गुणकारण्डव्यूहसूत्र · भाग 201203
सो ऽपि न दुर्गतिं याति याति सद्गतिमेव हि ॥
एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः ।
सद्धर्मसुखसंपत्तिं भुक्त्वा यायात् सुखावतीम् ॥
यश्चापीदं कलौ काले निरपेक्षाः स्वजीविते ।
सभामध्ये समासीनो भाषेत् सूत्रसुभाषितम् ॥
सो ऽप्येतत्पुण्यशुद्धात्मा यायान्न दुर्गतिं क्वचित् ।
सदा सद्गतिसंजातो भद्रश्रीसद्गुणाश्रयः ॥
सर्वसत्त्वहिताधानं सद्धर्ममेव साधयन् ।
शुभिओत्साहसहत्सौख्यं भुक्त्वा यायात् सुखावतीम् ॥
तत्रामितरुचेः शास्तुः सर्वे शरणे स्थिताः ।
सदा धर्मामृतं पीत्वा चरेयुर्बोधिसंवरम् ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
भवेयुः सर्वे लोकेशा दशभूमीश्वरा अपि ॥
ततस्ते निर्मलत्मानो बोधिसत्त्वा जिनात्मजाः ।
भवेयुयुस्त्रिगुणाभिज्ञा महासत्त्वाः शुभेन्द्रियाः ॥
क्लेशान् मारगणान् सर्वान् जित्वार्हन्तो निरंजनाः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
ये ऽपि वेदमहायानसूत्रराजं लिखेन्मुदा ।
तेनापि लिखितं सर्वमहायानसुभाषितम् ॥
लेखापितं च येनेदं सूत्रराजसुभाषितम् ।
तेन लेखापितं ज्ञानं सर्वं महायानसुभाषितम् ॥
लिखितं वापि येनेदं प्रातिष्ठाप्य यथाविधि ।
शुद्धस्थाने गृहे स्थाप्य पूजांगैः सर्वदार्चितम् ॥
तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि ।
ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु ॥
यश्चापीदं स्वयं धृत्वा परेभ्यो ऽपि समादिशेत् ।
भावयेत् सततं स्मृत्वा ध्यात्वापि प्रणयेन् मुदा ॥
तस्य सर्वे मुनीन्द्राश्च प्रत्येकसुगता जिनाः ।
अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितम् ॥
यश्चैतदुपदेष्टारं सर्वांश्च श्रावकानपि ।
यथाविधि समभ्यर्च्य भोजनैः परितोषयेत् ॥
तेन सर्वे ऽपि संबुद्धाः प्रत्येकसुगता अपि ।
अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः ॥
बोधिसत्त्वाश्च सर्वे ऽपि व्रतिनो यतयो ऽपि च ।
अभ्यर्च्य भोजनैर्नित्यं भवेयुः परितोषिताः ॥
किमेवं बहुनोक्तेन सर्वे बुद्धाः मुनीश्वराः ।
सर्वाः पारमिता देव्यः सर्वे संघा जिनात्मजाः ॥
नित्यं तेषां समालोक्य कृपादृष्ट्यानुमोदिताः ।
रक्षां विधाय सर्वत्र वरं दद्युर्जगद्धिते ॥
लोकपालाश्च सर्वे ऽपि सर्वे देवाश्च दानवाः ।
रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधिनाम् ॥
राजानो ऽपि सदा तेषां रक्षां कृत्वानुमोदिताः ।
यथाभिवांछितं कृत्वा पालयेयुः समाअदरात् ॥
मन्त्रिणो ऽपि सदा तेषां सामात्यसचिवानुगाः ।
सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः ॥
सर्वे वैश्याश्च सर्वार्थभर्तारः स्युः सुहृत्प्रियाः ।
श्रेष्ठिमहाजनाः सर्वे भवेयुर्हितकारिणः ॥
द्विषो ऽपि दासतां यायुर्दुष्टाश्च स्युर्हिताशयाः ।
एवमन्ये ऽपि लोकाश्च सर्वे स्युर्मैत्रमानसाः ॥
पशवः पक्षिणश्चापि सर्वे कीटाश्च जन्तवः ।
नैव तेषां विरुद्धाः स्युर्भवेयुर्हितशंसिनः ॥
एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनाम् ।
निरुत्पातं शुभोत्साहं सौमांगल्यं सदा भवेत् ॥
एवं भद्रतरं पुण्यं लोकेशभजोनोद्भवम् ।
मत्वा तं त्रिजगन्नाथं भजस्व सर्वदा स्मरन् ॥
ये तस्य शरणे स्थित्वा ध्यात्वा समाहिताः ।
नामापि च समुच्चार्य भजन्ति श्रद्धया सदा ॥
तेषां स्युः सुप्रसन्नानि त्रिरत्नान्यपि सर्वदा ।
कृपादृष्ट्या समालोक्य कृत्वा चेयुः शुभं सदा ॥
एतच्छास्त्रा समादिष्टमुपागुप्तेन भिक्षुणा ।
श्रुत्वाशोकः स भूमीन्द्रः प्राभ्यननदन् प्रबोधितः ॥
सभा सर्वावती सापि श्रुत्वैतत् संप्रसादिता ।
तथेति प्रतिवन्दित्वा प्राभ्यनन्दत् प्रबोधिता ॥
ततस्ते सकला लोकाः समुत्थाय प्रमोदिताः ।
उपगुप्तं तमर्हन्तं नत्वा स्वस्वालयं ययुः ॥
ततः प्रभृति राजा स लोकेशं सर्वदा स्मरन् ।
ध्यात्वा नाम समुच्चार्य प्राअभजत् पालयन् प्रजाः ॥
तदा तस्य नरेन्द्रस्य विषये तत्र सर्वदा ।
निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः ॥
इति जयश्रियादिष्टं निशम्य स ससांघिकः ।
जिनश्रीराज आत्मज्ञः प्राभ्यनन्दत् प्रबोधितः ॥
ततश्चासौ महाभिज्ञो जयश्रीः सुगरातात्मजः ।
सर्वान् संघान् समालोक्य पुनरेवं समादिशत् ॥
यत्रेदं सूत्रराजेन्द्रं प्रावर्तयेत् कलावपि ।
भाषेद्यः शृणुयाद्यश्च श्रावयेद्यश्च प्रचारयेत् ॥
एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा ।
कृपादृष्ट्या समालोक्य कुर्वन्तु भद्रमाभवम् ॥
सर्वाः पारमितादेव्यस्तेषां तत्र सदा शिवम् ।
कुर्वन्त्या बोधिसंभारं पूरयन्तु जगद्धिते ॥
सर्वे ऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि ।
अर्हन्तो योगिनस्तेषां भद्रं कुर्वन्तु सर्वदा ॥
ब्रह्मदिलोकपालश्च सर्वे चापि महर्षयः ।
तत्र तेषां च सर्वेषां कुर्वन्तु मंगलं सदा ॥
काले वर्षन्तु मेघाश्च भूयाच्छस्यवती मही ।
निरुत्पातं महोत्साहं सुभिक्षं भवतु ध्रुवम् ॥
बहुक्षीरप्रदा गावो वृक्षाः पुष्पfअलान्विताः ।
औषध्यो रसवीर्याद्या भूयात्सुस्तत्र सर्वदा ॥
भवन्तु प्राणिनः सर्वे
आरोग्यचिरजीविनः ।
सर्वद्रव्यसमापन्नाः श्रीमन्तो भद्रचारिणः ॥
राजा भवतु धर्मिष्ठो मन्त्रिणो नीतिचारिणः ।
सर्वे लोकाः सुवृत्तिस्था भवन्तु धर्मसाधिनः ॥
मा भुत्कश्चिद्दुराचारश्चौरो दुष्टश्च वंचकः ।
दरिद्रो दुर्भगो दीनो मदमानाभिगर्वितः ॥
सर्वे सत्त्वाः समाचाराः परिशुद्धत्रिमण्डलाः ।
स्वस्वकुलव्रतारक्षाः प्रचरन्तु जगद्धिते ॥
सर्वे भद्राशयाः सन्तः संबोधिव्रतचारिणः ।
त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे ॥
इति जयश्रियाख्यातं श्रुत्वा सर्वे ऽपि सांघिकाः ।
एवमस्त्विति विज्ञप्य प्राभ्यनन्दन् प्रमोदिताः ॥
॥ इति जिनश्रीराजपरिपृष्टजयश्रीसंप्रभाषित-
श्रीमदार्यावलोकितेश्वरगुणकारण्डव्यूहसूत्रराजं समाप्तम् ॥
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोधं एवंवादी महश्रमणः ॥
॥ शुभमस्तु ॥
मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0