हरिवंश · अध्याय 70
ततः प्रभाते विमले पक्षिव्याहारसंकुले
नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते ॥
नभस्य् अरुणसंतीर्णे पर्यस्ते ज्योतिमण्डले
प्रत्यूषपवनासारैः क्लेदिते धरणीतले ॥
क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च
नैशम् अन्तर्दधे रूपम् उदगच्छद् दिवाकरः
शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत ॥
गोभिः समवकीर्णासु व्रजनिर्याणभूमिषु
मन्थावर्तनपूर्णेषु गर्गरेषु नदत्सु च ॥
दामभिर् यम्यमानेषु वत्सेषु तरुणेषु च
गोपैर् आपूर्यमाणेषु घोषरथ्यासु सर्वशः ॥
तत्रैव गुरुकं भाण्डं सकटारोपितं बहु
त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः ॥
कृष्णो ऽथ रौहिणेयश् च स चैवामितदक्षिणः
त्रयो रथगता जग्मुस् त्रिलोकपतयो यथा ॥
अथाह कृष्णम् अक्रूरो यमुनातीरम् आश्रितः
स्यन्दनं तात रक्षस्व यत्नं च कुरु वाजिषु ॥
हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा
प्रगाढं यत्नम् आस्थाय क्षणं तात प्रतीक्षताम् ॥
यमुनाया ह्रदे ह्य् अस्मिन् तोष्यामि भुजगेश्वरम्
दिव्यैर् भागवतैर् मन्त्रैः सर्वलोकप्रभुं यतः ॥
श्रीमत्स्वस्तिकमूर्धानं प्रणमिष्यामि भोगिनम्
सहस्रशिरसं देवम् अनन्तं नीलवाससम् ॥
धर्मदेवस्य तस्यास्याद् यद् विषं प्रभविष्यति
सर्वं तद् अमृतप्रख्यम् अशिष्याम्य् अमरो यथा ॥
स्वस्तिकायतनं दृष्ट्वा द्विजिह्वं श्रीविभूषितम्
समाजस् तत्र सर्पाणां शान्त्यर्थं वै भविष्यति ॥
आस्तां मां समुदीक्षन्तौ भवन्तौ संगताव् उभौ
निवृत्तो भुजगेन्द्रस्य यावद् अस्मि ह्रदोत्तमात् ॥
तम् आह कृष्णः संहृष्टो गच्छ धर्मिष्ठ माचिरम्
आवां खलु न शक्तौ स्वस् त्वया हीनाव् इहासितुम् ॥
स ह्रदे यमुनायास् तु ममज्जामितदक्षिणः
रसातले स ददृशे सर्पलोकम् इमं यथा ॥
तस्य मध्ये सहस्रास्यम् हेमतालोच्छ्रितध्वजम्
लाङ्गलासक्तहस्ताग्रम् मुसलापाश्रितोदरम् ॥
भोगोदरासने शुभ्रे स्वेन देहेन कल्पिते
स्वासीनं स्वस्तिकाभ्यां च वराभ्यां च महीधरम् ॥
किंचित् सव्यापवृत्तेन मौलिना हेमचूलिना
जातरूपमयैः पद्मैर् मालया च्छन्नवक्षसम् ॥
रक्तचन्दनदिग्धाङ्गम् दीर्घबाहुम् अरिंदमम्
पद्मनाभं सिताभ्राभम् भाभिर् ज्वलिततेजसम् ॥
ददर्श भोगिनां नाथम् स्थितम् एकार्णवेश्वरम्
पूज्यमानं द्विजिह्वेन्द्रैर् वासुकिप्रमुखैः प्रभुम् ॥
कम्बलाश्वतरौ नागौ तौ चामरधराव् उभौ
अवीजयेतां तं देवम् धर्मासनगतं प्रभुम् ॥
तस्याभ्यासगतो भाति वासुकिः पन्नगेश्वरः
वृतो ऽन्यैः सचिवैः सर्पैः कर्कोटकपुरःसरैः ॥
तं घटैः काञ्चनैर् दिव्यैः पङ्कजच्छन्नमूर्धजम्
राजानं स्नापयामासुः स्नातम् एकार्णवाम्बुभिः ॥
तस्योत्सङ्गे घनश्यामम् श्रीवत्साच्छादितोदरम्
कोटिकन्दर्पसुन्दरम् ।
दक्षिणावर्तसुस्निग्ध- ।
सहस्रशुभनामानम् अर्कचन्द्रेक्षणद्युतिम् ।
पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह ॥
आसीनं चैव सोमेन तुल्यसंहननं प्रभुम्
संकर्षणम् इवासीनं तं दिव्यं विष्टरं विना ॥
स कृष्णं तत्र सहसा व्याहर्तुम् उपचक्रमे
तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा ॥
सो ऽनुभूय भुजंगानां तं भागवतम् अव्ययम्
उदतिष्ठत् पुनस् तोयाद् विस्मितो ऽमितदक्षिणः ॥
स तौ रथस्थाव् आसिनौ तत्रैव बलकेशवौ
उदीक्षमाणाव् अन्योन्यं ददर्शाद्भुतरूपिणौ ॥
अथामज्जत् पुनस् तत्र तदाक्रूरः कुतूहलात्
इज्यते यत्र देवः स नीलवासाः सनातनः ॥
तथैवासीनम् उत्सङ्गे सहस्रास्यधरस्य वै
ददर्श कृष्णम् अक्रूरः पूज्यमानं यथाविधि ॥
भूयश् च सहसोत्थाय तं मन्त्रं मनसा वहन्
रथं तेनैव मार्गेण जगामामितदक्षिणः ॥
तम् आह केशवो हृष्टः स्थितम् अक्रूरम् आगतम्
कीदृशं नागलोकस्य वृत्तं भागवते ह्रदे ॥
चिरं तु भवता कालं व्याक्षेपेण विलम्बितम्
मन्ये दृष्टं त्वयाश्चर्यं हृदयं ते यथाचलम् ॥
प्रत्युवाच स तं कृष्णम् आश्चर्यं भवता विना
किं भविष्यति लोकेषु चरेषु स्थावरेषु च ॥
तत्राश्चर्यं मया दृष्टं यत् कृष्ण भुवि दुर्लभम्
तद् इहापि यथा तत्र पश्यामि च रमानि च ॥
संगतश् चास्मि लोकानाम् आश्चर्येणेह रूपिणा
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुम् उत्सहे ॥
तद् आगच्छ गमिष्यामः कंसराजपुरीं प्रभो
यावन्न् आस्तं व्रजत्य् एष दिवसान्ते दिवाकरः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0