भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 33

33.1

ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः
उद्योगं विपुलं चक्रुर् युद्धाय युधि दुर्जयाः ॥

33.2

मयस् तु काञ्चनमयं त्रिनल्वान्तरम् अव्ययम्
चतुश्चक्रं सुवपुषं सुकल्पितमहायुधम् ॥

33.3

किंकिणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम्
रचितं रत्नजालैश् च हेमजालैश् च शोभितम् ॥

33.4

ईहामृगगणाकीर्णं पक्षिभिश् च विराजितम्
दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् ॥

33.5

स्वक्षं रथवरोदारं सूपस्थम् अगमोपमम्
गदापरिघसंपूर्णं मूर्तिमन्तम् इवार्णवम् ॥

33.6

हेमकेयूरवलयं स्वर्णकुण्डलकूबरम्
सपताकध्वजोदग्रं सादित्यम् इव मन्दरम् ॥

33.7

गजेन्द्राम्भोदवपुषं क्वचित् केसरवर्चसम्
युक्तम् ऋक्षसहस्रेण सहस्राम्बुदनादितम् ॥

33.8

दीप्तम् आकाशगं दिव्यं रथं पररथारुजम्
अतिष्ठत् समराकाङ्क्षी मेरुं दीप्त इवांशुमान् ॥

33.9

तारस् तु क्रोषविस्तारम् आयसं वाहयन् रथम्
शैलोत्करिमसंकाशं नीलाञ्जनचयोपमम् ॥

33.10

काललोहाष्टचरणं लोहेषायुगकूबरम्
तिमिरोद्गारिकिरणं गर्जन्तम् इव तोयदम् ॥

33.11

लोहजालेन महता सगवाक्षेण दंशितम्
आयसैः परिघैः पूर्णं क्षेपणीयैश् च मुद्गरैः ॥

33.12

प्रासैः पाशैश् च विततैर् अवसक्तैश् च मुद्गरैः
शोभितं त्रासनीयैश् च तोमरैः सपरश्वधैः ॥

33.13

उद्यतं द्विषतां हेतोर् द्वितीयम् इव मन्दरम्
युक्तं खरसहस्रेण सो ऽध्यारोहद् रथोत्तमम् ॥

33.14

विरोचनस् तु संक्रुद्धो गदापाणिर् अवस्थितः
प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ॥

33.15

युक्तं हयसहस्रेण हयग्रीवस् तु दानवः
स्यन्दनं वाहयाम् आस सपत्नानीकमर्दनम् ॥

33.16

व्यायतं बहुसहस्रं धनुर् विस्फारयन् महत्
वराहः प्रमुखे तस्थौ सावरोह इवाचलः ॥

33.17

क्षरस् तु विक्षरन् दर्पान् नेत्राभ्यां रोषजं जलम्
स्फुरद्दन्तौष्ठवदनः संग्रामं सो ऽभ्यकाङ्क्षत ॥

33.18

त्वष्टा त्व् अष्टादशहयं यानम् आस्थाय दानवः
व्यूहितो दानवैर् व्यूहैः परिचक्राम वीर्यवान् ॥

33.19

विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः
श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः ॥

33.20

अरिष्टो बलिपुत्रस् तु वरिष्ठो ऽद्रिशिलायुधः
युद्धायातिष्ठद् आयस्तो धराधर इवापरः ॥

33.21

किशोरस् त्व् अतिसंहर्षात् किशोर इव चोदितः
अभवद् दैत्यसैन्यस्य मध्ये रविर् इवोदितः ॥

33.22

लम्बस् तु लम्बमेघाभः प्रलम्बाम्बरभूषणः
दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥

33.23

स्वर्भानुरास्ययोधी तु दशनौष्ठेक्षणायुधः
प्रमुखे देवसेनाय रराज गिरिसंनिभः ।
हसंस् तिष्ठति दैत्यानां प्रमुखे सुमुखो ग्रहः ॥

33.24

अन्ये हयगता भान्ति नागस्कन्धगताः परे
सिंहव्याघ्रगताश् चान्ये वराहर्क्षगताः परे ॥

33.25

केचित् खरोष्ट्रयातारः केचित् तोयदवाहनाः
नानापक्षिगताः केचित् केचित् पवनवाहनाः ॥

33.26

पत्तिनस् त्व् अपरे दैत्या भीषणा विकृताननाः
एकपादा द्विपादाश् च ननृतुर् युद्धकङ्क्षिणः ॥

33.27

प्रक्ष्वेडमाना बहवः स्फोटयन्तश् च दानवाः
दृप्तशार्दूलनिर्घोषा नेदुर् दानवपुंगवाः ॥

33.28

ते गदापरिघैर् उग्रैर् धनुर् व्यायामशालिनः
बाहुभिः परिघाकारैस् तर्जयन्ति स्म दानवाः ॥

33.29

प्रासैः पाशैश् च खड्गैश् च तोमराङ्कुशपट्टिसैः
चिक्रीडुस् ते शतघ्नीभिः शितधारैश् च मुद्गरैः ॥

33.30

गण्डशैलैश् च शैलैश् च परिघैश् चोत्तमायुधैः
चक्रैश् च दैत्यप्रवराश् चक्रुर् आनन्दितं बलम् ॥

33.31

एवं तद् दानवं सैन्यं सर्वं युद्धमदोत्कटम्
देवान् अभिमुखं तस्थौ मेघानीकम् इवोद्धतम् ॥

33.32

तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नितोयाम्बुदशैलकल्पम्
बलं रणौघाभ्युदयाभ्युदीर्णं युयुत्सयोन्मत्तम् इवाबभासे ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc