हरिवंश · अध्याय 58
अथ तौ जातहर्षौ तु वसुदेवसुताव् उभौ
तत्तालवनम् उत्सृज्य भूयो भाण्डीरं आगतौ ॥
चारयन्तौ विवृद्धानि गोधनानि शुभाननौ
स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च ॥
क्ष्वेदयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान्
नामभिर् व्याहरन्तौ च सवत्सा गाः परंतपौ ॥
निर्योगपाशैर् आसक्तौ स्कन्धाभ्याम् शुभलक्षणौ
वनमालाकृतोरस्कौ बालशृङ्गाव् इवर्षभौ ॥
सुवर्णाञ्जनवर्णाभाव् अन्योन्यसदृशाम्बरौ
महेन्द्रायुधसंसक्तौ शुक्लकृष्णाव् इवाम्बुदौ ॥
कुशाग्रकुसुमानां च कर्णपूरमनोरमौ
वनमार्गेषु कुर्वाणौ वन्यवेषधराव् उभौ ॥
गोवर्धनस्यानुचरौ वने सानुचरौ च तौ
चेरतुर् लोकसिद्धाभिः क्रीडाभिर् अपराजितौ ॥
ताव् एनं मानुषीं दीक्षां वहन्तौ सुरपूजितौ
तज्जातिगुणयुक्ताभिः क्रीडाभिश् चेरतुर् वनम् ॥
तौ तु भाण्डीरम् उचिते काले क्रीडानुवर्तिनौ
प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम् ॥
तत्र स्पन्दोलिकाभिश् च युद्धमार्गैश् च दंशितौ
अश्मभिः क्षेपणीयैश् च तौ व्यायामम् अकुर्वताम् ॥
युद्धमार्गैश् च विविधैर् गोपालैः सहिताव् उभौ
मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः ॥
तयो रमयतोर् एवं तल्लिप्सुर् असुरोत्तमः
प्रलम्बो ऽभ्यागमत् तेषां छिद्रान्वेषी तयोस् तदा ॥
गोपालवेषम् आस्थाय वन्यपुष्पविभूषितः
लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस् तथा ॥
सो ऽवगाहत निःशङ्कस् तेषां मध्यम् अमानुषः
मानुषं वपुर् आस्थाय प्रलम्बो दानवोत्तमः ॥
प्रक्रीडिताश् च ते सर्वे सह तेनामरारिणा
गोपालवपुषं गोपा मन्यमानाः स्वबान्धवम् ॥
स तु छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः
दृष्टिं परिदधे कृष्णे रौहिणेये च दारुणाम् ॥
अविषह्यं ततो मत्वा कृष्णम् अद्भुतविक्रमम्ः
रौहिणेयवधे यत्नम् अकरोद् दानवोत्तमः ॥
हरिणाक्रीडनं नाम बालक्रीडनकं ततः
प्रक्रीडिताश् च ते सर्वे द्वौ द्वौ युगपद् उत्पतन् ॥
कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना
संकर्षणस् तु प्लुतवान् प्रलम्बेन सहानघः ॥
गोपालास् त्व् अपरे द्वंद्वं गोपालैर् अपरैः सह
प्रद्रुता लङ्घयन्तो वै ते ऽन्योन्यं लघुविक्रमाः ॥
श्रीदामम् अजयत् कृष्णः प्रलम्बं रोहिणीसुतः
गोपालैः कृष्णपक्षीयैर् गोपालास् त्व् अपरे जिताः ॥
ते वाहयन्तस् त्व् अन्योन्यम् संहर्षात् सहसा द्रुताः
भाण्डीरस्कन्धम् उद्दिश्य मर्यादां पुनर् आगमन् ॥
संकर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः
द्रुतं जगाम विमुखः सचन्द्र इव तोयदः ॥
स भारम् असहंस् तस्य रौहिणेयस्य धीमतः
ववृधे सुमहाकायश् चन्द्राक्रान्त इवाम्बुदः ॥
स भाण्डीरवटप्रख्यं दग्धाञ्जनगिरिप्रभम्
स्वं वपुर् दर्शयाम् आस प्रलम्बो दानवोत्तमः ॥
पञ्चस्तबकयुक्तेन मुकुटेनार्कवर्चसा
दीप्यमानाननो दैत्यः सूर्याक्रान्त इवाम्बुदः ॥
महाननो महाग्रीवः उमहान् अन्तकोपमः
रौद्रः शकटचक्राक्षो नामयंस् चरणैः क्षितिम् ॥
स्रग्दामलम्बाभरणः प्रलम्बाम्बरभूषणः
धीरः प्रलम्बः प्रययौ तोयलम्ब इवाम्बुदः ॥
स जहारैव वेगेन रौहिणेयं महासुरः
सागरोपप्लवगतं कृत्स्नं लोकम् इवान्तकः ॥
ह्रियमाणः प्रलम्बेन स तु संकर्षणो युवा
उह्यमान इवैकेन कालमेघेन चन्द्रमाः ॥
स संदिग्धम् इवात्मानं मेने संकर्षणस् तदा
दैत्यस्कन्धगतः श्रीमान् कृष्णं चेदम् उवाच ह ॥
ह्रिये ऽहं कृष्ण दैत्येन पर्वतोदग्रवर्चसा
प्रदर्शयित्वा महतीम् मायां मानुषरूपिणीम् ॥
कथम् अस्य मया कार्यं शासनं दुष्टचेतसः
प्रलम्बस्य प्रवृद्धस्य दर्पाद् द्विगुणवर्चसः ॥
तम् आह सस्मितं कृष्णः साम्ना हर्षकलेन वै
अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च ॥
अहो ऽयं मानुषो भावो व्यक्तम् एवानुगृह्यते
यस् त्वं जगन्मयं गुह्यं गुह्याद् गुह्यतरं गतः ॥
स्मरार्य तनुम् आत्मानम् लोकानां त्वं विपर्यये
अवगच्छात्मनात्मानम् समुद्राणां समागमे ॥
पुरातनानां देवानां ब्रह्मणः सलिलस्य च
आत्मवृत्तप्रवृत्तानि संस्मराद्यं च वै वपुः ॥
शिरः खं ते जलं मूर्तिः क्षमा भूर् दहनो मुखम्
वायुर् लोकायुर् उच्छ्वासो मनःस्रष्टा मनुस् तव ॥
सहस्रास्यः सहस्राङ्गः सहस्रचरणेक्षणः
सहस्रशीर्षो विश्वात्मा शतजिह्वः शतोदरः ।
सहस्रपत्रनाभस् त्वं सहस्रांशुधरो ऽरिहा ॥
यत् त्वया दर्शितं लोके तत् पश्यन्ति दिवौकसः
यत् त्वया नोक्तपूर्वं हि कस् तद् अन्वेष्टुम् अर्हति ॥
यद् वेदितव्यं लोके ऽस्मिंस् तत् त्वया समुदाहृतम्
विदितं यत् तवैकस्य देवा अपि न तद् विदुः ॥
आत्मजं ते वपुर् व्योम्नि न पश्यन्त्य् आत्मसंभवम्
यत् तु ते कृत्रिमं रूपं तद् अर्चन्ति दिवौकसः ॥
दवैर् न दृष्टश् चान्तस् ते तेनानन्त इति स्मृत
त्वं हि सूक्ष्मो महान् एकः सूक्ष्मैर् अपि दुरासदः ॥
त्वय्य् एव पर्वतस्तम्भा शाश्वती जगती स्थिता
अचला प्राणिनां योनिर् धारयत्य् अखिलं जगत् ॥
चतुःसागरभोगस् त्वं चातुर्वर्ण्यविभागवित्
चतुर्युगेशो लोकानां चातुर्होत्रफलाशनः ॥
यथा त्वम् असि लोकानां तथाहं तच् च मे मतम्
उभाव् एकशरीरौ स्वो जगदर्थे द्विधा कृतौ ॥
लोकानां शाश्वतो देवस् त्वं हि शेषः सनातनः
आवयोर् देहमात्रेण द्विधेदं धार्यते जगत् ॥
अहं यः स भवान् एव यस् त्वं सो ऽहं सनातनः
द्वाव् एव विहितौ ह्य् आवाम् एकदेहौ महाबलौ ॥
तदास्से मूढवत् किं त्वं प्राग् एनं जहि दानवम्
मूर्ध्नि देवरिपुं देव वज्रकल्पेन मुष्टिना ॥
संस्मारितः स कृष्णेन रौहिणेयः पुरातनम्
स बलेन तदा पूर्णस् त्रैलोक्यान्तरचारिणा ॥
ततः प्रलम्बं दुर्वृत्तं सुबद्धेन महाभुजः
मुष्टिना वज्रकल्पेन मूर्ध्नि वीरः समाहनत् ॥
तस्योत्तमाङ्गं स्वे काये विकपालं विवेश ह
तेन मुष्टिप्रहारेण कपालं तद् द्विधाभवत् ।
जानुद्भ्यां जगतीं चैव गतासुः स जगाम ह ॥
जगत्यां विनिकीर्णस्य तस्य रूपम् अभूत् तदा
प्रलम्बस्याम्बरस्थस्य मेघस्येव विदीर्यतः ॥
तस्य भग्नोत्तमाङ्गस्य देहात् सुस्राव शोणितम्
बहुगैरिकसंयुक्तं शैलशृङ्गाद् इवोदकम् ॥
स निहत्य प्रलम्बं तु संहृत्य बलम् आत्मनः
पर्यष्वजत कृष्णं वै रौहिणेयः प्रतापवान् ॥
तं तु कृष्णश् च गोपाश् च दिविस्थाश् च दिवौकसः
तुष्टुवुर् निहते दैत्ये जयाशीर्भिर् महाबलम् ॥
बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा
विचरन्त्य् अशरीरिण्यो वाचः सुरसमीरिताः ।
बलदेवेति नामस्य देवैश् चोक्तं दिवि स्थितैः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0