भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 64

64.1

प्रदोषार्धे कदाचित् तु कृष्णे रतिपरायणे
त्रासयन् समदो गोष्ठान् अरिष्टः प्रत्यदृश्यत ॥

64.2

निर्वाणाङ्गारमेघाभस् तीक्ष्णशृङ्गोऽर्कलोचनः
क्षुरतीक्ष्णाग्रचरणः कालः काल इवापरः ॥

64.3

लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः
गर्विताविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥

64.4

ककुदोदग्रनिर्माणः प्रमाणाद् दुरतिक्रमः
शकृन्मूत्रोपलिप्ताङ्गो गवाम् उद्वेजनो भृशम् ॥

64.5

महाकटिः स्थूलमुखो दृढजानुर् महोदरः
विषाणावल्गितगतिर् लम्बता कण्ठचर्मणा ॥

64.6

गवारोहेषु चपलस् तरुघातङ्किताननः
युद्धसञ्जविषाणाग्रो द्विषद्वृषभसूदनः ॥

64.7

अरिष्टो नाम हि गवाम् अरिष्टो दारुणाकृतिः
दैत्यो वृषभरूपेण गोष्ठान् विपरिधावति ॥

64.8

पातयानो गवां गर्भान् दृप्तो गच्छत्य् अनार्तवम्
भजमानश् च चपलो गृष्टीः संप्रचचार ह ॥

64.9

शृङ्गप्रहरणो रौद्रः प्रहरन् गोषु दुर्मदः
गोष्ठेषु न रतिं लेभे विना युद्धं स गोवृषः ॥

64.10

एतस्मिन्न् एव काले तु गवाः कृष्णसमीपगाः
त्रासयामास दुष्टात्मा वैवस्वत पथे स्थितः ॥

64.11

सेन्द्राशनिर् इवाम्भोदो नर्दमानो महावृषः
चकार निर्वृषं गोष्ठं निर्वत्सशिशुपुंगवम् ॥

64.12

तालशब्देन तं कृष्णः सिंहनादैश् च मोहयन्
अभ्यधावत गोविन्दो दैत्यं वृषभरूपिणम् ॥

64.13

स कृष्णं गोवृषो दृष्ट्वा हृष्टलाङ्गूललोचनः
रुषितस् तलशब्देन युद्धाकाङ्क्षी ननर्द ह ॥

64.14

तम् आपतन्तम् उद्वृत्तम् दृष्ट्वा वृषभदानवम्
तस्मात् स्थानान् न व्यचलत् कृष्णो गिरिर् इवाचलः ॥

64.15

वृषः कक्षयोर् दृष्टिं प्रणिधाय धृताननः
कृष्णस्य निधनाकाङ्क्षी तूर्णम् अभ्युत्पपात ह ॥

64.16

तम् आपतन्तं प्रमुखे प्रतिजग्राह दुर्धरम्
कृष्णः कृष्णाञ्जननिभं वृषं प्रति वृषोपमः ॥

64.17

स संसक्तस् तु कृष्णेन वृषेणेव महावृषः
मुमोच वक्त्रजं फेनं नस्ततो ऽथ स शब्दवत् ॥

64.18

ताव् अन्योन्याव् अरुद्धाङ्गौ युद्धे कृष्णवृषाव् उभौ
रेजतुर् मेघसमये संसक्ताव् इव तोयदौ ॥

64.19

तस्य दर्पबलं हत्वा कृत्वा शृङ्गान्तरे पदम्
अपीडयद् अरिष्टस्य कण्ठं क्लिन्नम् इवाम्बरम् ॥

64.20

शृङ्गं चास्य पुनः सव्यम् उत्पाट्य यमदण्डवत्
तेनैव प्राहरद् वक्त्रे स ममार भृशं हतः ॥

64.21

विभिन्नशृङ्गो भग्नास्यो भग्नस्कन्धश् च दानवः
पपात रुधिरोद्गारी साम्बुधार इवाम्बुदः ॥

64.22

गोविन्देन हतं दृष्ट्वा दृप्तं वृषभदानवम्
साधु साध्व् इति भूतानि तत्कर्मास्याभितुष्टुवुः ॥

64.23

स चोपेन्द्रो वृषं हत्वा कान्तवक्त्रो निशामुखे
अरविन्दाभनयनः पुनर् एव रराज ह ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc