हरिवंश · अध्याय 71
ते तु युक्त्वा रथवरं सर्व एवामितौजसः
कृष्णेन सहिताः प्राप्तास् तथा संकर्षणेन च ।
अससाद पुरीं रस्यां मथुरां कंसपालिताम् ।
विविशुः पूःप्रधानां वै काले रक्तदिवाकरे ॥
तौ तु स्वभवनं वीरौ कृष्णसंकर्षणाव् उभौ
प्रवेशितौ बुद्धिमता अक्रूरेणार्कतेजसा ॥
ताव् आह वरवर्णाङ्गौ भीतो दानपतिस् तदा
त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा ॥
युवयोर् हि कृते वृद्धः कंसेन स निरस्यते
भर्त्स्यते च दिवा रात्रौ नेह स्थातव्यम् इत्य् अपि ॥
तम् उवाच ततः कृष्णो यास्यावो ऽवाम् अतर्कितौ
प्रेक्षन्तौ मथुरां वीर राजमार्गं च धार्मिक ॥
अनुशिष्टौ च तौ वीरौ प्रस्थितौ प्रेक्षकाव् उभौ
आलानाभ्याम् इवोत्सृष्टौ कुञ्जरौ युद्धकाङ्क्षिणौ ॥
तौ तु मार्गगतं दृष्ट्वा रजकं रङ्गकारकम्
अयाचेतां ततस् तानि वासांसि विरजानि वै ॥
रजकः स तु तौ प्राह युवां कस्य वनेचरौ
राज्ञो वासांसि यौ मूर्खौ याचेतां निर्भयाव् उभौ ॥
अहं कंसस्य वासांसि नानादेशोद्भवानि च
कामरागाणि शतशो रजामि विविधानि च ॥
युवां कस्य वने जातौ मृगैः सह विवर्धितौ
जातरागाव् इदं दृष्ट्वा रक्तम् आच्छादनं बहु ॥
अहो वां जीवितं त्यक्तं यौ भवन्ताव् इहागतौ
मूर्खौ प्राकृतविज्ञानौ वासो याचितुम् अर्हथ ॥
तस्मै चुक्रोध वै कृष्णो रजकायाल्पमेधसे
प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विषम् ॥
तलेनाशनिकल्पेन स तं मूर्धन्य् अताडयत्
गतासुः स पपातोर्व्यां रजको व्यस्तमस्तकः ॥
तं हतं परिदेवन्त्यो भार्यास् तस्य विचुक्रुशुः
त्वरितं मुक्तकेश्यश् च जग्मुः कंसनिवेशनम् ॥
ताव् अप्य् उभौ सुवसनौ जग्मतुर् माल्यकारणात्
यथायोगं यथाभोग्यं यथायोगं नि[दर्श्य] च ।
वीथीं माल्यापणानां वै गन्धाघ्रातौ द्विपाव् इव ॥
गुणको नाम तत्रासीन् माल्यवृत्तिः प्रियंवदः
प्रभूतमाल्यापणवाल् लक्ष्मीवान् माल्यजीवनः ॥
तं कृष्णः श्लक्ष्णया वाचा माल्यार्थम् अभिसृष्टया
देहीत्य् उवाच तत्कालं मालाकारम् अकातरम् ॥
ताभ्यां प्रीतो ददौ माल्यं प्रभूतं माल्यजीवनः
भवतोः स्वम् इदं चेति प्रोवाच प्रियदर्शनः ॥
प्रीतस् तु मनसा कृष्णो गुणकाय वरं ददौ
श्रीस् त्वां मत्संश्रया सौम्य धनौघैर् अभिवर्त्स्यते ॥
स लब्ध्वा वरम् अव्यग्रो माल्यवृत्तिर् अधोमुखः
कृष्णस्य पतितो मूर्ध्ना प्रतिजग्राह तं वरम् ॥
यक्षाव् इमाव् इति तदा स मेने माल्यजीवनः
स भृशं भयसंविग्नो नोत्तरं प्रत्यपद्यत ॥
वसुदेवसुतौ तौ तु राजमार्गगताव् उभौ
कुब्जां ददृशतुर् भूयः आनुलेपनभाजनाम् ॥
ताम् आह कृष्णः कुब्जेति कस्येदम् अनुलेपनम्
नयस्य् अम्बुजपत्राक्षि क्षिप्रम् आख्यातुम् अर्हसि ॥
सा स्थितावेक्षिणी भूत्वा प्रत्युवाचाम्बुजेक्षणम्
कृष्णं जलदगम्भीरं विद्युत्कुटिलगामिनी ॥
राज्ञः स्नानगृहं यामि तद् गृहाणानुलेपनम्
दृष्ट्वैव त्वारविन्दाक्ष विस्मितास्मि वरानन ।
स्थितास्म्य् आगच्छ भद्रं ते हृदयस्यासि मे प्रियः ॥
कुतश् चागम्यते सौम्य यन् मां त्वं नावबुध्यसे
महाराजस्य दयितां नियुक्ताम् अनुलेपने ॥
ताम् उवाच हसन्तीं तु कृष्णः कुब्जाम् अवस्थिताम्
ताम् उवाच ततः कृष्णः सैरन्ध्रीं प्रहसन्न् इव ।
सुगन्धम् एतद् राजार्हं रुचिरं रुचिरानने ।
आवयोर् गात्रसदृशं दीयताम् अनुलेपनम् ॥
वयं हि देशातिथयो मल्लाः प्राप्ता वरानने
द्रष्टुं धनुर्महं दिव्यं राष्ट्रं चैव महर्द्धिमत् ॥
प्रत्युवाचाथ सा कृष्णं प्रियो ऽसि मम दर्शने
ततः सा प्रणता भूत्वा प्रददाव् अनुलेपनम् ।
राजार्हम् इदम् अग्र्यं च तद् गृहाणानुलेपनम् ॥
ताव् उभाव् अनुलिप्ताङ्गाव् आर्द्रगात्रौ विरेजतुः
तीर्थगौ पङ्कदिग्धाङ्गौ यमुनायां यथा वृषौ ॥
तां तु कुब्जां ततः कृष्णो द्व्यङ्गुलेनाग्रपाणिना
शनैः संतोलयामास कृष्णो लीलाविधानवित् ॥
सा तु मग्नस्तनयुगा स्वायताङ्गी शुचिस्मिता
जहासोच्चैः स्तनतटा ऋजुयष्टिर् लता यथा ॥
प्रणयाच् चापि कृष्णं सा बभाषे मत्तकाशिनी
क्व यास्यसि मया रुद्धः कान्त तिष्ठ गृहाण माम् ॥
तौ जातहासाव् अन्योन्यं सतलाक्षेपम् अव्ययौ
वीक्षमाणौ प्रहसितौ कुब्जायाः श्रुतविस्तरौ ॥
कृष्णस् तु कुब्जां कामार्तां सस्मितं विससर्ज ह
यथेष्टं गम्यतां भद्रे नाहं तादृग्विधो नरः ।
ततस् तौ कुब्जया मुक्तौ प्रविष्टौ राजसंसदम् ॥
ताव् उभौ व्रजसंवृद्धौ गोपवेषविभूषितौ
गूढचेष्टाननौ भूत्वा प्रविष्टौ राजवेष्म तत् ॥
धनुःशालां गतौ तौ तु बालाव् अपरिशङ्कितौ
हिमवद्वनसंभूतौ सिंहाव् इव बलोत्कटौ ॥
दिदृक्षन्तौ महत् तत्र धनुर् आयागभूषितम्
पप्रच्छतुश् च तौ वीराव् आयुधागारिकं तदा ॥
भोः कंसधनुषां पाल श्रूयताम् आवयोर् वचः
कतरत् तद् धनुः सौम्य महो ऽयं यस्य वर्तते
आयागभूतं कंसस्य दर्शयस्व यदीच्छसि ॥
स तयोर् दर्शयामास तद् धनुः स्तम्भसंनिभम्
अनारोप्यम् असंभेद्यं देवैर् अपि सवासवैः ॥
तद् गृहीत्वा ततः कृष्णस् तोलयामास वीर्यवान्
दोर्भ्यां कमलपत्राक्षः प्रहृष्टेनान्तरात्मना ॥
तोलयित्वा यथाकामं तद् धनुर् दैत्यपूजितम्
आरोपयामास बली नामयामास चासकृत् ॥
आनम्यमानं कृष्णेन प्रकर्षाद् उरगोपगम्
द्विधाभूतम् अभून् मध्ये धनुर् आयागभूषितम् ॥
भङ्क्त्वा तु तद् धनुः श्रेष्ठं कृष्णस् त्वरितविक्रमः
निश्चक्राम महावेगः स च संकर्षणो युवा ॥
अनुयुक्तौ ततस् तौ च भग्ने धनुषि रक्षिभिः
धनुषो भङ्गनादेन वायुनिर्घोषकारिणा
चचालान्तःपुरं सर्वं दिशश् चैव पुपूरिरे ॥
स त्व् आयुधागारनरो भीतस् त्वरितविक्रमः
समीपं नृपतेर् गत्वा काकोच्छ्वासो ऽभ्यभाषत ॥
श्रूयतां मम विज्ञाप्यम् आश्चर्यं धनुषो गृहे
निर्वृत्तम् अस्मिन् काले यज् जगतः संभ्रमोपमम् ॥
नरौ कस्यापि सहितौ शिखाविततमूर्धजौ
नीलपिताम्बरधरौ पीतश्वेतानुलेपनौ ॥
देवपुत्रोपमौ वीरौ बालाव् इव हुताशनौ
स्थितौ धनुर्गृहे सौम्यौ सहसा खाद् इवागतौ
सौम्यौ महस्य चोद्युक्ताव् आगतौ पुरुषर्षभौ ।
मया दृष्टौ परिव्यक्तं रुचिराच्छादनस्रजौ ॥
ताभ्याम् एकस् तु पद्माक्षः श्यामः पीताम्बरस्रजः
जग्राह तद् धनूरत्नं दुर्ग्रहं दैवतैर् अपि ॥
तत् स बालो बृहद्रूपं बलाद् यन्त्रम् इवायसम्
आरोपयित्वा वेगेन नामयामास लीलया ॥
कृष्यमाणं तु तत् तेन विबाणं बाहुशालिना
मुष्टिदेशे विकूजित्वा द्विधाभूतम् अभज्यत ॥
स तु तच् चापरत्नं वै भङ्क्त्वा स्तम्भम् इव द्विपः
निष्पपातानिलगतिः सानुगो ऽमितविक्रमः
जगाम तद् द्विधा कृत्वा न जाने को ऽप्य् असौ नृप ॥
श्रुत्वैव धनुषो भङ्गं कंसो ऽप्य् उद्विग्नमानसः
विसृज्यायुधपालं वै प्रविवेश गृहोत्तमम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0