गुणकारण्डव्यूहसूत्र · भाग 181200
तदैकसमये ऽसौ ऽपि क्रकुच्छन्दो विनायकः ।
जेताश्रमे विहारे ऽत्र विजहार ससांधिकः ॥
तदा तस्य मुनीन्द्रस्य पातुं धर्मामृतं मुदा ।
ब्रह्मादिब्राह्मणाः सर्वे शक्रादित्रिदशाधिपाः ॥
सर्वे लोकाधिपाश्चापि दैत्येन्द्रा राक्षसाधिपाः ।
गन्धर्वाः किन्नरा यक्षा नागेन्द्रा गरुडाधिपाः ॥
सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः ।
सिद्धाः साध्याश्च रुद्राश्च सर्वे विद्याधरा अपि ॥
राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः ।
वणिजः सार्थवाहाश्च श्रेष्ठिनश्च महाजनाः ॥
पौरजानपदा ग्राम्यास्तथान्ये देशवासिनः ।
सर्वे ऽपि ते समासृत्य समभ्यर्च्य यथाक्रमम् ॥
क्रकुच्छन्दमुनीन्द्रं तं नत्वा तस्थुः सभाश्रिताः ।
तदानेकमहासत्त्वा बोधिसत्त्वाः समाहिताः ॥
समाधिविग्रहं चक्रुःक्रकुच्छन्दमुनेः पुरः ॥
यदा समन्तभद्राख्यो बोधिसत्त्वो महर्द्धिमान् ।
समापेदे समाधिं तद्यद्ध्वजोद्गतसंज्ञकम् ॥
तदा लोकेश्वरश्चासौ बोधिसत्त्वो महर्द्धिकः ।
समापेदे समाधिं तद्यद्विकिरिणसंज्ञकम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वो जिनात्मजः ।
समापेदे समाधिं तद्यत्पूर्णेन्दुवरलोचनम् ॥
तदा लोकेश्वरश्चासौ महाभिज्ञो जिनात्मजः ।
समापेदे समाधिं तद्यत्सुर्यवरलोचनम् ॥
यदा समन्तभद्रश्च महाभिज्ञो जिनात्मजः ।
समाधिं तत्समापेदे यद्विच्छुरितसंज्ञकम् ॥
तदा लोकेश्वरश्चापि महाभिज्ञो जिनात्मजः ।
समापेदे समाधिं यद् गगनगंजसंज्ञकम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वो महामतिः ।
समापेदे समाधिं तत्सर्वाकारकराभिधम् ॥
तदा लोकेश्वरश्चापि बोधिसत्त्वो महामतिः ।
समापेदेद् समाधिं यदिन्द्रमत्यभिधानकम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वो गुणाकरः ।
समापेदे समाधिं यदिन्द्रराजो ऽभिधानकम् ॥
तदा लोकेश्वरश्चासौ बोधिसत्त्वो गुणाकरः ।
समापेदे समाधिं यदब्धिगम्भीरसंज्ञकम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वः सुवीर्यवान् ।
समापेदे समाधिं यत्सिहंविजृम्भिताह्वयम् ॥
तदा लोकेश्वरश्चापि बोधिसात्त्वः सुवीर्यवान् ।
समापेदे समाधिं यत्सिहविक्रीडिताभिधम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वः सुबुद्धिमान् ।
समापेदे समाधिं यद्वरदायकसंज्ञकम् ॥
तदा लोकेश्चरश्चापि बोधिसत्त्वः सुबुद्धिमान् ।
समापेदे समाधिं तद्यदवीच्यभिशोषणम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वो विचक्षणः ।
उद्घाट्य दर्शयामास सर्वलोमविलान्यपि ॥
तदा लोकेश्वरश्चापि बोधिसत्त्वो विचक्षणः ।
अपावृणोत् स सर्वाणि लोमरन्ध्राण्यशेषतः ॥
तदा समन्तभद्रो ऽसौ लोकेशं तं महर्धिकम् ।
समीक्ष्य सांजलिर्नत्वा संपश्यन्नेवमब्रवीत् ॥
साधु धन्यो ऽसि लोकेश यदीदृक्प्रतिभानवान् ।
कश्चिन्नैवास्ति लोकेषु त्वादृक्समाधिवित् सुधिः ॥
एवमन्यैर्महासत्त्वैर्बोधिसत्त्वैर्महद्धिकैः ।
स्माधिविग्रहे सैव लोकेश्वरो विजितवान् ॥
तदा सर्वे महाभिज्ञ बोधिसत्त्वाः प्रसादिताः ।
लोकेशं तं महाभिज्ञं समानम्यैवमब्रवन् ॥
साधु धन्यो ऽसि लोकेश यदीदृक्प्रतिभानवान् ।
कश्चिन्नैवास्ति लोओके यत्त्वादृक्समाधिसद्बली ॥
तदा स भगवान् दृष्ट्वा सर्वांस्तान् सुगतात्मजान् ।
पुरतः समुपामन्त्र्य संपश्यन्नेवमादिशत् ॥
कुलपुत्राल्पमेवैतत् प्रतिभानं जगत्प्रभोः ।
लोकेशस्यास्य युष्माभिर्दृश्यते ऽपीह साम्प्रतम् ॥
यादृग्लोकेश्वरस्यास्य प्रतिभानं महत्तरम् ।
ईदृक्सर्वमुनीन्द्राणामपि नैवास्ति कस्यचित् ॥
एवं तस्य जगद्भर्तुः प्रतिभानं महत्तरम् ।
क्रकुच्छन्दमुनीन्द्रेअण समाख्यातं मया श्रुतम् ॥
अथ सर्वनीवरणविष्कम्भी स प्रबोधितः ।
भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् ॥
भगवन् यन्महायानसूत्रराजं निगद्यते ।
तत्समादिश कारण्डव्यूहसूत्रोद्भवं वृषम् ॥
यच्छ्रुत्वापि वयं सर्वे सम्बोधिगुणसाधनैः ।
धर्मरसौरभिव्याप्तमानसाः प्रचरेमहि ॥
तच्छ्रुत्वा भगवांश्चापि विष्कम्भिनं महामतिम् ।
साधु शृणु समाधाय वक्ष्ये तदिति प्रादिशत् ॥
ये ऽपि श्रोष्यन्ति कारण्डव्यूहसूत्रं सुभाषितम् ।
तेषां सर्वाणि पापानि क्षिणुयुर्दारुणान्यपि ॥
दशाकुशलपापानि पंचातिपातकान्यपि ।
निरवशेषनष्टानि क्षिणुयुरिति निश्चयम् ॥
इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रमोदितः ।
भगवन्तं समालोक्य पुनरेवमभाषत ॥
भगवन् सर्वविच्च्छास्त जानीमहि कथं वयम् ।
यत्पापं कुरुते क्षीणं कारण्डन्यूहसूत्रकम् ॥
तच्छ्रुत्वा भगवान् भूयो विष्कम्भिनं विबोधितम् ।
सभाश्रितान् जनांश्चापि समालोक्यैवमादिशत् ॥
विद्यते कुलपुत्रासौ तीर्थो मलसुनिर्मलौ ।
सुमेरोर्दक्षिणे पार्श्वे मुनीन्द्रैः परिकल्पितौ ॥
मलतीर्थजले क्षिप्तं शुभ्रवासो ऽपि नीलितम् ।
तथा तज्जलसंस्पृष्टो शुद्धो ऽपि नीलितो भवेत् ॥
सुनिर्मले जले क्षिप्तं नीलवासो ऽपि शुक्लितम् ।
तथा तज्जलसंस्पृष्टः पापात्मापि भवेच्छुचिः ॥
एवमिदं महायानसूत्राग्रं यो ऽभिनन्दति ।
सद्धर्मलिप्तो ऽपि क्लेशैः संक्लिश्यते द्रुतम् ॥
श्रुत्वापीदं महायानसूत्राग्रं यो ऽभिनन्दति ।
स महापापलिप्तो ऽपि निःक्लेशः स्याच्छुभान्तिकः ॥
यथा शतमुखो हीन्द्रो विनिसृत्य निजालयात् ।
दहति सर्वभूजातान् तृणगुल्मलताद्रुमान् ॥
तथेदं सर्वसूत्राणां कारण्डव्यूहमुत्तमम् ।
पातकान्यपि सर्वाणि निःशेषं दहते द्रुतम् ॥
ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम् ।
अनुमोद्याभिनन्दन्तः संभजन्ते सदादरात् ॥
ते सर्वे निर्मलात्मानो निःक्लेशविमलेन्द्रियाः ।
बोधिसत्त्वा महासत्त्वा भवेयुर्निवर्तिकाः ॥
इदं सर्वमहायानसूत्रराजं महोत्तमम् ।
श्रुत्वा नैवानुमोदेयुः पृथग्जना दुराशयाः ॥
ये चापीदं महायानसूत्रराजं महोत्तमम् ।
निशम्याभ्यनुमोदन्तः प्रभजन्ते सदादरात् ॥
धन्यास्ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः ।
निःक्लेशा निर्मलात्मानो भवेयुः सुगतात्मजाः ॥
मृत्युकाले ऽपि तेषां च द्वादश सुगता जिनाः ।
समुपेत्याभिपश्यन्तो दद्युरेवं वरोत्तमम् ॥
मा भैषीः कुलपुत्र त्वं यत्कारण्डव्यूहसूत्रकम् ।
श्रुत्वानुमोद्य सत्कारैर्भजसे श्रद्धयादरात् ॥
एतत्पुण्यानुलिप्तात्मा भूयो न संसरेर्भवे ।
नैव क्लेशाग्निसंतापैः संधक्ष्यसे कदाचन ॥
यावज्जीवं महत्सौख्यं भुक्ता श्रीसद्गुणान्वितम् ।
भूयो धर्मामृतं भोक्तुं संप्रयायाः सुखावतीम् ॥
तत्र त्वममिताभस्य जिनस्य शरणे स्थितः ।
सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे ॥
ततो निर्मलशुद्धात्मा परिशुद्धत्रिमण्डलः ।
सर्वसत्त्वहिताधनबोधिचर्याव्रतं चरेः ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् ।
निःक्लेशो ऽर्हन्महाभिज्ञश्चतुर्ब्रह्मविहारिकः ॥
जित्वा मारगणान् सर्वान् सम्बोधिनिश्चलाशयः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः ॥
इति तैः सुगतैः सर्वैः समादिष्टं निशम्य ते ।
सर्वे ऽप्युभ्यनुमोदन्तो नमेयुस्तान् जिनान् मुहुः ॥
ततस्ते तान् जिनान् स्मृत्वा प्राणं त्यक्त्वा समाहिताः ।
तैरेव सुगतैः सार्धं संप्रयायुः सुखावतीम् ॥
तत्रोपेत्यामिताभस्य शरणे समुपाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरेयुर्जद्धिते ॥
ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमम् ।
निःक्लेशा निर्मलात्मानः परिशुद्धत्रिमण्डलाः ॥
जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
एवं महत्तरं पुण्यं कारण्डव्यूहसूत्रजम् ।
अप्रमेयमसंख्येयं संबोधिज्ञानसाधनम् ॥
यूयं सर्वे ऽपि विज्ञाय संबोधिं यदि वांच्छथ ।
शृणुतेदं महायानसूत्रराजं सुभाषितम् ॥
अनुमोदत सत्कृत्य भजन सर्वदादरात् ।
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ।
सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः ॥
ततस्ते सर्वे सभालोका ब्रह्मादयो महर्षयः ।
शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि ॥
गन्धर्वकिंनरा रक्षाः सिद्धाः साध्याः सुरांगनाः ।
विद्याधराश्च दैत्येन्द्रा नागेन्द्रा गरुडा अपि ॥
महोरगाश्च दैत्येन्द्र नागेन्द्रा गरुडा अपि ॥
महोरगाश्च नैरृत्या भूतेशाश्च शुभाशयाः ।
योगिनो यतिनश्चापि तीर्थिकाश्च तपस्विनः ॥
विप्रराजादयः सर्वे मनुष्याश्च प्रसादिताः ।
त्रिधा प्रदक्षिणीकृय कृतांजलिपुटो मुदा ॥
भगवन्तं ससंघं तं नत्वा स्वस्वालयं ययुः ॥
॥ इति सर्वसभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणं समाप्तम् ॥
19. सिक्षा संवर समुद्देश प्रकरणम्
तदानन्दः समुत्थाय भगवतः पुरो गतः ।
पादाब्जे सांजलिर्नत्वा सम्पश्यन्नेवमब्रवीमब्रवीत् ॥
भगवच्छास्तरस्माकं भिक्षूणां ब्रह्मचारिणाम् ।
शिक्षासंवरसंवृत्तं समुपादेष्टुमर्हति ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
आयुष्मन्तं तमानन्दं संपश्यन्नेवमादिशत् ॥
साधु शृणु त्वमानन्द भिक्षूणां ब्रह्मचारिणाम् ।
शिक्षासंवरसांवृतं प्रवक्षामि समासतः ।
ये शुद्धश्स्यः सत्त्वाः प्रव्रजित्वा जिनाश्रमे ।
शिक्षासंवरमिच्छन्ति धर्तुं निर्वृतिसाधनम् ॥
प्रथमं ते समालोक्य शुद्धक्षेत्रे मनोरमे ।
निषद्य स्वासने ध्यात्वा संतिष्ठेरन् समाहिताः ॥
भस्मास्थिकेशजम्बालावस्करामेध्यसंकुले ।
क्षेत्रे नैव निवास्तव्यं कदापि ब्रह्मचारिभिः ॥
दुःशीलैर्भिक्षुभिः सार्धं कर्तव्या नैव संगतिः ।
आअलापो ऽपि निवासो ऽपि कर्तव्या न कदाचन ॥
दुःशीलैर्भिक्षुभिः सार्धं भोक्तव्यं नापि किंचन ।
न स्थातव्यं न गन्तव्यं क्रीडितव्यं न च क्वचित् ॥
उपसंपन्ने दातव्या न च ज्ञप्तिचतुर्थकम् ।
सद्धर्मस्साधनोपायं नापि देयं दुरात्मनाम् ॥
दुःशीला हि दुरात्मानो बौद्धशासनदूषकाः ।
मारचर्यानुसंरक्ताः क्लेशव्यालितेन्द्रियाः ॥
तेषां नैवाभिदातव्य आवासः सौगताश्रमे ।
दातव्यो दूरतस्तेषामावास आश्रमाद्बहिः ॥
संघालापो न दातव्यो दुःशीलानां कदाचन ।
न तेषां सांघिकी भूमिर्नैवार्हति कुहापि हि ॥
न तेषां विद्यते किंचिदर्हत्संवृत्तिचारणम् ।
सर्वसत्त्वहिताधानं कुतः संबोधिसाधनम् ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः ।
आनन्दस्तं मुनीशानं समालोक्यैवमब्रवीत् ॥
भगवन् कतमे काले दुःशीला भिक्षवः शठाः ।
दक्षणीया भविष्यन्ति नायकाः सौगताश्रमे ॥
इत्यानन्देन संपृष्टे भगवान् सर्वविज्जिनः ।
तमानन्दं समालोक्य पुनरेवं समादिशत् ॥
त्रिवर्षशतनिर्याते सुनिर्वृतस्य मे तदा ।
दुःशीला भिक्षवो दक्षाः भवेयुः सौगताश्रमे ॥
तत्र ते भिक्षवः सर्वे भ्रष्टाचारा दुराशयाः ।
विहारे समुपासीनाश्चरेयुर्गृहिचारिकम् ॥
भार्यापुत्रसुताभ्रातृज्ञातिबन्धुसमन्विताः ।
यथाकामं सुखं भुक्त्वा संचरेरन् प्रमादिताः ॥
ते ऽनीत्याहृत्य संघानां सर्वोपकरणान्यपि ।
सर्वाणि स्वात्मसात्कृत्वा भविष्यन्ति निजालयम् ॥
यथेच्छया समादाय भुक्त्वा भोग्यान् यथेप्सितम् ।
कुटुम्बसाधनोपाये संचरेरन् प्रगल्भिताः ॥
ते सांघिकोपचारे ऽपि कुर्युर्विण्मूत्रसर्जनम् ।
श्लेष्मलालोद्वमोच्छिष्ठं विसर्जेयुश्च सर्वतः ॥
एतत्कर्मविपाकानि न ते ज्ञास्यन्ति दुर्धियः ।
उन्मत्ता इव दुर्दान्ताश्चरेयुर्दुरितारताः ॥
ये सांघिकोपचारेषु कुर्तुः श्लेष्मादिसर्जनम् ।
शालाटव्यां भवेयुस्ते प्रेताः सूचीमुखा किल ॥
विण्मूत्रादिपरित्यागं कुर्युर्ये सांघिकाश्रमे ।
वाराणस्यां भवेयुस्ते कृमयो गूथमूत्रजाः ॥
दन्तकाष्ठादिकं हृत्वा प्रभुं स्fऊर्य च सांघिकम् ॥
ते स्यू रक्तपशम्बूकमत्स्यादिजलजन्तवः ।
व्रीहिद्रव्याणि ये हृत्या भुंज्युर्ये सांघिकानि च ।
ते भवेयुर्महाप्रेताः सूचीमुखा नगोदराः ॥
ये ऽन्नपानादिकं कृत्व भुंज्युर्ये चापि सांघिकम् ।
ते स्युर्हीनकुले जाता हीनेन्द्रियाश्च पाचकाः ॥
ततश्च्युताश्च ते जाता लंगितकुब्जदुर्मुखाः ।
कुष्थव्याधिपरीतांगा भवेयुः पूतिवाहिकाः ॥
यदा तत्र स्थिता यायुर्यष्टिं धृत्वा शनैर्भुवि ।
नियतेयुस्तदा तेषां सर्वाणि पिशितान्यपि ॥
एवं ते बहुवर्षाणि दुःखानि विविधानि च ।
भुक्त्वापायिकं कर्म कृत्वा यायुश्च नारकान् ॥
ये चापि सांघिकीं भूमिं परिभोज्यन्ति लोभिनः ।
ते दुष्टाः क्लेशितात्मानो यायु रौरवनारके ॥
तत्र तेषां मुखे तप्तलौहगुडा निवेशयेत् ।
तैस्तेषामभिधक्ष्यन्ते ताल्वौष्ठहृदुदरान्यपि ॥
कण्ठहृदुदरान्त्रादीन् धक्ष्यन्ते सर्वविग्रहान् ।
तथा मृताः पुनस्ते ऽपि जीवेयुः कर्मभोगिनः ॥
यमपालैर्गृहीत्वा च क्षेप्स्यन्ते घोरनारके ।
तेषां कर्मवशाज्जिह्वा प्रभवेच्च महत्तरी ॥
कृष्यन्ते हलशतैस्तत्र जिह्वायां यमकिन्नरैः ।
एवं बहूनि वर्षाणि दुःखानि विविधानि ते ॥
भुक्त्वा मृताः पुनर्यायुर्नाके ऽग्निघटे खलु ।
तत्र तेषां महज्जिह्वा प्रोद्भवेदपि तत्र च ॥
सूचीशतसहस्राणि विध्येयर्युमकिन्नराः ।
तथापि ते मृता नैव स्थास्यन्ति दुःखिताश्चिरम् ॥
ततस्थानग्निखदायां च क्षेप्स्यन्ति यमकिन्नराः ।
तत्रापिअ ते मृता नैव स्थास्यन्ति कर्मभोगिनः ।
ततश्चोत्क्षिप्य तान् प्रेतनद्यां क्षेप्स्यन्ति किन्नराः ॥
तत्रापि बहुवर्षाणि दुखानि विविधानि ते ॥
भुक्त्वा स्थास्यन्ति दुःखार्ताः सुचिरं कर्मभोगिनः ॥
एवं त्रिकल्पवर्षाणि भ्रमतां नरके सदा ।
ततस्तत्कर्मवैपाकक्षीणं तेषाम् भवेच्चिरात् ॥
ततश्च्युत्वा च ते जंबूद्वीपे जातास्सुदुःखिताः ।
दरिद्रिताश्च जात्यन्धा भवेयुर्दुरिताशयाः ॥
एवं ते बहुदुःखानि प्रभुक्त्वा बहुजन्मसु ।
सदा क्लेशाग्निसंतप्ता भ्रमेयुर्भवसागरे ॥
तस्मादानन्द संघानां सर्वोपकरणान्यपि ।
द्रव्याण्यपि च सर्वाणि रक्षितव्यानि यत्नतः ॥
अनीत्या नैव भोक्तव्यं सांघिकं वस्तु किंचन ।
केनापि सांघिकं वस्तु जीर्णीकर्तुं न शक्यते ॥
तदभोग्यमनीत्या हि सांघिकं वस्तु किंचन ।
अस्पृश्यं वह्निवत्तप्तं दहनं वस्तु सांघिकम् ॥
भारोपमं सदाक्रान्तमभेद्यं वज्रसन्निभम् ।
अपथ्यविषवद्दुष्टं तीक्ष्णासिधारसन्निभम् ॥
वैषं तेजैः समीकर्तुं मन्त्रौषध्यैर्हि शक्यते ।
सांघिकिं वस्तु हर्तुं न पापं केनापि शम्यते ॥
इति मत्वात्र संसारे सम्बोधिश्रीसुखेप्सुभिः ।
सांघिकं वस्तु यत्नेन रक्षितव्यं रक्षितव्यं सदादरात् ॥
एवं विज्ञाय संबोधिचित्तं धृत्वा समहितः ।
शिक्षासंवरमाधाय सम्पद्रक्षितुमर्हति ॥
शिक्षां रक्षितुकामेन चित्तीरक्ष्यं प्रयत्नतः ।
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥
अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् ।
करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः ॥
बद्धश्चेच्चित्तमातंगः स्मृतिरक्षा समन्ततः ।
भयमस्तं गतं सर्वं सदा कल्याणमागतम् ॥
व्याघ्राः सिंहा गजा ऋक्षा सर्वे च दुष्टशत्रवः ।
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥
सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् ।
चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्त्यमी ॥
यस्माद्भयानि सर्वाणि दुःखाप्रमितान्यपि ।
चित्तादेव समुद्यान्ति सर्वेषां भवचारिणाम् ॥
शस्त्राणि नरके केन घटितानि समन्ततः ।
तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥
पापं चित्तसमुद्भुतं सर्वमेतद्भवालये ।
तस्मान्न कश्चित् त्रैलोक्ये चितादन्यो भयानकः ॥
अदरिद्रं जगत् कृत्वा दानपारमिता यदि ।
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥
fअलेन सह सर्वस्वत्यागचित्तं जनेअखिले ।
दानपारमिता प्रिक्ता तस्मात् सा चित्तमेव हि ॥
मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो रतान् ।
लब्धे विरतिचित्ते तु शीलपाअरमिता मता ॥
कियतो मारयिष्यन्ति दुर्जनान् गगनोपमान् ।
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥
भूमिं छादयितुं सर्वान् कुतश्चर्म भविष्यति ।
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥
बाह्या भावाः सदा तद्वच्छक्या वारयितुं न हि ।
स्वचित्तमेव निवार्यं तत्किमेवान्यैर्निवारित्रैः ॥
सहापि वाक्छरीराभ्यां मन्ददृत्तेर्न तत्fअलम् ।
यत्पटोरेकैकस्यापि चित्तस्य ब्रह्मतादिकम् ॥
जपांस्तपांसि सर्वाणि दीर्घकालकृतान्यपि ।
अन्यचित्तेन मन्देअन वृथैव सिध्यते न हि ॥
दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे ॥
यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् ।
तस्मात् स्वधिष्ठितं चित्तम् सदा कार्यं सुरक्षितम् ॥
चित्तरक्षाव्रतं त्यक्त्वा बहुभिः किं तपोव्रतैः ।
यथा चपलमध्यस्था रक्षति व्रणमादरात् ॥
एवं दुर्जनमध्यस्था रक्षेच्चित्तं प्रयत्नतः ।
व्रणदुःखलवाद्वीता रक्षेत् स्वं व्रणमादरात् ॥
संघातपर्वताघाताद्भीतश्चित्तं बलं न किम् ।
अनेन हि विहारेन विहरन् दुर्जनेष्वपि ॥
प्रमदाजनमध्ये ऽपि यतिर्धीरो न खण्दते ॥
लाभा नश्यन्तु संपत्तिः सत्कारः कायजीवितम् ।
नश्यत्वन्यच्च कौशल्यं मा तु चित्तं न कस्यचित् ॥
चित्तमेव सदा रक्ष्यं संबोधिज्ञानसाधनम् ।
स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षयेत् ॥
व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु ।
तथाभ्यां व्याकुलं चित्तं न क्षमं बोधिसाधने ॥
असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् ।
जलवच्छिद्रिते कुम्भे स्मृतौ नैवाभितिष्ठते ॥
अनेके श्रुतवन्तो ऽपि श्रद्धायत्नपरा अपि ।
असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥
असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा ।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥
क्लेशतस्करसंघो ऽयमेव तारणवेषकः ।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिं जीवितम् ॥
तस्मात् स्मृतिर्मनोद्वारान्नापनेया कदाचन ।
गतापि प्रत्युपस्थाप्या संस्मृत्या पापिकीं व्यथाम् ॥
उपाध्यायानुशासिन्या भीत्याप्यादरचारिणाम् ।
धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः ॥
बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः ।
सर्वो ऽप्ययं जगल्लोकस्तेषामग्रे सदा स्थितः ॥
इति ध्यात्वा सदा तिष्ठेत् त्रपादरभयान्वितः ।
बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥
संप्रजन्यं तदा याति नैव यात्यागतं पुनः ।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥
पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् ।
सदा निरिन्द्रयेणैव स्थातव्यं काष्ठवत् सदा ॥
निष्fअला नेत्रविक्षेपा न कर्तव्याः कदाचन ।
निध्यायन्तीव सदापि कार्या दृष्टिरधोगता ॥
दृष्टिविश्रामहेतोस्तु दिशः पश्येत् कदाअचन ।
आभासमात्रमालोक्य स्वागतार्थं विलोकयन् ॥
मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् ।
दिशो विश्रम्य विक्षते परावृत्यैव पृष्ठतः ॥
सरेदपसरेद्वापि पुरः पश्चान्निरुप्य च ।
एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥
कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः ।
कथं कायः स्थित इति द्रष्टव्यः पुनरन्तरा ॥
निरुप्य सर्वयत्नेन चित्तमत्तद्विपस्तथा ।
धर्मचित्तो महास्तम्भे यथाअ बद्धो न मुच्यते ॥
कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः ।
समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥
भयोत्सवादिसम्बन्धे यद्यसक्तो यथासुखम् ।
दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥
यद्बुद्ध्वा कर्तुमारब्धं ततो ऽन्यत्र विचिन्तयेत् ।
तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥
एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् ।
असंप्रजन्यक्लेशो ऽपि वृद्धिं चैव गमिष्यति ॥
नानाविधप्रलापेषु वर्धमानेष्वनेकधा ।
कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥
मृण्मर्दनतृणच्छेदने खाद्यfअलमागतम् ।
स्मृत्वा तथागतीं शिक्षां तत्क्षणाद्भीत उत्सृजेत् ॥
यदा चलितुकामः स्याद्वक्तुकामो ऽपि वा भवेत् ।
स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्यं युक्तिमत् ॥
अनुनीतं प्रतिहतं यदा पश्येत् स्वकं मनः ।
न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥
उद्धतं सोपहासं वा यदा मानमदान्वितम् ।
सोत्प्रसातिशयं वक्त्रं वंचकं च मनो भवेत् ॥
यदात्मोत्कर्षणाभासं परपंशनमेव च ।
साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा ॥
लाभसत्कारकीर्त्यर्थि परिकारार्थि वा यदा ।
उपस्थानार्थि वा चित्तं तदाअ तिष्ठेच्च काष्ठवत् ॥
परार्थरुक्षं स्वार्थार्थि परिसत्काममेव वा ।
वक्तुमिच्छति सक्रोधं तदा तिष्ठेच्च काष्ठवत् ॥
असहिष्णुलसंभीतं प्रगल्भं मुखरं यदा ।
स्वपक्षाभिनिविष्टं वा तदा तिष्ठेच्च काष्ठवत् ॥
एवं संक्लिष्टमालोक्य निष्fअलारम्भि वा मनः ।
निगृह्णीयाद्दृधं शूरः प्रतिपक्षेण तत्सदा ॥
सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् ।
सलज्जं सभयं शान्तं पराराधनतत्परम् ॥
परस्परविरुद्धाभिर्बालेच्छाभिरखण्डितम् ।
क्लेशोत्पादादिकं ह्येतदेषामिति दयान्वितम् ॥
आत्मसत्त्ववशं नित्यमनवद्येषु च वस्तुषु ।
निर्माणमिव निर्माणं धारयेन्मानसं सदा ॥
चिरात् क्षणवरं प्राप्तं स्मृत्वा स्मृत्वा मुहुर्मुहुः ।
धारयेदीदृशं चित्तमप्रकम्प्यं सुमेरुवत् ॥
गृद्धैरामिषसंगृद्धैः कर्ष्यमाण इतस्ततः ।
न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥
कायनौ बुद्धिमाधाय गत्यागमननिश्रयात् ।
यथाकामं गमं कार्यं कुर्यात् सर्वार्थसिद्धये ॥
एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् ।
त्यजेद् भृकुटिसंकोचं पूर्वाभाषी जगत्सुहत् ॥
स शब्दपातं सहसा न पिठादीन् विक्षिपेत् ।
नास्fआलयेत् कपाटं च स्यान्निःशब्दरुचिः सदा ॥
बको विडालश्चौरश्च निःशब्दो निभृतश्चरन् ।
प्राप्तो ह्यभिमतं कार्यमेवं नित्यं यतिश्चरन् ॥
परचोदनदक्षाणामनधीष्टोपकारिणाम् ।
प्रतीच्छेच्छिरसा बाह्यं सर्वशिष्यः सदा भवेत् ॥
सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् ।
पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥
परोक्षे च गुणान् श्रूयादनुश्रूयाच्च तोषतः ।
स्ववर्णभाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥
सर्वारम्भा हि तुष्ट्यर्थाः स चित्तैरपि दुर्लभा ।
भुंज्यात्तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः ॥
न चात्रापि व्ययः कश्चित् परत्र च महत्सुखम् ।
द्वेषैरप्रीतिदुःखं तु महद्दुखं परत्र च ॥
विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् ।
श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥
ऋजु पश्येत् सदा सत्त्वांश्चक्षणा संपिबन्निव ।
यस्मादेतान् समाश्रितान् संबुद्धत्वमवाप्नुयात् ॥
सातत्याभिनिशोत्थं प्रतिपक्षोत्थमेव च ।
गुणोपकारिक्षित्रे च दुःखिते च महच्छुभम् ॥
दक्ष उत्थानसम्पन्नः स्वयंकारी सदा भवेत् ।
नावकाशः प्रदातव्यः कस्यचित् सर्वकर्मसु ॥
उतरोत्तरतः श्रेष्ठा दानपारमितादयः ।
नैतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः ॥
एवं बुद्ध्वा परार्थेषु भवेत् सततमुत्थितः ।
निषिद्धमप्यज्ञातं कृपालोरर्थदर्शिनः ॥
विनिपातगतानाथान् व्रतस्थान् संविभज्य च ।
भुंजीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥
सद्धर्मसेवकं कायमितरार्थं न पीडयेत् ।
एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् ॥
त्यजेन्न जीवितं तस्मादशुद्धे ऽकरुणाशये ।
तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते ॥
धर्मं निगौरवे ऽस्वस्थे न शिरोवेष्ठिते वदेत् ।
सछत्रदण्डशस्त्रं च नावगुण्ठितमस्तके ॥
गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना ।
हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥
नोदारधर्मपात्रं च हीनधर्मे नियोजयेत् ।
न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥
दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् ।
नेष्टं जले स्थले भोग्ये मूत्रादेशचापि गर्हितम् ॥
मुखपूरं न भुंजीत सशब्दं प्रसृताननम् ।
प्रलम्बपादं नासीत न बाहू मर्दयेत् समम् ॥
नैकयान्या स्त्रिया कुर्याद्यानं शयनमासनम् ।
लोकाप्रसादितं सर्वं दृट्वा पृट्वा स वर्जयेत् ॥
नांगुल्या कारयेत् किंचिद्दक्षिणेन तु सादरम् ।
समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥
नवाह्नक्षेपकं किंचिच्छब्दयेदल्पसंभ्रमे ।
अच्छतादिं तु कर्तुव्यन्यथा स्यादसंहृतः ॥
नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा ।
संप्रजानन् लघूत्थानं प्रागवश्यं नियोगतः ॥
आचारो बोधिसत्त्वानामप्रमेयमुदाहृतम् ।
चित्तशोधनमाचारं नियतम् तावदाचरेच् ॥
रात्रिं दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् ।
शेषापत्तिसमस्तेन बोधिचित्तजिनाशयान् ॥
यो अवस्थाः प्रपद्यते स्वयं परवशो ऽपि वा ।
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ।
न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः ॥
न तदस्ति न यत्पुण्यमेव विहरतः सतः ।
पारंपर्येण साक्षाद्वा सत्त्वार्थान्नान्यदा चरेत् ॥
सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् ।
सदा कल्याणमित्रं च जीवीतार्थे ऽपि न त्यजेत् ॥
बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ।
एतदेव समासेन संप्रजन्यस्य लक्षणम् ॥
यत्कायचित्तवस्थायाः प्रत्यवेक्ष्य मुहुर्मुहुः ।
यतो निवार्यते यत्र यदेव च नियुज्यते ॥
तल्लोकचित्तरक्षार्थं शिक्षाम् दृष्ट्वा समाचरेत् ।
सर्वमेतत् सुचरितं दानं सुगतपूजनम् ।
कृतं कल्पसहस्त्रैर्यत्प्रतिघ प्रतिहन्ति तत् ॥
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥
मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते ।
न निद्रां न धृतिं याति द्वेषशस्ये हृदि स्थिते ॥
पूजयत्यर्थमानैर्यान् ये ऽपि चैनं समाश्रिताः ।
ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥
सुहृदो ऽप्युद्विजन्ते ऽस्माद्ददाति न च सेव्यते ।
संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः ॥
एवमादीनि दुःखानि करोतीत्यरिसंज्ञया ।
यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च ॥
तस्मात् क्रोधबलं हत्वा रत्नत्रयप्रभावतः ।
बुद्ध्वा क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥
नैवं द्विषः क्षयं यान्ति यावज्जीवमपि घ्नतः ।
क्रोधमेकं तु यो हन्यात्तेन सर्वद्विषो हताः ॥
[अल्पनिष्ठागमेनापि नतोत्पामुदिता सदा ।
दौर्मनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते ॥
यद्येव प्रतीकारो ऽस्ति दौर्मनस्येन तत्र किम् ।
अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥
दुःखापकारपारुष्यमयशश्चेत्यनीप्सितम् ।
प्रियानामात्मना वापि शत्रोश्चैतद्विपर्ययात् ॥
कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः ।
दुःखेन बहिः निःसारस्तत्कार्यं मनो दृढम् ।
सत्त्वक्षेत्रं जिनक्षेत्रमित्याख्यातं मुनीश्वरैः ।
एता आराध्य संबुद्धाः सर्वे निर्वृतिमागताः ॥
[सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे सः ।
जिनेषु गौरवं यद्वन्नष्विति कः क्रमः ॥
आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिः नैव हि संशयो ऽस्ति ।
दृश्यन्त एते ननु सत्त्वरुपास्त एव नाथाः किमनादनात्र ॥
तथागताराधनमेतदेव लोकस्य दुःखापहमेतदेव ।
स्वार्थस्य संसाधनमेतदेव तत् साचरध्वं तमेवेदम् ॥
] यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् ।
तस्मादाराधरेत् सत्त्वान् भृत्यश्चण्डनृपं यथा ॥
कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा ।
यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥
तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वं समं भवेत् ।
यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते ।
आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसंभवम् ।
इहापि सौभाग्ययशःसौस्थित्यं लभते क्षमी ॥
प्रासादिकत्वप्रामोद्यमारोग्यं चिरजीवितम् ।
चक्रवर्तिसुखस्थानं क्षमी प्राप्नोति संसरन् ॥
एवं क्षमो भवेद्वीर्यं वीर्ये बोद्धिर्यतः स्थितः ।
न हि वीर्यं विना पुण्यं यथा वायु विना गतिः ॥
किं विर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते ।
आलस्यकुत्सिता शक्तिर्विषादात्मावमन्यता ॥
अव्यापारसुखास्वादनिद्रयाश्रयतृष्णया ।
संसारदुःखानुद्वेगादालस्यमुपजायते ॥
तस्मादालस्यमुत्सृत्ज धृत्वा वीर्यं समाहितः ।
सर्वसत्त्वहिताधानं बोधिचर्याव्रतं चरेत् ॥
वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन ।
नैवास्ति तज्जगति विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यस्थाधिरुढः ॥
यद्धेषु यत्करितुरंगपदातिमत्सु नाराचतोमरश्वधसंकुलेषु ।
हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विस्fउर्जितं तदिह वीर्यं महाभटस्य ॥
अम्भोनिधीन् मकरवृन्दविघट्टिताम्बुतुंगोकुलाकुलतरंगविभंगभीमान् ।
वीर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥
रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः
शीलं सज्जनचित्तनिर्मलतरं समादाय यन्मर्त्याः ।
कान्ततरे सुमेरुशिखरोपान्ते वीर्यान्वितास्तिष्ठन्ते
सुरसिद्धसंघसहिताः संबोधिसत्त्वाः सुखम् ॥
यद्देवा वियति विमानवासिनो ऽन्ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् ।
अत्यन्तविपुलfअलप्रसूतिहेतोर्वीर्यस्थिरविहितस्य सा विभूतिः ॥
इति मत्वा सदोत्साहं धृत्वा संबोधिसाधने ।
सर्वसत्त्वहिताधाने बोधिचर्याव्रते चरेत् ॥
लघु कुर्यात्तथात्मानमप्रमादकथां स्मरन् ।
कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र च तु ते ॥
यथैव तूलिकं वायोर्गमनागमने वशम् ।
तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति ॥
वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः ।
विक्षिप्तचित्तस्तु नरः क्लेशं दंष्ट्रान्तरे स्थितः ॥
कायचित्तविवेकेन विक्षेपस्य न संभवः ।
तस्माल्लोकान् परित्यज्य वितर्कान् परिवर्जयेत् ॥
स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया ।
तस्मादेतत्परित्यागे विद्वानेवं विचारयेत् ॥
शमथेन विपश्यनया सुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य ।
शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयभिरत्या ॥
कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
येन जन्मसहस्त्राणि द्रष्टव्यो न पुनः प्रियः ॥
अपश्यन्नरतिं याति समाधौ न च तिष्ठति ।
न च तृप्यति दृष्ट्वापि पूर्ववद्बाधते तृषा ॥
न पश्यति यथाभुतं संवेगादवहीयते ।
दह्यते तेन शोकेन प्रियसंगमकांक्षया ॥
तच्चिन्तया मुधा याति ह्रस्वमायुमुहुर्मुहुः ।
अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः ॥
बालैः सभागचरितो नियतं याति दुर्गतिम् ।
नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥
क्षणाद्भवन्ति सुहदो भवन्ति रिपवः क्षणात् ।
तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः ॥
अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ।
ईर्ष्योत्कृष्टात्समाद्वन्द्वा हीनात्मानः स्तुतेर्मदः ॥
अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥
आत्मोत्कर्षः परावर्णः संसाररतिसंकथा ।
इत्याद्यमवश्यमशुभं किंचिद्बालस्य बालता ॥
एवं मत्वा यतिर्धीमान्विहाय बालसंगमम् ।
बालाद्दूरं पलायेत् प्राप्तमाराधयेत्प्रियैः ॥
न संस्तवानुबन्धेत किंभूदासीनसाधुवत् ।
एकाकी विहरेन्नित्यम् सुखमक्लिष्टमानसः ॥
धर्मार्थमात्रादाय भृंगवत् कुसुमान् मधुः ।
अपूर्व इव सर्वत्र विहरेदप्यसंस्तुतः ॥
एवं यतिर्महासत्त्वः संसाररतिनिःपृहः ।
समाधिसत्सुखासक्तो विहरेद्बोधिमानसः ॥
क्लेशारिवर्गानभिभूय वीराः संबोधिलक्ष्मीपदमाप्नुवन्ति ।
बोध्यंगदानं प्रदिशन्तिं सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥
जन्मप्रबन्धकर्णैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् ।
आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥
जित्वा क्लेशारिवृन्दं शुभबलमथनं सर्वथा लब्धलक्षम् ।
प्राप्तः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभामन्यभूतैः ॥
सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्राः ।
ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुः सर्वे नरेन्द्राः ॥
मोहान्धकारं प्रविदार्यं शश्वज्ज्ञानावभासम् कुरेते समन्तात् ।
संबुद्धसुर्यस्सूरमानुषाणां हेतुः स तत्र प्रवरस्समाधिः ॥
इति मत्वा समाधाय क्लेशावरणहानये ।
विमार्गाच्चित्तमाकृष्य समाधौ स्थाप्य प्राचरेत् ॥
इमं परिकरं समाधौ स्थाप्य प्राचरेत् ॥
इमं परिकरं सर्वं प्रज्ञार्थं हि जगद्धिते ।
तस्मादुत्पादयेत् प्रज्ञां दुःखनिर्वृतिकांक्षया ॥
संवृत्तिः परमार्थश्च सत्यद्वयमिदं मतम् ।
बुद्धेरगोचरं तत्त्वं बुद्धिसंस्मृतिरुच्यते ॥
तत्र लोको द्विधादृष्टो योगी प्राकृतकस्तथा ।
तत्र प्राकृतको लोको यगिलोकेन बाध्यते ॥
बाध्यन्ते धीविशेषेण योगिनो ऽप्यत्तरोत्तरैः ।
दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः ॥
लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः ।
न तु मायावदित्यत्र विवादो योगिलोकयोः ॥
इति मत्वा यतिर्धिमान् सर्वं मायाभिर्निर्मितम् ।
प्रज्ञारत्नं समासाद्य संचरेत जगद्धिते ॥
प्रज्ञाधनेन विकुलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः ।
बुद्धयान्वितस्य fअलमिष्टमुदेति वीर्याद्वीर्यं हि बुद्धिरहितं स्ववधाय शत्रुः ॥
यो ऽनेकजन्मान्तरितं स्वजन्मभूतंभविष्यत्कुलनामगोत्रैः ।
मध्यान्तमाद्यपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः ॥
यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् ।
ज्ञानालोकं करोति प्रहरति च सदादोषवृन्दं नराणाम् ॥
आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः ।
प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमुत्कीर्तयन्ति ॥
कार्यार्णवे ऽपि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः ।
प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूताः ॥
प्रज्ञाबलेनैव जिनाः जयन्ति घोरं सुदुष्टं च मारसैन्यम् ।
प्रज्ञाविशेषेण जना विभान्ति प्रज्ञा हि ख्याता जननी जिनानाम् ॥
तस्मात् सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् ।
यत्प्रज्ञाविकला विभान्ति पुरुषाः प्रातःप्रदीपा इति ॥
स्वर्गापवर्गगुणरत्ननिधनभूता एताः षडेव भुवि पारमिता नराणाम् ।
ज्ञात्वा नरः स्वहितसाधनतत्परः स्यात्कुर्यादतः सततमाशु दृढं प्रयत्नम् ॥
एतद्धि परमं शिक्षासंवरं बोधिचारिणाम् ।
मया प्रज्ञप्तमानन्द धातव्यं बोधिप्राप्तये ॥
य एतत्परमाचारं धृत्वा सम्बोधिमानसाः ।
त्रिरत्नशरणे स्थित्वा संचरन्ते जगद्धिते ॥
ते भद्रश्रीगुणाधाराः शीलवन्तः शुभेन्द्रियाः ।
क्षान्तिसौरभ्यसंवासाः सदोत्साहा हिताशयाः ॥
निःक्लेशा निर्मलात्मानो महासत्त्वा विचक्षणाः ।
प्रज्ञावन्तो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः ॥
त्रिविधां बोधिमासाद्य संबुद्धालयमाप्नुयुः ।
एतच्छास्त्रा समादिष्टं श्रुत्वानन्दो ऽभिबोधितः ॥
भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् ।
भगवन् भवताज्ञप्तं संबुद्धपदसाधनम् ।
शिक्षासंवरमाधाय ये चरन्ति सदा शुभे ॥
त एव सुभगा धन्याः शिक्षासंवृतिकौशलाः ।
विनयाभिमुखाः सन्तः सद्धर्मकोशधारिणः ॥
जिनात्मजा महाभिज्ञाः अर्हन्तो निर्मलेन्द्रियाः ।
बोधिसत्त्वा महासत्त्वा भवन्ति बोधिलाभिनः ॥
तेषामेव सदा भद्रं सर्वत्रापि भवेद् ध्रुवम् ।
सद्धर्मसाधनोत्साहं निरुत्पातं निराकुलम् ॥
तेषां भूयात् सदा भद्रं बोधुइश्रीगुणसाधनम् ।
त्रिरत्नशरणे स्थित्वा ये चरन्ति जगद्धिते ॥
इत्यानन्दसमाख्यातं श्रुत्वा स भगवन् मुदा ।
आयुष्मन्तं तमानन्दं समालोक्यैवमादिशत् ॥
एवमेव सदा तेषाम् भद्रम् संबोधिसाधनम् ।
धर्मश्रीगुणसम्पन्न भवेन्नुनं भवालये ॥
इति सत्यं परिज्ञाय यूयं सर्वे ऽभिबोधिताः ।
त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥
एवं मयोक्तमादाय चरध्वे यदि सर्वदा ।
नूनं सम्बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥
अथ ते सांघिकाः सर्वे आनन्दप्रमुखाः मुदा ।
नत्वा पादौ मुनीन्द्रस्य स्वस्वध्यानालयं ययुः ॥
भगवानपि तान् वीक्ष्य सर्वान् ध्यानालयाश्रीतान् ।
गत्वा ध्यानालयासीनस्तस्थौ ध्यानसमाहितः ॥
इत्येवं मे समाख्यातं गुरुणा शाणवासिना ।
श्रुतं मया तथाख्यातं श्रुत्वानुमोद भूपते ॥
प्रजा अपि महाराज श्रावयित्वा प्रबोधयन् ।
त्रिरत्नभजनोत्साहे चारयित्वानुपालय ॥
तथा चेत्ते सदा राजन् धर्मश्रीगुणसंयुतम् ।
शुभोत्साहं निरातंकं भवेद् ध्रुवं समन्ततः ॥
त्वमपि बोधिसंभारं पुरयित्वा यथाक्रमम् ।
जित्वा मारगणानर्हन् बोधिं प्राप्य जिनो भवेः ॥
इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥
॥ इति शिक्षासंवरसमुद्देशप्रकरणं समाप्तम् ॥
20. फलश्रुतिः
अथ भूयः स राजेन्द्रो भूपो ऽशोकः कृतांजलिः ।
उपगुप्तं तमर्हन्तं नत्वालोक्येदमब्रवीत् ॥
भदन्त लोकनाथो ऽसौ यदावलोकितेश्वरः ।
इति नाम्ना प्रसिद्धो ऽभूत्तत्केन समुपादिश ॥
इति संप्रार्थिते राज्ञा यतिः सो ऽर्हन्महामतिः ।
अशोकं तं महाराजं समालोक्यैवमादिशत् ॥
शृणु राजन् महाभाग यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुबोधितो भव ॥
षड्गतिसम्भवा लोकास्त्रैधातुभुवनाश्रिताः ।
तेषां ये दुःखिता दुष्टाः क्लेशाग्निपरितापिताः ॥
तान् सर्वान् स जगन्नाथः कृपादृष्ट्यावलोकयत् ।
तेनावलोकितेशाख्यः प्रसिद्धस्त्रिजगत्स्वपि ॥
ये ये सत्त्वा जगद्भर्त्रा कृपादृष्ट्यावलोकिताः ।
ते ते सर्वे विकल्माषा भवेयुर्विमलाशयाः ॥
ये ऽप्यस्य त्रिजगच्छास्तुः शृणुयुर्नाम् सादरम् ।
विमुक्तपातकास्ते स्युर्निःक्लेशा विमलेन्द्रियाः ॥
दुःखाग्नौ पतितो यो ऽपि स्मृत्वा लोकेश्वरं भजेत् ।
तदा तं स महासत्त्वः कृपादृष्ट्यावलोकयन् ॥
तदा स सहसा तस्माद्दुःखाग्नेः परिमुक्तितः ।
शुद्धेन्द्रियो विशुद्धात्मा भवेत् संबोधिमानसः ॥
यो नद्या प्रोह्यमाणो ऽपि क्रन्देल्लोकेश्वरं स्मरन् ।
तदा स बोधिसत्त्वस्तं कृपादृष्ट्यावलोकयेत् ॥
तदा दद्यान्नदी तस्य गाधं सन्तरणार्थिनः ।
ततः स सहसोत्तीर्य स्मृत्वा धर्मरतो भवेत् ॥
यदा च वणिजः सार्था नौकारुढा महाम्बुधौ ।
रत्नार्थिनो महोत्साहैः संक्रमेयुर्यथाक्रमम् ॥
तत्र नौः कालिकावातैः प्रेर्यमाणाम् विलोलिता ।
तरसा राक्षसीद्वीपसमीपं समुपाचरेत् ॥
तदा तेषां महाधीरः स्मृत्वा लोकेश्वरं नमेत् ।
लोकेशस्तान्स्तदा सर्वान् कृपादृष्ट्यावलोकयन् ॥
ततस्ताः कालिका वाता न चरेयुः प्रसादिताः ।
ततो नौ सवणिक्सार्था स्वस्ति रत्नाकरं व्रजेत् ॥
तत्र ते वणिजः सर्वे लब्धरत्नाः प्रमोदिताः ।
स्वस्ति प्रत्यागताः स्वस्ति समियुः स्वपुरं लघु ॥
यदि दैवाद्विपत्तिः स्यात् सर्वतीर्थजलाश्रये ।
मृतास्ते शोषितात्मानः संप्रयायुः सुखावतीम् ॥
यश्च दुष्टो वधात् सृष्टो गृहीतो वध्यघातकैः ।
भीतो लोकेश्वरं स्मृत्वा ध्यात्वा नामाप्युदाहरेत् ॥
तदा लोशेश्वरस्तं स कृपादृष्ट्यावलोकयेत् ।
ततस्ते घातकाः सर्वे तं हन्तुं नाभिशक्नुयुः ॥
यदि विघातितो दैवात् त्यक्त्वा पापाश्रयां मृतः ।
शुद्धाशयो विशुद्धात्मा संप्रयायात् सुखावतीम् ॥
सर्वे यक्षाश्च गन्धर्वाः कुम्भाण्डा राक्षसा अपि ।
किन्नरा गरुडा नागा भूताः प्रेताः पिशाचिकाः ॥
लोकेश्वरस्य भक्तारं ध्यातारं स्मृतिभाविनम् ।
नामोच्चारणकर्तारं द्रष्टुमपि न शक्नुयुः ॥
यश्चापि निगडैर्बद्धा स्थापितो बन्धनालये ।
स्मृत्वा लोकेश्वरं द्यात्वा तिष्ठेन्नामाप्युदाहरेत् ॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा स बन्धनान्मुक्तो धर्माभिरततो भवेत् ॥
यश्चारण्ये गृहे वापि चौरैर्धूतैरुपद्रुते ।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥
तत्क्षणे लोकनाथस्तं कृपादृट्यावलोकयेत् ।
तदा ते धूर्तकाश्चौराः सर्वे यायुः पराङ्मुखाः ॥
यश्च रोगी सदा दुष्टः कुष्ठव्याध्याचिताश्रयः ।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥
तत्क्षेणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा स व्याधितो मुक्तो नीरोगी पुष्टितेन्द्रियः ॥
शुद्धाशयो विशुद्धात्मा भवेत् संबोधिमानसः ।
यदि दैवाद्विपत्तिः स्याद्धित्वा दुःखाश्रयं तनुम् ।
शुद्धाशयो विशुद्धात्मा संप्रयायात् सुखावतीम् ॥
यश्च दरिद्रितो दुःखी दीनो ऽनाथो दुराश्रयः ।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा स श्रीगुणोत्पन्नो भवेत् साअधुः शुभेन्द्रियः ॥
यश्च संग्राममध्ये ऽपि शत्रुभिः परिवेष्टित ।
स्मृत्वा लोकाधिपं ध्यात्वा नमेन्नामाप्युदाअहरेत् ॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा सो ऽरीन्विनिर्जित्य लब्ध्वा रमेज्जयश्रियम् ॥
यश्चापि दह्यमानेषु गृहोद्यानाश्रमेष्वपि ।
स्मृत्वा लोकाधिपं ध्यात्वा नाम प्रोच्चारयन्नमेत् ॥
तत्काले लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा स सहसा वह्निस्कन्धः शाम्येन्निराकुलः ॥
विवादे कलये वापि परिभूते ऽपि दुर्जनैः ।
स्मृत्वा लोकेश्वरं ध्यात्वा नाम प्रोच्चारयन्नमेत् ॥
तत्क्षणे लोकशास्ता तं कृपादृष्ट्यावलोकयेत् ।
तदा स विजयन् सर्वान् संस्थापयेन्निजे वशे ॥
यश्च क्लेशाग्निसंतप्तो व्याकुलेन्द्रियमानसः ।
स्मृत्वा लोकप्रभुं ध्यात्वा नमेन्नामाप्युदाहरन् ॥
तत्क्षणे तं महासत्त्वो दयादृष्त्यावलोकयेत् ।
तदा निःक्लेशभद्रात्मा भवेद्भद्रेन्द्रियः सुधीः ॥
यो ऽपुत्रः पुत्ररत्नार्थी तं लोकेशं शरणं गतः ।
स्मृत्वा ध्यात्वा यथाशक्ति भजेन्नामान्युदाहरन् ॥
तदा स त्रिजगद्भर्ता कृपादृष्ट्यावलोकयेत् ।
दद्यात्तस्मै पुत्ररत्नं महासत्त्वं जगत्प्रियम् ॥
सुतार्थिने ऽपि सत्पुत्रीं रमाकारां शुभेन्द्रियाम् ।
सर्वसत्त्वप्रियां कान्तां साध्वीं दद्याज्जगत्प्रभुः ॥
विद्यार्थी लभते विद्यां धनार्थि लभते धनम् ।
राज्यार्थी लभते राज्यं लोकेशभक्तिमानपि ॥
द्रव्यार्थी लभते द्रव्यं गुणार्थी लभते गुणम् ।
भोग्यार्थी लभते भोज्यं गृहार्थी लभते गृहम् ॥
एवमन्यानि वस्तूनि सर्वोपकरणान्यपि ।
यथाभिवांछितं सर्वं लभेल्लोकेशभक्तिमान् ॥
तेनासौ त्रिजगन्नाथ आर्यावलोकितेश्वरः ।
इति प्रख्यापितः सर्वैर्धर्मराजैमुनीश्वरैः ॥
एवं महत्तरं पुण्यं लोकेशभक्तिभाविनाम् ।
अप्रमेयमसंख्येयं संबुद्धपदसाधनम् ॥
इत्येवं सुगतैः सर्वैः समादिष्टं समन्ततः ।
बोधिसत्त्वैर्महाभिज्ञैः सर्वैश्चापि प्रशंस्यते ॥
इति मत्वा महाराज लोकनाथस्य सर्वदा ।
शरणे समुपाश्रित्य भजस्व श्रद्धया मुदा ।
यस्य लोकेश्वरे भक्तिस्तस्य पापं न किंचन ।
दुष्टक्लेशभयं नापि निर्विघ्नं सत्सुखं सदा ॥
सर्वे दुष्टगणा माराः क्षीयन्ते सर्वतः सदा ।
यमदूतादयश्चापि पलायेयुः पराङ्मुखाः ॥
लोकेशभ्क्तिभाजांश्च पुण्यधारा निरन्तरा ।
अप्रेया असंख्येयाः प्रवर्धन्ते दिवानिशम् ॥
एतत्पुण्यानुभावैस्तु सद्धर्मस्तेन लभ्यते ।
तत्सद्धर्मानुभावेन संबुद्धो दृश्यते ऽग्रतः ॥
ततो बुद्धानुभावेन बोधिचित्तं सुलभ्यते ।
बोधिप्रणिधिचित्तेन चर्यन्ते बोधिचारिकाः ॥
क्रमात् संबोधिसंभारं पूरयित्वा यथाक्रमम् ।
सर्वान् क्लेशान् विनिर्जित्याअचतुर्मारगणानपि ॥
सर्वत्र वशिता प्राप्ता धारणीगुणसंयुता ।
दशभूमीश्वरो भूत्वा संबोधिं समवाप्नुयात् ॥
इति मत्वा महाभिज्ञो लोकेश्वरो जिनात्मजः ।
भजनीयः सदा सद्भिः संबुद्धपदवांछिभिः ॥
ये भजन्ति सदा नित्यं लोकेश्वरं जगत्प्रभुम् ।
तेषां नैव भयं किंचित्सर्वत्र सर्वदापि हि ॥
रक्षेयुस्तं समालोक्य ब्रह्यादयो महर्षयः ।
शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि ॥
रक्षेयुरग्नयो ऽप्येनं लोकेशभक्तिभाविनम् ।
धर्मराजादयः प्रेताः सर्वे निशाचरा अपि ॥
वरुणाश्च हि राजाश्च सर्वे वायुगणा अपि ।
सर्वे श्रीदादयो यक्षाः सर्वे भूताधिपा अपि ॥
सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः ।
सर्वे सिद्धाश्च साध्याश्च रुद्रा विद्याधरा अपि ॥
धृतराष्ट्रादयः सर्वे गन्धर्वा अपि सर्वदा ।
विरुढकादिकुम्भाण्डा रक्षेयुस्तं सदानुगाः ॥
विरुपाक्षादयः सर्वे नागेन्द्रा गरुडा अपि ।
कुवेरप्रमुखाः सर्वे यक्षा अपि समादरात् ॥
द्रुमादिकिन्नराः सर्वे वेमचित्रादयो ऽसुराः ।
सर्वे पैशाचिकाश्चापि रक्षेयुस्तं समाहितः ॥
सर्वे मातृगणाश्चापि सकुमारगणाधिपाः ।
सर्वे ऽपि भैरवाः सर्वे महाकालगणा अपि ॥
सडाकडाकिनीसंघाः सर्वे कापालिका अपि ।
सर्वे वैताडिकाश्चापि दृष्ट्वा चेयुस्तमादरात् ॥
तथा च योगिनः सिद्धा अविकल्पा जितेन्द्रियाः ।
दूराद्दृष्ट्वाभिरक्षेयुस्तं लोकेशशरणाश्रितम् ॥
वज्रपाण्यादयो वीराः सर्वमन्त्रार्थसाधकाः ॥
रक्षेयुस्तं समालोक्य लोकेशभक्तिचारिणम् ॥
यतयस्तीर्थिकाश्चापि तापसा ब्रह्मचारिणः ।
वैष्णवा अपि शैवाश्च लिंगिनो व्रतिनो ऽपि च ॥
दूरादपि तमालोक्य भक्तिमन्तं जगत्प्रभोः ।
प्रणत्वा प्रांजलिं धृत्वा प्रशंसेयुः समादरात् ॥
अर्हन्तो भिक्षवश्चापि दृष्ट्गा तं दूरतो मुदा ।
धन्यो ऽसीति समाराध्य प्रकुर्युरभिनन्दितम् ॥
श्रावकाश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः ।
दूरतस्तं महाभागं दृष्ट्व नमेयुरानताः ॥
सर्वे चापि महासत्त्वा बोधिसत्वा जिनात्मजाः ।
वरदानैस्तमाराध्य चारयेयुर्जगद्धिते ॥
प्रत्येकसुगतश्चापि दृष्ट्वा तं बोधिभागिनम् ।
समालोक्य समाश्वास्य प्रेरयेयुः सुसंवरे ॥
संबुद्धा अपि सर्वे तं संबुद्धपदलाभिनम् ।
दृष्ट्वाभिनन्द्य सद्धर्मे नियुज्यावेयुराभवम् ॥
एवमस्य जगद्भर्तुर्लोकेशस्य महात्मनः ।
सद्धर्मगुणमाहात्म्यं सर्वबुद्धैः प्रशंस्यते ॥
एवं महत्तरं पुण्यं लोकेशभजनोद्भवम् ।
मत्वा सदानुमोदित्वा श्रोतव्यम् बोधिवांछिभि ॥
इदं सर्वं महायानसूत्ररत्नं सुभाषितम् ।
शृण्वन्ति श्रद्धया ये ऽपि कलौ पंचकषायिते ॥
दुर्गतिं ते न गच्छिन्त कदाचन कथंचन ।
सदा सद्गतिसंजाता भवन्ति भद्रचारिणः ॥
लोकेशस्य जगच्छास्तुः सर्वदा शरणे स्थिताः ।
ध्यात्वा नाम समुच्चार्य स्मृत्वा भजेयुराभवम् ॥
एतत्पुण्यानुलिप्तास्ते भद्रश्रीसद्गुणालयाः ।
सद्धर्मसुखसंपत्तिं भुक्त्वा यायुः सुखावतीम् ॥
एनं यः सकलांल्लोकांच्छ्रावयति प्रबोधयन् ।
मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0