भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 69

69.1

स नन्दगोपस्य गृहं प्रविष्टः सहकेशवः
गोपवृद्धान् समानीय प्रोवाचामितदक्षिणः ॥

69.2

कृष्णं चैवाब्रवीत् प्रीतो रौहिणेयेन संगतम्
श्वः पुरीं मथुरां तात गमिष्यामः शिवाय वै ॥

69.3

यास्यन्ति च व्रजाः सर्वे सगोकुलपरिग्रहाः
कंसाज्ञया समुचितं करम् आदाय वार्षिकम् ॥

69.4

समृद्धस् तस्य कंसस्य भविष्यति धनुर्महः
तं द्रक्ष्यथ समृद्धं च स्वजनं च समेष्यथ ॥

69.5

पितरं वसुदेवं च सततं दुःखभाजनम्
दीनं पुत्रवधश्रान्तं युवाम् अथ समेष्यथः ॥

69.6

सततं पीड्यमानं च कंसेनाशुभबुद्धिना
दशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम् ॥

69.7

कंसस्य च भयात् त्रस्तं भवद्भ्यां च विनाकृतम्
दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना ॥

69.8

तां च द्रक्ष्यामि गोविन्द पुत्रैर् अमृदितस्तनीम्
देवकीं देवसंकाशां सिदन्तीं विहतप्रभाम् ॥

69.9

पुत्रशोकेन शुष्यन्तीं त्वद्दर्शनपरायणाम्
वियोगशोकसंतप्तां विवत्साम् इव सौरभीम् ॥

69.10

उपप्लुतेक्षणां नित्यं नित्यं मलिनवाससम्
स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभाम् इव ॥

69.11

त्वद्दर्शनपरां नित्यं तवागमनकाङ्क्षिणीम्
त्वत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम् ॥

69.12

त्वत्प्रलापेष्व् अकुशलां त्वया बाल्ये वियोजिताम्
अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः ॥

69.13

यदि त्वां जनयित्वा सा क्लिश्यते कृष्ण देवकी
अपत्यार्थो नु कस् तस्या वरं ह्य् एवानपत्यता ॥

69.14

एकः शोको हि नारीणाम् अपुत्राणां विधीयते
सपुत्रा त्व् अफले पुत्रे धिक् प्रजातेन तप्यते ॥

69.15

त्वं तु शक्रसमः पुत्रो यस्यास् त्वत्सदृशो गुणैः
परेषाम् अप्य् अभयदो न सा शोचितुम् अर्हति ॥

69.16

वृद्धौ तवाम्बापितरौ परभृत्यत्वम् आगतौ
त्वत्कृते भर्त्स्यमानौ तौ कंसेनादीर्घदर्शिना ॥

69.17

यदि ते देवकी मान्या पृथिवीवात्मधारिणी
तां शोकसलिले मग्नाम् उत्तारयितुम् अर्हसि ॥

69.18

तं च वृद्धं प्रियसुतं वसुदेवं महाबलम्
पुत्रयोगेन संयोज्य कृष्ण धर्मम् अवाप्स्यसि ॥

69.19

यथा नागः सुदुर्वृत्तो दमिनो यमुनाह्रदे
विपुलश् च धृतः शैलो यथा वै भूधरस् त्वया ॥

69.20

दर्पोद्वृत्तश् च बलवान् अरिष्टो विनिपातितः
परप्राणहरः केशी दुष्टात्मा च हतस् त्वया ॥

69.21

एतेनैव प्रयत्नेन वृद्धाव् उद्धृत्य दुःखितौ
यथा धर्मम् अवाप्नोषि तत् कृष्ण परिचिन्त्यताम् ॥

69.22

निर्भर्त्स्यमानो यैर् दृष्टः पिता ते कृष्ण संसदि
ते सर्वे चक्रुर् अश्रूणि नेत्रैर् दुःखान्विता भृशम् ॥

69.23

गर्भावकर्तनादीनि दुःखानि सुबहूनि सा
माता ते देवकी कृष्ण कंसस्य सहते ऽवशा ॥

69.24

मातापितृभ्यां सर्वेण जातेन निभृतेन वै
ऋणं वै प्रतिकर्तव्यं यथायोगम् उदाहृतम् ॥

69.25

एवं ते कुर्वतः कृष्ण मातापित्रोर् अनुग्रहम्
परित्यजेतां तौ शोकं स्याच् च धर्मस् तवातुलः ॥

69.26

कृष्णस् तु विदितार्थो वै तम् आहामितदक्षिणम्
बाढम् इत्य् एव तेजस्वी न च चुक्रोध केशवः ॥

69.27

ते च गोपाः समागम्य नन्दगोपपुरोगमाः
अक्रूरवचनं श्रुत्वा संचेलुः कंसशासनात् ॥

69.28

गमनाय च ते सज्जा बभूवुर् व्रजवासिनः
सज्जं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे ॥

69.29

करं चानडुहः सर्पिर् महिषांश् चोपनायिकान्
यथासारं यथायूथम् उपनीय पयो घृतम् ॥

69.30

तं सज्जयित्वा कंसस्य करं चोपायनानि च
ते सर्वे गोपपतयो गमनायोपतस्थिरे ॥

69.31

अक्रूरस्य कथाभिस् तु सह कृष्णेन जाग्रतः
रौहिणेयतृतीयस्य सा निशा व्यत्यवर्तत ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc