भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 25

25.1

पौरवी रोहिणी नाम बाह्लिकस्यात्मजा नृप
ज्येष्ठा पत्नी महाराज दयितानकदुन्दुभेः ॥

25.2

लेभे ज्येष्ठं सुतं रामं शारणं शठम् एव च
दुर्दमं दमनं श्वभ्रं पिण्डारककुशीनरौ ॥

25.3

चित्रां नाम कुमारीं च रोहिणीतनया नव
चित्रा सुभद्रेति पुनर् विख्याता कुरुनन्दन ॥

25.4

वसुदेवाच् च देवक्यां जज्ञे शौरिर् महायशाः
कीर्तिमन्तं सुषेणं च भद्रसेनम् उदारधी ।
मृत्युं समर्दनं भद्रं संकर्षणम् अहीश्वरम् ।
विपुलं तेष्व् अष्टतमो स्वयम् एव हरिः किल ।
रामाच् च निशठो जज्ञे रेवत्यां दयितः सुतः ॥

25.5

सुभद्रायां रथी पार्थाद् अभिमन्युर् अजायत
अक्रूरात् काशिकन्यायां सत्यकेतुर् अजायत ॥

25.6

वसुदेवस्य भार्यासु महाभागासु सप्तसु
ये पुत्रा जज्ञिरे शूरा नमतस् तान् निबोधत ॥

25.7

भोजश् च विजयश् चैव शान्तिदेवासुताव् उभौ
उपासङ्गं वरं लेभे तनयंदेवरक्षिता ।
वृकदेवः सुनामायां गदश् चास्याः सुताव् उभौ
अगावहं महात्मानं वृकदेवी व्यजायत ॥

25.8

कन्या त्रिगर्तराजस्य भर्ता वै शिशिरायणः
जिज्ञासां पौरुषे चक्रे न चस्कन्दे ऽथ पौरुषम् ॥

25.9

कृष्णायससमप्रख्यो वर्षे द्वादशमे तदा
मिथ्याभिशप्तो गार्ग्यस् तु मन्युनाभिसमीरितः
घोषकन्याम् उपादाय मैथुनायोपचक्रमे ॥

25.10

गोपाली त्व् अप्सरास् तस्य गोपस्त्रीवेषधारिणी
धारयाम् आस गार्ग्यस्य गर्भं दुर्धरम् अच्युतम् ॥

25.11

मानुष्यां गर्ग्यभार्यायां नियोगाच् छूलपाणिनः
स कालयवनो नाम जज्ञे राजा महाबलः
वृषपूर्वार्धकायास् तम् अवहन् वाजिनो रणे ॥

25.12

अपुत्रस्य स राज्ञस् तु ववृधे ऽन्तःपुरे शिशुः
यवनस्य महाराज स कालयवनो ऽभवत् ॥

25.13

स युद्धकामो नृपतिः पर्यपृच्छद् द्विजोत्तमान्
वृष्ण्यन्धककुलं तस्य नारदो ऽकथयद् विभुः ॥

25.14

अक्षौहिण्या तु सैन्यस्य मथुराम् अभ्ययात् तदा
दूतं च प्रेषयाम् आस वृष्ण्यन्धकनिवेशने ॥

25.15

ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम्
समेता मन्त्रयाम् आसुर् जरासंधभयेन च ॥

25.16

कृत्वा च निश्चयं सर्वे पलायनम् अरोचयन्
त्यक्त्वा गृहान् धनं सर्वे पलायन्त मनोरथम् ।
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम्
कुशस्थलीं द्वारवतीं निवेशयितुम् ईप्सवः ॥

25.17

इति कृष्णस्य जन्मेदं यः शुचिर् नियतेन्द्रियः
पर्वसु श्रावयेद् विद्वान् निरृणः स सुखी भवेत् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc