हरिवंश · अध्याय 27
सत्वतः सत्त्वसंपन्नान् कौसल्या सुषुवे सुतान्
भजिनं भजमानं च दिव्यं देवावृधं नृपम् ॥
अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम्
तेषां विसर्गाश् चत्वारो विस्तरेणेह ताङ् शृणु ॥
भजमानस्य सृञ्जय्यौ बाह्यका चोपबाह्यका
आस्तां भार्ये तयोस् तस्माज् जज्ञिरे बहवः सुताः ॥
निमिश् च क्रमणश् चैव विष्णुः शूरः पुरंजयः
एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥
आयुताजित् सहस्राजिच् छताजिच् चाथ दासकः
उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे ॥
यज्वा देवावृधो राजा चचार विपुलं तपः
पुत्रः सर्वगुणोपेतो मम स्याद् इति निश्चितः ॥
संयुज्यात्मानम् एवं स पर्णाशाया जलं स्पृशन्
सदोपस्पृशतस् तस्य चकार प्रियम् आपगा ॥
चिन्तयाभिपरीता सा जगामैकविनिश्चयम्
कल्याणत्वान् नरपतेस् तस्य सा निम्नगोत्तमा ॥
नाध्यगच्छत तां नारीं यस्याम् एवंविधः सुतः
भवेत् सर्वगुणोपेतो राज्ञो देवावृधस्य च ।
जायेत् तस्मात् स्वयं हन्त भवाम्य् अस्य सहव्रता ॥
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः
वरयाम् आस नृपतिं ताम् इयेष च स प्रभुः ॥
अथ सा दशमे मासि सुषुवे सरितां वरा
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान् नृपात् ॥
अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम्
गुणान् देवावृधस्याथ कीर्तयन्तो महात्मनः ॥
यथैवाग्रे श्रुतं दूराद् अपश्याम तथान्तिकात्
बभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः ॥
षष्टिश् च षट् च पुरुषाः सहस्राणि च सप्त च
एते ऽमृतत्वं संप्राप्ता बभ्रोर् दैवावृधाद् इति ॥
यज्वा दानपतिर् धीमान् ब्रह्मण्यः सुदृढायुधः
कीर्तिमांश् च महातेजाः सात्वतानां महारथः ।
तस्यान्ववायः सुमहान् भोजा ये मार्तिकावताः ॥
अन्धकात् काश्यदुहिता चतुरो ऽलभतात्मजान्
कुकुरं भजमानं च शमिं कम्बलबर्हिषम् ॥
कुकुरस्य सुतो धृष्णुर् धृष्णोस् तु तनयस् तथा
कपोतरोमा तस्याथ तैत्तिरिस् तनयो ऽभवत्
जज्ञे पुनर् वसुस् तस्माद् अभिजित् तु पुनर् वसोः ॥
तस्य वै पुत्रमिथुनं बभूवाभिजितः किल
आहुकश् चाहुकी चैव ख्यातौ ख्यातिमतां वरौ ॥
इमाश् चोदाहरन्त्य् अत्र गाथाः प्रति तम् आहुकम् ॥
श्वेतेन परिवारेण किशोरप्रतिमो महान्
अशीतिचर्मणा युक्तो नाहुकः प्रथमं व्रजेत् ॥
नापुत्रवान् नाशतदो नासहस्रशतायुधः
नाशुद्धकर्मा नायज्वा यो भोजम् अभितो व्रजेत् ॥
पूर्वस्यां दिशि नागानां भोजस्येत्य् अनुमोदनम्
सोपासङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् ।
रथानां मेघघोषाणां सहस्राणि दशैव तु ।
रूप्यकाञ्चनकक्ष्याणां सहस्राणि दशापि च ॥
तावन्त्य् एव सहस्राणि उत्तरस्यां तथा दिशि
आ भूमिपालान् भोजान् स्वान् अतिष्ठन् किंकिणीकिनः ॥
आहुकीं चाप्य् अवन्तिभ्यः स्वसारं ददुर् अन्धकाः ॥
आहुकस्य तु काश्यायां द्वौ पुत्रौ संबभूवतुः
देवकश् चोग्रसेनश् च देवगर्भसमाव् उभौ ॥
देवकस्याभवन् पुत्राश् चत्वारस् त्रिदशोपमाः
देववान् उपदेवश् च सुदेवो देवरक्षितः
कुमार्यः सप्त चाप्यासन् वसुदेवाय ता ददौ ॥
देवकी शान्तिदेवा च सुदेवा देवरक्षिता
वृकदेव्य् उपदेवी च सुनाम्नी चैव सप्तमी ॥
नवोग्रसेनस्य सुतास् तेषां कंसस् तु पूर्वजः
न्यग्रोधश् च सुनामा च कङ्कुशङ्कुसुभूमयः
राष्ट्रपालो ऽथ सुतनुर् अनाधृष्टिश् च पुष्टिमान् ॥
एषां स्वसारः पञ्चासन् कंसा कंसवती तथा
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ॥
कुकुराणाम् इमं वंशं धारयन्न् अमितौजसाम्
आत्मनो विपुलं वंशं प्रजावान् आप्नुते नरः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0