुमानं स्यात् । किन्तु 3 योग्यम् एव वस्तु योग्यता, यथा च प्रत्यक्षस्यार्थस्यैकप्रकारा प्रतिपत्तिस् तथाचार्येण स्वयम् एवान्यत्र दर्शितम् । अथ यद्य् अपि योग्यता योग्यवस्तुस्वभावा तथापि परोक्षफलसव्यपेक्षा परोक्षेति । ननु फलस्य परोक्षत्वे सा किं परमार्थतः परोक्षा किं वा परोक्षकल्पा? तत्र यदि परोक्षंमते (?) परोक्षैव तदा प्र 4 त्यक्षपरोक्षयोर् एकात्मतानुपपत्तेर् भिन्नैव स्यात् । यथामीमांसकानांकार्यार्थापत्तिसाधना । अथ परोक्षैव; कथं पुनः प्रत्यक्षस्वभावा परोक्षैव । तन्निश्चयस्य कर्तुम् अशक्यत्वाद् इति चेत् । यदि नामाभ्यासात् पूर्वं निश्चेतुम् अशक्या तथाप्य् अभ्यासदशापन्नेन पटीयसा प्रत्यक्षेण स्वतो ऽपसारितभ्रान्तिनि 5 मित्तेन किं न निश्चीयते? फलम् अपि तस्य दाहादि नात्यन्तपरोक्षम् अन्यत्र तत्कृतस्य तस्यानेकशो ऽनुभवात् । अत एवाभ्यासेन तत् पटुतरं जातम् । नत्वम् अभ्यु(न तु अभ्यु)दयादि दानचेतनादिकार्यत्वेन निश्चितं केनचिद् येन तत्राप्य् अभ्यासात् तथानिश्चयः स्यात् । यावत् आत्यन्तपरोक्षम् एव । अतस् तदपेक्षया दानचेतना 6 शक्तेर् अनिश्चयो युक्तः । तद् अयम् अर्थो येनासकृद् वह्न्यादेर् दाहाद्यनुभूतं स तदा फलस्य परोक्षत्वेपि दाहादिजननयोग्यम् एतद् इति प्रत्यक्षेण निश्चिनोत्य् एव । यथा चानभ्यासावस्थायां
पूंसः कृत्तिमाकृत्तिममुक्तादिप्रतिपत्तेः परोपदेशापेक्षणात् स्वतो ऽसंभवेपि सत्य् अप्य् अभ्यासे स एव पुरुषः पुरुषा 7 न्तरनिरपेक्षो मुक्तादेः कृत्तिमादिरूपतां स्वयम् एव प्रतिपद्यते । तथानभ्यासावस्थायां स्वतस् तद्योग्यतानिश्चयेपि अभ्यासादितः पटिमप्रत्यक्षं स्वयम् एव तद्योग्यं निश्चाययिष्यतीति किं नानुमन्यते । आह चात्रभर्तृहरिः"मणिरूप्यादिज्ञानं तद्विदां नानुमानिकम्" इति । किञ् च न व्याप्तिस्मरणम् अन्तरेणानुमानं प्रवर्तते । न चाग्न्या 8 दि वस्तु दृष्ट्वा तत्साध्यार्थक्रियावाञ्छया प्रवृत्तौ यद् यद् एवम् अर्थक्रियाकारि यथा महानसादि दृष्टं तद्वस्त्व् इति प्रवृत्तौ(त्तेः) प्राग्व्याप्तिस्मरणं सत्य् अवादिना वदितुं शक्यत इति कथं तत्रानुमानस्य प्रवर्तकत्वकल्पना न साहसम् । अतश् चैवं यतस् ताद्रूप्यावसाये प्रत्यक्षं नानुमानसापेक्षमनवस्थाप्रसक्तेः । यथा च तस्य पाटवं ताद्रुप्यनिश्चये [23अ] 1 चरितार्थम् उपवर्णनीयम्, तथा योग्यतानिश्चये किं न वर्ण्यत इत्य् अलम् अतिविस्तरेण ।
यत् तु तच् च् आनुमेयतां नातिपतति [40 . 19] तत् स्वपरसंतानवर्तिनीर् बुद्धीर् अधिकृत्योक्तम् "अन्यत्रानुभूतविषयेभ्य" इति वचनाद् इति । अत्र च सर्वत्र समाधानं धीमद्भिर् एव विधेयम् ।
{प्. 295} आत्मा (?) साध्यसाधनभावो [41 . 20] गम्यगमकभावः । कृतकत्वादौ पारमार्थिकं [41 . 24] साध्यसाध 2 नयोर् धर्मिणिश्चभेदं [41 . 24] भिन्नं रूपं नालम्ब [ते] नाश्रयते । कुतो नालम्बत इत्य् आह सम्बन्धे [41 . 25]ति । परमार्थभिन्नानाम् अकार्यकरणभूतानां सम्बन्धाभावे तथात्वाभावप्रसंगात् । एकस्मिन्न् अर्थे द्वयोः समवाय एकार्थसमवायो [41 . 26]त्र विवक्षितः कृतकत्वानित्यत्वे [41 . 26] आदी यस्य तस्य । कृतकत्वम् आदिर् यस्य सावयवत्वादेः साधनधर्मस्य । अनित्यत्वम् आदिर् यस्य 3 सावयवत्वादेः साध्यधर्मस्य । तस्ये [41 . 27]ति समवायस्य । अत्रैवापेचयहेतुम् आह समवायाद् इ[42 . 2]ति ।[64] आदि [42 . 3]शब्दाद् अकाशदिक्कालमनःपरमाणूनां संग्रहः । कथं पुनः कृतकत्वादेः शब्दादौ वृत्ताव् आत्मादिव्र्त्तिर् आसंज्यत इत्य् आह । य एव ही [42 . 3]ति । तस्य [42 . 5] समवायस्य । "न च संयोगवन्नानात्वं भाववल्लिङ्गाविशेषात् विशेषलिङ्गा 4 भावाच् च तस्माद् भाववत् सर्वत्रैकः समवाय" [प्रश.भ्. प्र्. 172] इति वचनाद् एकत्वेनाभ्युपगमः । अथापि स्यात् न समवायाद् वृत्तिर् अपि तु समवाय एव वृत्तिर् इति तद् अप्य् अवद्यम् । संबन्धाभावेन भावोयं व्र्त्तिर् इति कल्पनाया अयोगात् । संबन्धान्तरकल्पनायाञ् चानवस्थाप्रसंगात् । यदि च समवायस् तस्य व्र्त्तिर् आत्मादिष्व् अपि तस्य भावात् 5 कथं न तस्य वृत्तिर् इति तदवस्थो दोष इति । अथ [42 . 6]शब्दः पक्षान्तरम् अवद्योतयति । एतस्मिन्न् उपगमे गड्डप्रवेशे ऽक्षितारानिर्गम्वृत्तान्तो जात इति दर्शयन्न् आह सैव तर्ही [42 . 8]ति ।
__________नोतेस्__________
[64] पुर्वत्र शंकाचिह्नितं "आत्मा (?)" इति पदं अत्रत्यम् सम्भवति
अभूत्वा यो न भवति भूत्वा च [न] विनश्यति स तद्विपरीतरूप स् तस्य यः समारोपस् तस्य व्यवच्छेदः स विषयो [42 . 9] यस्यास् तस्याः । सा किम् अ 6 वश्याभ्युपगमनीया येनान्यस्योपगमो निषिध्यत इत्य् आह सैवेति [42 . 8] । परमार्थेन भेदो धर्मिणा सहेत्य् अर्थात् तद्वतोः परमार्थभेदवत्त्वञ् च पराभिप्रायेणोक्तं द्रष्टव्यम् । धर्मिणि [42 . 11] शब्दादौ । तद्धर्मतानपेक्षायान्तु नित्याभिमतेष्व् अपि तौ वर्तेयाताम् इति भावः । उत्पत्तिविनाशधर्मतायाः कल्पनाबुद्धेश् च् आन्तराले घाटामस्तकान्तरालवर्तिमांसपिण्डापरनाम गडुर् इव गडु [42 . 11]र् निष्फलत्वात् तेन । व्यतिरेको भेदस् तद्वता [42 . 12] ।
अयम् अभिसन्धिः । यदि कृतकत्वादयो धर्मा व्यतिरेकिणस्तव धर्मिणि प्रमाणसिद्धाः स्युस् तदा सत्याम् अपि तस्य वस्तुनस् तथातायामजागलस्तनवदनुपयुक्ता अपि केन नाम नाभ्युपगम्येरन् । वस्तुस्वभावाना 8 म् अपर्यनुयोज्यत्वात् । केवलं तद् एव प्रमाणसिद्धत्वं न संभवति प्रत्यक्षप्रमाणवाधितत्वम् एव लक्ष्यत इति ।
{प्. 296} अथ किं कल्पनानिवेशिनः कृतकत्वादयो धर्माः साध्यधर्मम् अवबोधयन्ति येनावश्याभ्युपगमनीत्याया(नीयाया) उत्पत्तिविनाशधर्मताया एव तथाविधबुद्धिनिबन्धनत्वात् किम् अन्येनेत्य् उच्यत इत्य् आशंकायाम् अभ्युपगम [23ब्] 1 एवोत्पत्तिर्(वोत्तर)म् इत्य् अभिप्रायवान् आह तथाही [42 . 12]त्यादि । सत्तामात्रेण [42 . 12] तन्निश्चायकज्ञाननिरपेक्षेण स्वरूपेण वस्तुन उत्पत्तेः प्रभृति सर्वदेति वेदितव्यम् । अनवरतं [42 . 14] सततं तद्धर्म स्य साध्यधर्मस्य प्रतीति स् तस्याः प्रसङ्गात् [42 . 14] । कथं नाम ते तत्प्रतीतिनिबन्धनं भवतीत्य् आह किंत्व् इ[42 . 14]ति । ननु वस्त्वसंस्पर्शित्वे विकल्पस्य कथं वस्तुनः कृतकत्वादिरूप 2 ताप्रतीतिर् इत्य् आह स चे [42 . 15]ति । चो यस्माद् अर्थे । तद्रूपस्य [42 . 17] कृतकत्वादिरूपस्य वस्तुनो ऽसंस्पर्शेप्य् अग्रहणेपि । तदग्राहिणः कथं तदध्यवसाय इत्य् आह परम्परये [42 . 17]ति । तदुपादानत्वात् [42 . 18] कृतकत्वात् कृतकत्वादिरूपबाह्योपादानत्वात् । तस्य विकल्पस्येति प्रकरणात् । ननु च न कृतकत्वादयो धर्मास् तथाविधबुद्धिनिबन्धनत्वेनेष्यन्ते किन्त्व् अ 3 र्थक्रियाकारितया, तत् कथं तथाविधविकल्पः स्याद् यतः प्रसवेत् (विकल्पस्य ततः प्रसवः) । तस्य तस्य धर्मस्य वैयर्थ्यम् इत्य् आह तद्व्यतिरिक्तास् त्व् इ[42 . 18]ति । तु शब्दो यस्माद् अर्थे । तस्माद् अभूत्वाभवनधर्मणो भूत्वा चाभावनधर्मणो धर्मिणो व्यतिरिक्ता अन्ये तस्याः कल्पना बुद्धेर् उत्पत्तिस् तस्या निमित्तं केवलं निमित्तमात्रम् [42 . 18] तद्भावस्तया । एतद् उक्तं 4 भवति यदि कृतकत्वादि(दिः) धर्मिणो ऽन्यो न स्यात् तर्हि कृतकादिबुद्धिर् अनुभवसिद्धा निर्निबन्धना स्यात् । न चैवम् अतो ऽस्त्य् एतद्बुद्धिकारी कृतकत्वाद् इति (दिर् इति) तत्कल्पना । ततश् च तन्मात्रकारित्व(त्वं) परिकल्पनीयं साधीयः । तथापि तथाविधाद् भावाद् अन्ये ते तन्निबन्धनं कल्प्यंताम् इत्य् आह तद्वरम् इ[42 . 19]त्यादि । यस्माद् एवम् अनन्तरोक्तं तत् 5 [42 . 19] तस्मात् । तस्य कृतकत्वादेर् या कल्पना । "अत्रैवेदं कृतकत्वादि नात्मादिषु" इत्य् एवंरूपा तस्या यन्निबन्धनम् अभूत्वाभवनधर्मतादि तद् एव तथाविधविकल्पप्रसवनिमित्तं
वरम् अस्तु [42 . 20] । हेतुम् अस्यानिष्टेर् आह तस्ये [42 . 20]ति । अस्तु तदभ्युपगमस् तथापि कथं तस्य वैयर्थ्यम् इत्य् आह । तदभ्युपगमे चे [42 . 21]ति । चरितार्था [42 . 21] अन्येन निष्पादितप्रयोजना व्यतिरेकवन्तः [42 . 21] तद्व्यतिरिक्ताः कल्पनानिर्मितास्तु ते संतु । तत्र [न] काचिद् बाधेति चार्थात् सूचितम् ।
स्याद् एतत् -- यदि व्यतिरिक्तानित्यतादिधर्मयोगेपि वस्तुन एवावस्थायित्वादिरूपं व्यवहर्तारः प्रतिपादयन्ति, तदा तस्य भूत्वाभवनधर्मताद्युपगमे तदुपगमे च तस्यैतद्बुद्धिनिबन्धनत्वस्य युज्यमानत्वाच् चरितार्था व्यतिरेकिणो धर्मा त भ(धर्मा भ)वेयुर् यावता व्यतिरिक्तानित्यतादिभावे तद् एव व्यवहर्तारः प्रतिपद्यन्ते । तत् कथं यद् एव तत्कल्पनानिबन्धनम् इत्याद्युच्यमानं परभागं पुष्णातीत्य् आशंक्याह अवश्यञ् चे [42 . 22]ति । {प्. 297} चो यस्माद् अर्थे । व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे वा । अनित्यताग्रहणं चोपलक्षणं तेन कृतकत्वादाव् अपि यथा 8 योगम् एव तत्प्रत्ययं प्रतिपद्यन्ते [42 . 23] निश्चिन्वन्ति । कृतकत्वाद् अनित्यतामतमन्धन्त(ताम् अनुमिन्वन्त) इति प्रकरणात् । कस्माद् अवस्त्वात्मानं ते तथा प्रतीयन्तीत्य् आह तस्माद् अनवस्थायीस्वभावस्य् आनुरूपा समीचीनोचिता या अर्थक्रिया तद् अर्थितया प्रवृत्तेः [42 . 24] प्रवर्तनात् । तेषाम् अनुमातॄणाम् इत्य् अर्थात् । अत्र विपर्यये बाधकम् आह अन्यथे [42 . 24]ति । व्यतिरि[24अ] 1 क्तानित्यतायां सत्यां नित्यत्वात् [42 . 25] स्थिरत्वात् तस्य शब्दादिवस्तुनः प्रस्तावात् । नित्यत्वादि [42 . 25]ति ब्रुवाणस्यायम् आशयो भिन्ननित्यतायोगेपि वस्तुनो नान्यथात्वं तस्यास् तत्राकिञ्चित् करत्वात् । किञ्चित्क्रियायां वा भेदाभेदादिदोषानुषङ्गात् । भेदेपि ततो व्यावृत्त(व्यावर्त)मानस्य तस्याकाशादेर् इव नित्यत्वव्यवस्थेति वस्तुनो नित्यत्वाद् धे[42 . 25]तोस् तस्य नित्यत्वस्य 2 वस्तुनो यो ऽवगमस् तेन् आर्थि [65] त्वे न्यायप्राप्ते सति अयम् अनुमाताद् इ(ता अनि)त्य्शब्दादिपदार्थ साध्यार्थक्रियार्थी -- [42 . 25][66] इति स् तस्माच् छब्दादिकं नित्यम् आशंकमानः [42 . 26] तद् असंदेहे ऽनुमानायोगात् । तथा सन्दिहानः किं कस्माद् वस्तुनो ऽ नित्यताविचारं प्रत्याहितास्थः [42 . 26] कृततात्पर्यार्थः । अनित्यतायास् तद्व्यतिरिक्तत्वाद् तस्य स्थिरात्मतानिश्चयाद् एव 3 तत्संशयपूर्वकानित्यताविचारस्यैवायोगाद् इति भावः ।
[65] अवगमार्थित्वेन स् ।
[66] नास्ति स् ।
व्यतिरिक्तानित्यत येति क्वचित्पाठः । तत्र नित्यत्वे प्रयोज्ये हेतौ तृतीया प्रत्येया । व्यतिरिक्तायाम् अनित्यतायां वस्तुनस् तथा विचारो न युज्यत इति प्रतिपाद्य दोषान्तरम् अपि तस्यां दर्शयन्न् आह व्यतिरिक्तायां चे [43 . 1]ति । तत्रैव प्रतिपन्नायाम् अनित्यतायां न वस्तुन्य् अप्रतिपन्न इत्य् अर्थात् सूचितम् । तद्वारेण [43 . 2] व्यतिरिक्तानित्यताद्वारेण । प्रतिपत्ते [43 . 2]र् वस्तुनस् तथात्वज्ञानात् । व्यवधीयते वस्त्वनेनानित्यादिनेति व्यवधिस् तेन [43 . 4] । व्यवधानं वा व्यवधिस् तेन किम् [43 . 3] । अव्यवहितस्यैव भिन्नानित्यतादिव्यवधानशून्यस्यैव वरम् अस्तु प्रतिपत्तिः । विशेष्हे 5 तुम् आह -- तेनैवे [43 . 4]ति । व्यतिरिक्तानित्यताप्रपिपत्ताव् अपि वस्तुनस् तथात्वप्रतीतिः कथं युज्यत इत्यादिदोषशतम् उत्पश्यन् सोत्प्रासम् आह तद् एतद् इ[43 . 4]ति । एषो [43 . 8]नन्तरोक्तो दोषो न [43 . 8] भवति । तत्स्वभावतया [43 . 8] हेतुभूतया । कथञ्चि [43 . 4]त् केनचिद् रूपेण यो भेद स् तस्य् ओपगमे किञ्चित्कलम् उत्पश्यामो [43 . 10] नोत्प्रे 6 क्षामहे । यदि कथंचिद् भेदो न स्याद् भेदाधिष्ठानः साध्यसाधनभावः कथम् उपपद्येतोयोनु(द्येतेत्य् आह) साध्ये [43 . 10]ति । अपि [43 . 11] न्यायबलायातां संभावनाम् आह ।
{प्. 298} साध्यधर्मस्य साधनधर्मरूपतोपगमे सति भेदोपगमे फलं न किञ्चिद् इति प्रतिपाद्य संप्रत्येकात्मसाध्यसाधनयोर् भेद एव न संभवति । तत् कथं स चे 7 तनोपगम्येति(गम्य इति) (?) प्रतिपादयन्न् आह न चे [43 . 11]ति । कथंचि त् केनापि स्वभावेन यो भेदः [43 . 12] कृतकत्वानित्यत्वयोः स न युक्तः । कस्माद् इत्य् आह एकस्माद् इ[43 . 12]ति । येन धर्मिस्वभावेन तयोर् अभेद इष्यते तस्माद् एकस्मात् [67] स्वभावभेदात् तयो [43 . 12]र् धर्मयोर् इति प्रस्तावात् । येन स्वभावेन तयोर् अ[43 . 13]भेदस् तेनापि [न] भेद एव येनायं दोषः स्यात् । कि 8 न्तु ततोपि स्वभावात् तयोः कृतकत्वानित्यत्वयोः कथंचिद् भेदाभेदौ न भेद एवाभेद एवे(एव वे)ति । येन स्वभावेनाभिन्नाव् इष्येते तदेकस्वभावाद् अपि भेदवतो [43 . 14]र् भिद्यमानयोः । तेन भेदावधिना स्वभावेन कथञ्चिद् अभेदनिमित्तम् [43 . 14] इति । यद्य् अभेदो नेष्यते तदैकान्तिको भेद एव स्यात् । सति चैवं पूर्वको दोष इति प्रायेणो[24ब्] 1 क्तम् ॥ तेनाप्य् अ[43 . 16]भेदनिमित्तेनाभिन्नेन स्वभावेन कथंचिद् भेदनिमित्तम् इति प्रस्तावाद् बोद्धव्यम् । अपरो क्षो ऽभ्यु (रो ऽभ्यु) पगन्तव्यः [43 . 25] । अत्रापि यदि तेन स्वभावेन तयोर् अभेद एव भवेत् तदैकान्तिको ऽभेद एव तदा च कल्पनाव् अभासिभेदनिबन्धनः साध्यसाधनभावः स्यात् तथा चास्मन्मतानुप्रवेशप्रसङ्ग इत्य् आशयो ऽवसेयः । अभेद 2 निमित्ते भेदनिमित्ते च स्व्भावान्तरे ऽभ्युपगते माभूद् ऐकान्तिको ऽभेदो भेदो वेति पुनस् तथाभूतस्वभावान्तराभ्युपगमो न्यायप्राप्तः । पुनस् तत्राप्य् एवम् इत्य् अभिप्रायवानितिशब्दहेताव् अभिप्रायाह अनन्तैवे [43 . 16]ति (-प्रायवान् आह इत्य् अनन्तैवेति । इति शब्दो हेतौ) । न केवलम् अविकल्पकायां बुद्धावत्य्[68] आप [43 . 16]शब्दः । परंपरा [43 . 17] परपाटिः । तत्कल्पनया [43 . 28] भिन्नाभिन्नस्वभावकल्पनया विप्रलम्भ 3 न्ते [43 . 18] विसम्वादयन्ति । दूषान्तरम् अप्य् अत्रोपचिन्वन्न् आह । कथंचिच् चेति [43 . 19] । भेदपक्षभाविना संबन्धाभावेन साध्यसाधनभावायोगाद् इत्यादीनां दोषाणां कथम् अनवसरो
[43 . 20]वसरो ऽवकाश एवेत्य् अर्थः । इतोपि भिन्नाभिन्नरूपोभयधर्मासंभव इति संक्षेपेणाह यश् चे [43 . 20]ति । पुरोधाय [43 . 20] पुरस्क्र्त्य विकल्पबुद्ध्या आलम्ब्येति 4 यावत् कल्पनाघटितस्य प्रतिषेधात् पारमार्थिक [43 . 24] इत्य् आह । इतिः त्रितयस्याकारं दर्शयति । त्रयो ऽवयवा अस्येति त्रितयम् [43 . 20] ।
__________नोतेस्__________
[67] स्वभावाद् अभेदात् स् ।
[68] नास्ति स्
प्रकरणम् उपसंहरन्न् आह तस्माद् इ[43 . 24]त्यादि । स चो [44 . 18]क्तरूपो ऽन्वयः । तस्या विरोधाद् अ[44 . 20]नुपपतेः ।
{प्. 299} यथा चायोगस् तथोपरिष्टत् सहकारिपर्वणि निर्णेष्यते ।
भवतो ऽस्माद् अभिधानप्रत्ययाव् इति भावः [45 . 5] कार्यत्वम् इ[45 . 5]त्यादिना तम् एवाभिव्यनक्ति । तद्भदानुविधानम् एव साध्ययन्न् आह चन्दने [45 . 23]त्यादि । ऊर्णा मेषलोम भेदो विशेषः । अनेनैतद् आह -- यद्य् अदृश्यं तस्य करणं स्यात् तत् कथम् अकरणस्येन्धनादेर् भेदम् अनुवि[द]ध्याद् इति । इन्धनभेदानुविधानं धूमस्य प्रतिपाद्य वह्निभेदानुविधानं प्रतिपादयन्न् आह -- अल्पे [45 . 27]ति । अल्पश् च महांश् चाल्पमहान्तौ तौ च ताव् इन्धनविकारौ च तत्कारिणः । प्रातिपदिकग्रहणे न हि तदन्तस्य ग्रहणम् इति । "आन्महतः समानाधिकरण" [पा. 6.3.46] इत्यात्वन्न भवति । तदनुरूपस्या [45 . 27]ल्पमहतो वा धूमस्य दर्शनाद् इति सम्बन्धः । अदृश्यात्मनो ऽग्न्यादिसामग्र्यां नियतं सन्निधान 7 म् उपेक्ष्याग्न्यादेर् एव कार्यं धूम इति । एतत् साधिकाम् उपपत्तिम् अभिधायाधुना तन्नियतसन्निधानम् एव तस्य न युज्यत इति दर्शयन्न् आह न चे [45 . 28]ति । चो वक्तव्यान्तरसमुच्चये । तस्याग्न्यादेः कार्यं तत्कारणं तद्भावस् तत्ता [46 . 1] । तस्यैवादृश्यस्य तदनन्तरं भावान् न धूमः स्याद् इति भावः । चो [46 . 3]दृश्यकार्यत्वेन समं धूमादिकार्यस्य तुल्योपायत्वं 8 समुच्चिनोति । तस्या दृश्यस्य सत(सतः)तद्भावानुविधानम् । चो ऽवधारणे समान [46 . 4]म् इत्य् अस्मात् परोद्रष्टव्यः ।[69]अत्रापि वृक्षेन्धनयोर् अपि तथाभावकल्पनायां तद् एवोत्तर [46 . 5]म् इति । तदुपलम्भे प्रगुपलब्धिलक्षणप्राप्तम् उपलब्धम् उपलभ्यत इति । वृक्षादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चिद् इन्धनस्य भाव इति पुनर् अ[46 . 6]प्रथमे चोद्ये [25अ] 1 परकीय एव [70] एव वाक्य(वृक्ष)भेदानुविधानाद् इन्धनस्य वृक्षादिसन्निधाने ऽदृश्यात्मनो नियतसन्निधानता युक्ता, प्रतिबन्धाभावात् प्रतिबन्धे [46 . 2] चे [71]त्यादि । वृक्षादिकारणत्वं तस्य वृक्षादेः स्वहेतोर् एव [46 . 5] बीजादेर् भावदर्शनाद् इ [46 . 5]ति परिहारः । तत्राप्य् अदश्यात्मनो नियतसन्निधेर् इत्यादिचोद्यपरिहारयोर् आभीक्षून्येनानवस्थानात् पर्यवसानं च (नं न) स्यात् । ततश् चै 2 कस्यापि
नियतकार्यत्वं न स्याद् इत्य् आकूतम् । यदि व तस्याप्य् अदृश्यस्य भावे नियतसन्निधान[न]परमदृश्यं कारणं किं न कल्प्यते? न्यायस्य समानत्वात् । तथात्राप्य् एवम् इत्य् अनवस्था न व्यवस्थितः कार्यकारणभवो भवेद् इत्य् अर्थः । अथवा तत्रापि [46 . 5] वृक्षादौ तथाभावकल्पनायाम् [46 . 5] दृश्यभावकल्पनायां परेण क्रियमाणायां तद् एवोत्तर[ 3 म् इन्धना]देर् वृक्षादिभेदानुविधानात् । न च वृक्षादिसन्निधाने नियतसन्निधानता युक्तेत्यादि । नापि वृक्षादिकारणत्वम् अदृश्यात्मनो वृक्षादेः स्वहेतोर् एव बीजादेर् भावदर्शनद् इति {प्. 300} च । उत्तीर्यते ऽनिष्टपक्षाद् अनेनेत्य् उत्तरम् एतत् । बीजादिभावे नियतसन्निधेर् इत्यादौ पुनश् चोद्ये [46 . 6] च परस्य स एव बीजादिभेदानुवि 4 धानाद् इत्याद्य् अनंतरोक्तो ऽस्माकं परिहारह् [46 . 6] परचोद्यप्रतिविधानम् । अनवस्था [46 . 6] चानन्तरं व्याख्यातेति । एतेने [46 . 6]न्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनाद् ति वचनसामर्थ्यात्, यस्य यस्माद् भावो दृश्यते तस्य तत्कारणत्वम् इति प्रतिपादितेन । यस्या एव सामग्र्या अग्नीन्धनादेर् उत्पत्तिस् तस्या एव तद्द्र्श्यत्व 5 म् उपजायत इति । एकसामग्र्यधीनता [46 . 7] तयोर् नियतसन्निधाननिमित्तं सापि प्रत्युक्ता प्रत्याख्याता कस्यचिद् भावे विज्ञायमानस्यैव तत्कार्यत्वव्यवस्थासिद्धेः । तद्भावे ऽनुपलभ्यमानस्य तु तत्कार्यत्वकल्पनायाम् अतिप्रसंगाद् इति भावः । अत्रैव वक्तव्यान्तरं समुच्चिवन्न् आह तद् इ[46 . 7]ति । तस्यादृ 6 श्यस्य् आन्वयव्यतिरेकानुविधानात् [46 . 7] । तद् अ[46 . 8]दृश्यम् । तच् चा [46 . 8]न्वयव्यतिरेकानुविधानम् । निमित्ताभावम् एवावेदयन्न् आह कार्येति [46.10] । सत्स्वन्येषु कारणेषु समर्थेषु कार्यम् अभवत्कस्त(वत्त)दुत्पत्तौ कारणान्तरम् अपेक्षणीयं प्रतिपादयति । न तु भवे(व)द् एवेति समुदायार्थः ।
__________नोतेस्__________
[69] तत्रापि स्
[70] स एव स्
[71] बन्धे वा स्
संप्रति स(त)त्कारणत्वम् उपेत्यापि 7 नास्मत्प्रतिज्ञातस्य काचित् क्षतिर् इति प्रतिपादयितुम् आह रूपन्त्व् इति (भवत्व् इति) [46 . 12] ।[72] यतो [46 . 14] वह्न्यादेः कारणत्वहानेः अग्न्यादेर् अन्यस्यापि[73]भावः [भावे] धूमं प्रति कारणत्वेन कथं न अग्न्यादेः कारणत्वहानिः [46 . 14] । कथञ् च तन्निष्चयेन प्रवृत्तौ न विसम्वाद इत्य् आशंक्याह तस्य (?) । अभ्युपगमनीयदृष्टान्तद्वारेणामुमर्थं द्रढयन्न् आह 8 नही [46 . 15]त्यादि । दृष्ट स्य कारणस्य हान म् अभावो न ह्य् अकारणत्वेन प्रतीतस्य कारणत्वहानिर् इत्य् अर्थः । तस्य दृष्टकारणस्य कार्यं तद्दर्शनात् [46 . 16] । अतत्प्राप्ति [46 . 16]र् दृष्टकारणाप्राप्तिः प्रसज्यत आपद्यते अनेनेति प्रसङ्गापादनम् अतिशयितः प्रसङ्गो ऽतिप्रसंगस् तेन् आलं [46 . 16] न किञ्चित् । ननु च तद्भावे भावस् तदभावे ऽभावश् च [25ब्] 1 कार्यधर्माव् इमौ तत् कथम् अयम् एव कार्यकारणभाव उत्य् उच्यते । कार्यभाव इति तु युक्तं वक्तुम् इति । सत्यम् एतत् केवलम् एतस्मिन् कार्यधर्मे कथिते कारणधर्मोपि स्वभावे भावो भावनं भावो भावयितृत्वं सत्तयाभिसम्बन्धयितृत्वं स्वाभावे चाभावो ऽभावनम् अभावयितृत्वम् अनुत्पादयितृत्वं यत् तल्लक्षणः सुज्ञानो भवतीत्य् आचार्येणैव 2 म् उक्तम् अनेनाप्य् एवं व्याख्यातम् । {प्. 301} तेनायम् अर्थः -- अर्थान्तरत्वे सति यः प्राग्भावी सो(स्वा)न्वयव्यतिरेकाव् अनुविधापयति तत् कारणम् । यश् च पश्चाद्भाव्यन्वयव्यतिरेकानुविधापनान्व्यव्यतिरेकानुविधानलक्षणः कार्यकारणभाव [46 . 22] इति । यद् वा कार्यकारणभावनिश्चयहेतुत्वाद् अयम् एव तथोक्तः । तथा हि कार्यगताभ्याम् एव तद्भाव 3 भावतद्(तद)भावाभावाभ्यां तयोः कार्यकारणभावो विभाव्यते । असति कारणत्वे तद्भाव(वा)भावयोस् तद्भावाभावाव् एव न भवेताम् इति । नायम् एवम् अयम् एव कारणभावो नाम अन्य एव द्विष्ठः सम्बन्धो ऽस्तीत्य् आशंक्याह स हीति [46 . 23] । हि यस्माद् अर्थे । ताभ्यां [46 . 23] तद्भावभावतदभावाभावाभ्याम् । स्वरूपे 4 णास्वीकृतकार्यकारणरूपयोर् अग्निधूमयोः दूषणान्तरम् अन्वचिन्वन्न्
आह स्वभावेन चे [47 . 1]ति । तस्य [47 . 4] अपूर्वस्य रूपस्य तेन निष्पाद्यमानस्य । ततो [47 . 4]कार्यकारणरूपाभ्याम् । नहीत्वाय(?)र्थान्तरस्यत्व समर्थनम् (?) । ततस् तस्य ततो [47 . 9]र्थान्तरत्वात् । पूर्वके [47 . 9] इति कार्यकारणभावसम्बन्धेन क्रियमाणो(माणात्) 5 रूपात् प्राग्भाविनी वह्निस् तस्य धूमरूपे (?) तद्भावः [47 . 13] कार्यकारणभावः तयोस् ताद्रूप्येपि कारणबुद्धाव् अस्योपयोगान् न वैयर्थ्यम् इत्य् आह -- कर्ये [47 . 13]ति । अपि [47 . 14] न्यायतः सम्भावनां दर्शयति । कथम् अवसीयते नार्थान्तरनिमित्ते इत्य् आह तस्ये [47 . 14]ति । तस्य तत्सामर्थ्या(तस्य ताभ्याम् अर्था)न्तरस्य तथाविधस्य [47 . 16] तद्विवेकेनाप्रति 6 भासिनः । अपि [47 . 16] व्यक्तिम् इत्य् एतद् अस्मिन्न् अर्थे । सर्वं सर्वत्र गृहीतम् इतीष्टं धर्मम् अतिक्रान्तः प्रसङ्गो ऽतिप्रसङ्गः [47 . 16] । तस्यानुपलब्धिलक्षणप्राप्तत्वाद् विशेषे(ष)णासिद्धोयं हेतुर् इत्य् आह अनुपलब्धी [47 . 16]ति । किम् अवश्यम् उपलभ्यमानेन तेन तद्बुद्धिहेतुना भाव्यं येनैवम् उच्यत इत्य् आह न ही [47 . 18]ति । तद्बु 7 द्धी [47 . 18] कार्यकारणबुद्धी । अस्य [47 . 19] अर्थान्तरस्य तयोः [47 . 19] कार्यकारणबुद्ध्योः । न चान्वयव्यतिरेकानुविधानम् अविदुषस् तद्बुद्धी भवत इति बुद्धिस्थम् । उपपत्त्यन्तरम् अत्रैव समुच्चिन्वन्न् आह न चे [47 . 19]ति । स्वविशिष्टप्रत्ययनिबन्धनं [47 . 20] चो(स्वो)परक्तज्ञाननिबन्धनम् । कार्यकारणबुद्ध्यो [47 . 21]र् विकल्पात्मिकयोर् इति प्रकरणाद् द्रष्टव्यम् । तद्बु 8 द्धिनिबन्धनत्वेपि तस्य कथम् अवश्यम् उपलक्षणम् इत्य् आह नही [47 . 22]त्यादि । चो [47 . 24] वक्तव्यान्तरसमुच्चये । कार्यकारणाभ्याम्
__________नोतेस्__________
[72] अत्र "यतो वह्न्यादेः कारणत्वहानेः" एतावान् पाठः अग्रे "विसंवाद इत्य् आशङ्क्याह" एतद् अनन्तरं संगच्छते । प्रमादात् प्रागायातो भाति ।
[73] अग्रेतनं "तस्य?" इति शंका चिह्नितं पदं अत्रत्यं भाति । तथा च "तस्य भावे" इति "तद्भावे" [46.13] इत्य् अस्य विवरणम् ।
अ[47 . 24]ग्निधूमाभ्याम् अर्थान्तरस्य [47 . 24] भिन्नस्य । कार्यकारणभावरूपस्य सत्त्वस्य सबन्धान्तरसद्भावात् कथं न घटत इत्य् आह । सम्बन्धे [47 . 25]ति । तस्मात् कार्यकारणाभावसंबन्धाद् अन्यस्य तेनाप्य् अर्थान्तरेण [26अ] 1 सम्बन्धेन सहास्य कथं संबन्ध इति पर्यनुयोगे संबन्धान्तरं कल्पनीयम् । पुनः पर्यनुयोगे पुनस् तथेति अनवस्था [47 . 25]प्रसक्तिस् ततः । न चैवंसम्बन्धान्तरं परिकल्प्यते । किं तर्हि कार्यकारणभूतवस्तुकार्यकारणाख्यसम्बन्धयोर् {प्. 302} अकार्यकारणभाव एव सम्बन्ध इत्य् आह कार्ये [47 . 26]ति ।[74] तद्भावस्य [47 . 27] कार्यकारणभावस्य भिन्न 2 स्य कल्पितस्य ततो ऽसहभावित्वात् । कार्यकारणकाले [47 . 27] कार्यकारणभूतवह्निधूमादिवस्तुकाले । तयोश् चैककालिकत्वं कुतो येनैकजनकत्वं स्याद् इति । अत्र गजनिमीलिकां कृत्वैतद् उक्तं द्रष्टव्यम् । स च [48 . 3] कार्यकारणाध्यवसायः । भवत्व् असौ कल्पितविषयस् तथापि भिन्नसम्भवः कथं न भवेद् इत्य् आह -- 3 कल्पिते [48 . 4]ति । तद्व्यवसायस्य कार्यकारणताव्यवसायस्य । त [75] स्य भिन्नस्य कार्यकारणभावस्य । माभूत् कल्पितविषयोयं तदवसाय इति हि तस्य कल्पना स चेत् तथाविध ऐषितव्यः किं तेनेति भावः । किं कल्प्यमानोसौ तद्भावः किं कार्यकारणभावाभ्यां सहिताभ्यां जन्यते आहोस्विदे 4 कैकेनेति पक्षयोर् आद्यं पक्षं क्षपयन्न् आह कार्येति [48 . 5] । कार्येण जन्यमानः कार्यभावः स्यात् । कारणेन जन्यमानश् च कारणभाव इत्य् अभिप्रेत्य कथम् इ [48 . 6]त्य् आह । प्रत्येकजन्यमानतायाम् अपि कारणम् उद्दिश्य निरूपयन्न् आह -- यदा चे [48 . 6]ति । पश्चा [48 . 8]च्छब्दापेक्षया तु स्वकार्यस्येति वि 5 भक्तिविपरिणामेन योज्यम् । अ[76]तसर्थप्रत्यययोगेनषष्ठी प्राप्तेः । तत् तस्माद् उभयोः [48 . 9] कार्यतद्भावयोः ।
__________नोतेस्__________
[74] सद्भावं स्
[75] तस्या स् ।
[76] षष्ठ्यतसर्थप्रत्ययेन (पा. 2.3.30)
नन्व् एकसामग्र्यधीनतैवानयोः सम्बन्ध इति कथं परस्परासम्बन्ध उच्यत इति चेत् । न, कार्येणापि समम् अस्य कार्यकारणभावस्य संबन्धस्य प्रकृतत्वात् सूक्तम् इदम् । एक 6 सामग्र्यधीनतेष्टौ च तद् उत्पत्तेः पूर्वं कारणं न कारणं स्यात् । त्वन्मते तद्योगात् तदव्यवस्थितेर् योयम् अप्राप्तत्वाद् इति दोषो द्रष्टव्यः । कार्य स्य धूमादेः क्रिया [48 . 11] करणं कथं । तदपेक्षं [48 . 13] तद्धूमादिक्रियापेक्षम् । अस्य [48 . 12] वह्न्यादेः असत्त्वान् मा स्म तज्जनयत, का नो हानिर् इत्य् आह तद्भावश् चे [48 . 15]ति 7 । तद्भावः कार्यकारणभावः संबन्धः । कारणाभावाद् अनुत्पन्नश् च(न्नाश्व)शशविषाणा यथा नः (न) कथं तद्भावसम्बन्धो भवितुम् अर्हतीत्य् आशयः । संप्रत्यक्षणिकपक्षम् अभ्युपगम्याह -- अक्षणिकत्वेपीति । प्रत्ययहेतुः कार्यकारणबुद्धिहेतुर् वा नातिवर्तते । यदि हि तदाश्रितं स्यात् तदा तत्र तथाविधं बोधं विदध्याद् अ 8 न्यथासति विप्रकर्षाभावात् सर्वत्र तद्बुद्धिं जनयेन् नो वा क्वचिद् अपीति भावः । इदं पुनर् अत्र साधु दृश्यते । अयं खलु कार्यकारणभावः कार्यकारणयोर् वस्तुनोर् वर्त्तमानो नांशेन वंशदण्डवद् वर्तते अखण्डरूपत्वात् । कार्याभावः कारणा[77]भाव इति प्राप्तेर् अनेकरूपतापत्तिप्रसक्तेश् च । प्रत्येक[26ब्] 1 रूपकार्यत्वेन वर्तमानश् च यथाकार्यकार[ण]योः कार्यकारणबुद्धी जनयति तथा प्रत्येकं जनयेत् । सति चैवं वह्नाव् एव धूमापेक्षयैव कार्यकारणबुद्धी प्रसज्येयातां तथा धूमेपि तद्वह्न्यपेक्षयैव कार्यकारणबुद्धी प्रसङ्ग(सज)तः । मा स्म वा कार्यकारणयोर् अपि {प्. 303} भूताम् इति । तदेकप्रका(हा)रनिहते ऽपि सम्बन्धे ऽस्मिन्न् इमाम् ईदृशीं सूक्ष्मेक्षिकां कुर्वताभट्टार्चटेन 2 कथम् अयं स्थवीयान् दोषो न दर्शित इति न प्रतीमः ।
__________नोतेस्__________
[77] "कारणभाव" इत्य् अपि पठ्यते ।
ननु यः किल कार्यकारणलक्षणसंबन्धान्तरवशात् कयोश्चिद् वस्तुनोः कार्यकारणरूपताम् उपैति तं प्रत्येतद् उच्यमानं शोभेत । अस्माकं तु कार्यसमवायं कारणत्वं कारणसमवाय(यि)त्वं च कार्यत्वम् इच्छताम् इत्य् अनन्तरोक्ताद् दोषान् न(क्ता दोषा न) किंचिद् उपघ्नन्तीतिनैयायिकवचनम् आशंक्य तदभि 3 मानम् अप्य् उन्मूलयन्न् आह -- समवयीति । समवायिकारणस्यैव कपालादेः । तत्रैव घटादिकार्यस्य समवायात् । चो यस्माद् अर्थे । निमित्तकारणं कुलालादि । असमवायिकारणं कपालसंयोगादिः । तयोर् न कार्यसमवायोस्तीति न कारणं स्यात् ततश् चाव्यापित्वं लक्षणदोष इति सामर्थ्याद् दर्शितम् । कार्यलक्षणे 4 (ण)स्याप्य् अकार्यस्य वेति वा शब्दो ऽपिशब्दस्यार्थे । तत्समवायः कारणसमवायः । समवायिकारण एव कपालादौ समवायह् कार्यत्वं न निमित्तासमवायिकारणयोर् इति सप्तम्यन्तं स(पद)द्वयम् इह सम्बन्धव्यम्, कपालादिसमवायिन एव घटादेर् उदयोपगमात् । ततश् च निमित्तासमवायिकारणापेक्षया घटादि 5 कं कार्यं न स्याद् इत्य् अत्रापि अव्यापितैव दर्शिता ।
इदानीं साधारणं दूषणम् उपदर्शयन्न् आह तस्य चे ति । तस्य समवायस्य चो वक्तव्यान्तरसमुच्चये । अन्यथात्वव्याख्यानम् अत्र साहसम् इति नानूद्यतेपि । व्यक्तिभेदविवक्षयोपयुक्तकार्ये वा सर्वत्र शब्दप्रयोगात् । सर्वत्र कार्यकारणभूते वस्तुनि । अविशेषाद् अ 6 विशिष्टरूपत्वात् । परस्परम् अन्योन्यं वह्नेर् धूमो धूमस्यापि वह्निः । कार्यं कारणं च स्यात्, समवायस्य कार्यत्वकारणत्वलक्षणस्य विशेषाद् उभयस् ताद्रूप्यमताद् रूप्यं वा न समं स्याद् इत्य् एवं वदितुर् अभिप्रायः । अथवा सर्वत्र काले वस्तुनि अकार्यकारणभूतेपि । सर्वत्र वा अंतशो महासामान्यस्य सत्तायाः 7 समवायभावान् न समवायभावो विभावितः । किंत्वविशेष एवानूदित इति द्रष्टव्यम् ।
ननु नाविशिष्टः समवायः कार्यत्वकारणत्वलक्षणत्वेनेष्टो ऽस्माकं किंतु पूर्वोत्तरभावाभावैशिष्ट इत्य् आशंक्याह पूर्वेति । पूर्वोत्तरकालावच्छिनौ पदार्थौ पूर्वोत्तराव् उक्तौ । तयोर् यौ भावाभावौ, पूर्वभाव एव यद् उत्तरस्य भावः । तदभा 8 व एव यो ऽभावो ऽभवितृत्वम्, पुर्वस्यापि यः स्वभाव एव भावो भावनं सत्तयाभिसंबन्धकत्वं स्वाभाव एव च यो ऽभावो ऽभावनं समं (?) [अ]भावयितृत्वं तद्विशेषणः समवायः कार्यकारणलक्षणम् । एतद् उक्तं भवति यो ऽर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति, यश् चार्थान्तरस्यान्वयव्यतिरेकाव् अनुविधत्ते एव अन्वयव्यतिरेकानुविधा[पना] [27अ] 1 न्वयव्यतिरेकानुविधायिनी वस्तुनी विशेषणे यस्य समवायस्य स तद्विशेषणः । {प्. 304} कार्यकारणत्वलक्षणत्वेनेष्त इति न सर्वत्र तथाभावप्रसङ्ग इति । अन्यथा व्याख्यानं त्व् अभावशब्दस्य दुर्योज्यत्वात् साहसमिती नानूद्यतेपि । एतन् निषेधयन्न् आह । अयुक्तेति । हेतुम् आह तद् इति । तेन भावाभाववता पूर्वोत्तरकालेन वस्तुना संबन्धाद् अवि 2 द्यमानसम्बन्धत्वात् । अयम् अर्थो विशेषणं व्यवच्छेदकं भवति । 3 तत्र केन संबन्धेन तथाभूते च वस्तुनि समवायम् इमम् अवच्छिन्नो (च्छिन्तो) येन तद्विशेषणं स्यात् । एवम् एव च तथात्वे सर्वं सर्वस्य विशेषणं स्याद् इति ।
ननु विशेषणविशेष्यभाव एव 4 सम्बन्धः । न च सम्बन्धेन सम्बन्धान्तरानुसरणं श्रेयं इत्य् आशंक्याह निरतिशयस्येति । निष्क्रान्तो ऽतिशयो व्यवस्थितरूपाद् विशेषो यस्मान् निष्क्रान्तो वातिशयात् । तस्य केनचिद् अतिशाययितुम् अशक्यस्येत्य् अर्थः । नित्यत्वाच् च निरतिशयत्वम् इति बुद्धिस्थम् ।
एवं ब्रूवाणश् चैवम् अभिप्रैति विशेषणेन तावद् अतिशा 5 यके नावश्यभाव्यम् अन्यथा सर्वं सर्वस्य विशेषणम् आपद्येत । तत्रानित्यस्य कश्चिद् अतिशयम् आदधत् किञ्चिद् भवेद् अपि विशेषणम् । यदि तत्रापि सो ऽतिशयः किं ततो भिन्न उताभिन्नः, यदि भिन्नस् तस्य किम् आयातम् अथाभिन्नस् तस्यैव तर्हि करणम् आपतितम् इति कश्चिन् न पर्यनुयुञ्जीत, न तु पूर्वापरकालयो रविचलित 6 तद्रूपस्य नित्यस्येति । संप्रति ते यद्य् अवश्यं विशेषने अस्यैष्टव्ये इति निर्बन्धस् तदैतत् युक्तरूपम् इत्य् उपग...अर्भम् उपदर्शयन्न् आह तयोर् एव वेति । वा शब्दो ऽभ्युपगतं पक्षान्तरं दर्शयति । तयोर् अन्वयव्यतिरेकानुविधापनान्वयव्यतिरेकानुविधायिनोस् तद्विशेषणयोस् तत्समवायविशेषणत्वेना 7 भिमतयोस् तल्लक्षणता कार्यकारणलक्षणतास्तु । तयोर् एव प्रमाणोपपन्नत्वाद् इतरस्य च तद्बाधितत्वाद् इत्य् आशयः । इति र् अनन्तरोक्तं प्रत्यवमृषति । एवम् अभिप्रायवता वार्तिककृतेति प्रकरणात् । अग्नीन्धनाद्य् एव सामग्रीत्यन्तर्नीतनियमः समासः कर्तव्यो ऽत एवामूं नियमम् असहमानस्य भिनसामग्रीवादिनो 8 मतम् आशंक्य तन्निराकुर्वन्न् आह न चे ति । अन्यथा कुतो ऽस्य प्रत्याख्यानग्रन्थस्योत्थानं स्याद् इति । स्वरूपत एवापर सामग्रीनिरपेक्षेणैव रूपेण । कार्ये [48 . 23] जनयितव्ये यतः [47 . 26] शक्तिव्याघातात् । अन्यत्रे [48 . 26]ति । निपातो ऽन्यवचनोस्ति तेनान्यद् इत्य् आर्थः ।
सामग्र्य् अपि जनयन्ती किं सामग्र्यन्तरसव्यपेक्षा जनयत्य् अथानपेक्षा । यदि [21ब्] साम 1 ग्र्यन्तरसापेक्षा तर्हि सैवान्वयव्यतिरेकाभ्यां जनिका स्याद् आद्यसामग्र्यास्तु जनकत्वं हरीतकिं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्यात् । अ(य)द्यनिरपेक्षा तद्वदभावोपि स्वहेतुलक्षणसामर्थ्यस् तन्निरपेक्ष एव किं न जनयतीत्य् अपि दूषणम् इह द्रष्टव्यम् । न च सामग्री ततो भेदेनोपलभ्यते । न चास्या अनुपलब्धिलक्षणप्राप्तता युक्तेत्या 2 द्य् अपि पूर्ववद्द्रष्टव्यम् ।
{प्. 305} अन्वयो ऽन्वेतृत्वम् अन्वीयमानत्वं च व्यतिरेको व्यतिरेचयितृत्वं व्यतिरिच्यमानत्वं च तावा त्मानौ यस्य तस्य [49 . 11] ।
ये [49 . 18] मीमांसकादयः । तम् अ[49 . 18]न्वयनिश्चयम् ।
तस्य स्वकारणाव्यभिचारद्वारक [49 . 27] इत्य् आचक्षाणो यस्यार्थान्तरस्य येनान्वयः सकललोकसाक्षिकः सो ऽवश्यं तज्जन्यस् तत्कारणजन्यो वे 3 ति प्रतिपादयति अतएव "कार्यकारणभावाद् वा" इत्य् अत्रापि तेन समं तत्कारणेन समं वा कार्यकारणभावाद् इति वेदितव्यम् इति । तत्र स्वभावहेत्वादौ विपर्ययेण बाधकप्रमाणवृत्त्याद्य् एव दर्शितं तत् तु कथम् अन्वयनिश्चय उक्त [51 . 1] उच्यत इत्य् आशंक्याह स्वभावे [51 . 2]ति । विपर्यये [51 . 2] साध्यविपर्यये हेतोर् बाधकं 4 विपरीतोत्थापकं यत् प्रमाणं तस्य वृत्त्या [51 . 2] साध्यसाधनयोः तन्निबन्धनत्वात् । अन्वयनिश्चयस्येति प्रकरणात् । उत्तरत्राप्य् एवं द्रष्टव्यम् । तद्भावसिद्धेः तन्मात्रवृत्तिसिद्धेस् तद्धेतुकत्वात् । असद्व्यवहारस्य हि दृश्यानुपलब्धिमात्रे वृत्तौ सिद्धायां देशकालानवच्छेदेन यत्र यत्रोपलब्धिलक्षणानुपलब्धिस् तत्र तत्रासद्व्यवहारयोग्यतेत्यन्वयनिश्चयप्रवृत्तेर् निमित्तान्तराभाव [78] साधकप्रमाणतस् तद् [79] भावसिद्धिहेतुकत्वाच् चे [51 . 4 - 5]ति उक्तम् । ते न (?) कारणव्यापकानुपलब्धी ।
__________नोतेस्__________
[78] -भावप्रसाधक-स्
[79] तदभावसिद्धिहेतुत्वाच् च- स् ।
तस्ये [51 . 15]ति साध्याभावे हेत्वभावस्य ।[80] तद्भावसिद्धि [51 . 19]स् तत्स्वभावतासिद्धिस् ततः तादात्म्यतद् उत्पत्तिलक्षणे निमित्ते यस्य प्रतिबन्ध स्य 6 प्रतिबद्धत्वस्य तस्य निश्चयात् [51 . 22] । तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिस् तदुत्पत्तिर् अभिप्रेता । अनुपलब्ध्योः [52 . 2] कारणव्यापकानुपलब्ध्योर् इति प्रकरणात् । कदा पुनस् तद्विशेषणं नोपेक्षितुं शक्यत इत्य् आह यदे ति [52 . 3] । उपादत्ते [52 . 4] निदर्शनीयत्वेन स्वीकरोति प्रतिपादक इति प्रकरणात् । असिद्धत्वाद् इ 7 [52 . 8]ति । संदिग्धासिद्धत्वाद् इति द्रष्तव्यम् । तत् [52 . 12] साध्याभावे ऽभावख्यापनम् । तादात्म्यतदुत्पत्तिसिद्धौ हि प्लवमानाकारायाः साध्याभावे साधनाभावप्रतिपत्तेर् उत्पत्तिर् इत्य् आशयः । अमुम् एवार्थं तथा [52 . 15] हीत्वादिना प्रसाधयति । फलवचनस्य कार्यशब्दस्य नपूंसकलिङ्गत्वाद् असति बहुव्रीहावजहल्लिङ्गत्वाच् च कार्य [52 . 21]म् इति निर्देशोवार्तिककार 8 स्यावसातव्यः ।
__________नोतेस्__________
[80] तद्भावता-स्
अनुपकारिका [52 . 23] अकिञ्चित्करी । अदर्शनमात्रा [52 . 23]त् प्रतिबन्धविरहिताद् विपक्षे ऽदर्शनात् केवलात् । तदसंभवं [52 . 23] व्यतिरेकासम्भवम् । तम् एव {प्. 306} तथाही [52 . 27]त्यादिनोपपादयति । साध्याभावाद् अन्यस्य तदनुपलब्धिकारणस्याभावात् एकत्र स्थितस्यापि तदनुपलब्धिरस्तीत्य् अभाव एव किं न भवतीत्य् आशंक्याह देशे त्यादि 1 [28अ] । आदि शब्दात्कालस्य परिग्रहः । तत्र [53 . 3] धर्मिणि सत्य् अपि [53 . 3] विद्यमानेपि हेतौ अनुपलम्भमात्रस्य [53 . 4] उपलम्भविरहमात्रस्य [।] न तथाविधो व्यतिरेको ऽभिप्रेत इत्य् आह -- तथाविधस्यै [53 . 5]वेति ।
नन्व् अदर्शनमात्राद् व्यतिरेकम् इच्छताम् उक्तेन न्यायेन तदसंभव एव दर्शितः । प्रतिबन्धम् अन्तरेण दर्शनमात्राद् अन्वयम् इच्छतां तु न तदभावो भावितो ऽव 2 श्यदर्शयितव्यश् चासौ "अविनाभावनियमो ऽदर्शनान्न न दर्शनात्" [प्र.वा. 3.30] इत्य् अत्राभिधानाद् इत्य् आशंक्यानन्तरोदित एवायम् अर्थ इति दर्शयितुम् आह अन्वयनिश्चयो [53 . 7]पीति । तेनापि [53 . 8] प्रतिबन्धनिबन्धनान्वयनिश्चयवचनेनापि । दर्शननिबन्धनम् [81] इति [53 . 8] सपक्षे दर्शनमात्रनिबन्धनम् इति प्रकरणात् द्रष्टव्यम् । अस्याप्य् अ[53 . 9]न्वयस्यापि । न द 3 र्शनमात्राद् अन्वयम् इच्छामो येनैवम् अभिधीयते । किंतु भूयोदर्शनाद् इत्य् आशंक्याह न चेति [53 . 12] । एवम् उपलक्षणत्वाद् अस्य नादर्शनमात्राद् व्यतिरेकम् इच्छामो ऽपि तु भूयोदर्शनाद् इत्य् अपि द्रष्टव्यम् एव । "भूयोदर्शनगम्या हि" (श्लो.वा. अनु.12) इत्य् अस्य शेषनिर्देशेनापि गमयितुम् अशक्यत्वाद् व्याप्तिर् अ[53 . 13]न्वयात्मिकेति द्रष्ट 4 व्यम् । भवतोपि महानसमहाह्रदादौ भुयोदर्शनादर्शनाभ्यां किम् अन्यद् व्याप्तिनिमित्तम् अस्तीत्य् आह असती [53 . 14]ति । प्रतिबन्धनिबन्धनाभ्याम् एव ताभ्यां सा सिद्ध्यति नान्यथेत्य् अनेन दर्शितम् । क्वचिद् देशे बहुलं [53 . 14] प्रचुरं यथा भवति तथा दृष्टानां [53 . 14] साहचर्येणोपलब्धानाम् आमलकत्वकषायरसत्वादीनां । अन्य 5 थात्वस्यापि [53 . 14] क्सीरावसेकादिना मधुररसत्वादिभावस्यापि सम्भवात् । सम्भावनाया अवकाशं दर्शयितुं तद् असंभवे [53 . 15] इति । तस्यान्यथात्वस्यासंभवे ऽभावे । एवम् उपलक्षणत्वाद् अस्य साध्यभावे भूयोदर्शनेपि न व्यतिरेकात्मिका व्याप्तिः सिद्ध्यति । के(क्व)चिद् बहुलं साध्याभावे ऽभाविनाम् उपलम्भेप्य् अ 6 न्यथात्वस्य संभवात् । तदसम्भवबाधकप्रमाणाभावाद् इत्य् अपि द्रष्टव्यम् । तथाहि मधुररसत्वाभावे ऽम्भस्त्वस्य साधनधर्मस्याभावः साध्यधर्मिणः सामुद्राद् अम्भसो ऽन्यत्र सर्वत्र दृश्यत इति भूयोदर्शनेपि लवणोदधाव् एवान्यथात्वं दृष्टम् इति । अन्यथाम्भस्त्वम् अपि महार्णवाम्भसो मधुरत्व 7 साध्ये सम्यग्धेतुर् अभ्यवगन्तव्यः प्रसज्येत । बाधकाभावात्
कार्यव्याप्याभावव्यतिरेके सति स्याता(?)र्वाग्दर्शिभिर् अशक्यनिश्चयत्वेनालक्षणत्वाद् अस्य साध्याभावे हीत्य् अलं बहुना ।
__________नोतेस्__________
[81] -निबन्धनाम -- स्
तादात्म्यतदुत्पत्तिलक्षण प्रतिबन्धद्वयनिश्चयो य एव स चोपायः [54 . 12] "सा विपर्यये बाधकप्रमाणवृत्तिः" इति वचनात् "प्रत्यक्षानुपलम्भसाधनः" {प्. 307} इति वचना 8 च् च दर्शितः । इति [54 . 13]स् तस्मात् पृथग् नोक्तः [54 . 13] भेदे[न]नोक्त आचार्येणेति प्रकरणात् ।
प्रतिबन्धसिद्धाव् अपि कथं कारणव्यापकानुपलब्ध्योर् अन्वयव्येतिरेकौ प्रसिद्ध्यत इत्य् आशंक्य एतद् एवोपपादयन्न् आह तथाहि [54 . 14]त्यादि । कार्यव्याप्याभावव्यतिरेके सति किंरूपे तस्मिन्न् इत्य् आह[82] तल्लक्षण इति । तत्कार्यस्वभावात्मनि [28ब्] प्र 1 तिषेधप्रतिषेधस्य विधिरूपत्वाद् इत्य् अभिप्रायः । व्यतिरिच्यते असंभवति । कथं व्यतिरिच्यत इत्य् आह । कारने [54 . 14]ति । अन्यथे [54 . 16]ति यदि तद्व्यतिरेके न व्यतिरिच्यत इति ।
__________नोतेस्__________
[82] तद्भावलक्षने -- स्
तदनु "तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर्" इति पुरस्ताद् उक्तं कथं पुनर् अधुना तादाम्यतदुत्पत्त्योर् अविनाभावेन व्याप्तयोर् भावाद् इ[55 . 25]त्य् उच्यत इत्य् आशंक्याह कृतकम् [83]इ[55 . 26]ति । उभय 2 व्याप्तित्वाद् इत्य् अर्थः । प्राग् एवोक्तम् इ[55 . 30]ति -- "अविनाभाववैकल्यण् चे"त्यादिना पूर्वम् उक्तत्वाद् इत्य् उक्तम् । यदि वे [56 . 1]त्यादिनोपपत्त्यन्तरम् अपि दर्शयति । कार्यहेतुप्रसङ्गात् कार्याद् अप्य् अन्यद् [56 . 1]त्य् उक्तम् । रोहिण्या रोहिणीनक्षत्रस्य आसत्तिर् उदेष्यमाणायाः प्रत्यासन्नता तस्याः क्लृप्तिः [56 . 14] कल्पनाज्ञानम् इति यावत् । सापि [56 . 14] तत्कल्पना उक्तत्वाद् इ[56 . 16]त्य् एतज् जातीयं 3 प्रत्युक्तत्वेनोक्तम् अर्थाद् इत्य् अर्थः ।
__________नोतेस्__________
[83] कृतकत्वा -- स्
कथं पुनस् तस्यास् तदुदयानन्तरम् उदयो ऽवश्यंभावी संगच्छत इत्य् आशंक्योपसंहारव्याजेनाह तस्माद् इ[56 . 16]ति । नक्षत्रचक्रस्ये [56 . 16]ति कृत्तिकाख्यसप्ततारावृन्दस्येति प्रकरणाद् अवसेयम् । संक्रान्तिः [56 . 16] पूर्वावस्थानदेशात् संक्रमणम् अभिव्यक्त्यवस्थाप्राप्तिर् वा तस्या हेतुर् ए 4 व कालव्यवधानेने [56 . 17]ति कियत्कालक्षेपेणेति द्रष्टव्यम् कल्पयितव्य [56 . 17]स् तद्धेतुत्वेनेति प्रकरणात् । अनेन तत्रापि प्रतिबन्धसद्भावो दर्शितः । नीडानुपघाते सत्यनुत्रस्तानां गृहीताण्डानां पिपीलिकानाम् एकदिगभिमुखानां सञ्चरणं दृष्ट्वा यद् वर्षानुमानं तद् अप्य् असति प्रतिबन्धे स घटते तस्मात् तत्रापीयम् एव गतिर् इति दर्शयितुं यथे [56 . 17]तिना दर्शयति । इतरथा विवादाध्यासितसत्त्वाद् अस्य कथं दृष्टान्तरूपतोपपद्येत । भूतानां [56 . 17] पृथिव्यादीनां संक्षोभो [56 . 17]वस्थाविशेषः । य एव तथाभूतपीपिलिकासंक्षोभहेतुः स एव कतिपयकालव्यवधानेन पश्चात्कालभाविनो वर्षस्य हेतुर् इत्य् अ 6 र्थो ऽर्थाद् द्रष्टव्यः । कारणकारणतया च हेतुर् द्रष्टव्यो ऽन्यथा चिरातीतं कारणम् इष्टं {प्. 308} स्याद् एष्तव्यम् वा । इति [56 . 18]स् तस्मात् हेतोः कृत्तिकोदयस्य हेतोर् यो धर्मः [56 . 18] कतिपयकालात्ययेन रोहिण्युदयोपादानकारणशक्तिप्रबोधाधानेनान्यथा वा यज्जनकत्वं तदनुमानेन । इत्थंभूतलक्ष 7 णाचेयं तृतीया । कल्पयितव्या [56 . 18] रोहिण्यासत्ति कल्पनेत्य् अभिसम्बन्धात् स्त्रीलिङ्गेन निर्देशः । दृश्यत्वविशेषणानवच्छिन्नानुपलब्धिर् अनुपलब्धिमात्रम् [56 . 20] । अभावायोगाद् इ[56 . 22]त्य् अभावविषयत्वायोगाद् इति द्रष्टव्यं तद्द्वारेण [56 . 24] विरुद्धोपलब्धिमुखेन । एवं ब्रुवाणः सैव विरोधग्रहणकालप्रव्र्त्ता दृश्यानुपलब्धिर् इदानीं स्मर्यमा 8 णाभावसाधनी । तत्स्मारकत्वेन चोपलम्भस्यास्यैकज्ञानसंसर्गिवस्त्वन्तरानवच्छिन्नस्यानुपलब्धिरूपता अत एवोक्तं "प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते (प्र.वा.2.90)" इत्य् अभिप्रैति । अत्र च यथा प्रज्ञाकरगुप्तेन पराक्रान्तं तथास्माभिर्धर्मोत्तरप्रदीपे
दर्शितम् इति नेहोच्यते । अन्यथा [56 . 25] यदि तद्द्वारे[29अ] 1 णानुपलब्धिप्रयोगो नेष्यते । अनिषिद्धा न्यभावे सत्य् अप्रतिषिद्धानिवारितोपलब्धिर् यस्यान्यभावेपि सा तत्त्वत इत्य् अर्थः । अभावासिद्धेर् अ[56 . 25]भावानिश्चयाद् अभावायोगाद् इति यावत् ।
समुदायस्य साध्यत्वात् कथम् असौ साध्य इत्य् आह अवयव [57 . 5] इति । सम्बन्ध्यन्तरस्यानुपादानात् ।
कस्यासौ स्वभावो ऽवसातव्य इत्य् आह साध्ये 2 ति [57 . 6] । तन्मात्राद् अन्वयित्वम् अपि तस्य संभाव्यते । ततो विशिष्यत इत्य् आह यो हीति [57 . 17] । यदि नाम न व्यभिचारस् तथापि कस्माद् विशेषणं नोपपद्यते इत्य् आह संभव [57 . 22] इति । परमतमपेक्षत इति परमतापेक्षम् ईक्षिक्षमिभ्यां चे(पा.वा 470)ति कर्मोपपदे ऽणः । परेपि किम् एवम् एषितरो न भवंति येन तन्मतापेक्षम् इदम् उच्यते इत्या 3 ह नैयायिके [57 . 25]ति । वेगा ख्यसंस्कारवता द्रव्ये ण मुद्गरादिना यः संयोगा [58 . 4]ख्यो गुणस् तस्माद् अवयवेषु घटादिद्रव्यारम्भकेषु कपालादिषु, कर्माणि क्रियाबहुवचनेन व्याप्तिम् उपदर्शयति न तु बहुत्वसंख्याम् एव । संयोगस्यैक्ये क्रियाया अप्य् एकस्या भावात् । यथा वेगवत् सू 4 च्यादिसंयोगे कुवलयदले आमे वा घटे, तथापि क्रियाप्रणालिकया द्रव्यनाशो ऽस्त्य् एवेति । तेभ्यः [58 . 4] कर्मभ्यह् । अवयवा [58 . 4]नां तद्द्रव्यारम्भकाणां द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीविभागाख्यो गुण उत्पद्यते । ततो [58 . 4] विभागात् संयोगविनाशो द्रव्यारम्भकस्य संयोगस्य विनाशः । ततः सं 5 योगविनाशात् । तेनावयवसम्योगेनासमवायिकारणेन यद् आरब्धं द्रव्यं तद् विनश्यति । द्वेधा हि द्रव्यस्य नाशो वैशेषिकादिभिर् अभ्युपेयते आश्रयविनाशाद् असमवायिकारणविनाशाच् च । अत्र चासमवायिकारणस्यास्य संयोगस्य विनाशात् । {प्. 309} कार्यग्रहणेन तु वास्तवं रूपम् अ 6 नूदितम् । न तु तदारब्धं चाकार्यञ्चास्ति यद् व्यवच्छिद्यते । यदि चा(वा) कार्यत्वेनैव तन् नश्यति । यत् कार्यं तद् अवश्यं नाशधर्मकम् इति प्रतिपादयितुं कार्य [58 . 5]ग्रहणम् । आहेत्य्(भि)सम्बन्धाद् द्वितीयया निर्देशः । समवायबलाद् वृत्तौ तस्यैकरूपत्वाद् विशेषाभावो विवक्षितः । कृतकत्वानित्यत्वयोर् एकत्वे कथं गम्य 7 गमकभावो भेदे तस्योपपत्तेर् इत्य् आह[84] दर्शनेति [58 . 23] । कृतकत्वानित्यत्वयोर् धर्मयोर् यो भेदः पृथक्त्वं तस्य् आवभासः स विद्यते यस्याम् सा च सा कल्पना चेति तथा । धर्मभेदम् अवभासयतीति वा तथा । सा च सा कल्पना चेति तथा । इत्थं पदसंस्कारं कृत्वा
पश्चाद् अभूत्वाभवन्धर्मकभूत्वाभवन्धर्मकवस्तुदर्शनबलोत्पन्ना च सा 8 कृतकत्वानित्यत्वधर्मभेदावभासिकल्पना चेति विग्रहः कार्यः । सैव द्वार म् उ[58 . 27]पायस् तेन । साधकप्रमाणाभावाद् बाधकसद्भावाच् च न तत्कल्पना युक्तिमतीति भावः । एवं साध्यसाधनभावोपपत्ताव् अपि तत्कल्प्यताम् । यदि तद् एव व्यतिरिक्तम् अनित्यत्वादि तत्साध्याम् अर्थक्रियां प्राप्तुं हातुं वार्थिभिश् चिन्त्यते तद् अपि नास्तीति दर्शयितुम् आह 1 [29ब्] -- कल्पयित्वापीति [58 . 28] वस्त्वात्मन एव [58 . 28] तद्धर्मिस्वरूपस्यैव । हानोपादानविषयतया चिन्त्यत्वाद् [58 . 29] विचार्यत्वात् । कथं तस्यैव चिन्त्यत्वम् इत्य् आह -- अर्थक्रिये [58 . 28]ति । कैश्चिन्तनीयत्वम् इत्य् आह -- तदर्थिभि [58 . 29]र् इति । ताम् अर्थक्रियाम् अर्थयन्तीति तथा तैः । अर्थक्रिया च तदायत्ता अत एवोपेक्सा(पेया)र्थिन उपायम् एवानुसरंतीति । एतद् एवचार्यवचनेन संस्पन्दयन्न् आह -- तद् उ 2 क्तम् इ[58 . 29]ति । यस्माद् एवम् एवैतन् नान्यथा तत् तस्माद् उक्तम् आचार्येण । सन् हि शब्दार्थो ऽसन्ध्यावृत्तिः (सद्व्यावृत्तिः) शब्दार्थ इति यः पक्षभेद [59 . 1]स् तेन तं हेतूकृत्य ये शब्दार्थान्नापहवते(ह्नुवते) तैर् वस्त्व् एव [59 . 2] शब्दादिकम् एव । व्यावृत्तिः शब्दार्थ इति वादिभिर् अप्य् अर्थात् व्यावृत्तम् एव वस्तु तथापि प्र(था प्र)तिपाद्यत इति तेषाम् अपि वस्तुचिन्तनम् । अथवा शब्दार्थमनपव 3 दद्भिः सदापेक्ष्याभे(दादिपक्षभे)देन सत्त्वेनासत्त्वेन च वस्त्व् एव चिन्त्यत इत्य् अर्थः । तस्मा(कस्मा)द् वस्त्व् एव चिन्त्यत इत्य् आहाशं(त्याशं)कायाम् अत्रही त्य् उक्तम् । हि र् यस्मात् । अत्र [59 . 2] वस्तुनि । यद्य् अप्य् अत्र विधौ सामान्यादिरूपे व्यावृत्तौ च प्रसज्यप्रतिषेधान्मति(धात्मनि) फलोदयो न प्रतिबद्ध [59 . 2]स् तथा(थापि) किं तथात्वेन चिन्त्यते इत्य् अत आह अर्थेति । षण्ड्ःअस्य 4 [59 . 4] सुरतमाचरितुम् अक्षमस्य तृतीया(य)प्रकृतेः । रूपं च वै रूप्यं चेति द्वन्द्वैकवद्भावः तत्र कामिन्या वृषस्यन्त्याः किं परीक्षया [59 . 4] विमृष्यावधारणेन ।
__________नोतेस्__________
[84] तद्दर्शन-स्
{प्. 310} ननु यदि वस्तुतः कृतकत्वानित्यत्वयोस् तादात्म्यम् तर्हि वस्तुनः कृतकत्वनिश्चये ऽनित्यत्वम् अप्य् ऐकात्म्यान् निश्चितम् एवेति कथम् अनुमानावतार इत्य् आशंक्योपसंहारव्याजे 5 नाह -- तस्माद् इ[59 . 6]ति । यस्मात् तस्यैव वस्तुनस् ताप्यमवश्यैषितव्यं तस्मात् । दृष्टा अपि भावाः केनचिद् आत्मना निश्चितास् तदन्येनात्मना अनुमानतो निश्चीयन्त इति {5] संबन्धः । दृष्टाः साक्षात्कृता भावाः शब्दादयो धर्मिणः । केनचि [58 . 6]त् कृतकत्वादिना रूपेण, किंभूतेन? तस्मात् कृतकाद् अन्यद् अकृतकं तस्माद् व्यावृत्तेन 6 । कथञ्चिद् अभ्यासपाटवादिप्रकारेण तदन्येना नित्यत्वादिना तद्रूपम् अनित्यरूपं यन् न भवति तस्माद् व्यावृत्तेन [59 . 7] । अनेन व्यावृत्त्यभेदेन व्याव्र्त्ति(त्ते)र्भेदो दर्शितः । कृतकत्वेनेव यदि तेनाप्य् आत्मना ते तदा निश्चेतुं शक्याः कथम् अनुमानान् निश्चीयन्त इत्य् आह [59 . 8] अनिश्चीयमाना इति । अनिश्चय एव कुत इत्य् आह । भ्रा 7 न्ती [59 . 7]ति । भ्रान्तेर् विभ्रमस्य कारणं निरन्तरसदृशापरापरोत्पत्तिर् अविद्या च तस्य सद्भावात् ।
अथ यदि तदानीम् अनिश्चितरूपेण समं तस्य निश्चितस्य रूपस्य प्रतिबन्धो नावसितस् तर्हि कथम् असम्बद्धदर्शनात् तन्निश्चयो भवितुम् अर्हतीत्य् आशंकायाम् अनुमानं विशिष्टम् आह निश्चिते [59 . 8]ति । प्रमाणान्तरतो [59 . 8] विपर्यये बाधकात् प्रमाणात् । प्रति 8 बन्धावसायः पुरोवर्ती पूरभावी यस्यानुमानस्य तस्मात् [59 . 9] इतिस् तस्मात् तस्य [59 . 12] विनाशस्य् आर्थान्तरनिमित्ततया तन्मात्रानन्वयित्वे ।
यस्माद् एवंभूता सत्ता तत्समवायो वा अनित्यता अतएव [59 . 16] कारणात् आत्मादाव् एवंभूतसत्तासमवाययोर् अभावाद् इति भावः ।
अथास्त्व् एवम् किं नच्छिन्नम् अनेन तावद्विशेषणेनास्माभिर् अतत्स्वभावता 1 [30अ] विनाशस्याख्याता तावतैव चरितार्थाः स्म इति सौगतमतम् आशंक्य स्वसिद्धान्ताभ्यासव्यामोहापस्मारः परः प्राह -- विनाश इति च [59 . 16] इति । इतिर् विनाशशब्दं प्रत्यवमृषति । तेन विनाशशब्देनेत्य् अर्थः । प्रागभावादिभेदेन भावाभावस्यानेकविधत्वात् विशिनष्ति प्रध्वंसाभावलक्षणम् इ[59 . 17]ति । कृतकत्वम् अ [59 . 17]पि भवद्भिस् तदात्मकम् एव 2 मन्यते ततो ऽयुक्तम् अतत्स्वभावताप्रतिपादनम् इति च पुनर् आशंक्य पर एवाह -- कृतकत्वम् इति {25] तु [59 . 17]र् भिनत्ति मन्यामहे [59 . 17] इत्य् अभिसम्बन्ध्यते । तथाविधस्य [59 . 20] प्रध्वंसाभावलक्षणस्य । हेतुमत् तया [59 . 17] विरोधाद् अनुपपत्तेः । कथं पुनर् विरोध इत्य् आह स्वयम् इ[59 . 20]ति । एवं ब्रुवाणस् तदुपपत्त्यनभिधानकारणं दर्शयति । प्रतिपित्सवो [59 . 23]नुतिष्ठा 3 सवः । मुद्गरादेः [60 . 1] सकाशाद् उदये ऽपि तस्य [60 . 2] प्रध्वंसाभावस्य ।
{प्. 311} भावे [60 . 2] विनाशो वस्तुनि । अनुपयोगाद् [60 . 2] अव्यापारात् । अतादर्थस्थ्यो ऽनि(दवस्थ्यम् अनि)त्यत्वं तस्य च तदवस्थत्वात् कथम् अनित्यत्वम् इत्य् अर्थः । यदि नाम तद्भावे तत्पूर्वावस्थितरूपान् न विचलति तथापि तद्विशेषणौ सत्तासमवायौ तस्यानित्यता व्यवस्थाप्य 4 त इत्य् आह अविचलितेति [60 . 4] । अविचलितमनापन्नान्यथाभावं रूपं यस्य तस्य सत्तायाम् आह -- सामान्यस्य समवायस्य चैकत्वेनात्मादेर् अपि तथाभावो भवेद् इति भावः । "विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामह" इति यत्परेणोक्तं तद् अवद्यं प्रतिपाद्य "कृतकं त्व् इति च" यद् उक्तं तद् अपि 5 दूषयन्न् आह स्वकारणे[60.6]ति । समवायस्यैकत्वेनात्मादेर् अपि तथाभावप्रसङ्गेनैवम् अनिच्छतोपि न सिद्द्यतीत्य् आशयः । अमुम् एवार्थं विधिमुखेन साधयन्न् आह [ अ ] भूत्वेति [60 . 8] वर्ण्यते [60 . 8] लोकनेति शेषः । अनेनैतद् दर्शयति वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । कृतकत्वशब्देन चैवंविध एवार्थो ऽभिधीयते 6 वृद्धैर् इति । प्राक्पध्वंसाभावयोस् तद्विशेषणरूपताम् उपेत्य प्राग्दूषणम् उक्तम् । संप्रति तु ताम् अपि विघटयन्न् आह न चे [60 . 8]ति । एतच् च पूर्वम् एव व्याख्यातप्रायम् । तद् एव [60 . 10] अभूत्वाभवनं भवितृत्वं कृतकत्वम् अस्तु । एवं तुल्यन्यायतया वा(चा)भवनम् अनिच्छतो ऽनित्यता न सिद्ध्यति । भूत्वाभवनोपगमे वा स्थिरस्वभावतयैवानित्यतास्त्व् इति अभिप्रायवतोक्तम् अस्थिरत्वभावता चे [60 . 10]ति । यदि वा तस्माद् अनेन(ना)स्थिरस्वभावतैव भावस्यानुमातव्येति यद् उत्पत्त्यभिधानपूर्वकम् उपसंहृतिः तदभिप्रायेणैवम् उक्तम् । कृतकत्वस्य व्यभिचार ः [60 . 16] साध्यरहिता वृत्तिर् अनैकान्तिकत्वम् इति यावत् । प्रतिषेध्यस्यावश्यंभावित्वस्य यद्विरुद्धं अनवश्यं 8 भावित्वम् तेन यद्व्याप्त(प्तं) हेत्वन्तरापेक्षित्वं तस्योपलब्धिः विरुद्धव्याप्तोपलब्धिर् {20] इ[60 . 19]ति च विरुद्धव्याप्त्यो(तो)पलब्ध्यप्रसङ्ग इति द्रष्टव्यम् परोपगमेन पक्षधर्मतासिद्धेः । यत्र हि व्याप्तिर् वास्तवी पक्षधर्मता तु परोपगमसिद्धा स प्रसङ्गहेतुः । यत्र तु त्रितयं प्रमाणसिद्धं स स्वतन्त्रो हेतुर् इत्य् आशय एषः ।
तस्य [60 . 20] च परिमितस्य 1 [30ब्] हेतोः तदाश्रयस्य [60 . 21] रङ्गाश्रयस्य वस्त्रादेः । उपधातकः प्रत्ययो विधुरप्रत्ययस् तदुपनिपातेन नावश्यंभावितेत्य् अनवश्यं भावितेत्य् अर्थः । पुनः शब्देन रागाद् विनाशं [60 . 22] भिनत्ति । तद्धेतुसन्निधे [60 . 24]र् विनाशहेतुसन्निधेः प्राक् [60 . 24] । त एवोपधातक(का) विनाशकाः स्युस् ततश् च सहेतुको विनाशः सिद्ध इत्य् अस्याभिप्रायः ।
तकारणानां 2 च [60 . 27] स्वकारणायत्तसन्निधित्वाद् इत्य् एव संबद्ध्यते । सन्निहितानाम् अपि विनाशहेतूनां संबन्धीनीमानि विरोधीनि {प्. 312} शक्तिविबन्धकानि योगिपिशाचादीनि तेषाम् अप्य् आनन्त्यात् [60 . 28] । तद्भावे [60 . 28] तेषां विरोधिनां सद्भावे । तच्छक्तिप्रतिबन्धात् [60 . 28] तस्य नाशहेतोः शक्तेर् उपघातात् । यदि ते तद्धेतवस् तैर् अवश्यं तत्फलैर् भाव्यम् इत्य् आह 3 नावश्यम् इ[60 . 28]ति । इतिर् हेतौ सापेक्षो ऽपि [60 . 29] हि निद्रादिर्वते (हरिद्रादिवस्त्रे) द्रव्यापेक्षोपि किं न स्याद् इति प्रश्ने बौद्धीयं वचनं स्याद् [61 . 2] यदि तथोपलभ्येते [61 . 2]ति । तथा [60 . 3] सर्वगतत्वेन । यद्य् एवम् इ[60 . 3]ति परः । अन्यथाभाव [61 . 4]स्य क्वचिद् अभवनस्य शंका संदेहस् तया नाधातव्यो [60 . 4] न करणीयो भवद्भिर् इति च प्रकरणात् । 4 अनेनैतद् परो दर्शयति सर्वत्रोपलब्धस्यान्यथाभावशंकैव भवतः प्रेक्षावतो न युक्ता केवलम् अनेन व्याजेन नूनं परसिद्धान्तस्यानवद्यतया मनःखेद एव त्वया क्रियत इति । किं [85] पुनर् इ[61 . 5]ति सिद्धान्ती । सामान्यविशेषाकाराभ्यां प्रश्नः किंपुनःशब्देन निपातानिपातसमुदायेन दर्शि 5 तः । समस्तवस्तुविस्तरव्यापी [61 . 5] सर्ववस्तुबाहुल्यव्यापी ज्ञानालोको [61 . 5] यस्य भवतः स तथा । यथा तु वस्तुविस्तरशब्दसिद्धिस् तथा पुरस्ताद् अभिहितम् । तथाभावे [61 . 6] सर्ववस्तुदर्शित्वे वा कस्यचिद्धेतुकृतो विनाशो दृष्टः । सर्वस्यैव ताद्रूप्यमनिवारितम् इति आह -- कस्यचिद् इ[61 . 6]ति । तु र् अवधारणे हेत्वा 6 यत्तजन्मनाम् [61 . 7] कारणान्तराधीनोत्पत्तीनां वस्त्ररागादीनाम् अन्यथापि दर्शनाद् [61 . 8] अपितृते(अपीतत्वे)नाप्य् उपलब्धेर् हेतोः उपजाता [61 . 8]न्यथात्व शंका प्रकरणाद् विनाशस्याभावसंदेहो यस्य पुंसस् तथा सन् । अनेनार्थान्तरानुबन्धिनि विनाशो साध्ये कृतकत्वस्य संदिग्धविपक्षव्यावृत्तिकत्वेनानै 7 कान्तिकम् आह । कृतकम् अपि चायम् [61 . 9]इत्यादिना
तु साधारणानैकान्तिकं दर्श्यति । भावाभाव [61 . 10]शब्देन प्रध्वंसाभावो विवक्षितः । तस्यैव स्वनिष्पत्ताव् अपेक्षितपरव्यापारत्वेन कृतकत्वात् । तथात्वेनेष्तत्वाच् च । नित्यतोपगमे कारणम् आह तद्विनाश [61 . 10] इति । तस्य भावाभावस्य प्रध्वंसलक्षणस्य विनाशे भावस्य 8 प्रध्वस्तस्य् ओन्मज्जनमा विर्भावस् तस्य प्रसंगात् [61 . 10] प्राप्तेः ।
__________नोतेस्__________
[85] किं वा पुनर् इति स्
स्याद् एतन् नित्यं सत्त्वादिप्रसङ्गेन नाहेतुकं वस्तुनाम् उज्जनम् । न च घटादेर् भावस्य तद्विनाशविनाशोन्वयव्यतिरेकाभ्यां कारणत्वेनावगतो ऽपि तु कुलालादिर् एव । तत् कथं विनाशविनाशे तदुन्मज्जनमासंज्यमानमभजमानं न स्याद् इति । तद् ए 1 [31अ]तद् अवद्यम् । तथाहि घटाभावव्यावृत्तिर् {प्. 313} एव घटो घटविनाशश् च घटा(ट)भावव्यावृत्तिर् इति घटाभावस्याभावे घटरूपोन्मज्जनासंजनं ज्याय एवेति ।
अत्रैवोपचयहेतुम् आह न चे [61 . 11]ति । स [61 . 14] नाशो ऽहेतुः सन् तस्य [61 . 14] प्रध्वंसाभावस्य कथं [86] जायेत [61 . 14] जनितुम् अर्हति ।
__________नोतेस्__________
[86] संजायते स्
भाषानां [61 . 17] वस्तूनाम् अयं विनाशाख्यो धर्म ऐकान्तिको ऽ[61 . 17]वश्यंभावी । 2 अनेनैतद् दर्शयति -- नैव कृतकत्वं निर्विशेषणं साधनम् अस्माभिर् अभिधीयते येनैवं स्यात् किन्तु वस्तुत्वविशेषणानव(णेनाव)विच्छिन्नं ततो वस्तुत्वे सति यत्कृतकत्वं तदवश्यंभाविनाशम् इत्य् आर्थ इति । कुतः पुन [61 . 17]र् इत्यादिना सिद्धान्ती प्रतिविधत्ते क्षेपे किमः प्रयोगान् न कुतश्चिद् इत्य् अर्थः । एतद् इ[61 . 18]ति भावानाम् अवश्यभावी विनाश इति । तेषां 3 भावानाम्[87] अन्यथात्वस्य [61 . 18] अविनाशित्वस्यानुपलब्धेर् एतद् अवसितम् इति प्रकरणात् । भवन्न् अपि [61 . 18] विद्यमानोपि । आत्मादेः [61 . 18] सत्ताया अनिवर्तक [61 . 18] आत्माद्यभावस्यासाधकः कथम् अन्यत्र [61 . 18] वस्तुषु अन्यथाभावम् अविनाशित्वं निवर्तयति [61 . 19] निषेधयति । आत्माद्युपन्यासेन चैतद् दर्शयति । यद्य् अविनाशित्वानुप 4 लम्भो ऽविनाशाशित्वाभावं साधयति तर्हि विशेषाभावाद् आत्माद्यनुपलम्भोपि तदभावं साधयेत् । न चायम् अपीति दृष्टान्तविघटनं परस्याशंकमान आह तस्ये [61 . 19]ति । तस्य आत्मादेः आत्मनस् तावद् रूपरसादिप्रत्ययानाम् एकानेकत्वसाधकस्याबाधितप्रतिसन्धानविषयत्वादेर् अनुमानात् 5 । आदि [61 . 18]शब्दसंगृहीतस्य च दिगादेः पूर्वापरादिप्रत्ययादेर् अनुमानत इति बुद्धिस्थम् । इति ना [61 . 19] वक्तव्यस्याकारः कथितः । तत्राप्य् अनुमाने [61 . 20] तत्सत्त्वसाधके ।
__________नोतेस्__________
[87] अन्यथाभावस्य स्
ननु यस्यानुपलब्धिस् तस्याभाव एवेत्य् अभिधातरि को ऽयम् उपालम्भः । विपक्षेपि हेतोर् वृत्त्यदर्शणे ऽभावसिद्ध्यविरोधात्; आत्मादेस् त्व् अ 6 नुपलब्धिर् एवासिद्धा ततो नाभावसिद्धिर् इति । साधूक्तं भवता केवलं तत्रापी [61 . 20]त्यादि ब्रुवतो ऽभिप्रायो न सम्यग्व्यज्ञायि । अयं खल्व् अस्याशयः । तावद्धेतोर् विपक्षे ऽनीक्षणं न क्षमते अभावं विभावयितुं, यावद् यद्य् अन्नोपलभ्यते तत् तन् नास्तीति न सिध्यति । सति चैवमात्माद्यनुपलभ्यमानम् असत्सि 7 द्धम् इति प्रमाणप्रतिक्षिप्तं कथं अनुमानस्य विषयः स्यात्? तद् उक्तं "व्याप्तो हेतोर् अनाश्रय" इति । यदि वानुपलम्भ एव प्रतिबन्धशून्यः केवलो ऽनुपलम्भो देशकालविप्रकृष्टेषु कथं तथाभावम् अवबोधयेत्? यतस् तेन सिद्धिविपक्षा हेतुव्यावृत्तिर् आत्मादेः सत्त्वम् अनुमापयेद् इति । प्रयोगभङ्ग्यैव [61 . 25] प्रयोग 8 विन्यासेनैव प्रसङ्गेना [62 . 1]नुषङ्गेन प्रस्तावेनेति यावत् । {प्. 314} साध्यदृष्टान्तधर्मिणोः समानः [62 . 3] सदृशो हेतुसद्भावलक्षणो धर्मः [62 . 3] प्रतिपाद्यतया यस्य [62 . 3] प्रयोगस्यासौ सधर्मा, समानस्येति योगविभागात् समानस्य पक्षादिष्व् इति वक्तव्ये परिग्रहाद् वा स भावस् तस्य भावो [62 . 3] भवतो ऽस्माद् अभिधानप्रत्ययाव् इति कृत्वा [31ब्] 1 रूपविशेषः । तयोर् एव विसदृशो [62 . 4] हेतुसद्भावासद्भावलक्षणो धर्मः प्रतिपाद्यतया यस्य तस्य भावः [62 . 5] अशेषस्य साध्येतरधर्मिणः (साध्यधर्मिणः) साध्यधर्मणोवान्यत्र सर्वत्र साध्ये हेतोर् व्याप्तिर् विवक्षिता । न तु साध्यधर्मणो ऽन्यत्र दृष्टान्तधर्मिणि प्रवृत्तेन सर्वोपसंहारेण गृह्यमाणा व्याप्तिर् बहिर्व्याप्तिः तस्या निरासः [62 . 1] ।
ननु च सत्त्वलक्षणे 2 स्वभावहेतौ साध्यधर्मिण्य् अपि विपर्यये बाधकप्रमाणवृत्त्यापि व्याप्तिर् ग्रहीतुं शक्यत इति । नैतद् अपेक्षया हेतोर् अन्यत्र वृत्त्यपेक्षया किंचिद् येनेदम् आसज्येत । किंतु कार्यहेतोः सर्वस्य स्वभावहेतुविषयस्य चावश्यम् अन्यत्र प्र(अ)वृत्तिर् अपेक्षणीया । तदर्थं अन्यत्राअनुवृत्तिर् इत्य् आशङ्कितम् इति किन् न भवान् व्याचष्टे 8 । आचार्यस्य च सत्त्व 3 हेतूपन्यासानन्तरं यथा घटादय [62 . 9] इत्य् उदाहरणदर्शनात् तु त्वदीयं व्याख्यानम् अपव्याख्यानं लक्ष्यत इति निर्भर्त्सनामाशङ्क्यास्याचार्यस्यान्यदृशम् अभिप्रायम् उद्घाटयन्न् आह यथा घतादय [62 . 9] इति । यस्य [62 . 9] पुंसः । किं पुनस् तत्र स्मृत्याधानार्थं दृष्टान्तवचनम्, न तु दृष्टान्तमात्रप्रतिपादनार्थम् इत्य् आह -- दृष्टान्ते [62 . 11]ति 4 । अनेन पुरुषविशेषं प्रति एतद् आचार्येणेति नास्मद्व्याख्यानस्य किंचिद् अवद्यम् इति दर्शयति ।
विभक्तिविपरिणामेन सम्बन्धम् एव सर्वस्मिन्न् इ[62 . 16]त्य् अनेन दर्शयति ।
बहिर् एवध्याप्तिर् बहिर्व्याप्तिस् ताम् । ते [62 . 23] निरस्ता भवन्ति [62 . 25] इति सम्बन्धः । यद्य् अपी [62 . 24]ति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे । तावते [62 . 24]ति साधनधर्मस्य साध्यधर्मेणान्वयदर्शनमात्रेणेति । अस्य [62 . 24] साधनधर्मस्य तथाभावस्य साध्येनान्वीयमानत्वस्य अभावात् [62 . 24] । प्रतिबन्धम् अन्तरेण तदभावे ऽपि तदभा(तद्भा)वाविरोधाद् इति भावः । इतिः [62 . 25] हेतौ । तस्य प्रतिबन्धसाधकस्य प्रमाणस्य[88] स्मरणाय [63.3] । धर्मविशिष्टः [63 . 4] सिषाधैय्षितधर्मविशि 6 ष्टो धर्मी [63 . 5] शब्दादिः । तस्याः [63 . 6] साध्यधर्मविशिष्टधर्मिप्रतिपत्तेः । व्याप्तिप्रदर्शनपूर्वके पक्षधर्मप्रदर्शने ऽभिधाय पक्षधर्मप्रदर्शनपूर्वके व्याप्तिप्रदर्शने ऽप्य् आह -- तत्पूर्विकायां चे [63 . 8]ति । तत्पूर्विकायां पक्षधर्मप्रदर्शनपूर्विकायां व्याप्तौ [63 . 8] {प्. 315} प्रदर्श्यमानायाञ् चेति शेषः सर्वोपसंहारेण व्याप्तिग्रह 7 णे प्लवमानाकारायाः प्रतिपत्तेर् उभयत्राविशेषान्मुखभेदमात्रेणैतद् उक्तम् इत्य् अवसेयम् ।
__________नोतेस्__________
[88] तत्स्मृतये स् ।
साध्यनिर्देशः प्रतिज्ञा [63 . 24] तस्याह् प्रयोगः [63 . 24] प्रयुक्तिः स न [89] दर्शितः [63 . 24] साध्यनिर्देशो न कृत इत्य् अर्थः । प्रत्यक्ष [64 . 12]ग्रहणं प्रमाणोपलक्षणं द्रष्तव्यं तेन तभिस्रायां रात्रौ प्राक्तनादिविप्रकृष्टे देशे कर्पूरोर्णादिगर्थ(गन्ध)विशेषाद्धू 8 मविशेषम् अनुमानतो निश्चित्याग्निविशेषम् अनुमिन्वतो ऽपि सङ्ग्रहः । प्रतिज्ञाप्रयोगरहिताद् इ[64 . 16]त्य् अवधारणफलप्रदर्शनम् एतत् ।
__________नोतेस्__________
[89] नोपदर्शितः स् ।
अत्रार्थितैव कर्णम् आगत्य बुद्धिस्थं प्रकाशयति य पिशाची सा किल कर्णपिशाचिका [64 . 18] ।
लिङ्गस्य पक्षधर्मान्वयव्यतिरेकात्मनो गमकस्य अनुसरणं [65 . 12] निश्चयनम् । इतिः [65 . 14] हेतौ । उपहसति [65 . 14] त 1 [32अ]त्ताम् अधिरोहति । किम् उपहसतीत्य् आह -- यत् तद् इ[65 . 14]ति लोकोक्तिश् चैषा । कथं तत्स्पर्धास्योच्यत इत्य् आह तत् तुल्यत्वाद् इ[65 . 15]ति । अस्य [65 . 15] अनुमातुः । क्रमस्य [65 . 15] समानाधिकरणषष्ठ्य् एव वा ।
" तद्वचनस्ये "[65 . 23]त्यादिना पूर्वं स्वयं कारणम् अभिधाय आचार्योक्तं कारणं दर्शयितुं परं प्रश्नेनोपक्रमयति कस्माद् इ[65 . 13]ति । यदि प्रतिज्ञाप्रयोगे ऽपि सा शङ्का तर्हि 2 किं तेनेत्य् आशङ्क्य पर एवाह अनित्य [66 . 13] इत्यादि । तदा( तु ना) [66 . 13] प्रतिज्ञाप्रयोगपक्षं विशिनष्टि "अ सति साध्यनिर्देश [66 . 9]" इत्य् एवाभिसम्बध्यते । हेतु श् च विरुद्ध श् च अनैकान्तिक श् च तेषां प्रतीतिः [66 . 14] निश्चयो न स्यात् । इदम् एव दूषणं तेन समुच्चितम् । अत्रैव दूषान्तरम् अपि समुच्चिन्वन्न् आह । हेतोश् चे [66 . 17]ति । स्वपक्षविशेषं दर्शयन्न् आह ।[90] सति त्व् इ[66 . 18]ति । यवते [66 . 27]ति तृती 3 यान्तप्रतिरूपको निपातः किन्त्व् एतस्यार्थे वर्तमानो अत्रोपपत्तेः । तस्मिन् निबद्धतद् (तस्मिन् इव तद्वत्) विषयः साध्यलक्षण उपस्थाप्यते [67 . 3] उपनीयते येने [67 . 3]त्य् अर्थकथनम् एतत् । उपस्थाप्यते येन पुरुषेणासौ तथा, विषयस्य तथेति तु विग्रहः । तेनानिर्दिष्तविशेषेण केनचिद् विना [67 . 4] कथं पुनस् तान 4 (तेन) साध्यम् उपस्थाप्यत इत्य् आशंकायां योज्यं --[91] प्रतिज्ञाद्वारेणेति । [67 . 3]
__________नोतेस्__________
[90] "तु" नास्ति स् ।
[91] प्रतिज्ञावचनद्वारेनेति स् ।
{प्. 316} एवं तावद् अनेन व्याख्यातम् । केचित् पुनर् अन्यथाप्य् एतद् व्याचक्षते । उपस्थाप्यते प्रकाश्यते येन [67 . 3] वचनेन तेन विना [67 . 3] । अयम् अपि "प्रमेयस्योपदर्शनम् अन्तरेण" [69 . 24] इत्य् अत्रोपदर्शन शब्देन वचनम् एव व्याख्यास्य[ति] न तु पुरुषम् । तद् अपि 5 अग्निर् अत्राग्निमानयं साग्निर् अयम् इत्यादिरूपेणानिर्दिष्टविशेषं विवक्षितम् इत्य् अतः -- केनचिद् इत्य् उक्तम् इति कार्यिणो [67 . 5]र्थिनः । अर्थित्वं चान्वयब्राह्मणाप्राप्त्यादिना द्रष्टव्यम् । मूल्यं [67 . 6] निष्क्रयं मृगयते [67 . 6] प्रार्थयते । इतस् ततः पार्वणश्राद्धादिभोजी द्विजः पर्वब्राह्मणः [67 . 6] । अमुम् एव दृष्टान्तं विवृण्वन्न् आह यथे [67 . 6]ति । दक्षिणा [67 . 7] अत्र प्रकरणाद् भोजनानन्तरं दानं द्रष्टव्यम् । अन्यदा [67 . 7] अर्थविशेषाप्राप्तिकालाद् अन्यस्मिन् काले । प्रार्थनापूर्वकम् इतस् ततो भोजनशीलत् और्ध्वरथ्यिकः [92]पर्वब्राह्मणसदृशस्य चैतद् विशेषणं चरणम् । श्र( श्रा ) द्धादी [67 . 8]त्य् अत्रादिग्रहणाद् उपनयनसमावर्तनादिपर्वसङ्ग्रहः । अर्थित्वमा 7 त्रेपि नैतद् वचनं तस्य सम्भाव्यत इति तं विशेषयन्न् आह -- श्रद्धालु [67 . 8]म् इति । श्रद्धालुं श्रद्धावन्तम् । अनेन श्रद्धानुविद्धम् एवार्थित्वं कार्यशब्देन वार्तिककृतो विवक्षितम् इति दर्शयति । घृतपुरः [67 . 8] खाद्यविशेषस् तं प्रति । सोपि मह्यं प्रचुरो दातव्य इति विरुक्तेन दर्शयति ।[93] रूप्यं [67 . 9] प्रचुरतरताम्नाल्पतररूप्यघटितो द्रव्य 8 विशेषः । दक्षिणायथादौ (णादौ) च प्रायेण रूपकेण व्यवहारः । ददा [94]त्य् अभिसम्बन्धाद् द्वितीया । तेन [67 . 9] एवंवादिना पर्वब्राह्मणेन ।
__________नोतेस्__________
[92] और्ध्वरथिकः स् ।
[93] रूपकं स् ।
[94] ददासि स् ।
ननूक्तम् एतद् यथा परार्थे ऽनुमाने लिङ्गं परस्माद् एव प्रत्येयम् इति तत्पुनस् त्वया न अपहस्तितम् इति आशंकायां यद्[95] अस्मद्वचनाद् अपी [67 . 17]त्य् उक्तम् । तद् व्याख्यातुं किं चे [67 . 11]त्यादिनोपक्रमते 1 [32ब्] किं चेति च ब्रुवाणो नियतं वक्तव्यान्तरसमुच्चये । अर्थाद् आचार्यस्याभिप्रेत इति दर्शयति न त्व् अस्यैव वक्तव्यान्तरसमुच्चयार्थः किंच [67 . 11]शब्दप्रयोगो घटते । यद् अपि ब्रवीषीत्यादेर् अस्मद्वचनाद् अपीत्याचार्यवचनान्तरव्याख्यानपरत्वस्य व्यक्तत्वात् । अथवायं निपातानिपातसमुदायः किञ्चशब्दो ऽस्य विवक्षितः किन्तु 2 चकारः अपिशब्दस्यार्थे । तेन किम् अपीत्य् उक्तं भवति । ततो ऽयं वाक्यार्थो यद् अपि किम् अपि ब्रवीषीति । एवं च ब्रुवता लोकोक्तिर् अनुकृतेति । तद्वचनस्य [67 . 18] लिङ्गवचनस्य, अनुसरिष्यति [67 . 20] तद् एव लिङ्गम् इति प्रकृतत्वात । अङ्ग [68 . 1]शब्दो ऽत्राध्येषामन्त्रणे । किं [68 . 1]शब्दः सामान्यतः प्रश्ने पुनः [68 . 1] शब्दस् तु विशेषतः । तेनायम् अर्थो {प्. 317} युष्मा 3 न् एवाध्येष्य सामान्यतो विशेषतश् चैव पृच्छाम इति । उपहासे चेयम् अध्येषणा प्रकरणाद् द्रष्टव्या ।
__________नोतेस्__________
[95] यतः अस्मद्वचनाद् अपि स् ।
आदि [68 . 4]शब्दाद् वैधर्म्यवत् प्रयोगस्य हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च ग्रहणं । प्राक् प्रतीति [66 . 23]शब्देनाचार्येण साधर्म्यवैधर्म्यवत् प्रयोगयोर् हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च स्वरूपप्रतीतिर् विवक्षितेत्य् अभिप्रेत्य साधर्म्यवत् प्रयोगदेः [66 . 24] प्रतीतिर् इति व्याचष्टे । अतएव क्रमेणैतत् सर्वं दर्शयिष्यते ।
ननु किम् अवश्यं प्राप्तिः पक्षधर्मस्य च प्रयोगो येनैवम् उच्यमानं शोभते इत्य् आशंक्याह -- एवं मन्यत [68 . 9] इति । तद् अनित्यम् इति उक्तं [68 . 18] इति योजयित्वा किं 5 तन्मात्रोक्त्या सो ऽवगम्यत इत्य् अशंकायां पक्षधर्मवचने सती [68 . 18]ति योज्यम् । यत् कचिद् इ[69 . 5]त्यादि तु[96]पूर्वम् एव कृतव्याख्यानम् । अनुमानकाल एवात्र व्यवहारकालो [69 . 6]भिप्रेतः । न पक्षादिसङ्केतग्रहणापेक्षा [69 . 6] वस्तुगति र् इत्य् अनुवर्तते । आचार्यपादै [69 . 12]र् इत्य् आचार्यवसुबन्धुम् अभिसन्धा 6 योक्तम् । नान्तरीयकार्यदर्शनं तद्विदो ऽनुमानम् इ[69 . 12]त्य् आस्यायम् अर्थः । योर्थः किंचिद् अन्तरेण न भवति स नान्तरीयकः । अत्र च सामर्थ्याद्यम् अर्थम् अन्तरेण न भवति तन् नान्तरीयक इति ग्राह्यम् । स चासावर्थश् चेति तदा तस्य दर्शनम् । दर्शनेन च विषयिणा विषयस्य तस्यैव दृश्यमानस्य 7 निर्देशः । तेन निश्चीयमान एवासौ परोक्षार्थहेतुर् भवतीति दर्शितम् । तद्विद [69 . 12] इति तन्नान्तरीयकतां यो वेत्ति तस्येत्य् अर्थः । अनुमान [69 . 12]हेतुत्वाच् चानुमानम् उक्तम् । इति [69 . 13]र् गमकरूपमात्रस्य स्वरूपं दर्शयति[97] वादविधौ वादविधिसंज्ञके प्रकरणे । तत्राप्य् आ[69 . 14]चार्यीये लक्षणे । कैश्चि [69 . 14]द् उद्द्योतकरप्रभृति[भिः] । कुतः पुनर् असंत एव दोषास् तैः कीर्त्यन्त 8 इत्य् आशंकायां योज्यं स्वप्रज्ञे [69 . 14]ति । स्वप्रज्ञाया अपराधो दोषस् तस्मात् । तु [69 . 14]र् अवधारयति । तथा ह्युद्द्योतकरेण किलानुमानसूत्रवार्तिके ऽपरे तु ब्रुवते नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानम् इति" (न्यायवा. प्. 54) पठित्वा तस्यार्थं मात्रया विवृत्त्यैव "अत्रार्थग्रहणम् अतिरिच्यत" इति मात्रयैव दूषणम् उक्त्वा पुनर् विपञ्चितम् -- "नान्तरीयकार्य इति समासपदम् एतत् । तत्र यदि षष्ठी 1 [33अ] समासो नान्तरीयकस्यार्थ इति । नान्यन्तरीयकं तावत्कृतकत्वम्, तस्यार्थो धर्मः प्रयोजनम् वा? यदि तावद् धर्मः कृतक[त्व]स्यार्थः, सत्त्वप्रमेयत्वाभिधेयत्वाद्य् अनुमानं प्राप्तम् । अथ प्रयोजनम् अनित्यत्वप्रतिपत्तिर् हेतुः प्राप्तः । अथ बहुव्रीहिर् नान्तरीयको र्थो यस्येति । तत्रापि कृतकत्वं
नान्तरीयकं तद् यस्य स हेतुः प्राप्तः । तच् च कृतकत्वं घटादेः {प्. 318} 2 शब्दस्यानित्यत्वस्य वा । यदि घटादेः, घटादिर् हेतुः प्राप्तः । अनित्यः शब्दो घटात् । अथ शब्दस्य, शब्दो हेतुः प्राप्नोति । अनित्यः शब्दः शब्दात् । अ(अथा)नित्यत्वस्य[98]साध्यसाधनकृतकत्वं धर्मस् तथाप्य् अनित्यः शब्दो ऽनित्यत्वाद् इति प्राप्नोति । अथानित्यत्वस्यार्थः कृतकत्वम् इति । सर्वथा कृतकत्वम् अनित्यत्वे न हेतुः स्यात् । अथ समानाधिक 3 रणो नान्तरीयकश् चासाव् अर्थश् चेति । तथाप्य् असमर्थः समासो विशेषणविशेष्यनियमाभावात् । उभयपदव्यभिचारे सति समानाधिकरेणा भवति नीलोत्पलवत् नीलशब्दस्यानेकार्थप्रवृत्तत्वाद् उत्पलशब्दस्य च तथाभावात् सामानाधिकरण्यं भवति । न पुनर् इह नान्तरीयकत्वे इत्य् उ(क इत्य् उ)क्ते 4 स्ति व्यभिचारो ऽर्थो ऽनर्थ इति येनार्थग्रहणं समर्थं स्यात् । एकपदव्यभिचारो ऽपि दृष्टं सामानाधिकरण्यं पृथिवी द्रव्यम्" इति चाशंक्योक्तम् "अन्यथा तं(तत्)पृथिवी द्रव्यम् इति । अत्रोभयपदव्यभिचारः । प्रधानाङ्गभावस्य भेदेन पृथिवीशब्देन द्रव्यम् अप्य् उच्यते पृथ्वीत्वञ् च । द्रव्यशब्देन च प्रधानाङ्गविवक्षया 5 द्रव्यं द्रव्यत्वञ् च अत एवोभयपदव्यभिचारात् पृथिवी द्रव्यम् इति युक्तम् उक्तम् । इह पुनर् न युक्तं नान्तरीयकद(कार्थद)र्शनम् इति । कस्माद् अर्थप्रत्यायनार्थत्वाच् छब्दप्रयोगस्य -- अर्थप्रत्यायनार्थं हि शब्दस्य प्रयोगम् इच्छन्ति । नान्तरीयक इति चोक्ते ऽर्थो गम्यते । अतो न युक्तो ऽर्थशब्द इति । तद्विद इति न युक्तम् नैवान्यथानान्तीयक (?) इति । न हि नालिकेर् अद्वीपवासिनो धूमदर्शनान् नान्तरीयक इति ज्ञानम् अस्ति । अतस् तद्विद इत्य् अपि न वक्तव्यम् ।" (न्यायवा. प्. 54-55) असन्त एव दोष इति ब्रुवाणश् चायम् एवाभि(वम् अभि)प्रैति । समासान्तरपक्षभाविनस् तावद् दोषानभ्युपगममात्रेणैकप्रहारनिहताः । समानाधिकरणसमासस् त्व् एकपद 6 व्यभिचारेपि दृष्टत्वान् नानुपपन्नः । तथा ह्य् अर्थो नान्तररीयको ऽपि स्याद् अनित्यलक्षणो ऽनान्तरीयको ऽपि स्यात् नित्यलक्षणः । तत एकपदव्यभिचाराद् अपि सामानाधिकरण्यम् अविरुद्धम् । अथ त्वन्मते नित्यो नामास्त्य् एव कल्पविपरिवर्ति तावद् अस्ति, तत एवैतद् उपलप्स्यते । अन्यथायम् अनित्यध्वनिः कं व्यवच्छिंद्यात् ।बौद्धाभिमतस्य 8 च तथाभूतस्य क्षणिकत्वस्य केनचिद् अनिष्टेः
तथाभूतव्यवच्छेदात् नैवाक्षणिकज्ञानवास्त्वित्यादौ प्रयोगे ऽयम् अक्षणिकध्वनिः कं व्यवच्छिंद्यात् । अथ नान्तरीयक इति पूर्वम् उक्ते ऽर्थस्यावगतत्वात् किम् अर्थपदेन येनैवं समासश् चिन्त्येत । हन्ताकाशा[दि]शब्देनैव पूर्वभाविना द्रव्यादिरूपस्यावगतत्वात् किं द्रव्यादिशब्देन ये 1 [33ब्]न तत्रापि तथा समासः स्यात् । तद् एवम् आदौ य एव ते परिहारः समाधिर् भ(स मे ऽपि भ)विष्यति इति यत् किञ्चिद् एतत् । यत् तु पृथिवी द्रव्यम् इत्य् अत्रोभयपदव्यभिचारं दर्शयित्वा सर्वत्रोभयपदव्यभिचाराद् एव समानाधिकरणः समासो भवतीति दर्शितं तद् योगः(तत् पापीयः) । आकाशद्रव्यं दिग्द्रव्यं कालद्रव्यम्, {प्. 319} सामान्यपदार्थः, विशेषपदार्थः, समवाय 2 पदार्थः षट्पदार्थः याचकपुरुष इत्यादौ उभयपदव्यभिचारस्य ब्रह्मणापि विभावयितुम् अशक्यत्वात् सामानाधिकरण्यस्य च दर्शनात् । न ह्य् एषाम् आकाशादीनां सामान्यं केनचिद् अप्यते संगच्छते वा येनाकाशादिशब्दानाम् आकाशाकाशत्वाद्यनेकार्थवृत्तित्वाद् उभयपदव्यभिचारे समानाधिकरणः समासः स्यात् । 3 नापि षण्णां किञ्चित् सामान्यम् अस्ति यस्याप्य् अभिध्याद् अ(भिधानाद् अ)यम् अप्य् उभयपदव्यभिचारो वर्ण्यते । न च याचकशब्देन कर्मापि तज्जातिर् अपि वाभिधीयते । अत्र चोपपत्तिर् अन्यत्राभिहितेति नोच्यते । न चाकाशद्रव्यं, सामान्यपदार्थः, याचकपुरुष इत्यादि कर्मधारयः समासो न 4 दृश्यते । किञ् च यथा पृथिवीशब्देन पृथिवी पृथिवीत्वञ् चोच्यत इत्य् उभयपदव्यभिचारात् पृथिवीद्रव्यम् इति युज्यते वक्तुम्, तथा नान्तरीयकत्वं नान्तरीउअकश् च, अर्थशब्देनाप्य् अर्थत्वम् अर्थश् चोच्यत इत्य् उभयपदव्यभिचाराद्युक्तार्थ एव समासः । अथ त्वन्मते नार्थत्वाद्य् अस्ति । यदि नाम वास्तवं नास्ति तथापि कल्पितं तावद् अस्ति । तावतापि शब्दसिद्ध्युपपत्तेर् उक्तप्रायम् एतद् इति किं बहुना? वस्तुवृत्त्याभावान् नान्तरीयकार्थो धूमो भवति । तस्य दर्शनं [69 . 12] नान्तरीयकार्थदर्शनम् अपि भवति । तत्र यदि तद्विद [69 . 12] इति नोच्येत तदा नालिकेर् अद्वीपायातस्य धूमदर्शनम् अनुमानम् आपद्येत ततस् तद्विद इति वक्तव्यम् एव । न च नान्तरीयको ऽर्थ इति ज्ञानम् ए 6 व नान्तरीयकार्थज्ञानम् इत्य् उच्यते, येनैवम् उच्येत । किंतु वस्तुतो ऽनान्तरीयको यो न भवत्य् अर्थः, तस्य यद्दर्शनं
तद् अपीत्य् अलम् अतिशब्दार्थपर्यवदातमतीनां वचन विधा(चा)रणयेति । प्रतिज्ञावचनं न युक्तम् इ[69 . 16]ति सम्बन्धः । कथम् अयुक्तम् इत्य् आशंकायां पक्षधर्मेत्या [69 . 16]दिकारणवचनम् ।
__________नोतेस्__________
[96] पृ. 260. पं. 23
[97] नास्ति स् ।
[98] अनित्यत्वस्य साधनभावेन कृतकत्वं धर्मः । न्यायवा. प्. 54
संशयितादिक [69 . 25]म् इत्य् अत्रादि 7 ग्रहणेनाप्रतिपन्नस्य जिज्ञासोश् चावबोधः । सामान्यन्यायसिद्धाम् अस्तिक्रियाम् अपेक्ष्य मुक्त्वे [69 . 29]ति पौर्वकालिकः प्रत्ययः प्रत्येयः ।
संशयजिज्ञासादिक[70.9]म् इत्य् अत्रादिशब्दात् प्रयोजनादिपरिग्रहः । तथामुनैवादिग्रहणेन पञ्चम्यन्तस्यापि हेतुप्रयोगस्य संग्रहः कार्यः । असति हि साध्याभिधाने कुत एतद् इति हेत्वा 8 कांक्षाया एवाभावात् । साध्यसिद्धौ हेतोर् निमित्तत्वं कथयन्तीं पंचमीम् उच्चारयन्तं कथम् इव विचक्षणा तयाच(णा न प्रत्याच)क्षीरन्न् इति । दृष्टान्त एव वचनकर्मतां नीयमान उपसंहरणं तद् अपेक्षः उपसंहारो [70.11] ढौकनं सत्त्वप्रदर्शनम् । दृष्टान्तदृष्टसामर्थ्यस्य हेतोर् इति च प्रकरणाद् द्रष्टव्यम् । साध्यशब्देनोपचारात् साध्यधर्मीष्टः । [34अ] 1 पष्ठीसप्तम्योर् अभेदाच् च साध्यधर्मिणीत्य् अर्थो बोद्धव्यः । इति [70 . 13]र् लक्षणस्य स्वरूपम् आह प्रतिज्ञाया [70 . 14] लक्षणम् इत्य् अनुवर्तते ।
{प्. 320} तस्य प्रमाणवलायातस्यार्थस्य संप्रत्ययो [70 . 28]न्यथाशंकार्थाव्य(-काव्य)वच्छेदः तदर्थं यथा भवति । यदि प्रमाणानां व्यापारो निगमनेनोपसंह्रियते । तदैतद् युज्यते वक्तुम् । न चास्य तथात्वम् इत्य् आशंक्याह अशषे [70 . 28]ति चो [70 . 29] यस्माद् अर्थे 2 । व्यापारशब्देन व्यापारफलम् अभिप्रेतम् ।
ननु कानि पुनर् अत्र प्रमाणानि सन्ति यद्बलायातार्थोपसंहरणम् अस्य वर्ण्यत इत्य् आशङ्क्य परै एषाम् अवयवानाम् एवं प्रमाणत्वरूपम् आख्यातम् इत्य् आख्यातुं तथाही [70 . 29]त्यादिनोपक्रमते ।
उपरी [71 . 4]ति प्रकरणाद् अन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद् राजपुत्रस्य महामात्रस्य वा 3 योगिनो(ना)न्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा चा(वा) तदु[त्]साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जते ऽत एव नामलेखनम् इ[99][71 . 4]ति णिचा निर्दिष्टम् । अयुक्ततया निष्फलम् अपी[100][71 . 5]ति वास्तवानुवादो ऽप्य् एष प्रकृतोपयोगी । बालप्रतारकञ् च तत्तदुपयोगवर्णनञ् चेति 4 तथा तल्लक्षणया [71 . 13] । वैयर्थ्यादि स्याद् इति सम्बन्धात् प्रतिज्ञावचनस्ये [71 . 21]त्य् उक्तम् ।
__________नोतेस्__________
[99] नामलेखने -- स्
[100] "अपि" नास्ति -- स्
ननूद्योतकरोपवर्णितम् अस्य प्रयोजनम् अस्तीति कथं वैयर्थ्यम् इत्य् आह यत् तूक्तम् इ[71 . 22]ति । दत्तम् उत्तरम् इ[71 . 23]ति । "तेनैव तावद् दर्शितेने"[66 . 3]त्यादिनोक्तत्वाद् उक्तम् । यथोक्ते च स्वयम् उत्तरम् आह यश् चे [71 . 23]ति । तदभावे [71 . 27] प्रथमं साध्यल 5 क्षणकर्मनिरूपपणाभावे । स्वार्थानुमानदृष्टश् चे [70 . 21]त्यादिना च यदुपनयसमर्थनार्थं परेणोक्तं तत्प्रतिविधातुकाम आह यश् चाग्नी [72 . 1]त्यादि । चो यस्माद् अर्थे । कदाचिद् इ[72 . 4]ति यदा धूमं दृष्ट्वा तस्याग्निना व्याप्तिम् अनुस्मृत्य तं तत्त्वेन प्रत्यवमृश्य प्रत्येतीति । अस्य [72 . 4] प्रत्यवमृश्य प्रत्ययार्थस्य । तदे [72 . 4]त्याद्य् उ 6 त्तरम् । अथ तदन्तरेणापि यत् पक्षार्थप्रतीतेर् अविधानान् न तेन किञ्चिद् इति ब्रूयात् । समानम् इदं प्रकृते ऽपीति च बुद्धिस्थम् अस्यैवं ब्रूवतो द्रष्टव्यम् ।
प्रमाणव्यापारसमर्थनार्थञ् च यद् उक्तं[101]तत्राप्य् आह । यत् पुनर् इ[72 . 7]ति । न क्वचिद् आगमे पठ्यत [72 . 9] इति ब्रुवता चागमप्रतिज्ञयोर् एकविषयत्वाद् आगमः प्रति 7 ज्ञेत्य् उच्यत इति ये वर्णयन्ति [ते] निरस्ताः । यो हि प्रतिज्ञयोच्यते ऽर्थः स एव चागमेप्य् उच्यते तदैव तत् स्यात् । न चैवम् अतो निरासः ।
__________नोतेस्__________
[101] प्. 70 पं.29
{प्. 321} हेतुशब्देन गमकवचनं वाच्यम् । गमकञ् च त्रैरूप्यवल्लिङ्गम् । न च पञ्चम्यन्तेन तेन शब्देन लिङ्गस्य त्रैरूप्यम् अभिधीयते किन्तु पक्षधर्मत्वमात्रम् [72.11] निमित्तभाव एव चेत्य् एवं व् 8 अदितुर् अभिप्रायः । एतेन तद् अपि विनिक्षिप्तम् यत् कैश्चिन् निपुण(णं)मन्यैर्नैयायिकैर् उच्यते, "प्रतिज्ञार्थं साधयितुं समर्थं पक्षधर्मत्वेनोपसंहर्तव्यं लिङ्गं अनुमानं तदभिधायी शब्दो हेतुः सो ऽप्य् अभिधेयस्य नियमहेतुत्वात् बाह्याङ्गं सामानाधिकरण्यं चाभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पाररंपर्ये[34ब्] 1 ण चैकचिषयत्वाद् इति । "तावद्धि धूमादिवस्तु न लिङ्गं यावद् वह्न्यादिनान्तरीयकतया न निश्चीयते, धर्मिविशेषे च क्वचिन् नोपलीयते । तन्नान्तरीयकतया निश्चितं क्वचिद् उपसंहृतं च साध्यसाधनसामर्थ्यं भवति नान्यथा । न च पचम्यन्तेन "धूमाद्" इत्यादिना शब्दे[न] तस्य तन्नान्तरीयकत्वं पक्षे च सत्त्वं कथ्यते । उदाहरणोपनययोर् वैयर्थ्यंप्रसङ्गात् । 2 तत् कथं प्रतिज्ञार्थसाधनसमर्थलिङ्गाभिधायित्वं तस्य शब्दस्य येन "तदभिधायी शब्दो हेतुः" इत्य् उच्यते, स तथा बाह्याङ्गम् इति चोच्यते "हेतुर् अनुमानम्" इति सामानाधिकरण्यं तथा कल्पेतेति ।
प्रत्यक्षेण साध्यसाधनयोर् व्याप्तिस् तत्र गृह्यत इति दृष्टान्तः प्रत्यक्षो ऽभिप्रेतः । अत एवायं न सर्वः प्रत्यक्ष [72 . 12] इति । नैव स 3 र्वत्र दृष्टान्ते प्रत्य्क्षेण साध्यसाधनयोर् व्याप्तिर् गृह्यते । यथा भवन्मत एव नित्य आत्मा सत्तासम्बन्धित्वे सत्यनाश्रितत्वात्, परमाणुवद् इत्य् अत्र दृष्टान्ते नित्यत्वं सत्तासम्बन्धित्वे सत्यनाश्रितत्वं यौ धर्मौ तयोर् व्याप्तिर् अनुमानेन गृह्यत इत्य् अभिसन्धिः । अनेनैतद् अपि प्रत्युक्तं यत् तैर् एवनैयायि 4 कप्रवरैर् उच्यते -- "साध्यसाधनयोर् व्याप्तितो विषयो दृष्टान्तः । तत्र प्रत्यक्षेण व्याप्तिं गृहीत्वा पश्चाद् उदाहरति । तेन प्रत्यक्षं नियामकम् अस्तीति" । उदाहरणम् अपि वाक्यस्य भागान्तरम् इति प्रत्यक्षेण व्याप्तिग्रहणस्यासर्वविषयत्वात् क्वचिद् भावात् तथाभिधाने च तत एव दृष्टान्तो ऽनुमान 5 म् इत्य् अभिधीयेतेति ।
तस्य तदातिरिक्तार्थग्रहणाभावाद् इत्य् अभिप्रायेण उपमानं तु प्रमाणम् एव न भवती [72 . 13]त्य् आह । एतच् च बहुबाध्य(बहुवाच्य)म् अन्यत्रोक्तम् इति नेहोक्तम्, सिद्धस् त्व् अर्थो ऽनूदितः । अनयैव च द्वारा यद् उच्यते तैर् एव "यथातथेति दृष्टान्तदार्ष्टान्तिकयोः सारूप्यप्रतिपत्तिर् उपमानम् अतिदेशेवाक्य 6 ता, पक्षधर्मत्वग्राहिप्रमाणवचनम् उपनयः । अत्राप्य् उपमानं नियमहेतुत्व(त्वं) धर्मिणि वा साधनधर्मस्य संभवं बोधयदसंभवं निवर्तयति यत्प्रमाणं तन्नियामकम् अस्तीति उपनयोपि नियमहेतुमत्त्वाद् भागान्तरम्" इति तद् अपि प्रत्याख्येयं द्विविधस्यास्य वर्णितस्योपमानस्याप्रामाण्याद् एव 7 कथं नियामकम्? येनोपनयनस्य नियमहेतुकसिद्ध्या {प्. 322} भागान्तरत्वं सिद्ध्येत् । धर्मिणि च साधनधर्मस्य सम्भवं परिच्छेद(च्छिद्य) प्रत्यक्षम् अनुमानं वासंभवं निवर्तयतीति अत्रापि प्रत्यक्षं नियामकम् अस्तीति दृष्टान्तवद् उपनयोपि प्रत्यक्षम् इति वक्तव्यः । क्वचिद् अनुमानस्यापि तथात्वाद् अनुमानम् इत्य् अपीत्य् अलम् अतार्किकवचननि 8 र्बन्धेन । तद्व्यापार [72 . 14] उपमानरूपोपनयव्यापारः । स एवो [72 . 16]पनय एव ।
स्याद् एतद् -- अनित्यः शब्द इत्य् उक्ते कुत एतद् इति श्रोतुर् अपेक्षोपजायते । न तु धर्मिणि लिङ्गस्य सत्त्वो(सत्त्वा)पेक्षा । तस्मात् प्रतिज्ञानन्तरं परापेक्षितसाध्यप्रतिपत्तिर् अपि तु प्रति(पत्तिहेतुप्रति)पिपादयिषया पञ्चम्यन्तस्य तदभिधायिनः शब्दस्य प्रयोगो न तु ध[35अ] 1 र्मिणि लिङ्गस्य सत्त्वप्रतिपादनार्थः । ततो न तस्य पक्षधर्मताप्रतिपादनं प्रयोजनम् इति कथं पक्षधर्मत्वं स एव दर्शयिष्यतीति न किञ्चित् तेनेत्य् उच्यमानं शोभेतेति । अत्रोच्यते । अनित्यः शब्द इति प्रतिज्ञोपादानेपि तदनन्तरम् एव यद् यद् कृतकं तत् सर्वम् अनित्यम्, यथा घटस् तथा चायं कृतक इत्य् उक्ते साध्यप्रतीतौ किं निमित्ताकांक्षोपश 2 मो नास्ति? येन पञ्चम्यन्तस्य लिङ्गाभिधायिन एव तदुपशमः प्रयोजनं वर्ण्येत । यदि सत्य् अवादी भवान् नैवं वक्तुम् अर्हतीति । किञ् च यो यस्मिन् किञ्चिद् निमित्तभावम् अपेक्षते न स तत्र शशविषाणायमानस्य तत्त्वम् अपेक्षते । अपि तु तत्र सत एवेति कथं शब्दानित्यत्वसिद्धौ कस्यचिन् निमित्तावमपेक्षितवता सत्त्वं नापेक्षितम् । येन 3 परानपेक्षितं सत्त्वं प्रतिपादयितुं न तन्निमित्ताभिधायिनः शब्दस्य सामान्य(म् अर्थ्य)म् अस्तीत्य् उच्येत तस्माच् छब्दादौ धर्मिणि लिङ्गस्य साध्यसिद्धौ निमित्तभूतसत्त्वप्रतिपादनं हेतुप्रयोगस्य प्रयोजनम् अवश्यैषितव्यम् । य(त)च्चोपनयेनापि शक्यं संपादयितुम् इति साधूक्तं किं [102] तेने [72 . 17]ति ।
__________नोतेस्__________
[102] न किञ्चित् तेन स् ।
संप्रति निगमने यथाश्रुति 4 दूषणम् आह -- यत्र [103] प्रतिज्ञाया [72 . 18] इति । अथापि स्यान् नायं पुनः शब्दः [अ]प्रथमे किं तर्हि सादृश्ये, यथा "अचिरप्रभा पुनर् निश्चरति" इत्य् अत्र । सादृश्यञ् च कियद्रूपेणास्त्य् एव । यद् वा यद्य् अपि सिद्धनिर्देशो निगमनं साध्यनिर्देशश् च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वम् आसीत् तस्याइव निगमने सिद्धत्वम् इत्य् अवस्था 5 वन्तम् एकम् आश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्य् उपचर्यते तथा च पुनर् वचनम् अप्य् उपपन्नम् इति । न चैतन् निगमनं निष्प्रयोजनम् आशंकनीयम्, साध्ये विपरीतप्रसङ्गप्रतिषेधार्थत्वाद् अस्य । तद् उक्तं "साध्यविपरीतशंकाव्यवच्छेदार्थं निगमनम् इति" । यद्य् अपि च लिङ्गम् आश्रयवत्साध्याविनाभावि च 6 प्रतिज्ञादिभिर् अवयवैर् आख्यातं तथापि निगमनम् अन्तरेण व्यापकविरुद्धप्रसंगाशंका स्यात् । {प्. 323} अन्यद् एव हि दृष्टान्तधर्मिणि साध्यं यत्साधनधर्मस्य व्यापकम् आसीत् । अन्यद् एव च धर्मिण्य् अनित्यत्वं तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्यमानः साध्यविरुद्धम् अब्यापकत्वेन विशेषा 7 भावान् मूढमतिर् नित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् । तथा च सति साध्यविपर्यये हेतोर् वृत्तिशंकायां बाधकं प्रमाणं तद् एव वाच्यम् यदुदाहरणस्थयोः साध्यसाधनयोः प्रतिबन्धग्राहि । अतएव तस्माद् इत्य् अनेन सर्वनाम्ना प्रतिबद्धं लिङ्गं साध्यविरुद्धशंकां निवर्तयितुं प्रकृतत्वात् प्रत्यवमृष्यते । तस्माद् विपर्ययशंकानिवर्तकप्रमाणोपस्थाप 8 कं निगमनं साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं भवतीति । तद् एतन्नैयायिकप्रवरस्य प्रकृष्टं प्रज्ञास् स्वलितविलसितम् । तथा हि साध्ये निर्दिष्टे हेतौ चाभिहिते डृष्टान्ते चोदाहृते दृष्टान्तदष्टसामर्थ्ये च हेतौ साध्यधर्मिण्य् उपनीते कः सचेतनो "येन विना यो न भवति धर्मः स भवंस् तदभावम् अप्य् उपस्थापयति" इति निश्चीन्वीत संशयीत वा येन [35ब्] 1 विरुद्धप्रसङ्गशंकानिराकरणाय निगमनम् अभिधीयेत । न चायम् अनुन्मत्तो ऽनित्यत्वे द्वे षस्यति(पश्यति) येनान्यद् एव दृष्टान्तधर्मिणि साध्यम् अनित्यत्वम् अन्यद् एव च साद्यधर्मिण्य् अनित्यत्वे तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य
सिद्धिं मन्येत यतो ()व्यापकत्वेन विशेषाभावात्त् अनित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् । न च विशेषेण व्याप्तिम् असाव् अग्र 2 ही[द् इ]ति, विशेषेण व्याप्तेर् अवासम्भवात् । तथा चोक्तं -- "व्याप्तिः सामान्यधर्मयोः" इति । अन्यथा सत्य् अपि तस्मिंस् तद् आशंके(का) नापाक्रियेत । एतेन सप्रतिपक्षत्वशंकानिराकरणत्वम् तत्प्रयोजनम् इति यत् कैश्चिद् उपवर्ण्यते तद् अपि परास्तम् अवसेयम् । अथ मोहमाहात्म्याद् एवम् अपि संभाव्यत इति चेत् । अपयातं तर्हि पञ्चावयवत्वं वाक्यस्य । 3 सम्भवत्य् अपि कश्चिन् मूढतरमतिर् यः पञ्चावयवे ऽपि वाक्ये प्रयुक्ते नानित्योपीति वचनम् अन्तरेण शब्दस्यानित्यत्वं नियतं न प्रत्येति । अस्ति च दिगम्बराणांविप्रतिपत्तिः -- स्यान् नित्यः शब्दः स्याद् अनित्य इति । तद्भावव्युदासाय नानी(नि)त्योपीत्य् अपि किं नोच्यत इत्य् अलम् अतिविस्तरेण निष्प्रयोजनकत्वेन । निगमनस्य वाक्याङ्गत्वे 4 निरस्ते प्रथमम् उपदर्शितं यद् उभयेषां मतं तदरण्यानीरुदिततुल्यं जातम् इति किं तत्रोक्तेनेति । ज्यायान् [72 . 21] श्रेष्ठतरः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा यस्य स तथा तदात्मकः [72 . 21] सामस्त्य् अनिषेधश् चैष द्रष्टव्यः । हेतुर् इ[72 . 25]त्य् अभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पारम्पर्येण एकविषयत्वाद् वा 5 पक्षधर्मत्वाभिधायी शब्दो द्रष्टव्यः । हेतुश् चैवानुवाद्येनात्मना प्रतिपाद्यमानो व्याप्यरूपः प्रतिपादिनो भवतीति प्रथमान्तेन तदभिधायिना शब्देन प्रतिपाद्यते । अतः प्रथमान्त एव तदभिधायी शब्दो न्याय्यः । हेत्वभिधायिशब्दमात्रापेक्षया तु पूर्वापरनियमखन्डनम् आचार्यस्य द्र 6 ष्टव्यम् ।
__________नोतेस्__________
[103] यत्र च प्रतिज्ञाया स् ।
{प्. 324} साधनधर्मस्य साध्यस्वभावताया एवे [73 . 12]ति स्वभावहेत्वधिकारेण विवृतम् ।
कार्यहेतुना व्यभिचारम् आशंक्य कार्यस्ये [74 . 6]त्य् आह । तेन [74 . 7] प्रतिबन्धेन । तयो [74 . 7]र् अन्वयव्यतिरेकयोः ।[104]तदभावख्यातिः [75.7] तदभावज्ञानम्, नियतं ख्यापयतश् चायम् अभिसन्धिः । तत्तुल्य एवास्तीत्य् अभिधाने ऽतत्तुल्ये सर्वत्रान्यस्मिन् विरुद्धे ऽसति च 7 नास्तित्वं लक्षणान्तरम् इति प्रसङ्गे नियमार्थम् इत्य् एव नास्तित्वं रूपं तृतीयं न पुनर् विरुद्धे अन्यत्र [75 . 8] चेति दर्शयितुम् असत्य् एवेत्य् उक्तं सूत्रकारेणेति । विरुद्धत [75 . 8] इति सहस्थितलक्षणेनैव विरोधेन विरुद्ध्यत इति । कथं नानुष्नाशीताद् अपी [75 . 16]त्य् आह अन्यतो [75 . 16] विपक्षाद् व्यवच्छेदस्याभावस्य प्रसङ्गाद् इ[75 . 16]ति । इति [75 . 16] दोषस्याकारं दर्शयति । तस्य [75 . 19] तदभाव 8 स्य । अन्यम् इच्छताम् इ[75 . 21]त्य् अभिसम्बध्यते । तथा परस्परपरिहारस्थितलक्षणेनापि [105][75 . 13] विरोधेन विरुद्धम् इत्य् अपि द्रष्टव्यम् ।
__________नोतेस्__________
[104] हेतोर् अभावख्यातिः स्
[105] -लक्षणतयापि स्
अभिधातो [73 . 15] वेगवद्द्रव्यसंयोगविशेषोभिमतः । अभिधात् आग्निसंयोगाद् एव नाशप्रत्ययौ [76 . 15] तयोः सन्निधिः [76 . 16] तं विना विनाशो न घटादिभिः संसर्गतां [76 . 16] याति ।
तदनपेक्षा लक्षणं बाधकम् [76 . 26] । प्रसङ्गमुखेन [76 . 26] परोपगमसिद्ध [36अ] 1 पक्षधर्मताद्वारेण । विपञ्चयितुम् इ[77 . 1]ति ब्रुवाणेन चाधिकप्रतिपादनार्थम् उक्तम् एवोच्यमानम् अनुवाद एव न तु पुनर् उक्तम् इति दर्शितम् । आकाशादिनित्यद्रव्यापेक्षया देशकाल [77 . 2]ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेनायम् अर्थो यथा नित्यानाम् अमीषां देशकालनियमो नास्ति तथा शब्दगुणत्वादिस्वभावनियमोपि न युज्यत इति दृष्टान्तार्थम् । देशस्वभा 2 वनियमायोग [77 . 5]स् तु दार्ष्टान्तिकः । एकाङ्गवैकल्यात् [77 . 3] सत्त्वलक्षणैकाङ्गहीनत्वात् । तदात्मतां [77 . 5] क्षणिकत्वस्य प्रकृतस्याकृतकसदात्मतां प्रति [77 . 5] । शास्त्रकार [77 . 5]शब्दः प्रकरणात्कीर्तिपादेषु द्रष्टव्यः । सत्त्वस्य क्षणिकस्वभावतां प्रतिपादयिष्यती [77 . 9]ति सम्बन्धः । वस्तुस्थित्यैव [77 . 7] वस्तुवृत्त्यै न परोपगमबलेनेत्य् अर्थात् । अभावप्रसङ्गेन 3 [77 . 9] प्रकरणाद् विनाशसद्भावप्रसङ्गेनेत्य् अवसेयम् ।
{प्. 325} पूर्वाचार्योक्तं [77 . 11]दिङ्नागपादोक्तं तं प्रत्यनपेक्षत्वं ख्यापयितुम् उपक्रमत [77 . 12] इति सम्बन्धनीयम् । तं [77 . 12] परेष्टं प्रति ।
वस्तुगतौ [77 . 25] वस्तुप्रकारे तदात्मा [78 . 1] निर्वृत्तस्थिर् आत्मा । तस्य [78 . 1] अन्यथाभावस्य । प्रसङ्गात् [78 . 2] हेतोः । तस्यैव [78 . 2] स्वहेतुतः स्थिररूपतया निर्वृत्तस्यैव अन्यथात्वायोगा 4 त् हेतोः । तत्र [78 . 3] हेत्वगते स्थिररूपे हेतुव्यापारस्य [78 . 3] कल्पयितुम् अशक्यत्वाच् च [78 . 3] नान्यथाभावस् तदात्मा शक्यते कर्तुम् [78 . 1] ।
तस्य विनाशस्य स्वभावस् तत् स्वभावस् [78 . 5]तम् एव । लक्षण [78 . 11]शब्दो रूपनिबन्धनः । स्वलिङ्गेन चस्यावस्थानं कृतम् । तस्य [78 . 16] भावान्तरशून्यभावान्तररूपस्य । सर्वरूपशून्यस्य ह्य् अभावस्य हे 5 तुस(म)त्ता विरुध्यते न त्वस्येति भावः ।
यदीदं भवताम् अपीष्टं तर्हि कस्माद् अस्मन्मतं नाभ्युपेयत इत्य् आह -- किंत्व् इ[78 . 19]ति ।
तदुत्पत्तौ [78 . 24] प्रध्वंसरूपभावान्तरोत्पत्तौ । एतस्मिन् पराभिप्रायेप्य् एवं ब्रुवाणो नियतम् एवं [78 . 26] वक्ष्यमाणकं मन्यते [78 . 23]वार्तिककार इति चार्थात् सर्वस्येन्धनादेः [78 . 26] तथाभावः प्रध्वस्तत्वं 6 गवादेस् तथाभावः [78 . 27] प्रध्वंसरूपत्वम् इति द्रष्टव्यम् । द्वयम् अप्य् एतद् यत्रकुर्वन् (?) परः प्राह । तस्मिन् सती [79 . 1]ति । अनेन दृश्यमानाङ्गारादिभावेन सर्वम् इन्धनादि निवर्तत इति न सर्वस्य प्रध्वस्तत्वं नापि गवादौ सतीन्धनादि निवर्तत इति न गवादेः प्रध्वंसरूपतेति परेण दर्शितम् । अस्य [79 . 7] अङ्गारादेः ।
ध्वंसंते [79 . 13] ध्वंसम् उपयान्ति विनश्यन्तीति यावत् । दीपापेक्षयाव्यक्तता द्रव्या(बुद्ध्य)पेक्षया आत्मभावः । भावरूपाव्यक्तताभाव [79 . 15] इति ब्रुवाणस् तथात्मकाभावरूपता यावद् व्यवस्थाप्यताम् अभावैकरसत्वात् प्रतिपत्तेः । न तु भावरूपाव्यक्ततापत्तौ प्रमाणम् अस्तीति दर्शयति । एतद् एव दर्शयन्न् आह यदि ही [79 . 16]त्यादि । अत्रापि [79 . 19] उपलब्धियोग्यताविकलरूप 8 तापत्तौ ।
पर्युदासेने [80 . 3]त्य् अस्य विवरणं विवक्षिताद् इ[80 . 3]ति ।
सन् बोधगोचरप्राप्तो ऽवधिज्ञानविषयतापन्नः तद्भावे [80 . 12] वह्न्यादिभावे नश्यन्न् इति । "लक्षणहेत्वो[ः] क्रियायाः" (पा. 3.2.126) इति हेतौ शतु(?)र् विधानाद्धेतुपदम् एतत् ।
{प्. 326} ननूक्तया नीत्या नाशस्य तत्कार्यतोपपत्तेः कथम् एतद् आचार्येणोक्तम् इत्य् आशंक्याह अयम् अभिप्राय [80 . 16] इति । स्यान् मतम् प्र[36ब्] 1 तीतिविषयोपि न च तत्र प्रतीतिलक्षणार्थक्रियाकारी । यथा साध्याभावे हेत्वभावरूपो व्यतिरेको विकल्पेन प्रतीयमानः न विकल्पस्य । कारकश् च कथम् उच्यते? न ह्य् अकारणं विषयो अतिप्रसङ्गाद् इति । नैतद् अस्ति साक्षात् कारप्रवृत्तज्ञानाभिप्रायेण तद् उक्तेर् न तत्र व्यभिचारो ऽस्ति । अनेनापि च तथाविधज्ञानविषयेणावश्यभाव्य[म् अ]न्यथा 2 प्रत्यक्षानुपलम्भनिबन्धनः कार्यकारणभावः कथं व्ययस्थाप्येत अत एवाह[106] तद्विषयस्य [80 . 24] वा कथं हेतुमत्तावगतिर् इति वा सामर्थ्य[107] समंगिता सामर्थ्ययोगिता भावता [80 . 27] वस्तुता, अत्यन्तपरोक्षाणम् [81 . 7] असर्वज्ञापेक्षया सर्वदा परोक्षाणाम् । तर्हिशब्दार्थश् चात्र प्रकरणाद् द्रष्टव्यः । ज्ञानहेतुरूपतया [81 . 8] अनुमानसिद्धयेति विवक्षितम् । 3 अनेन ज्ञातहेतुरूपतया प्रतिभासनये चामीषां प्रतिष्ठितेन रूपेण प्रतिभासनम् इति परेण दर्शितम् । ने [81 . 8]त्य् अनेन [अ]भावस्य प्रतिष्ठितरूपावभासनाभावं परेणेष्टं निवर्तयति । भवितृरूपत्वेन प्रतिभासनम् एव शशविषाणाद्यपेक्षया स्यापि [81 . 8] प्रतिष्ठितरूपावभासनम् इति सिद्दान्तिनापि दर्शितम् । सर्वसामर्थ्य्शून्यतालक्षणेनाभावे दोषान्तरम् अन्वाचिन्वन्न् आह सर्वरूपविवेकस्य चेति [71 . 9] । उन्मज्जनं [81.10] प्रकाश्यं यच् च चक्षुरादीनां प्रतिष्ठितरूपावभासनसद्भावावबोधार्थम् तेषां ज्ञानहेतुरूपतया प्रतिभासनाद् इति परेणेरितं तदभावेपि शक्यं 5 वक्तुम् इति दर्शयन्न् आह ज्ञानविषयतयेति [81 . 11] । पूर्वं त्व् अत्र गजनिमीलिकां कृत्व अन्यद् उक्तम् । अस्याप्य् अ[81 . 11]भावस्यापि तद्धेतुरूपतयावभासनस्य तुल्यत्वात् [81 . 11] । चक्षुरादि(दे)र् इति प्रकरणात् । यदि नामास्य ज्ञानविषयता तथापि न तद्धेतुता तत् कथं तद्धेतुरूपतयावभासनं तुल्यम् उच्यत इत्य् आह अहेतोश् चे [81 . 12]ति । 6 एतच् च पूर्ववद्बोद्धव्यम् । यद्य् अभावो नाम नास्त्य् एव भवन्मते तर्हि अमूरभावबुद्धयः
कमालम्बेरन्न् इत्य् आह -- अस्माकं त्व् इ[81 . 12]ति स्ववासनापरिपाकान्वया [81 . 12] इति हेतुभावेन विशेषणम् । तद्व्यतिरेकि [81 . 19] ततो निवृत्तं तदभाववद् इति यावत् । संस्पृश्येत [81 . 19] गृह्येत तत्पर्युदासेन [81 . 19] निवृत्त्यवधिव्युदासेन । सद् इति प्रत्य 7 याविषयस्य न भावतेति ब्रुवता यद् असदात्मकत्वम् अस्योपगतं तत्र किं स्वरूपेणासन् किं वा पररूपेणेति पक्षयोर् एकं भावं दूषयितुम् आह -- न चास्ये [81 . 24]ति स्वरूपेणा [81 . 24]नपेक्षितभावान्तरसंसर्गेण तुच्छरूपेणाप्य् असतो [81 . 24]किञ्चिद् रूपस्य । न च {प्. 327} भावाभावयोर् यौगपद्यम् उपपद्यते कदाचित् । न हि जीवत एव मरणम् इति घता 8 मण्चतीति भावः । ध्वंसेन विनाशश् च क्रियमाणः किं तदात्मा ततो ऽन्यो मृषा भावान्तररूपो वा तुच्छरूपो वेति तत्र ये विकल्पाः तत्र तृतीयस्मिन् विकय्यं भवतु [108] चायं [81 . 26] ततस् तद्भावेपि निमित्तीस्यादि(किम् इतीत्यादि)दूषणपरिहारयोर् आभीक्षण्ये चानवस्थाव् अभि(स्थाभि)प्रायवान् आह ततश् चानवस्थेति [82 . 6] । अत इन्धनादेर् निवृत्तेः । कथम् इति सिद्धान्ती । तद्भेदा [82 . 8][37अ] 1 द्धेतुभेदात् । दृष्टं चैतत् सर्वत्र सहेतुके ऽन्यत्रैति दर्शयन्न् आह शाली [82 . 9]त्यादि ।[109] एकरसस्यै [82 . 13]कस्य भावस्य । संक्षेपेणैतद् अत्रानेन विचारितम् ।क्षणभङ्गसिद्धौ तु विस्तरेण ततश् च विस्तररुचिन तत एवावगन्तव्यम् । साप्य् अस्मदीयाक्षणभङ्गसिद्धिर् अपेक्षितव्येति अभिप्रायवान् आह विस्तरतश् चे [82 . 14]ति । स्याद् एतत् "न भवत्य् एव केवलम्" इत्य् अनेन 2 किम् अग्न्यादिसंयोगकाले तस्य स्वरूपाभावः प्रतिपाद्यते किम् वा तदनुवृत्तिः । न तावत् तदनुवृत्तिर् अक्षणिकत्वप्रसङ्गाद् अशब्दार्थत्वाच् च । अभावप्रतिपादने च पूर्वोक्ता दोषाः प्रसज्येरन्न् इति । नैष दोषः, अनया हि वचनभङ्ग्या परसंकुचितकालस्थाप्युत्पत्तिकाल एव स द्वितीये क्षणे न किञ्चिद् इति यद्रूपं भावस्य तत्प्रतिपाद्यते 3 । न तु किञ्चिद् विधीयते । अत एवाह नास्याभवनम् अन्यद् वा भवतीति [82 . 18] । मा भूद् अग्निसंयोगादिर् नाशस्य कर्ता किं नश्च्छिनं यदि परहेतुर् अस्ति -- इत्य् आह [अ] कर्तुर् अहेतुत्वम्
इ[82 . 22]ति । स खलु तस्य कर्त्ता व्ययते(पठ्यते) यः प्राग्भावी सन्नर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति यथा चक्षुरादि विज्ञानस्य । तथाभूतस्यान्वय 4 व्यतिरेकानुविधापनम् एव हेतुत्वम्, तद्भावे भावस्य तदभावे चाभावस्य हेतुलक्षणत्वात् । अग्न्यादिभावे च भवनधर्मणः कस्यचिद् भा(चिद् अभा)वात् कर्तृत्वाभावे कथम् इव तल्लक्षणम् हेतुत्वम् एव संगम्यत इति चैवांवदितुर् अभिप्रायः ।
[106] तदविषय स्
[107] सम्बन्धिता
[108] वायं स्
[109] एकरूपस्य स्
सू [110] च्यग्रेषु स्थातुम् अशक्तः सर्षप [82 . 26] इति योज्यम् । यथायोगं सम्बन्धः 5 हेत्वन्तरापेक्षितत्वं तद्विरुद्धं चानपेक्षित्वम् । तेन च प्राप्तं(व्याप्तं) स्।तत्स्वाभाव्यम् इति ।
__________नोतेस्__________
[110] सूभ्यग्रे-स्था स्
अवकाश [83 . 15]शब्देनावकाशवद् वचनं विवक्षितम् । तेनावसरप्राप्तं वचनम् आशङ्क्येत्य् अर्थो बोद्धव्यः । एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयं । दृष्टान्ताद् आगतो दार्ष्टान्तिकः [111][83 . 21] । कुशूलशब्देन घटादिरचित आधारविशेष उच्यते । तदादाव् अवस्था [83 . 23]वस्थानं यस्य स तथोक्तः ।
__________नोतेस्__________
[111] कं स्
{प्. 328} अवस्थानाम् इव [84 . 18] आत्मनः प्रातिस्विकरूपस्य तद्भेदे [84 . 19]वस्थाभेदे । कथंचित् [84 . 24] केनापि प्रकारेणाभेद इत्य् अर्थस्य रखलद्गतिपदम् एवैतत् । तनोर् भेदाद् एव भेदप्रसङ्गो [84 . 26] भिन्नरूपताप्रसङ्गः । तद्वद् अ[84.26]भिन्नरूपावस्थातृवत् । अभेदस्य वा [84 . 26] प्रसङ्ग 7 इति प्रकृतत्वाद् योज्यम् ।
ननु यदि भेदाभेदौ चैकान्तिकौ स्यातां स्याद् अ[न]न्तरोक्तो दोषः । यावता तयोर् अपि केनचिद् रूपेण भेदः केनचिद् अभेद इत्य् आशंकमान आह -- तयोर् अपी [84 . 26]ति । तयोर् भेदाभेदयोः, अवस्था च तद्वान वस्थावांश् च तयोर् आत्मानौ तयोश् च । तस्याप्य् अ[85 . 1]भेदनिमित्ततयेष्टस्यापि रूपान्तरस्य । 8 ताभ्याम् अ[85 . 1]वस्थातद्वद्भ्याम् । [85 . 1] अन्यथा यदि ताभ्यां तस्याभेदनिमित्तस्य रूपान्तरस्य कथञ्चिद् भेदो न स्याद् ऐकात्म्यं यदि स्याद् इत्य् अर्थः । स चासाव् अभेदनिमित्त् ऐकस्वभाव श् चेति तथा तस्मात् [85 . 1] । भेदाभेदाव् इ[85 . 2]ति वदितुश् चायम् आशयः -- एकात्म्यपक्षे अभेदनिमित्ते रूपान्तरे वा ताभ्याम् अवस्थातद्वद्भ्याम् अनुप्रवेष्टव्यं तयोर् वा [37ब्] 1 तेनाभेदनिमित्तेन रूपान्तरेण । तत्र यदि तयोर् अभेदनिमित्ते रूपान्तरे अनुप्रवेशस् तदाभिन्नरूपमात्रस्य भावाद् अवस्थातद्वतोर् अभेद एवेति भेदस्य वार्तापि न स्यात् । अथ तस्याभेदनिमित्तस्य रूपान्तरस्य तयोर् अनुप्रवेशस् तदावस्थातद्वन्ताव् एवावस्थिताव् इत्य् अपगतम् अभेदेनेति । एवं तर्हि तस्यास्तु ताभ्यां कथञ्चिद् भेद इत्य् आह -- 2 रूपान्तरस्ये [85 . 3]ति । कथञ्चित् त [85 . 3]द् एताभ्याम् इति तु प्रकरणात् । तन्निबन्धनं [85 . 3] रूपान्तरस्य ताभ्यां किञ्चिद् भेदनिबन्धनम् । यथा पूर्वं तथास्याप्य् अ[85 . 4]पररूपस्य । तदन्यत् [85 . 4] कथञ्चिद् भेदनिबन्धनम् । अयम् अस्य भावः -- तस्यापरस्य रूपस्य तेभ्यो ऽवस्थातद्वद्भेदनिमित्तरूपान्तरेभ्यः कथञ्चिद् भेदोन्यथा तदपरैकस्वभावाद् अत्यन्त 3 म् अभेदाद् अवस्थावस्थात्रभेदनिमित्तरूपान्तराणां प्राक्तनेन न्यायेनत्यंतं भेदाभेदौ प्रसज्येयाताम् । अतस् तेभ्यस् तस्य कथञ्चिद्भेदे ऽवश्यैषितव्ये तन्निबन्धनम् अपरस्यापि रूपस्यापरं रूपम् उपैतव्यम् इति । तथा तदन्यत्राप्य् एवम् एव् एत्य् अपरिमितरूपतैवैकस्य [85 . 4] स्यात् । तस्मा 4 द् इ[85 . 6]त्यादिना प्रकृतम् उपसंहरति । तद्बाधां [85 . 10] प्रत्यक्षबाधाम् । अनेनैतद् दर्शयति । न प्रत्यक्षा सती प्रत्यभिज्ञा बाध्यते किंतु बाध्यमाना प्रत्यक्षाभासा सेति । एतच् चोपरिष्टाद् अभिधास्यते ।[112] अनेकान्तो ऽनिश्चयो भवेत्
[85 . 12] । अनिश्चयफलत्वं संशयहेतुत्वं स्याद् इति यावत् ।
__________नोतेस्__________
[112] अनैकान्तिकता भवेत् स् ।
एतद् एव [85 . 14] जनकाजन 5 कत्वम् एव ।[113] धर्म(र्मि)लक्षणस्या [85 . 17]वस्थातुर् इत्य् अर्थः ।
__________नोतेस्__________
[113] धर्मिलक्षणस्य । स्
{प्. 329} न चा(चे)यम् अवस्था कार्यविज्ञानातिरिक्तं ज्ञानं जनयति येन ज्ञानलक्षणायाम् अर्थक्रियायाम् अस्योपयोगात् सामर्थ्यं कल्प्येत्य् अभिप्रायेण सर्वसामर्थ्यविरहलक्षणस्ये [85 . 22]त्य् अवोचद् इति । अनुभावाद् इ[85 . 24]ति, हेतौ शतुर्विद्यानाद् बाधानुभवाद् इ 6 त्य् अर्थः । बाधासद्भावाद् "बाधवर्जितम्" इति सामान्यप्रमाणलक्षणस्याभावं प्रतिपाद्य विशेषलक्षणस्याप्य् अभावं प्रतिपादयितुं तत्प्रतिभासिनिश् चे [85 . 25]त्यादिनोपक्रमते । एकरूपाभावे कथं तत्त्वाध्यवसायः स्यात् सर्वेषाम् इत्य् आशङ्क्यान्यथैवास्योपपत्तिम् उपसंहारव्याजेन दर्शयन् 7 आह -- तस्माद् इ[86 . 3]त्यादि । सदृश [86 . 3]शब्देन निरन्तरसदृशं विवक्षितम् । तेन निरन्तरस्य सदृशस्यापरस्य भाव [86 . 3]स् तन्निरन्तरनिबन्धनेत्य् अर्थः । केशा दिषु लूनपुनारूढेष्व् इत्य् अर्थाद् अवसेयम् । आकारसाम्यमात्रेणापहृतं प्रकरणात् यथात्वनिश्चयायोग्यीकृतं हृदयं [86 . 4] चेतो येषां तेषाम् ।
ननु यदि आकारस्य साम्यं 8 सादृश्यं नाम त्वन्मते किञ्चित् स्यात् तन्मात्रापहृतहृदयाः प्रत्यभिजानीयुः । न चैतद् अस्ति, तत् कथम् एवम् उक्तम् इत्य् आह न चे [86 . 8]ति ।
"एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने ।
भेदे ऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥" [प्रमाणवा. 3.72]
इत्यादिना विपञ्चितत्वाद् एवम् उक्तम् ।
तेषु [86 . 17] भावेषु ।
त्रयाणाम् अपि रूपाणां प्रमाणसिद्धत्वात् [38अ] 1 स्वतंत्रहेतुर् इयं व्यापकानुपलब्धिः [87 . 7] ।
अनेन [87 . 9] प्रत्यभिज्ञानेन प्रत्यक्षरूपेण अनिश्चिते [87 . 10]त्यादि प्रतिविधानम् । तावद् अस्य बाधकत्वं न भवति यावत् प्रत्यभिज्ञानस्याप्रामाण्यं न सिद्ध्यति, अन्यथा अनेनैव बाध्यमानविषयत्वाद् अस्य कथं प्रामाण्यं येन बाधकत्वं स्यात्? तावच् च तस्याप्रामाण्यं नोपपद्यते यावद् अनुमानस्यास्य प्रामाण्यसिद्ध्याबोधकत्वं न सि 2 द्ध्यति । इतरथा बाधवर्जितत्वादिलक्षणसम्भवे प्रामाण्याप्रच्युतिर् इतीतरेतराश्रयत्वं दोष इत्य् आशङ्क्यमानम् आह नापी [87 . 10]ति ।
अनुमान [87 . 11]शब्देनोपचाराल् लिङ्गम् अभिप्रेत्य स्वसाध्यप्रतिबन्धाद् इ[87 . 12]त्याद्य् उक्तम् । यदि वा लिङ्गस्येत्य् अध्याहार्यम् अवचने च प्रमाणलक्षणयुक्ते बाधसम्भवे तल्लक्षणम् एव दूषितं स्याद् इति सर्वत्रानाश्वास इत्य् आभि 3 प्रायः ।
{प्. 330} नैवं ब्रूमहे [87 . 17] किन्तु प्रत्यक्षाभासा सती चार्थाद् अवतिष्ठते । अनुमानस्य विरोधो बाधस् तम् अश्रुवाना [87 . 20] व्याप्नुवती भजमानेति यावत् । आकारस्य [87 . 20] रूपस्य सामान्याद् [114][87 . 20] एकतां [87 . 20] तत्त्वं[115] प्रतीयती [87 . 21] निश्चिन्वती । आदि [87 . 21]शब्दात् फलस्य सङ्ग्रहः । सूर्योपराजितशब्देन यस्य रूढिः । आदि [87 . 22]शब्दाद्वन्येतरकर्कोटादिपरिग्रहः । तथा 4 भावम् एतद् अनुभवति [87 . 23] ।
__________नोतेस्__________
[114] साम्यात् स् ।
[115] प्रतियती स्
अथ किं " न च स पक्षे क्वचिद् वर्तत [88 . 19]" इत्य् असिद्धत्वे कारणम् इदम् उक्तम्? एवञ् चेत् न तर्हीयन्तं कालं भवान् बुद्धवान् असिद्धलक्षणम्, पक्षवृत्त्यादिना प्रकारेण हेतोस् तथाभावाद् इति । युक्तम् अवादीद् इदं भवान् यदि परं तदायम् असिद्धो हेतुर् इ[88 . 18]ति वदितुर् अभिप्रायं नाज्ञासीत् । अयं खल्व् अस्याभिप्रायः 5 प्रत्यभिज्ञा नाम विकल्पविशेष एषः । स च विकल्पस्य विषयो यः शब्दस्य विषयः, शब्दसंसृष्टार्थप्रतिभासित्वाद् विकल्पस्य । स च शब्दस्य विषयो यः संकेतस्य विषयः, वाच्यवाचकभावसम्बन्धस्य वास्तवस्य व्युदस्तत्वात् । न चासामार्थ्यवैयर्थ्याभ्यां स्वलक्षणात्मनि संकेतः कर्तुम् शक्यत इति कथं वस्तु 6 तो भावाः केचिद् अभि(पि) प्रत्यभिज्ञानविषयात्म(त्मा)नः । तत्र(तन् न) प्रत्यभिज्ञापनत्वं(ज्ञायमानत्वं) सिद्धिम् अध्यासीत । यद् यत् प्रत्यभिज्ञायते तत् तत् पूर्वापरयोः कालयोर् एकस्वभावं यथेदम् इतितथागतान् प्रतिपादयितुम् अशक्यत्वात् व्याप्त्यसिद्ध्यानैकान्तिकश् चायम् इति । प्रौढवादितया सिद्धिम् अभ्युपगम्यापि दूषणान्तराभिधित्सया प्रवृत्त 7 स्य सिद्धान्तवादिनो न चे [88 . 19]त्यादिवाक्यम् । यद् वा दूषणान्तरम् अन्वाचिन्वन्न् आह -- न चे [88 . 19]ति ।
[116] ज्ञानजनकस्वभावताविरहाद् इ[88 . 27]ति ब्रुवता चेदं दर्शितम् । यदि सर्वेषां जनकस्वभावता तस्यां चान्यापेक्षिता स्यात् स्याद् अदनैकान्तिकत्वम्, न चेद[म् अ]स्तीति । भेद [88 . 28]शब्दो विशेषवचनः ।
__________नोतेस्__________
[116] "ज्ञान" इतिपदं नास्ति -- स्
प्रकृते तव किम् आयातम् इत्य् आह -- तद्वद् इ[89 . 10]ति । तैः [89 . 12] बीजादिभिः अनेकान्त इति मौलस्य हेतोर् इति द्रष्टव्यम् ।
सामान्येना [89 . 14]विशेषेण ।
{प्. 331} न सह [89 . 22]शब्दो युगपदर्थवृत्तिराचार्येणेष्टो ऽपि तु सहोदरवद् एकार्थवृत्तिः । अपि तु एकार्थकरणम् अपि [114.19] यद्वर्णम् इति किं सहकारिलक्षणपर्वणि प्रतिपादयिष्यते । न च युगपत्कारित्वाद् एव भावानां परस्परसहकारित्वं घटते । घटपटादीनाम् अपि कदा स्वां स्वा[38ब्] 1 म् अर्थक्रियां कुर्वताम् अपि तथाभावप्रसङ्गात् । तत् कथं "सहकारिषु युगपत्करणशीलेषु" [89 . 22] इत्य् एतद्भट्टार्चटो व्याचष्ट इति चेत्, नायं दोषः । न हि सहशब्दस्य एतद् व्याख्यानं युगपद् इत्य् अपि तु भाविकारणानभ्युपगमे अवश्यम् एकार्थकारिणाम् एकदा करणम् इत्य् एकार्थं बुद्धावारोप्य वास्तवं रूपम् इदम् अनूदितम् । तेन युगपद् एकार्थकरणशीलेष्व् इत्य् अव 2 सेयम् । एकार्थकारित्वम् एव तु लक्षणं न तु युगपत्करणम् अवश्यंभाव्यपि व्यभिचारात् । प्राज्ञाः पुनर् एतद् यथाश्रुति समर्थयन्ति ।
ननु लाभो महानयम् इति, न च काचिद् अक्षमा । नैवे [89 . 25]ति व्याचक्षाणो वैशब्दम् अवधारणे दर्शयति । कः पुनस् तत्रेतरेषां व्यापार इत्य् आह -- भवनेति [90 . 3] ।
व्यापारोपयोगस्यास्य पारमार्थिकत्वं कारकत्वं हीये 3 ते [90 . 8 , 9]ति संबन्धनीयम् । कुत एतद् इत्य् अपेक्षायां कार्येत्यादियोज्यम् । उपचारात् [90 . 8] कारकत्वस्येति प्रकृतत्वात् । तथा [90 . 17] तद्वत् । तत एव [90 . 17] स्वसन्निधिमात्रत एव ।
स्वत एव [91 . 1] कारणव्यापारनिरपेक्षाद् रूपाद् एव । आत्मन [91 . 2] इति कार्यात्मनः । प्राग् अपि [91 . 2] जन्मनः पूर्वम् अपि । रूपरूपिणोर् अनन्यत्वाद् इत्य् अभिप्रेत्य रूपभेदलक्षणात्वा 4 द् इत्य् उ[91 . 4]क्तम् । तत् कुतो ऽसत्त्वात् ।
यत्र स्थितेन कार्यं जनयितव्यं स कार्यदेशो [91 . 12]भिप्रेतः ।
यश् चासाव् अभिप्राय श् चेति तथा तद्व ता [92 . 3] ।
ननु सर्वेषां अङ्कुरोत्पादे सामर्थ्याप्रच्युतेरनेकाङ्कुरेण नियतम् उत्पत्तव्यम् एवेति यत् परेण प्रकटितम् तत् कथम् एवंब्रुवतापहस्तितम् इत्य् आशंक्याह अयम् अभिप्राय [92 . 4] इति ।
युगपत् कर्तृभ्य 5 [92 . 16] इति पूर्ववद्बोद्धव्यम् । उक्ते सति किम् नाम प्रतीयताम् इति तत्स्वभावस्य जननाद् इत्य् अस्यानैकान्तिकत्वे मौलस्यापि तथात्वमनिवार्यम् इति परस्याशयः ।
न कारणभेदात् कार्यभेदः स्याद् इ [92 . 18]ति प्रसङ्गे कार्याभेदस्य बाधके परेणोक्ते कथम् एतत् तद्बाधकं भवतीत्य् आशंक्याह एवं मन्यत [92 . 29] इति । सामग्रीजन्यस्वभावत्वात् [93 . 1] तदवस्थाप्राप्तानेकसमर्थजन्यस्वभावत्वात् । कार्यस्या [93 . 1]भिन्नात्मन इति प्रकरणात् । नन्व् इ[93 . 2]त्यादि परः । यद्य् एवम् इ[93 . 4]ति {प्. 332} सिद्धान्ती । यद् अनेकस्माद् भवतानेकेन भवितव्यम् इ[93 . 4]ति एकजातीयापेक्षयोक्तम् न तु कार्यमात्रापेक्षया, भिन्नजातीयस्यानेकस्योत्पादाभ्युपगमात् । एकं कर्तृ 7 तत्कार्यम् इ[93 . 6]त्य् अभिन्नरूपकार्यम् । एतत् त [93 . 8]द्भावे भवनम् । भवताम् इ[93.10]तिसांख्यानभिसंधायाह ।
धर्मवचनस्य संकरशब्दस्य भावाद् असंकराद् अ[93 . 23]सांकर्याद् इत्य् अर्थः । अत एवाह परस्परेति [93 . 24] । परोदाहृतकार्यापेक्षया सामग्रीभेदाद् भेदं प्रतिपादयितुं तथाही [93 . 25]त्यादिनोपक्रमते । साद्गुण्यम् आभिमुख्यम् । आदि [93 . 26]शब्दात् वासनाप्रबोधादिसंग्रहः 8 । इन्द्रिय [93 . 27]शब्देन तिमिरादिविकृतम् इन्द्रियं विवक्षितमन्यतो भ्रान्तिज्ञानानुदयात् । मात्र ग्रहणेन चालम्बनस्यैव निरासो विवक्षितः । न त्व् आलोकादेः तदभावे तदनुत्पत्तेः । तदन्ये[93.28]त्य् अत्राप्य् आलोकादि द्रष्टव्यं ।
उपयोगविषय [94 . 4]स् तद् एकं जन्यं विज्ञानं तथाविधस्यै [94 . 4]कात्मतालक्षणस्य । न भिद्यते [94 . 6] नानात्वं न भव(ज)ति । किं न्व् इ[94 . 8]ति नि[39अ] 1 पातानिपातसमुदायः प्रश्ने । यदि वा वितर्के नु शब्दः किं शब्दस् तु प्रश्ने । वै [94 . 8]शब्दो निपातो ऽत्र संबोधने ।
अनेकस्य भावे तेषाम् अनेन(क)जनकत्वम् इत्य् उपगते हृदयनिहितशङ्करस्वामिचोद्यः कश्चिन् नन्व् इ[94 . 12]त्यादिना चोदयति । स एव स्वातन्त्र्यपरिजिहीर्षयानैयायिकप्रवरवचनेन संस्पन्दयन्न् आह आह चे [94 . 18]ति ।शङ्करस्वामीच बुद्धिस्थम् अस्य 2 । तत् तस्मात् किं [94 . 19] कस्मात् । विज्ञानाभिन्नहेतुक(ज)म् इ[94 . 19]ति हेतुभावेन विशेषणम् ।
तेषाम् अवान्तरसामग्रीभेदाद् भेद इति प्रतिपादयितुं तेषाम् इ[94 . 20]त्यादिनोपक्रमते । विज्ञानोत्पत्तौ विज्ञानम् उपादानकारणम् । चक्षुरादिसहकारिकारणम् । चक्षुःक्षणोत्पत्तौ तु चक्षुर् उपादानकारणम्, विज्ञानादि सहकारिकारणम् एवम् अन्यत्रापीत्य् ए 3 कम् उपादानकारणम् इतरत् सहकारि कारणं कृत्वा सामग्रीणां वैलक्षण्यम् ईक्षितव्यम् । कार्याणां [94 . 25] विज्ञानचक्षुःक्षणादिरूपाणाम् ।
बोधरूपतादेर् इ[94 . 28]त्यादि सिद्धान्ती । अनुकार इति करोतेः णिजन्ताद्ध द्रष्टव्यः । अनुकार [94 . 28]णञ्च स्वसंततिपतितकार्यकर्तृकत्वं वाच्यम् । {प्. 333} एतच् चास्यैवोपसंहारे व्यक्तीकरि 4 ष्यते । तस्यानुकारणम् एवानुकर्तृमुखेन दर्शयन्न् आह तथाही [95 . 1]ति । द्वितीयलक्षणं विवृण्वन्न् आह नियमेन चे [95 . 3]ति । समनन्तर शब्दः समश् चासौ बोधरूपत्वेनानन्तरश् चाव्यवहितेनेति व्युत्पत्त्यापि प्रकृतत्वान्मनस्कार एव द्रष्टव्यो न त्व् आगमसिद्ध्याश्रयणेनोपादानमात्रे, उपादान 5 लक्षणस्यैवाभिधानात् शकन्ध्वादिपाठाच् च दीर्घत्वाभावोवसेयः । न चक्षुरादेर् नियमेन व्यापार [95 . 4] इत्य् अर्थात् । चक्षुषो [95 . 5] नियमेन व्यापार इति प्रकृतत्वात् । जन्यतया यत् स्व विज्ञानं तस्य योग्यता र्थाद् उत्पत्तुर् या योग्य ता तद्धेतोह् [95 . 5] । ज्ञानोत्पादहेतोर् इत्य् अर्थः । चक्षुर्विशेषणत्वे ऽपीत्थ 6 म् एवास्यायम् एवार्थः । अत्रापि समनन्तरशब्देपिनमन(ब्देनमन)स्कारो ऽभिप्रेतः । उक्तयोर् लक्षणयोर् आद्यं लक्षणं दुर्बोधत्वाद् उपसंहारव्याजेन स्पष्टयन्न् आह -- तस्माद् इ[95 . 6]ति । स्वसंतति व्यवस्थैव कुतो येन तत्पतित कार्यप्रसूतिनिमित्तं [95 . 7] ज्ञातव्यम् इत्य् अपेक्षायां योज्यम् । यद् एकाकारे [95 . 7]ति । इतिः [95 . 11] हेतौ । आ 7 (अवा) न्तरविशेषकृतत्वात् त [95 . 12]स्या एवोक्तलक्षणावान्तरविशेषकृतत्वाद् इत्य् अर्थः । तस्माद् इ[95 . 15]त्यादिना प्रकृतम् उपसंहरति ।
कार्यस्यै [95 . 15]कजातीयस्येति विवक्षितम् । कार्यमात्रापेक्षयानेकत्वस्येष्टत्वात् प्रसङ्गानुपपत्तेः । अन्ये(अथ) तदभुपगमात् सिद्धं भवताम् । ततो नैवं वक्तुम् उचितम् इत्य् आशंक्याह न चे [95 . 16]ति ।
एवं तावद्भट्टार्चटेनोपादानसहकारिलक्षणं प्रणीतम् । केचित् पुनर् अत्रैवं ब्रुवते, नैवेदं लक्षणद्वयम् उपपद्यते अव्याप्तेः । तथाहि यदि यद् एकाकारपरामर्षप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यपसूतिनिमित्तं तदुपादानकारणम् इत्य् उच्यते, तदा चन्द्रकान्तादपां प्रसवे ज्योत्स्ना न स्याद् उपादानकारणम् । यदि चन्द्रकान्त[39ब्]ः 1ःमणेरुपयतीनामपां चन्द्रिकया समम् एकाकारपरामर्शप्रत्ययहेतुत्वम् अस्ति येन तथा तया तासां तदेकसांतानव्यवस्थासिद्धौ स्वसन्ततिपतितकार्यजनकत्वेन शशाङ्कवदुपादानकारणं कल्पेरन् । न च तत्रान्यस्य तदुपादानकारणत्वम् उपपद्यते । एवम् वनस्पतिभ्यः फलप्रसूतौ त्वग्भावा[117]विशेषस्य न स्यात् तदुपादानत्वम् । 2 कियद् वा शक्यते निदर्शयितुं दिङ्मात्रं तावद् उपदर्शितम् । द्वितीये ऽपि लक्षणे ऽनेनैवाव्याप्तित्वम् उन्नेयम्, न हि चन्द्रिकादेर् अवादिमात्रोत्पत्तौ नियमेन व्यापारः शक्रेणाषि शक्यते दर्शयितुम् । तादृशोत्पादो विद्यत इति चेत् । चक्षुरादेर् अपि तादृग्विज्ञानोत्पादे नियमेन व्यापार इति तस्यापि तथात्वप्रसक्तिर् इति यत् किञ्चिद् एतत् । 3 सहकारिलक्षणम् अप्य् अवद्यम् । सिद्धसंतान एव हि वस्तुनि प्रागवस्थापेक्षविशेषहेतुत्वं कस्यचित् कल्प्येत । {प्. 334} सन्तानापेक्षकस्य तु प्रथमक्षणस्योत्पादे कथम् एवम् अभिधानं [न] साहसम् इत्य् अलं बहुनेति । अत्र तु समाधानमतद्भि(नं महद्भि)र् एव विधेयम् ।
__________नोतेस्__________
[117] "भावविशेषस्य" इत्य् अपि दृश्यते ।
उभय [95 . 23]म् इत्य् एकसामग्रीमध्यप्रविष्ट कारणस्य भेदाद् अनेकत्वा 4 त् कार्यस्य एकजातीयस्याभेद एकत्वं कारणभेदा [95 . 20]त् सामग्रीलक्षणस्य कारणस्य सामग्र्यन्तरापेक्षया वैलक्षाण्यात् । कार्य स्यापि भेदः [95 . 20] सामग्र्यन्तरकार्याद्वैलक्षण्यम् इति । ताव [95 . 26]च्छशब्दः क्रमे । कुलालः [95 . 27] कुम्भकारः व्यग्रस्वभावानि [96 . 1] अन्योन्यासहितस्वभावानि कारणान्तरसहितानि [96 . 1] सन्ति यानि कार्याणीष्टकादिरूपाणि [96 . 1] साधयन्ति निर्वर्तयन्ति । मृत्पिण्डस्य चर्मकारादिकारणप्रतिलम्भे सतीष्टकादिकार्यं, कुलालस्य दात्रादिप्रत्ययान्तरप्राप्तौ लवण(ना)दिकार्यम् । सूत्रस्य कुविन्दादिहेत्वन्तरसाहित्ये घ(प)टादिकार्यम् । तान्य् अपि किं भूतानि साधयन्तीत्य् आह तदन्ये [96 . 1]ति । मृत्पिण्डापेक्षया बीजादिजन्येभ्यो ऽकुरादिभ्यो 6 भिन्नस्वभावानि , तेभ्यो [96 . 3] व्यग्रावस्थाप्राप्तकारणान्तरसाध्येभ्यो विलक्षणम् एव घटात्मकं कार्यं समग्राणि सन्ति जनयन्ति [96 . 3] मृत्पिण्डकुलालसूत्राणी ति सामग्र्युपलक्षणम् उक्तं न पुनर् इयन्ति एव घटस्य कारणानि । एवं वक्ष्यमाणेप्य् उपदर्शने द्रष्टव्यम् । उपदर्शितम् एवोपपादयन्न् आह तथाही [96 . 4]ति ।
नन्य् यदि 7 कुलालादिसहितो मृत्पिण्डस् तदन्यसमाग्रीमध्यप्रविष्टमृत्पिण्डकार्याद् अविशिष्टं कार्यं जनयन्ति, न तर्हि सामग्रिवैलक्षण्यात् कार्यवैलक्षण्ये निदर्शनम् इदम् उपपद्यत इत्य् आशंक्याह कुलालादीति [96 . 4] । तदात्मकम् एव [96 . 6] मृदात्मकम् एव घटादिलक्षणम् एव करोति । मृत्पिण्ड [96 . 4] इति प्रागुक्तो ऽभिम्सम्बध्यते कर्ता । कुतो विलक्षणं 8 करोतीत्य् आह तत्कार्याद् अपीष्टकादेर् इति [96 . 7] । केन कारणेणेत्य् आह केवले [96 . 7]ति । केवलमृत्पिण्डाद् भिन्नः स्वभावो यस्य मृत्पिण्डस्य स तथा तस्य भावस् तत्ता तया [96 . 7] । केवलशब्देन च कुलालादिरहि[त]तामात्रं विवक्षितम् । न तु कारणान्तरसाहित्यव्यवच्छेदस् तेन तत्कार्याद् इ[96 . 7]ति कारणान्तरसहितमृत्पिण्डकार्याद् इत्य् अर्थः । कुतस्त्यस्तस्या [40अ] 1 सौ बिन्नः स्वभाव इत्य् आह -- तत्कारेणे [96 . 6]ति । तस्य कुलालस्यार्थात् कुलाल[क्षण]लक्षणस्य प्रत्यासीदतो यत्कारणं प्राक्तनक्षणस् तेनाहित उत्पादितो विशेषो [96 . 6] विशिष्टं रूपं यस्य स तथोक्तः । अनेनैकसामग्र्यधीनाविशिष्तोत्पत्तिः सूचिता । हेतुभावेन चैतद् विशेषणम् । चो [96 . 6] व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे । एवम् उपादानभावे चोभय 2 त्र व्याप्रियमाणस्यापि मृत्पिण्डस्य सहकार्या(र्य)न्तरप्रतिलम्भादात्मनोपि सतः कार्यस्य तदन्यसहकारिसहितकार्यात् विलक्षणस्यैव {प्. 335} जनकत्वं प्रतिपाद्य सहकारणस्याप्य् उभयत्र सहकारिभावेनैव व्याप्रियमाणस्य कुलालादेर् उपादानान्तरप्राप्तौ तदन्यसहितकार्याद् विलक्षणकार्यजनकत्वम् अतिदिशन्न् आह -- एवम् इ 3 [96 . 8]ति तदन्योपादानसहितं [96 . 8] मृत्पिण्डलक्षणाद् उपादानाद् यद् अन्यद् उपादानं तेन सहितम् । मृत्पिण्डसहितं [96 . 8] तद्विलक्षणम् एव [96 . 9] । तस्मात् तदन्योपादानसहितकार्याद् विसदृशम् एव घटादिकं कार्यं जनयति [96 . 10] । इति [96 . 10]र् यथा मृत्पिण्डादीत्यादेर् आचार्यीयवाक्यस्य यः समुदायार्थस् तस्याकारं दर्शयति 4 । तत्रे [96 . 11]त्यादिनेदानीम् अवयवार्थं व्याचष्टे । वुघ्न [96 . 15]शब्देन मृषय(मृण्मय)पिधानविशेष
उच्यते । तस्य पृथु [96 . 15]शब्देन विशेषणसमासं कृत्वा तस्य् ओदरा [96 . 15]दीति तत्पुरुषं विधाय तद् इव तस्येव वाकारो [96.15] यस्येति बहुवृईहिः कार्यः । आदिशब्दात् तदवयवान्तरविशेषस्य भिन्नजातीयस्य कम्बुग्रीवादे 5 र् वा संग्रहः । सूत्रात् त [96 . 17] स्यैव घटस्य [96 . 18] चक्रादेर् विभक्तः स्वभावो भ्वतीति [96 . 21] सम्बन्धः । मृत्संस्थानविशेषात्मतयाइव(तैव) घटस्य कुतस्त्येत्य् आह मृत्पिण्डे [96 . 17]ति । तज्जननस्वभावत्वात् [96 . 19] मृत्संस्थानात्मताजननस्वभावत्वात् कारणात् । घटस्य तद्रूपयोगात् [96 . 19] मृत्संस्थानरूपयोगात् । अन्यद् एव सूत्रसाहि 6 त्येपि तयोः कथं तज्जननस्वभाव[त्व]म् इत्य् आह तन्निरपेक्षे [96 . 20]ति । तच्छब्देन सूत्रं परामृष्यते,[118] भिन्नस्वभावत्वाद् विलक्षणस्वभावत्वात् तन्निरपेक्षावस्थातो भिन्नस्वभावतैव तयोः कथम् इत्य् अपेक्षायां सूत्रकारणोपहितविशेषयोर् इ[96 . 20]ति हेतुभावेन विशेषणपदम् इदं योज्यम् । निर्दिष्ट 7 कारणाभिप्रायेण कारणत्रय [96 . 24]ग्रहणं न तु घटस्य त्रीण्य् एव कारणानि । तदुपयोगैर् भिन्नसामग्रीव्यापारैः कार्या पेक्षस्व(ये स्व)भावविशेषाः कार्याणां विशिष्टाः स्वभावास् तेषाम् असंकरो ऽ [96 . 24]साङ्कर्यम् । तत्र यदि ते कुलालादयह् प्रत्येकं जनकाः स्युस् तदा नुक्रान्तकारणत्रयजन्य [96 . 21] इत्य् उच्येत । तथापि कथं सर्वतः समुत्प 8 द्यमानस्याखण्डात्मनः कार्यस्यायं विशेषो ऽस्माद् अयञ् चास्माद् इति व्यवस्थाप्यत इत्य् आशंक्याह् तस्य चैकैके [96 . 25]त्यादि । इतो ऽस्तु कार्यस्य तत्सामग्रीभूतसकलजन्यत्वं तद्गतस्य तु ततद्विशेषस्य कथं तज्जन्यत्वव्यवस्थेत्य् आह तदेकैकस [ जा ] ती ति [96 . 27] मृत्पिण्डाद्यपेक्षया मृत्पिण्डादेर् अपरस्य तज्जातीयत्वं प्रत्येयम् । [40ब्] 1 अनेनैतद् दर्शयति -- नैकस्याम् एव सामग्र्यां तस्मिन्न् एवाखण्डात्मनि कार्ये तत्तद्विशेषस्य तत्तज्जन्यत्वम् अवधार्यते अपि तु तत्तदुपचये तत् तद् उपचयत्य तत्तदपोधारे तत्तदु(द)पचयस्य दर्शणादेकत्वाध्यवसायतश् चैकाधिकरणत्वेन {प्. 336} व्यवस्थापिताद्
इति । व्यवहर्तारश् चैवं न विपञ्चि(श्चि)त इति तत्त्वचिन्तकै [96 . 29]र् इत्य् उक्तम् । तेषाम् अप्य् एवं 2 विवेचनेन किं प्रयोजनम् इत्य् आह यत [96 . 29] इति । यतो ऽनन्तरोक्तविवेचनात् । अनेकम् अपि कारणं कस्मात् स्वीकुर्वन्तीत्य् आह परस्परे [97 . 1]ति । क्षेपवत्यां हि सामग्र्याम् अन्योन्योत्पादितातिशयकार्यप्रणालिकया वाञ्च्छिताङ्कुरादिकार्योपजननयोग्यकारणसामग्र्यसद्भावार्थम् । एतच् चोपरिष्तात् प्रदर्शयिष्यते ।
__________नोतेस्__________
[118] भिन्नात्मकतया स् ।
"यत्र यद्योग्यं रूप 3 म् उपपद्यते स तस्य विषय" इति तद्विषयस्य [97 . 14] घटस्येत्य् अर्थः । तदन्यावस्थाविषयात् [97 . 15] प्राप्तसहकार्यन्तरावस्थाकार्यात् । अस्ये [97 . 19]ति कार्यस्य । अनेन "तज्जनितविशेषभेदस्ये"ति मूलस्य कार्य [97 . 17]पदविशेषणस्य बहुव्रीहौ कर्तव्ये विग्रहो दर्शितः ।
ज्ञानं [97 . 27] तद्रूपम् अनुकर्तुं युक्तम् [97 . 28] । ने [97 . 26]त्य् अनुवर्तते 4 न युक्तं [97 . 28] नार्हतीति चार्थः । हेतौ शानचो विधानात् तद्रूपविकलार्थसामर्थ्येनो [97 . 28]त्पादाद् इति तद्रूपानुकारी(रा)युक्ततायां हेतुर् उक्तो द्रष्टव्यः । तथापि कस्मान् न युक्तम् इत्य् अपेक्षायाम् आह -- भ्रान्तते [98 . 1]ति । ऐकान्तिकी [98 . 3] या परेणाइकान्तिकत्वेनाभिमता सा नास्ति, एकत्वाद् एव प्रमाणसिद्धाद् इत्य् अभिप्रायः । यदि 5 वा नैकान्तिकी न निश्चयवती । अथवानेकात्मतैवैकान्तिकी नेतिपूर्वेणाभिसंबध्यते ।
अथ विज्ञानोपजनने किम् इन्द्रियादीनि स्वलक्षणान्तरान्तराप्रसवधर्माण्यपेतसंतानान्य् एव येनैकस्यैव कार्यस्य करणम् एषाम् उपवर्ण्यते । इत्य् आह एतच् चे [98 . 6]ति ।
ननु एकसामग्री [98 . 6]शब्देन यदि विज्ञानस्य जनकः कारणकलापो ऽभिप्रेतः, तदोक्तम् एव किम् अपेतं(त)संतानता तेषाम् इति ।
अथैकम् उपादानम् इतरत्सहकारिकारणम् अभिसन्धाय एकसामग्रीत्य् उक्तं न तद् अपि चतुरस्रम्, तस्या अप्य् अवान्तरसामग्र्याः किं तदुपादानोपादेयस्याइव क्षणस्य प्रसवः । अथोपादेयम् अनेकं न भवतीत्य् अभिप्रे 7 यते । हंत तद् अपि सर्वं स्वं स्वम् उपादानम् अपेक्ष्योपादेयम् एवेति तद् अवस्थो दोष इति । उत्तर(उक्त) एव एकसामग्रीशब्दार्थः कैवलं बोधे यत्रः करणीयः । एकम् उपादानं सद् एवेतरत्सहकारिकारणसद् एव व्याप्रियते यदा तदा एकस्यैव विज्ञानस्य मनस्कारोपादानस्य चक्षुरादिसहकारिकारणस्यैव सत उत्प 8 त्तिर् न तु चक्षुःक्षणस्यैवंभूतस्य स[त] उत्पत्तिर् अपि तु चक्षुर् उपादानस्य मनस्कारादिसहकारिकारणस्य सत इति । एवं रूपादिक्षणस्याप्य् उत्पादे द्रष्टव्यम् स्वयम् । अत्र समुदायार्थो मनस्कारोपादानकारणचक्षुरादिसहकारिकारणात्मिका सती सामग्र्येकम् एव कार्यं जनयति । तदैवान्यज्जनयन्ती तु नैवम् आत्मिका सती ज[41अ] 1 नयति । किं तर्हि चक्षुर् उपादानकारणमनस्कारादिसहकारिकारणात्मिका । {प्. 337} एवं रूपादिक्षणजन्मि(न्म)न्य् अपि प्रत्येयम् । अत एवैषाम् आन्तरसामग्रीभेदः कृतः परस्परतो भेद इत्य् उक्तं पुरस्ताद् इति सर्वम् अवदातम् । कस्मात् पुनर् इष्टैकसामग्र्यपेक्षयैवैतद् उच्यते, न च सामग्रीमात्रापेक्षयापीत्य् आह परमार्थतस् त्व् इ[98 . 6]ति । तत्सामर्थ्यन्तर्गताना 2 म् इ[98 . 7]ति सा च सा चक्षुरादिसहकारिकारणात्मिका सामग्री चेति तथा यत्रोपादानभावेनान्तर्गतानाम् अन्तर्भूतानां यत्र सामग्र्यां सहकारित्वेन तेषां व्यापारस् तत्र । तत्सामग्र्यन्तरं तदवयवत्वेन । कार्यान्तरस्ये [98 . 8]ति सोपादेयक्षणापेक्षया तद्विज्ञानं चक्षुषः कार्यान्तरम् एवम् अन्यस्याप्य् अन्यत् तस्य कार्यान्तरस्यापि प्रारम्भाद् इत्य् अनुवर्तते 3 अनेककार्यकर्तृत्वम् इति र(च) शेषः कार्यः अन्यथा कस्मिन् साध्ये पञ्चमीयं हेतुभावम् अभिदध्यात् । अस्यैवार्थस्य दृढीकरणार्थं दृष्टान्तयन्न् आह यथे [98 . 9]ति । तदा [98 . 10] तद्वद् अनेकप्रत्ययजनितम् अपी [98 . 9]त्य् एकम् इत्य् अस्यानुवृत्तेस् तथानेकप्रत्ययजनितम् एकम् अपि नास्तीत्य् अर्थः । इति [98 . 9] हेतौ । अपि [98 . 10] न्यायतः सम्भावनाम्
आह । 4 यदि वा परमार्थतः कारणानेकत्वात् कार्यानेकत्वोपगमे ऽपि न काचित् क्षतिर् इ[98 . 9]ति सम्बन्धः कार्यः । कस्मान् न क्षतिर् इत्य् आह -- तत्सामग्र्यन्तर्गतानाम् इ[98 . 7]ति । यथे त्यादि च पूर्ववद् व्याख्येयम् । इतिस् त्व् अनन्तरोक्तान्योपादानकारणानि सहकारिकारणानि प्रत्यवमृषति, ततोयम् अर्थ उक्तलक्षणकारणानेकत्वाद् इति । संप्रति प्रकृतम् उपसंहरन्न् आह तत [98 . 10] इति । सामान्येन [98 . 11] कार्यमात्राश्रयणेन । अथ सिद्धसाधनत्वं हेतोः को दोष इति चेत् । तद् एतद्धर्मोत्तरप्रदीपे ऽस्माभिर् विवेचितं विस्तरतश् च स्वयूथ्यविचार इत्य् आस्तां तावद् इह ।
द्रव्य [98 . 16]शब्देन द्रवति पर्यायान् गच्छतीति व्युत्पात्त्या धर्मो परिणामिनित्यो विवक्षितः 6 पर्यायशब्देन च परि समन्तादेत्येति द्रव्यम् इति व्युत्पत्त्या धर्माः । आदि [98 . 18]शब्दात् स्पर्शादिसंग्रहः । घटो द्रव्यं रूपादयः [98 . 19] पर्याया इति द्रव्यपर्याययोर् एतद् उदाहरणम् इतिः संख्याभेद [98 . 19]स्याकारं दर्शयति द्वितीयस् तु संज्ञाभेदस्य । इति [98 . 22]ना लक्षणभेदस्याकारो दर्शितः । वस्तुराग [98 . 23] इत्य् उपलक्षणम् एतत् । इति 7 ना [98 . 23] कार्यभेदस्य स्वरूपम् आह इतिर् अ[98 . 24]नन्तरोक्तभेदाभेदं प्रत्यवमृषति । चक्षुरादीनाम् अभिन्नो य आत्मा एककार्यजनकः सामान्यभूतस् तज्जन्यता तस्य [98 . 26] । एतद् एव द्वयम् इत्यादिनोपसंहरति परः ।
सामान्येन पररूपाणां आत्माभेदस्य बो(स्याबा)धकत्वं प्रतिज्ञाय विशेषेणेदानीं दर्शयितुम् आह -- संख्याभेदस् तावद् इ[99 . 7]ति । बहुत्वेन 8 व्यवहारो बहुवचनान्तस्य प्रयोगः । बहुवचनं च "युष्मदि गुराव् एकपाम्" इत्य् अनेन । अनेन संख्याभेदादित्य् अस्य {प्. 338} साधारणानैकान्तिकत्वं दर्शितम् । धर्मधर्मिसमुदायात्मकस्य कार्त्स्न्य् अस्य् आप्रतीतिः [99 . 12] प्रसज्येत । तत्प्रतीतौ वावस्थात्रवस्थाविषयपूज्यताप्रत्ययगोचरत्वस्य गौरवस्याप्रतीतिः प्रसज्येत । अत्रैव वक्तव्या[41ब्] 1 न्तरम् उच्चिन्वन्न् आह व्रीहय [99 . 12] इति चेत् यत्र बहुवचनं "जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्" [पा.1.2.58] इत्य् अनेन । न च पर्यायरूपेण भिद्यन्त [99 . 16] इति ब्रुवता च यदि संख्याभेदो ऽनेकत्वस्य साधकः स्यात् तदा तदभेदोप्य् एकत्वस्य साधकः स्यात् । अन्यथा तस्यायोगात् । न चैवं तस्मात् संख्याभेदो न समर्थो ऽनेकत्वं साधयितुम् इति दर्शितं द्रष्टव्यम् ।
ततः 2 [99 . 19] संज्ञाभेदात् । अनेन संज्ञाभेदाद् इत्य् अस्य संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं दर्शितम् । संप्रति साधारणानैकान्तिकत्वम् अपि दर्शयन्न् आह एकस्मिन्न् अपि चेति [99 . 19] अत्र गजनिमीलिकया पूर्वदोषो द्रष्टव्यः । समस्तस्य [99.21] शक्तिशक्तिमदात्मकस्य धर्मधर्मिसमुदायस्य । तयो [99 . 23]र् द्धर्मधर्मिणोस् तद् वाधिनां [99 . 24] धर्मवाचिनाम् । मात्रा [99 . 26] लेशः ।
3 सर्वदैकरूपेणावस्थानं कूटस्थनित्यता तया [99 . 28] तत्तदवस्थारूपेण परिणमतो ऽवस्थानं परिणामनित्यता तद् उपगमात् [100 . 1] सा च [100 . 1] परिणामनित्यता । अस्य [100 . 2] परिणामनित्यस्य सुवर्णादेर् द्रव्यस्य । तद्रूपेण [100 . 2] पर्यायरूपेण च्छेदो विनाशः । पर्यायाणाम् इवेति वैधर्म्यदृष्टान्तः । इयं परिणामनित्यता ।[119]कूटस्थनित्य 4 ता द्रव्ये पर्यायातिरिक्ते न संभवति [100 . 4] । कुत इत्य् आह पर्याये [100 . 5]ति ।
__________नोतेस्__________
[119] अत्र "कूटस्थनित्यतावत्" इति पाठः टिबेटनानुसारी सम्यग्भाति ।
विभक्तपरिणामेष्व् इ[100 . 12]ति पाठे विभक्तः परिणामो येषाम् इति विग्रहः । विभक्तो विशिष्तकार्यकारित्वेन नियुक्त इति चार्थ इति पूर्वे निबन्धकृतो व्याचख्युः । इदानीम् अपि केचित् पण्डितांमन्या अनेनैव पाठेन कथम् अपि व्याचक्षते । तद् एतत् पापीयः 5 विभक्ति[क्त]शब्दस्यान्यार्थत्वात्, न ह्य् अयं विभक्तशब्दो विशिष्टकार्यकारित्वेन नियुक्तं वक्ति । अपि तु विभागेन व्यवस्थापितम् । किञ् च किम् अस्य शब्ददारिद्यं येन विशिष्टकार्यकारिपरिणामेष्व् इति वक्तव्यं विहाय इदम् ईदृशम् अवाचकम् आचक्षीत । सर्व एव च परिणामस् तदन्यकार्यापेक्षया विशिष्टकार्यकारीति को ऽन्यस्माद् अ 6 स्य पटादिपरिणामस्य विशेषः, कश्चास्य नियोक्तेति किम् अस्थानपराक्रमेण । तस्मात् क्वचित् पुस्तके प्रमादपाठ एषः । विभक्तपरिमाणेष्व् इति तु पाठो युक्तरूपः । तत्र परिंआणं मानव्यवहारकारणं {प्. 339} गुणविशेषः । परप्रसिद्ध्या चेदम् उच्यते तच् च दीर्घत्वाख्यम् उत्पाद्यम् अत्र विवक्षितम् । तत्र विभक्तं विभागेन 7 व्यवस्थापितम् परिमाणम् येषां पटादीनां तेषु विस्तारितेषु दीर्घीकृतेष्व् इति यावत् । विभक्तायाम् आदिकर्पटादयः किञ्चिद् आवृण्वते किञ्चिच् च धारयन्ति किञ्चिद् उपबध्नन्तीति । प्रागविद्यमानं कस्यचिद्(द्)भावे भवद् उत्पद्यमानं कार्यम् [140 . 18] । हेतौ च शतुर्विधानात् पूर्वम् अभावा(भव)त् कस्यचिद् भावे भावा(भव)द् इत्य् अर्थः । भवेत् कार्यम् इति तु पापीयान् पाठः ।
यदि 8 परस्परोपादानाहितरूपविशेषस् तत्सामग्र्यन्तर्गतः सर्व एव क्षणः प्रत्येकं समर्थ उत्पद्यते । यतो विज्ञानादिप्रसूतिस् तेन तावद् अवश्यं ज्ञानजननस्वभावेनैव भाव्यम्, अविज्ञानजननस्वभावेनैव वा, न तु परस्परविरुद्धतदतज्जननस्वभावेन भेदप्रसङ्गादित्य् अभिप्रायवान् परश्चोदयन्न् आह नन्व् इ[100 . 24]त्यादि । कथं तदन्यकार्य [42अ] 1 संभव [100 . 26] इति ब्रुवतश् चायम् अभिप्रायः --
"तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः ।
तद्रूपादि किम् अज्ञानं विज्ञानाभिन्नहेतुजम् ॥"
(प्रमाणवा. 2.251) इति ।
अनेककार्यक्रियास्वभावत्वाद् वि[101 . 3]ज्ञानात्मकानेककार्यकारिरूपत्वात् । तेषां [101 . 4] सजातीयेतरक्षणानाम् । तेषां चक्षुरादीनां सत्ता तदा[न] न्तर्येण दर्शनं [101 . 5] तस्मात् । ननु तत्सन्निधौ विज्ञानलक्षणकार्यदर्शनात् विज्ञानस्यैव 2 जनक इत्य् अवधारणात् तदवस्थे दोष कस्माद् इदम् उच्यत इत्य् आह तत्रे [101 . 5]ति । अनैनैतद् आह धर्ममात्रस्य संदेहाद् अयोगव्यवच्छेद एवात्र न्यायप्राप्तो नान्ययोगव्यवच्छेद इति ।
ननु च येन रूपेण विज्ञानं विज्ञानं जनयति यदि तेनैकरूपेणैव रूपं जनयति तदा तेनावश्यं तद्विज्ञानवद्बोधात्मना भाव्यम् । अथ तदन्येन रूपे 3 ण जनयति तर्हि विरुद्धरूपद्वयानुषङ्ग इत्य् आशङ्क्याह न चात [101 . 7] इति । अतो विज्ञानाविज्ञानजननस्वभावत्वात् । कस्मान् न स्याद् इत्य् आह -- एकस्यैवे [101 . 7]ति । आत्मातिशयस्य [101 . 7] स्वहेतुप्रत्ययसामर्थ्यायातविज्ञानाविज्ञानोपजननयोग्यस्वभावविशेषस्य । अनेनैतद् दर्शयति एकेनैव रूपेण तत्तज्जनयति 4 केवलं तद् एकं रूपमीदृग्विज्ञानाविज्ञानजननम् इति । एतद् उक्तं भवति तत्सामग्र्यन्तर्गतानां सर्वेषाम् एव क्षणानां स्वहेतुभिर् इदं रूपम् उपनीतं यदुत यूष्मत्प्राग्भावे ऽनेकेनैव बोधाबोधात्मकेन कार्येण जनितव्यम् इति । एवं तर्हि विज्नानाभिन्नहेतुजत्वेन {प्. 340} सुखादीनां बोधात्मकत्वं दुःखसाध[कत्व]मापनीय 5 (प)न्नम् । तत्रापि हीदं शक्यते वक्तुं प्रोषितागतप्रियपुत्रादिक्षणस्य स्वहेतुसमूहाद् एव तथाभूतं रूपम् उप(द)पादि येन विज्ञानम् अविज्ञानात्मकं च सुखम् अन्यच् च जनयतीति शुद्धाद् रूपे(?) यदिमे(?)तद्विशेषवद्विशेषाख्याने ऽस्माभिह् परिहृतम् इति तत एवनुगन्तव्यम् इति । पूर्वम् अवधीरितावधारणनिरूपेणा 6 क्ताव् उक्तम् अधुना पुरस्कृतावधारणोक्ताव् इति भेदो द्रष्टव्यः । इदंतया व्यपदेशयोग्यं सनिदर्शनम् । स्वदेशे परोत्पत्तिनि(वि)बन्धकं सप्रतिघम् [101 . 11] । इयं चागमभाषा । भिन्नप्रवृत्तिनिमित्तयोर् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् तेषां तन्निमित्तानां तदयोगाद् एकत्रैव वृत्त्यनुपपत्तेः । अपेक्षायां [101 . 14] 7 तदेकोपकारापेक्षायाम्, उपकारस्योपकार्याभेदान् न्यायप्राप्ताद् इति । उक्तम् एवाधिकाभिधानार्थम् अवतारयन्न् आह -- नापी [101 . 17]त्यादि । प्रतिबन्धाभाव एव कुत इत्य् आह -- तद्ग्राहकेति तदभावम् एव प्रतिपादयितुम् आह प्रत्यक्षत [101 . 18] इति । एकात्मतयैव [101 . 20] ज्योतीरूपाद्यात्मतयैव । प्रत्यक्षेणैवम् उपलम्भान् न तावत् प्रत्यक्षं तत्प्रतिबन्धसाधकम् इत्य् अर्थाद् दर्शितम् । येनानुमानेन कार्यभेदस्य कारणानेकत्वप्रतिबन्धः साध्यते तत्रापि [101 . 20] एतच् चैकसामग्र्यन्तर्गतविशिष्टैकैककारणापेक्षया
द्रष्टव्यम् न तु कारणमात्रापेक्षया कलापात् कलापोत्पत्तेर् इति । अत्रैव दोषान्तरं समुच्चिन्वन्न् आह एकस्ये [101 . 21]ति । सहकार्य्युपादानभावेन् आनेकक्रियानभ्युपगमे [101 . 21] यदि [42ब्] 1 एकस्यानेकरूपत्वम् अस्माभिर् अभ्युपेतं स्यात् प्रमाणोपपन्नं तदा धर्मिस्वभावतयैव तदुच्येतेत्य् अभिप्रायेणोक्तम् एकस्यानेकस्वभावताया एव चिन्त्यत्वाद् इ[101 . 25]ति । तद्वद [101 . 27]नेकवत् । अन्यथे ति यदि येनानेकेनैव(क)स्वभावताम् अनुभवति तद् एव परं भिद्यते । न त्व् असौ धर्मीति इति [102 . 3]र् हेतौ ।
एकं कार्यं यस्यानेकस्य तद् एककार्यं तस्य भावस् तत्ता [102 . 4] एक 2 कार्यकारित्वं न स्याद् इत्य् अर्थः । तस्यैव कार्यस्य यदात्मपुरस्कारेण धर्मिपर्यायव्यवस्था तेन भेदाद् एवैकरूपत्वाभावाद् इति समुदायार्थः ।
ननु नैवास्माभिर् एकम् अनेकं करोतीत्य् उच्यते येन त्वयैवम् उच्येत, किन्तु समग्रावस्थायां तदेकैकम् एव तदेकैकम् उपकल्पयतीत्य् आशंक्य न चैके [102 . 6]त्यादि प्रथमतो योज्यम् । कस्मान् न 3 जनयतीत्य् अपेक्षायां तु पश्चाद्योज्यम् । नही [102 . 4]त्यादि । सहैव [120]युगपद् एव । एतद्दोषभयात् परस्परोपादानकृतोपकारापेक्षत्वे चेष्यमाणे तेषाम् एकैकेन भावतस्तावतः क्षणस्योपकारात् । कथम् एकम् अनेककार्यकृन् न् स्याद् इति चानेन दर्शितम् । ततश् चे [102 . 6]त्य् {प्. 341} एकस्यानेककार्यकारित्वासंभवात् । गतार्थम् अप्य् एतत् कण्ठोक्तं कुर्वन्न् आह । अनेकस्ये [102 . 7]त्यादि । यथायोगम् एकानेकशब्दौ सम्बन्धव्यौ । अनभ्युपगमाद् एवैकस्यानेकक्रियाविरहाद् उक्तया नीत्यानेकस्याप्य् एकक्रियाविरहाद् इति चार्थो द्रष्टव्यः ।
__________नोतेस्__________
[120] सहैक स्
ननु च एकस्यानेककारित्वप्रकाराद् अनेकस्यैवैककारित्वप्रकारात् किलान्यः प्रकारो नास्ती 5 त्य् अभिमतम् । अस्ति खल्व् अनेकम् एवानेकं करोतीति प्रक्रान्तं तत् कथम् एतत् संगस्यत इति चेन् न । अनेकैकसामग्र्या(य)न्तःपतितेनानेकक्रियोपगमे सर्व्वस्यैवोपादानसहकारिभावेन सजातीजविजातीयविशिष्टक्षणारम्भस्य न्यायप्राप्तस्योपगमाद् एकस्यानेकक्रियोपगमप्राप्तेर् इत्य् अभिप्राया 6 त् सर्वम् अवदातम् । अहेतुकत्वे च तन्नियमायोगाद् इति भावः । द्रव्यपर्याययोस् तावद् भिन्नं कार्यम् इष्टम् । तौ चैकस्वभावाव् एकं वस्त्व् इति कथम् एकस्यानेककार्यकारित्वम् अनुन्मत्तेन प्रतिक्षिप्यत इत्य् अभिप्रायवान् आह द्रव्ये [102 . 13]त्यादि । एकस्वभाव त्वे ऽपि नैकवस्तुतेत्य् अह -- स्वभावस्यैवे [102 . 15]ति । अन्यथा यदि 7 वस्तुनो ऽन्यः स्वभावः स्यात् तस्य [102 . 15] वस्तुनः एवं स्वभावस्याप्य् अवस्तुताप्रसङ्गादित्य् अपि द्रष्टव्यम् येनाभिप्रायेण कथं नोन्मत्तः [102 . 14] इत्य् अवादीत् तम् इदानीं स्फुटयन्न् आह एकस्वभावत्वे चे [102 . 16]ति । यदा हि तूलपिण्डादिद्रव्यं द्विपिण्डकद्रव्यनिर्माणसमय एव काकतालीयन्यायेन पवनावधूततूलांशुप्रभृतिना स्वल्पपरिमाणेन 8 द्रव्यान्तरेण संयुज्यते द्रव्यारम्भकसंयोगाप्रतिद्वंद्वी(द्वि)विभा[ग]ज(भागज)नकक्रियाहेतुं च सहकारिकारणं प्रतिलभते । तदतद्द्रव्यं द्विपिण्डकं तूलद्रव्यम् । गुणं च तथाभूतसंयोगाख्यम् । कर्म च तथाभूतां क्रियाम् एकदैव करोतीति द्रव्यगुणकर्मणां समवायिकारणंवैशेषिकैर् अव्श्यैपितव्यम् इत्य् अभिप्रायो ऽस्यैवं वदितुर् अवसातव्यः । [43अ] 1 अन्यथा कार्यद्रव्योदयसमकालं कार्ये [न] शुक्लादिरूपम् उत्पद्यते । किन्तूत्पन्ने कार्ये पश्चात् कारणाद् उत्पद्यते अत एवैकस्मिन् क्षणे द्रव्यम् अरूपम् अस्पर्शम् अरसम् अगन्धम् उपगम्यतेयोगैः। तस्य तु गुणस्योत्पद्यमानस्य समवायिकारणं तद् एवानन्तरोत्पन्नं द्रव्यं न तु तत्कारणं द्रव्यम् । एवं तावद् इदम् अस्माभिर् यथा कथञ्चिद् उपपादितम्, 2 कर्मणश् चैकस्येति तु संयोगसंस्कारापेक्षयोपपादयितुं शक्यते न पुनः संयोगविभागापेक्षया । न हि कुतश्चिद् अपि कर्मणो युगपत् संयोगविभागाव् उत्पद्येते किन्तु प्रथमं विभागस् ततः प्राच्यसंयोगविनाशस्
तदनन्तरम् उ?अरसयोग इति पदार्थविदः प्रजानते । न च युक्त्याया(पा)द्यैतद् वक्तव्यम् ।वैशेषिकप्रक्रियायां 3 स्थित्वैवैतद् अभिधानस्य प्रकान्तत्वात् । अन्यथा किम् अस्ति कर्म किम् अस्ति संयोगादिर् येनैवम् उच्येत । अतश् चैवं यत्क्र्तान्तकोपेने [102 . 17]त्याह । अभिन्नकालं च कार्यं विचारयितुं प्रकृतं न तु भिन्नकालम् इति किं बहुना । एतच् चवैशेषिकशैलीमनुपालयन्तो यदि केचन निपुणा मनीषिणो यथाश्रुति समर्थय 4 न्ति कामं समर्थयन्तु न नो हानिः काचिद् अपि तु महानेव लाभ इति ।
{प्. 342} अनवय [121] वत्वेन [102 . 24] कार्त्स्न्येन । न तु सजातीया विजातीयाः समस्ता व्यक्रीर्व्यश्नुवीरन्न् इ[102 . 25]त्य् अर्थः । कथया [103 . 1] विचारेण ।
__________नोतेस्__________
[121] अनवयवेन स्
देशकालस्वभावभेदानां मध्ये देशकालाभेदस्याभेदसाधने साधारणानैकान्तिकत्वं प्रतिपादयन्न् आह तथाही [103 . 4]त्यादि 5 । स्वभावाभेदपि निरूपयन्न् आह -- स्वभावोपी [103 . 5]ति । अपिर् उपगमप्रदर्शने । द्वितीयः पुनर् अपि [103 . 6] अवधारणे रूपतेत्य् अस्मात् परो द्रष्टव्यः । अनुवृत्तिव्यावृत्तिरूपते [103 . 6]ति द्रव्यस्यानुवृत्तिरूपता पर्यायाणां व्यावृत्तिरूपतेति यथाक्रमं योज्यम् । प्रत्येकम् इति प्रतिवस्त्वत्य् अर्थो द्रष्टव्यः न तु प्रत्यात्मेति । 6 नहि द्रव्यस्य व्यावृत्तिरूपतापि नापि पर्यायाणाम् अनुवृत्तिरूपतापि । तद् अयम् अर्थो यदि प्रतिवस्तु द्रव्यपर्याययोर् अनुवृत्तिव्यावृत्तिरूपतैवोपगम्यत इत्य् अन्योन्यव्यावृत्तिस्वभावद्वयाविष्टं घटपटवत्पदार्थद्वयं स्यान् न त्व् एकं द्विरूपम् । इति [103 . 8]र् हेतौ । तस्मात् [103 . 8] स्वभावाभेदात् । पदार्थद्वयस्यैव न्याय 7 प्राप्तत्वात् स्वभावाभेदस्यैवं सिद्धत्वाद् इति भावः । अनुवृत्तिव्यावृत्त्योस् तत्स्वभावत्वम् उपेत्यैतद् उक्तम् एतद् एव तु नास्तीति दर्शयन्न् आह -- न चे [103 . 8]त्यादि अनुवर्तमानव्यावर्तमानाधानत्व [122][103 . 9] च भावत्वं निमित्तम् इहाभिप्रेतम् यद् अनन्तरं व्यक्तीकरिष्यते ततस् तयोस् तत्स्वभावत्वायोगात् । तत्स्वाभावत्वम् एवानयोः कथं न युज्य 8 ते यनैवम् उच्यत इत्य् आह -- भावत्वेने [103 . 11]ति भावत्वेन क्रियात्वेन । भवित्रधीनत्वात् [103 . 11] कर्त्रधीनत्वात् । भावयद्वा(यन् वा) उत्पत्तिमान् धर्मस् तत्त्वेन भविता धर्मी तदधीनत्वात् न तु तत्त्वाद् इति । यद्य् एककार्यकर्तृत्वाद् एकत्वं तर्हि अनेककार्यकर्तृत्वाद् अनेकत्वं स्यात् । अन्यथा तद्यो(तदयो)गात् न चैवम् इष्टं युक्तं वा तस्माद् एतद् अपि विपर्यये बाध[43ब्] 1 काभावान् न वक्तुम् उचितम् इत्य् अभिप्रायवान् आह एकस्यापीति [103 . 22] । एकस्याप्य् अनेके [103 . 24]त्यादि ब्रुवतः पूर्ववद् अभिप्रायो बोद्धव्यः । कृताकृतानां [103 . 22] संकेतितासंकेतितानाम् । एकाभिधानाभिधेयत्वासंभवे विश्वस्य तद्योग्यत्वं हेतुः । विषयभेदं प्रकृतत्वात् शब्दानाम् अभिधेयलक्षण विषयभेदं [103 . 26] ब्रुवाणं [103 . 26] प्रत्यभिहितम् अ[103 . 26]नन्तरम्
एव । एकत्रापी [103 . 27]ति ब्रुवतश् च 2 पूर्ववदभिप्रायो ज्ञेयः । अनन्तरोक्तया वचनभङ्ग्या संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं सूचयित्वा सम्प्रत्येकविज्ञानविषयत्वाद् इत्य् अस्य साधारणानैकान्तिकत्वं ख्यापयितुम् आह बहूनाञ् चेति [104 . 1] । ननु यद्य् एकं द्विरूपन्नेष्यते कथं तर्हि तद् एकं विज्ञानं बोधरूपं नीलाकारं चोत्पद्यत इत्य् उच्यत इति परस्य वचनम् आशंक्या 3 ह[123] किंत्व् इति । नीलप्रतिच्छायतया [104 . 3] नीलसरूपतया भावतो [104 . 5] वस्तुतः । अनेन व्यावृत्तिभेदम् उपादाय तथोच्यते न तु वास्तवं द्वैरुप्यम् इति दर्शितम् । {प्. 343} संमूर्च्छितत्वाद् [104 . 6] भूयोन्योन्यावयवाप्रविष्टत्वात् । शबलरूपत्वे चायं हेतुह् । दृष्टान्तम् एव विघटयन्न् आह स ही [104 . 8]त्यादि । स हिरण्यकशिपुवधार्थनिर्मि 4 तनरसिंहात्मकः । अवयविनः प्रमाणबाधितत्वाद् इत्य् अभिप्रेत्य परमाणुसंहा(घा)तरूप [104 . 8] इत्य् उक्तम् । प्रत्येकं नरसिंहरूपा न भवन्ति [104 . 9] । सर्वत्र नरसिंहद्रव्य(बुद्ध्य)भावाद् इति भावः । अनेनैव संमूर्च्छितत्वाभावेन शबलरूपत्वासिद्धेः साधनशून्यो दृष्टान्त इति दर्शितम् । तथा चाव्यवस्थितपरमाणुप्रच 5 याभिप्रयेण भागशब्दप्रवृत्तिर् न तु परप्रसिद्धा तस्यावयवाभिप्रायेण अवयव्यारम्भस्यानभ्युपगमात् । संप्रति भवतु नरसिंहभागाभ्यां नरसिंहावयविनो निर्माणं तथापि तस्य शबलरूपत्वासिद्धेः साधनशून्य एव दृष्टान्त इति दर्शनाद् दर्शयितुम् आह जात्यन्तरं चे [104 . 10]ति । तासु ता 6 सु ह्य् अवस्थासु स एवायं नर इत्य् अनुवृत्तिप्रत्ययहेतोर् नरत्वजातेर् ऊर्ध्वतासामान्यशब्दाभिलाप्यायास् तासु चावस्थासु सिंहः सिंह इत्य् अनुगाभिप्रत्ययहेतोः सिंहत्वजातेस् तथाभूताया अन्या तासु तास्ववस्थासु स एवायं नरसिंह इत्य् अनुवृत्तप्रत्ययहेतुभूता तथाभूतैव जातिर् जात्यन्तरम् अवसेयम् । 7 स [104 . 10] इति सामानाधिकरण्येन निर्देशश् च तस्य तद्वतश् चाभेदविवक्षया समुदायविवक्षया वा द्रष्टव्यः ।दिगम्बरमतस्य च प्रकृतत्वात् एवं व्याख्यायते तेन हि तिर्यक्सामान्यम् नेष्टम् उपरिष्टाच् च एतद्भट्टार्चटेनापि स्फुटयिष्यते
। नापि तिर्यक्सामान्यम् अत्र कल्पयितुं युक्तम्, नरसिंहस्य तथाभूतस्यैकत्वात् अनेकवृ 8 त्तित्वाच् च सामान्यस्येति । शबलरूपत्वाभावम् एव विचित्रं ही [104 . 11]त्यादिनाप्रतिपादयति । अयम् अस्याशयो यदि संमूर्च्छितत्वं त्यक्त्वा यथा कथञ्चिद् अनेकरूपत्वेनापि शबलरूपतोच्यते तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य (शबलरूपतोच्यते) । तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य[124]) शबलरुपत्वं इति [44अ] 1 प्रकृतम् एव हीयेतेति । अवश्यं हि शाबल्यम् इच्छता वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह (वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह[125]) विचित्र्यं ही [104 . 11]ति । यद्य् एकं शबलरूपं चो(नो)पपद्यते कथं तर्हि लोकः शबलम् इदम् इति मन्यत इत्य् आशंक्याह केवलम् इ[104 . 13]त्यादि । एक प्रत्ययवमर्षाद्येकं कार्यं तस्य दर्शनात् [104 . 13] । एकव्यवहारे चायं हेतुः ।
__________नोतेस्__________
[122] "त्वेन" इत्य् अपि पठितुं शक्यम् ।
[123] विज्ञानं तु स्
[124] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः ।
[125] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः ।
इह खलु 2 वास्तवधर्मापेक्षो वास्तवो धर्मी । धर्मश् च पूर्वं कृतकविचारेण पारमार्थिको निरस्तस् तदपेक्षो धर्म्य् अपि वास्तवो व्युदस्त इत्य् अभिप्रायेण धर्मधर्मीणोर् निषेधाद् इ[104 . 18]त्य् उक्तम् ।
{प्. 344} अनन्तरोक्तम् अर्थजातं सातिरेकं स्वक्र्ताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह -- आह चे [104 . 20]ति ।
वस्तुन [104 . 21] एकस्येति प्रकरणात् । किल [104 . 21]शब्दो वक्तुररुचिं ख्यापयति । तयो [104 . 22]र् द्रव्यपर्याययोः ।
तत्र संज्ञाभेदस्य तावद् भेदकत्वं प्रतिबध्नन्न् आह इन्द्रिये [104 . 23]ति । वस्तुरूपं शब्दानां नैव [104 . 24] गोचरो विषयः । अपोहस्यापि वस्तुत्वेनाध्यावसायात् विशेषयन्न् आह इन्द्रियज्ञाननिर्भासी [104 . 24]ति । बहुवचनेन व्याप्तिम् आह तत् तस्मात् केन [104 . 23] हेतुना । लोकोक्तिश् चैषा द्रष्तव्या । संज्ञा सांकेतिकः शब्दस् तद् भेदा 4 त् [104 . 24] । अत एव सामान्येन शब्दाविषयत्वं प्रतिपादितम् । शब्दानां वस्तुगोचरत्वनिषेधद्वारा च संज्ञाभेदस्याभेदकत्वं प्रतिपादयतो ऽयम् आशयो यदि पुनः शब्दा वस्तुवृत्त्या इन्द्रियज्ञानानीव बाह्यविषया अभविष्यन् नियतम् इमे अन्योन्यभिन्नरूपाः सन्तो लोचनादिचेतांसीव रूपादीन्य् अर्थान् स्वस्वविषया 5 न् अभेत्स्यन्त इति ।
वस्तूनां तद्गो(तदगो)चरत्वे कारणम् आह -- परमे [104 . 25]त्यादि । अभिधानाभिधेययोर् अभेदविवक्षायाम् इत्य् आदिवचनाद् इ[104 . 25]त्यादिवचनप्रतिपादिताद् अर्थाद् इत्य् अर्थो ऽवसातव्यः ।
तत् त [104 . 27]स्मात् कल्पितगोचराः [104 . 27] कल्पनारूढरूपविषयाः । तत् त [104 . 28]स्माद् यदि संज्ञाभेदाद् भेदः [104 . 28] कल्पितस्यैव भेदो भवेद् इति यो 6 ज्यम् ।
कल्पितभेदे किं वस्तुभेदो न भवतीत्य् आह व्यावृत्तिभेद [105 . 1] इति । अर्थाक्षिप्तम् एव कंठोक्तं कुर्वन्न् आह न वस्तुन [105 . 1] इति ।
ननु किम् एकद्विवचनबहुवचनान्य् एव संख्या येन तद्भेदः संख्याभेदः (संख्याभे[126]द) उच्येत । न चैतत् । किंन्त्व् अद्यै(?)वैकत्वादिरूपा संख्या तदभिधायकं तु वचनम् अत एव पाणिनिः 7 "बहुषु बहुवचनाम"(पा. 1.4.21)त्याद्याचख्याव् इति । स्याद् एवैतत् यद्य् एकादिव्यवहारहेतुः संख्या एकद्रव्यानेकद्रव्या वा प्रमाणबाधिता न स्यात् । केवलम् इति एव नास्ति । अस्ति तु तथाभूतसङ्केतानुरोधाद् एकादिवचनम् एवैकादिव्यवहारनिबन्धहम् इत्य् अनेनाभिप्रायेणोक्तम् नैवान्यो मतो वचनभेद [105 . 2] इति ।
__________नोतेस्__________
[126] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः ।
ततो [105 . 3] वचनभेदात्मका 8 त् संख्याभेदात् कल्पितस्य [105 . 3] कल्पनाविपरिवर्तिनो रूपस्य न तु वस्तुन [105 . 4] इति दूरस्थम् इह संबन्धनीयम् । कथञ्चिद् {प्. 345} [105 . 4] द्रव्यपर्यायरुपेणान्यथा वा । अभिन्नते [127][105 . 3]ति भेदाध्यवसायो ऽवसयः । कुतः पुनः सिद्धम् एतद् वचनभेदात्मकः संख्याभेदः, स चाभेदक इत्य् आह -- येषाम् इ[105 . 4]ति । अत्रापि वाच्यवाचकयोर् अभेदविवक्षया इत्यादि प्रतिपादि[44ब्] 1 त एवेत्यादिशब्देनोक्तो द्रष्टव्यः ।
__________नोतेस्__________
[127] विभिन्नता स्
अधुना लक्षणभेदम् अधिकृत्याह अविनाश [105 . 5] इति । किं [105 . 6] कस्मात् । तदात्मका [105 . 6] नैव, विरुद्धधर्माध्यासाद् इति भावः । यदि वा तदात्मका इति हेतुभावेन विशेषणं तेन तदात्मकत्वात् किं कस्माद् द्रव्याविनाशे नाशिन [105 . 6] इत्य् अर्थः । अनेनैकस्य एतल् लक्षणद्वयायोगाल् लक्षणभेदो ऽसिद्ध उक्तः ।
उक्तदोष(षं) निराचिकीर्षोः प 2 रस्य वचनमा[शङ्कमा]न आह नष्टा [105 . 7] इति । ते [105 . 7] पर्यायाः । चेदि [105 . 7]ति पराभ्युपगमं दर्शयति । पर्यायरूपेण [105 . 7] न धर्मिरूपेणेत्य् अर्थाद् अवस्थितम् । एतन् निराकुर्वन्न् आह -- द्रव्येति । द्रव्यस्वभावतो ऽन्यस्वभावता तेषां किम् अस्ति? पृच्छतश् चायम् अभिप्रायो यश्.अन्यस्वभावता तेषां भवेत् स्वभावभेदेन स्वभावाभेद एव न भवेद् इति । अत एवायं वैद 3 र्भपरस्य प्रश्नः । सिद्धान्तवाद्येवैतद् दोषदर्शिनो ऽन्यस्वभावतानिषेधम् आशंकमान आह न चेद् इति [105 . 8] । अत्राप्य् आह नाश [105 . 8] इति । तथा [105 . 8] तेन प्रकारेण । पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेणेत्य् एवम् आत्मना कथं नाशः [105 . 8] । नो चेद् इति तु क्वचित् पाठः । तत्रापि नष्टाः पर्यायरूपेण द्रव्यस्वभावेन नो 4 चेत् [105 . 8] न यदि प्रकृताश् च पर्यायाः कर्तृकत्वेनाभिसंबध्यन्ते । एतद् आशंक्य सिद्धान्त्य् एवाह किम् अन्यरूपता तेषां इ[105 . 8]ति । द्रव्यस्वभावस्य श्रुतत्वात्, द्रव्यस्वभावाद् अन्यस्वरूपता तेषां किम् अस्तीत्य् अर्थः । शेषम् समानं पूर्वेण । अनुगामिरूपं द्रव्यम् उदयव्यययोगिनस् तु पर्याया ऐकात्म्यञ् च द्रव्यपर्या 5 याणाम् अह्रीकैः किं नेष्तं?
तत्र व्ययिनः पर्यायानधिकृत्योक्तम् । इदानीम् उदयिनो ऽधिकृत्याह -- द्रव्यात्मनी [105 . 9]ति । पर्याया इत्य् अनुवर्तते । द्रव्यस्यात्रैव श्रुतत्वात् तत् [105 . 9]शब्देन तस्य परामर्शः । तद् अयं वाक्यार्थो विरुद्धधर्माध्यास(से) भेदनिबन्धनेपि केन कारणेन ते [105 . 10] पर्यायाः द्रव्यात्मका इति । विरुद्ध्धर्मा 6 ध्यास एव कुत इत्य् आह -- द्रव्यात्मनि स्थिते पश्चाद्भवन्त [105 . 9] इति । हेतौ शतुर्विधानाच् च पश्चाद् भावाद् इत्य् अर्थः । तन्निष्पत्तावनिष्पत्तिर् एव विरुद्धधर्माध्यास इति भावः ।
{प्. 346} अनेन च प्रकारद्वयेन तादात्म्यहापनेन भिन्नरूपाणां एषां तेन सह सम्बन्धाभावात् तद्धर्मत्वम् एव च न स्यात् । ततश् च प्रकृतकृतिदर्शितम् अत्रैव वक्तव्यान्तरं समुञ्चिन्वन्न् आह भूत... किम् इति [105 . 10] तत्र द्रव्ये भूतं जातं किं ? द्रव्यपर्याययोर् ऐकात्म्येन द्रव्यस्थितौ पर्यायाणाम् अपि नियता स्थितिर् इति न किञ्चिद् भूतम् इत्य् अभिसन्धिः । यतः [105 . 10] कस्यचित् तदतिरिक्तस्याभावात् ।
अभिप्रायम् अविदुषः परस्य वचनम् आशंकमान आह भेदे [105 . 11]ति । भिद्यन्त इति भेदाः पर्याया एव 8 तद्रूपं भूतं यदाष्यते [105 . 11] । एतन्निराचिकीर्षन्न् आह भिन्नम् इ[105 . 12]ति । हिर् अवधारणे भिन्नम् इत्य् अस्मात् परो द्रष्टव्यः ।
अभेदे [105 . 13] तयोर् ऐकात्म्ये । एतद् इ[105 . 14]ति द्रव्याविनाश(शे) पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेण, स्थिते च तस्मिन् भेदरूपं भूतम् इति चेति । असंबद्धत्वम् एवास्य पूर्वसामर्थ्योक्तं कण्ठोक्तं कुर्वन्न् आह[128] एवम् इ[105 . 14]ति नष्टं च तद् अन् [45अ] 1 ष्टं चेति तथा ।
[128] एकम् इति स्
तदैतत् प्रसज्यत इति पार्श्वस्थस्याविदितप्रस्तावस्य प्रश्नम् आशंक्याह -- द्रव्ये [105 . 15]त्यादि । यस्माद् उक्तया नीत्या लक्षणभेद एव सिद्धस् ततः [105 . 16] तस्मात् ।
सम्प्रति कार्यभेदं प्रस्तुवन्न् आह -- कार्ये [105 . 17]ति । कार्यभेदात् तयोः स्वभावस्य भेदो यदि भवेत् [105 . 17] । तथा सति [105 . 17] स्वभावभेदे सति अवश्यं हि भेदम् इच्छता स्वभावभेद एवैष्टव्यो ऽन्यथा भेदासिद्धेः ।
मूल पाठ: Hetubinduṭīkāloka (subcommentary on Arcaṭa's Hetubinduṭīkā on Dharmakīrti's Hetubindu) · Edition: Pandit S. Sanghavi and Muni Shri Jinavijayaji: Hetubinduṭika of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Misra. Baroda : Oriental Institute 1949, pp. 233-411. (Gaekwad's Oriental Series, CXIII) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0