भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 59

59.1

तयोः प्रवृत्तयोर् एवं कृष्णस्य च बलस्य च
वने विचरतोर् मासौ व्यतियातौ स्म वार्षिकौ ॥

59.2

व्रजम् आजग्मतुस् तौ तु व्रजे शुश्रुवतुस् तदा
प्राप्तं शक्रमहं वीरौ गोपांश् चोत्सवलालसान् ॥

59.3

कौतूहलाद् इदं वाक्यं कृष्णः प्रोवाच तत्र वै
को ऽयं शक्रमहो नाम येन वो हर्ष आगतः ॥

59.4

तत्र वृद्धतमस् त्व् एको गोपो वाक्यम् उवाच ह
श्रूयतां तात शक्रस्य यदर्थं मह इष्यते ॥

59.5

देवानाम् ईश्वरः शक्रो मेघानां चारिसूदन
तस्य चायं क्रतुः कृष्ण लोकपालस्य शाश्वतः ॥

59.6

तेन संचोदिता मेघास् तस्यायुधविभूषिताः
तस्यैवाज्ञाकराः सस्यं जनयन्ति नवाम्बुभिः ॥

59.7

मेघस्य पयसो दाता पुरुहूतः पुरंदरः
संप्रहृष्टः स भगवान् प्रीणयत्य् अखिलं जगत् ॥

59.8

तेन संपादितं सस्यं वयम् अन्ये च मानवाः
वर्तयामोपभुज्जानास् तर्पयामश् च देवताः ॥

59.9

देवो वर्षति लोकेषु ततः सस्यं प्रवर्तते
पृथिव्यां तर्पितायां च सामृतं लक्ष्यते जगत् ॥

59.10

क्षीरवत्य इमा गावो वत्सवत्यश् च निर्वृताः
तेन संवर्धिता गावस् तृणैः पुष्टाः सपुंगवाः ॥

59.11

नासस्या नातृणा गावो न बुभुक्षार्दितो जनः
दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥

59.12

दुदोह सवितुर् गा वै शक्रो दिव्याः पयस्वलाः
ताः क्षरन्ति नवं क्षीरं मेध्यं मेघौघधारितम् ॥

59.13

वाय्वीरितं तु मेघेषु करोति निनदं महत्
जवेनावर्जितं चैव गर्जतीति जना विदुः ॥

59.14

तस्य चैवोह्यमानस्य वातयुक्तैर् बलाहकैः
वज्राशनिसमाः शब्दा भवन्त्य् अगमभेदिनः ॥

59.15

तज् जलं वज्रनिष्पेषैर् विमुञ्चति नभोगतम्
बहुभिः कामगैर् मेघैः शक्रो भृत्यैर् इवेश्वरः ॥

59.16

क्वचिद् दुर्दिनसंकाशैः क्वचिच् छन्नाभ्रसंस्थितैः
क्वचिच् छीकरमुक्ताभं कुर्वद्भिर् गगनं घनैः ॥

59.17

एवम् एतत् पयो दुग्धं गोभिः सूर्यस्य वारिदः
पर्जन्यः सर्वलोकानां भवाय भुवि वर्षति ॥

59.18

तस्मात् प्रावृषि राजानः सर्वे शक्रं मुदा युताः
महैः सुरेशम् अर्चन्ति वयम् अन्ये च मानवाः ॥

59.19

गोपवृद्धस्य वचनं श्रुत्वा शक्रपरिग्रहे
प्रभावज्ञो ऽपि शक्रस्य वाक्यं दामोदरो ऽब्रवीत् ॥

59.20

वयं वनचरा गोप गोपा गोधनजीविनः
गावो ऽस्मद्दैवतं विद्धि गिरयश् च वनानि च ॥

59.21

कर्षकाणां कृषिर् वृत्तिः पण्यं विपणिजीविनाम्
अस्माकं गौः परा वृत्तिर् एतत् त्रैविध्यम् उच्यते
विद्यया यो यया युक्तस् तस्य सा दैवतं परम् ॥

59.22

यो ऽन्यस्य फलम् अश्नानः करोत्य् अन्यस्य सत्क्रियाम्
द्वाव् अनर्थौ स लभते प्रेत्य चेह च मानवः ॥

59.23

कृष्यन्ताः प्रथिताः सीमाः सीमान्तं श्रूयते वनम्
वनान्ता गिरयः सर्वे सा चास्माकं गतिर् ध्रुवा ॥

59.24

श्रूयन्ते गिरयश् चापि वने ऽस्मिन् कामरूपिणः
प्रविश्य तास् तास् तनवो रमन्ते स्वेषु सानुषु ॥

59.25

भूत्वा केसरिणः सिंहा व्याघ्राश् च नखिनां वराः
वनानि स्वानि रक्षन्ति त्रासयन्तो द्रुमच्छिदः ॥

59.26

यदा चैषां विकुर्वन्ति ते वनालयजीविनः
घ्नन्ति तान् एव दुर्वृत्तान् पौरुषादेन कर्मणा ॥

59.27

मन्त्रयज्ञपरा विप्राः सीतायज्ञाश् च कर्षकाः
गिरियज्ञा वयं गोपा इज्यो ऽस्माभिर् गिरिर् वने ॥

59.28

तन् मह्यं रोचते गोपा गिरियज्ञं वयं वने
कुर्मः कृत्वा सुखं स्थानं पादपे वाथ वा गिरौ ॥

59.29

तत्र हत्वा पशून् मेध्यान् वितत्यायतने कृते
सर्वघोषस्य संदोहः क्रियतां किं विचार्यते ॥

59.30

तं शरत्कुसुमापीडाः परिवार्य प्रदक्षिणम्
गावो गिरिवरं सर्वास् ततो यान्तु वनं पुनः ॥

59.31

प्राप्ता किलेयं हि गवां स्वादुवीर्यतृणा गुणैः
शरत्प्रमुदिता रम्या गतमेघजलाशया ॥

59.32

प्रियकैः पुष्पितैर् गौरं श्यामं बाणवनैः क्वचित्
कठोरतृणम् आभाति निर्मयूररुतं वनम् ॥

59.33

विमला विजला व्योम्नि विबलाका विविद्युतः
विवर्तन्ते जलधरा विमदा इव कुञ्जराः ॥

59.34

पटुना मेघवातेन वार्षिकेणावकम्पिताः
पर्णोत्करघनाः सर्वे प्रसादं यान्ति पादपाः ॥

59.35

सितवर्णाम्बुदोष्णीषं हंसचामरवीजितम्
पूर्णचन्द्रामलच्छत्रं साभिषेकम् इवाम्बरम् ॥

59.36

हंसैर् विहसितानीव सुमुत्कुष्टानि सारसैः
सर्वाणि तनुतां यान्ति जलानि जलदक्षये ॥

59.37

चक्रवाकस्तनतटाः पुलिनश्रोणिमण्डलाः
हंसलक्षणहासिन्यः पतिं यान्ति समुद्रगाः ॥

59.38

कुमुदोत्फुल्लम् उदकं ताराभिश् चत्रम् अम्बरम्
समम् अभ्युत्स्मयन्तीव शर्वरीष्व् इतरेतरम् ॥

59.39

मत्तक्रौञ्चावघुष्टेषु कलमापक्वपाण्डुषु
निर्विष्टरमणीयेषु वनेषु रमते मनः ॥

59.40

पुष्करिण्यस् तडागानि वाप्यश् च विकचोत्पलाः
केदाराः सरितश् चैव सरांसि च श्रियाज्वलन् ॥

59.41

पङ्कजानि च पद्मानि तथान्यानि सितानि च
श्रिया ज्वलत्पङ्कजानि ताम्राणि च सितानि च ।
उत्पलानि च नीलानि भेजिरे वारिजां श्रियम् ॥

59.42

मदं जहुः सितापाङ्गा मन्दं ववृधिरे ऽनिलाः
अभवद् व्यभ्रमाकाशम् अभूच् च निभृतो र्णवः ॥

59.43

ऋतुपर्यायशिथिलैर् वृत्तनृत्तसमुज्झितैः
मयूराङ्गरुहैर् भूमिर् बहुनेत्रेव लक्ष्यते ॥

59.44

स्वपङ्कमलिनैस् तीरैः काशपुष्पलताकुलैः
हंससारसविन्यासैर् यमुना याति संयता ॥

59.45

कलमापक्वसस्येषु केदारेषु वनेषु च
सस्यादा जलजादाश् च मत्ता विरुरुवुः खगाः ॥

59.46

सिषिचुर् यानि जलदा जलेन जलदागमे
तानि शष्पाण्य् अबालानि कठिनत्वं गतानि वै ॥

59.47

त्यक्त्वा मेघमयं वासः शरद्गुणविदीपितः
एष वीतमले व्योम्नि हृष्टो वसति चन्द्रमाः ॥

59.48

क्षीरिण्यो द्विगुणं गावः प्रमत्ता द्विगुणं वृषाः
वनानां द्विगुणा लक्ष्मीः सस्यैर् गुणवती मही ॥

59.49

ज्योतींषि घनमुक्तानि पद्मवन्ति जलानि च
मनांसि च मनुष्याणां प्रसादम् उपयान्ति वै ॥

59.50

असृजत् सविता व्योम्नि निर्मुक्तजलदे भृशम्
शरत्प्रज्वलितं तेजस् तीक्ष्णरश्मिर् विशोषयन् ॥

59.51

नीराजयित्वा सैन्यानि निर्यान्ति विजिगीषवः
अन्योन्यराष्ट्राभिमुखाः पार्थिवाः पृथिवीक्षितः ॥

59.52

बन्धुजीवाभिताम्रासु बद्धपङ्कवतीषु च
मनस् तिष्ठति कान्तासु चित्रासु वनराजिषु ॥

59.53

वनेषु च विराजन्ते पादपा वनशोभिनः
असनाह् सप्तपर्णाश् च कोविदाराश् च पुष्पिताः ॥

59.54

इषुसाह्वा निकुम्भाश् च प्रियकाः स्वर्णकास् तथा
इक्षुसस्या निकुप्याश् च प्रियङ्गुश् च विशेषतः ।
सृमराः पिचुकाश् चैव केतक्यश् च समन्ततः ॥

59.55

व्रजेपु च विशेषेण गर्गरोद्गारहासिषु
शरत्प्रकाशयोषेव गोष्ठेष्व् अटति रूपिणी ॥

59.56

नूनं त्रिदशलोकस्थं मेघकालसुखोषितम्
पतत्रिकेतनं देवं बोधयन्ति दिवौकसः ॥

59.57

शरद्य् एवं सुसस्यायां प्राप्तायां प्रावृषः क्षये
नीलचन्द्रार्कवर्णैश् च रचितं बहुभिर् द्विजैः ।
फलैः प्रवालैश् च घनम् इन्द्रचापघनोपमम् ।
भवनाकारविटपं लतापरम् अमण्डितम् ।
विशालमूलावनतं पवनाभोगमण्डितम् ।
अर्चयाम गिरिं देवं गाश् चैव सविशेषतः ॥

59.58

सावतंसैर् विषाणैश् च बर्हापीडैश् च दंशितैः
घण्टाभिश् च प्रलम्बाभिः पुष्पैः शारदिकैस् तथा ॥

59.59

शिवाय गावः पूज्यन्तां गिरियज्ञः प्रवर्तताम्
पूज्यन्तां त्रिदशैः शक्रो गिरिर् अस्माभिर् इज्यताम् ॥

59.60

कारिष्यामि गोयज्ञं बलाद् अपि न संशयः
यदास्ति मयि वः प्रीतिर् यदि वा सुहृदो वयम् ॥

59.61

गावो हि पूज्याः सततं सर्वेषां नात्र संशयः
स्यात् तु साम्ना भवेत् प्रीतिर् भवतां वैभवाय च
तत एतन् मम वचः क्रियताम् अविचारितम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc