भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 26

26.1

क्रोष्टोर् एवाभवत् पुत्रो वृजिनीवान् महायशाः
वार्जिनीवतम् इच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥

26.2

स्वाहिपुत्रो ऽभवद् राजा रुषद्गुर् वदतां वरः
महाक्रतुभिर् ईजे यो विविधैर् आप्तदक्षिणैः ॥

26.3

शतप्रसूतिम् इच्छन् वै रुषद्गुः सो ऽग्र्यम् आत्मजम्
चित्रैश् चित्ररथस् तस्य पुत्रः कर्मभिर् अन्वितः ॥

26.4

आसीच् चैत्ररथिर् वीरो यज्वा विपुलदक्षिणः
शशबिन्दुः परं वृत्तं राजर्षीणाम् अनुष्ठितः ॥

26.5

पृथुश्रवाः पृथुयशा राजासीच् छाशबिन्दुजः
शंसन्ति च पुराणज्ञाः पार्थश्रवसम् अन्तरम् ॥

26.6

अन्तरस्य सुयज्ञस् तु सुयज्ञतनयो ऽभवत्
उषतो यज्ञम् अखिलं स्वधर्मम् उषतां वरः ॥

26.7

शिनेयुर् अभवत् पुत्र उषतः शत्रुतापनः
मरुत्तस् तस्य तनयो राजर्षिर् अभवन् नृपः ॥

26.8

मरुत्तो ऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम्
चचार परमं धर्मम् अमर्षात् प्रेत्यभाववित् ॥

26.9

शतप्रसूतिम् इच्छन् वै सुतं कम्बलबर्हिषः
बभूव रुक्मकवचः शतप्रसवतः सुतः ॥

26.10

निहत्य रुक्मकवचः शतं कवचिनां रणे
धन्विनां निशितैर् बाणैर् अवाप श्रियम् उत्तमाम् ॥

26.11

जज्ञे च रुक्मकवचात् पराजित् परवीरहा
जज्ञिरे पञ्च पुत्रास् तु महावीर्याः पराजिताः
रुक्मेषुः पृथुरुक्मश् च ज्यामघः पालितो हरिः ॥

26.12

पालितं च हरिं चैव विदेहेभ्यः पिता ददौ
रुक्मेषुर् अभवद् राजा पृथुरुक्मश् च संश्रितः
ताभ्यां प्रव्राजितो राज्याज् ज्यामघो ऽवसद् आश्रमे ॥

26.13

प्रशान्तः स वनस्थस् तु ब्राह्मणेनावबोधितः
जगाम रथम् आस्थाय देशम् अन्यं ध्वजी रथी ॥

26.14

नर्मदाकूलम् एकाकी नर्मदां मृत्तिकावतीम्
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्याम् उवास सः ॥

26.15

ज्यामघस्याभवद् भार्या चैत्रा परिणता सती
अपुत्रो ऽपि च राजा स नान्यां भार्याम् अविन्दत ॥

26.16

तस्यासीद् विजयो युद्धे तत्र कन्याम् अवाप सः
रथम् आरोप्य सा नीता पत्न्यर्थं स्त्रीनिवेशनम् ॥
तां दृष्ट्वा रुषिता शैब्या भर्तारम् इदम् अब्रवीत् ।
किमर्थम् इयम् आनीता सपत्नी दुर्नया मम ।
भार्याम् उवाच संत्रासात् स्नुषेति स नरेश्वरः ॥

26.17

एतच् छ्रुत्वाब्रवीद् एनं कस्य चेयं स्नुषेति वै
न हि प्रसूता पुत्रेण नान्या भार्यास्ति तेऽनघ ।
स्नुषा संबन्धवाग् एषा कतमेन सुतेन ते ।
अब्रवीत् तद् उपश्रुत्य ज्यामघोराजसत्तमः ।
यस् ते जनिष्यते पुत्रस् तस्य भार्येति जातभीः ॥

26.18

उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत
पुत्र्यां विदर्भं सुभागा चैत्रा परिणता सती ॥

26.19

राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ
पश्चाद् विदर्भो ऽजनयच् छूरौ रणविशारदौ ॥

26.20

भीमो विदर्भस्य सुतः कुन्तिस् तस्यात्मजो ऽभवत्
कुन्तेर् धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥

26.21

धृष्टस्य जज्ञिरे शूरास् त्रयः परमधार्मिकाः
आवन्तश् च दशार्हश् च बली विष्णुहरश् च यः ॥

26.22

दशार्हस्य सुतो व्योमा विद्वाञ् जीमूत उच्यते
जीमूतपुत्रो वृकतिस् तस्य भीमरथः सुतः ॥

26.23

अथ भीमरथस्यासीत् पुत्रो नवरथस् तथा
तस्य चासीद् दशरथः शकुनिस् तस्य चात्मजः ॥

26.24

तस्मात् करम्भः कारम्भिर् देवरातो ऽभवन् नृपः
देवक्षत्रो ऽभवत् तस्य दैवक्षत्रिर् महात्मनः ॥

26.25

देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः
मधूनां वंशकृद् राजा मधुर् मधुरवाग् अपि ॥

26.26

मधोर् जज्ञे तु वैदर्भ्यां पुरुत्वान् पुरुषोत्तमः
पुत्रो मरुवसस् तथा ।
आसीन् मरुवसः पुत्रः ।
माता जज्ञे ऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वह ॥

26.27

एक्ष्वाकी चाभवद् भार्या मातुस् तस्याम् अजायत
सर्वसत्त्वगुणोपेतः सात्वतां कीर्तिवर्धनः ॥

26.28

इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः
युज्यते परया प्रीत्या प्रजावांश् च भवत्य् उत ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc