गुणकारण्डव्यूहसूत्र · भाग 161180
स्थानपदान्वितस्यापि दरिद्रस्यापि सन्मतेः ॥
आचार्यो मनसा ध्यात्वा मुद्रालक्षणमण्डलम् ।
तीर्थशंखाभिषेकं वा दत्वा विद्यां समर्पयेत् ॥
इत्यनेन विधानेन कुलपुत्र सुभाविने ।
अस्मै श्रद्धालवे देया महाविद्या षडक्षरी ॥
इति शास्त्रमिताभेन समादिष्टं निशम्य सः ।
मुदितो ऽहं समुत्थाय लोकेशस्य पुरोगतः ॥
पादाब्जे प्रणतिं कृत्वा कृतांजलिपुतो मुदा ।
लोकेश्वरं तमालोक्य प्रार्थयमेवमादरात् ॥
भगवन् भगतामत्र शरणे ऽहं समागतः ।
ददस्व मे महाविद्यां षडक्षरीं जगद्धिते ॥
ययाहं सकलान् सत्त्वान् समुद्धृत्य भवोदधेः ।
बोधिमार्गे समायुज्य प्रापयेयं सुनिर्वृतिम् ॥
तन्मे भवान् जगत्सर्वं सत्त्वं संबुद्धपदवांछिने ।
संबोधिसाधिनीं सर्वविद्येशां दातुमर्हति ॥
मयैवं प्रार्थ्यमाणो ऽसौ लोकेश्वरो विनोदितः ।
संप्रादान्मे महाविद्यां षडक्षरीमुदाहरन् ॥
अग्रे प्रणवमस्यान्ते मणिरस्य सरोरुहम् ।
हद्बीजमिति सिद्धेयं षडक्षरीति विश्रुता ॥
संप्रदत्तां समादाय महाविद्यामहं मुदा ।
प्रादात्तस्मै जगच्छास्त्रे मुक्तामालां स दक्षिणाम् ॥
गृहीत्वा तां जगद्भर्ता मुक्तामालां स दक्षिणाम् ।
संबुद्धायामिताभाय समुपानामयत्तत्पुरः ॥
अमिताभो मुनीन्द्रो ऽपि तां मालां प्रतिगृह्य च ।
मम पुरं उपस्थाप्य प्रादाद्भक्तिप्रसादितः ॥
तत्प्रदत्तां समादाय तां च मालां प्रबोधितः ।
तत्र श्रावकसंघेभ्य उपहृत्य समर्पयन् ॥
तत्र एतन्महन्मन्त्रं शास्त्रा दिष्टं यथा तथा ।
सश्रीलोकेश्वरं ध्यात्वा प्रजपन्ति समाहिताः ॥
तदा विघ्नगणाः सर्वे दुष्टा मारगणा अपि ।
संत्रासविह्वलात्मानः पलायन्ते दिगन्ततः ॥
चचाल वसुधा साब्धि षडविधा सशिलातोयाः ।
पपात पुष्पवृष्टिश्च सर्वत्राभूच्छुभोत्सवम् ॥
ततो ऽहं श्रीमतः शास्तुर्लोकेशस्य जगत्प्रभोः ।
लब्धानुज्ञः प्रणत्वांघ्रीं मुदितः स्वाश्रमं ययौ ॥
इत्थं मयातिकष्टेन भ्रमता सर्वभूमिषु ।
अमिताभानुभावेन प्राप्ता लोकेश्वरादियम् ॥
दुर्लभा कुलपुत्रेयं महाविद्या षडक्षरी ।
न लब्धा सुगतैस्सर्वैः कैश्चिल्लब्धा जिनैरपि ॥
इत्यादिष्टं मुनीन्द्रेण पद्मोत्तमेन मत्पुरः ।
श्रुत्तमेव मयाप्येतन्महोपायं जगद्धिते ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः ।
विष्कम्भी भगवन्तं च संपश्यन्नेवमब्रवीत् ॥
भगवन् कुत्र लप्स्ये ऽहं कथं कस्यान्तिकादिमाम् ।
जगद्भद्रकरीं विद्यां तन्मे आदेष्टुमर्हति ॥
धन्यास्ते विमलात्मानः पुण्यवन्तः सुभागिनः ।
जपन्ति य इमां विद्यां शृण्वन्ति भावयन्त्यपि ॥
दधत ये च भासन्ति मनसा चिन्तयन्त्यपि ।
ते ऽपि सर्वे महासत्त्वा भद्रश्रीसद्गुणाश्रयाः ॥
अथासौ भगवान् पश्यन् विष्कम्भिनं महामतिम् ॥
एवमेते महासत्वा भवेयुर्हीइति प्रादिशत् ॥
यश्चापि कुलपुत्रेमां विद्यां संबोधिसाधनीम् ।
लिखापयेल्लिखेच्चापि लिखितां धारयेदपि ॥
चतुरशीतिसाहस्रधर्मस्कम्धानि तेन हि ।
लिखापितानि भवन्त्येव लिखितानि धृतानि च ॥
सर्वेषां यश्च बुद्धानां धातुरत्नाभिगर्भितान् ।
हेमरत्नमयान् स्तूपान् कृत्वा नित्यं भजन्मुदा ॥
यावत्तेषां महत्पुण्यं बहुतरतो ऽधिकम् ।
विद्याराज्ञाः षडक्षर्या एकाक्षरस्य यत्fअलम् ॥
यो मुदा श्रद्धया नित्यं जपेदिमां षदक्षरीम् ।
संबोधिसाधनीं विद्यां भद्रश्रीसद्गुइणाकरीम् ॥
सो ऽचिन्त्यश्रीर्महाभिज्ञः सर्वपारमिताप्रभुः ।
सर्वाश्च धारणीः सर्वान् समाधींश्च लभेदपि ॥
सर्वविद्याधिपः शास्ता सर्वधर्माधिपः प्रभुः ।
अर्हन्मारविजेताअ च भवेत् सर्वहितार्थभृत् ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रमोदितः ।
विष्कम्भी बोधिसत्त्वस्तं निशम्य स प्रमोदितः ।
विष्कम्भी बोधिसत्त्वस्तं मुनीन्द्रमेवमब्रवीत् ॥
भगवन् कुत्र गच्छेयं यत्रास्तीयं षडक्षरी ।
तत्राहं भवता शास्त्रा प्रेषणीयो हि सर्वथा ॥
एवं तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
कुलपुत्रैक एवास्ति जानाति यः षडक्षरीम् ।
वाराणस्यां नगर्यां स संतिष्ठते जपन् सदा ॥
स्वयं धृत्वा परेभ्यो ऽपि समुपादिश्य सादरम् ।
ध्यानसमाधिमुक्तात्मा विहरति जगद्धिते ॥
एतच्छास्त्रा समादिष्टं निशम्य स प्रमोधितः ।
विष्कम्भी बोधिसत्त्वस्तं शास्तारमेवमब्रवीत् ॥
भगवन्स्तत्र यास्यामि यत्र शास्ता स तिष्ठते ।
वाराणस्यां महापुर्यामपि तं द्रष्टुमुत्सहे ॥
तं समुत्सुकमालोक्य भगवान् स मुनीश्वरः ।
विष्कम्भिनं महासत्त्वं पश्यन्नेवं समादिशत् ॥
गच्छ त्वं कुलपुत्रेमां महाविद्यां यदीच्छसि ।
वाराणस्यां महापुर्यां स्थितं तं सद्गुरुं भजे ॥
स शास्ता सुविशुद्धात्मा धर्मभाणक आअत्मवित् ।
संबुद्धवन्महाभिज्ञः पुण्यराशिश्चरन्निव ॥
धर्मधातुमयस्तूपश्चरन्निव शुभाश्रयः ।
भूतवादी शुभाचारी सर्वसत्त्वहितार्थभृत् ॥
चिन्तामणिरिव श्रीमान् सर्वार्थसिद्धसंप्रदः ।
धर्मराजो जगद्भर्ता जगदुद्धारणप्रभुः ॥
यदि दृष्ट्वा तमात्मज्ञं निन्दंस्त्वविचारतः ।
गंगेव सर्वतीर्थानां क्षेत्राणां बोधिमण्डवत् ॥
द्रष्टव्यः स त्वया नैव कुलपुत्र तदन्यथा ।
विचिकित्सा न कर्तव्या दृष्ट्वा तं धर्मभाणकम् ।
योगाचारं महात्मानं परिशुद्धत्रिमण्डलम् ॥
यदि दृष्ट्वा तमात्मज्ञं निन्दस्त्वमविचारतः ।
च्युत्वा हि बुद्धभूमेस्त्वमपायेषु पतेदपि ॥
स हि योगविशुद्धात्मा निर्विकल्पो जितेन्द्रियः ।
अनाचारो मलालिप्तो ह्यशुचिचीवरावृतः ॥
अनीर्यापथसंवृत्तो गृहाश्रमसमाश्रयः ।
शक्तिभार्यासमापन्ना दुहितृपुत्रावानपि ॥
तथापि स महाभिज्ञः षडक्षरीविशुद्धवित् ।
समन्तभद्रवद्योगी वन्दनीयस्वयादरात् ॥
इति भगवतादिष्टं निशम्य स प्रबोधितः ।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥
भगवन् भवता शास्त्रा यथाज्ञप्तं तथा खलु ।
कृत्वा तच्छरणे स्थित्वा भजेयं तं समादरात् ॥
भगवन्स्तत्र गच्छामि प्राप्तुं विद्यां षडक्षरीम् ।
तदनुज्ञां भवान् मह्यं साम्प्रतं दातुमर्हति ॥
ततः स भगवान्सतस्मै बोधिसत्त्वाय सद्धिये ।
गच्छ सिध्यत्वभिप्रायमित्यनुज्ञाशिषं ददौ ॥
प्राप्तानुज्ञा मुनीन्द्रस्य विष्कम्भी स प्रमोदितः ।
पादाब्जे सांजलिर्नत्वा ततः संप्रस्थितो ऽचरत् ॥
अनेकैर्बोधिसत्त्वैस्स यतिर्ब्रह्मविहारिभिः ।
भिक्षुभिः श्रावकैः सद्भिचैलकैचाप्युपासकैः ॥
गृहस्थैर्व्रतिभिर्विप्रप्रमुखैः पौरिकैर्जनैः ।
वणिग्भिः सार्थवाहैश्च श्रेष्ठिभिश्च महाजनैः ॥
सार्धं पूजोपहारादिपुष्पाणि विविधान्यपि ।
सर्वर्तुजानि सर्वाणि जलजस्थलजान्यपि ॥
सुगन्धद्रव्याणि सर्वाणि धूपानि सुरभीनि च ।
सर्वालंकारवस्तूनि वस्त्राणि विविधानि च ॥
ध्वजच्छत्रवितानानि पताकाव्यंजनानि च ।
चामराणि समुद्दीप्तरत्नदीपान्मुरुणि च ॥
धातुद्रव्याणि सर्वाणि रत्नानि सकलानि च ।
औषधादीनि सर्वाणि भोग्यानि सुरसानि च ॥
एवमन्यानि वस्तूनि सर्वोपकरणान्यपि ।
समादाय महोत्साहैः वाराणसिं ययौ ॥
तत्र प्राप्तः स विष्कम्भी दृष्ट्वा तं धर्मभाणकम् ।
दूरतः सांजलिर्नत्वा मुदितः समुपासरत् ॥
तत्र स मुदितो धर्मभाणकस्य पुरो गतः ।
पादाब्जे सांजलिर्नत्वा समालोक्यैवमब्रवीत् ॥
भदन्त कौशल कश्चिद्भवतामिन्द्रियेष्वपि ।
सर्वपरिग्रहाणां च सबन्धुसुहृदामपि ॥
यदर्थे भवतां शास्त शरणे ऽहमिहाव्रजम् ।
तद्भवानपि जानीयात् तदर्थे मे प्रसीदतु ॥
इति विज्ञप्य तस्याग्रे शास्तुः स सुगतात्मजः ।
विष्कम्भी सुप्रन्नात्मा पूजां चक्रे यथाक्रमम् ॥
यथाविधि समभ्यर्च्य सर्वपूजोपहारदूष्यादिशुद्धरुचिरचीवरैः ।
ध्वजच्छत्रवितानैश्च पताकाव्यंजनादिभिः ।
अलंकृत्य महोत्साहं चक्रे सगीतवादनैः ॥
ततस्तस्य पुरः सर्वद्रव्योपकरणान्यपि ।
सधातुरत्नजातानि भोग्यानि चौषधीरपि ॥
सर्वाण्येतान्युपस्थाप्य पुरतः समकल्पयेत् ।
ततो ऽष्टांगैः प्रणामानि प्रदक्षिणानि चाकरोत् ॥
ततः स प्रांजलिर्भूत्वा शास्तारं धर्मभाणकम् ।
समीक्ष्य सुप्रसन्नास्यः प्रार्थयदेवमादरात् ॥
भदन्त सद्गुरो शास्ता धर्मश्रीगुणसागराः ।
तद्भवान् मे मनोवांछां संपूरयितुमर्हति ॥
शृण्वन्ति ये सदा धर्मं भवतः समुपाश्रिताः ।
देवा अप्यसुराश्चापि यक्षगन्धर्वकिन्नराः ॥
गरुडा अपि नागाश्च विद्याधरादयो ऽपि च ।
कुम्भाण्डा राक्षसाश्चापि भूतप्रेतपिशाचकाः ॥
सिद्धाः साध्या ग्रहास्ताराः सर्वाश्चाप्यप्सरोगणाः ।
सर्वलोकाधिपाश्चापि ब्राह्मणाश्च महर्षयः ॥
यतिनो योगिनश्चापि भिक्षवो ब्रह्मचारिणः ॥
भिक्षुण्यश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः ॥
तीर्थिकाश्चापि शैवाश्च वैष्णवाश्च तपस्विनः ।
राजानः क्षत्रिया वैश्याः श्रेष्ठिनो ऽपि महाजनाः ॥
पौरिकाः सार्थवाहाश्च वणिजः शिल्पिनो ऽपि च ।
एवमन्ये ऽपि लोकाश्च सर्वे ते विमलाशयाः ॥
पुण्यवन्तो महासत्त्वा भद्रश्रीसद्गुणाश्रयाः ।
बोधिसत्त्वा महाभिज्ञा भवेयुर्बोधिलाभिनः ॥
भजन्ति भवतां ये च शरणे समुपस्थिताः ।
ते सर्वे विमलात्मानः भवेतुर्बोधिलाअभिनः ॥
भवद्दर्शनमात्रेण सर्वाणि पातकान्यपि ।
निरवशेषे विनष्टानि क्षिणुयुर्दारुणान्यपि ॥
जानन्ते तव संबुद्धाः सर्वे ऽपि दशदिक् स्थिताः ।
बोधिसत्त्वाश्च सर्वे ऽपि सर्वे ऽर्हन्तो ऽपि योगिनः ॥
ब्रह्मशक्रादयो देवाः सर्वलोकाधिपा अपि ।
महत्पुण्याभिवांछन्तो भजन्ति सर्वतः सदा ॥
धन्यास्ते पुरुषाः सर्वे सद्धर्मश्रीगुणलाभिनः ।
ये ते धर्मामृतं पीत्वा भजन्ति समुपस्थिताः ॥
पुण्यक्षेत्रमहाभूमिरियं वाराणसी भुवि ॥
भवत्पादरजोलिप्ता भवत्यतिपवित्रिता ॥
तद्भदन्त भवांच्छास्ता कृपया मां विलोकयन् ।
पुण्यामृतेन संसिचं संविभृतां स्वपुत्रवत् ॥
इति तेनोदितं श्रुत्वा स सुधीर्धर्मभाणकः ।
विष्कम्भिनं महासत्त्वं तं पश्चन्नेवमब्रवीत् ॥
कौकृत्यं कुलपुत्रात्र मोत्पादय ममाग्रतः ।
किमिच्छसि भवे क्लेशं सद्धर्मसुखसाधनम् ॥
कति मार्षाः किल क्लेशाः संसार औपभागिकाः ॥
नैमित्तिकाः प्रजोत्पत्तेः सद्धर्मगुणसाधनाः ॥
ये चापीयं महाविद्यां संजानन्ते षडक्षरीम् ।
संलिप्यन्ते न तेअ क्लेशैः संसारधर्मचारिणः ॥
यथा जाम्बुनदं हेम मलैर्नासन्ध्यते क्वचित् ।
यस्य कायगता चेयं महाविद्या षडक्षरी ॥
संसारे सरतो ऽप्यस्य काये क्लेशैर्न लिप्यते ।
इति तेन समादिष्टं निशम्य स विनोदितः ।
विष्कम्भी प्रार्थयदेवं नत्वैनं धर्मभाणकम् ॥
ददस्व धर्मचक्षुर्मे नष्टमार्गस्य सद्गुरो ।
संतर्पय जगद्भर्त धर्मामृतरसेन माम् ॥
संबोधिकल्पवृक्षस्य बीजं रोपय मे तरौ ।
सद्धर्मगुणरत्नानां कुरु मे कार्यमालयम् ॥
भद्रश्रीसुखसंपत्तिवसतिं कुरु मे तनौ ।
अभेद्यकुशलाधारं सुप्रतिष्ठ वृषाश्रयम् ॥
कुरु मां निर्मलात्मानं परिशुद्धत्रिमण्डलम् ।
ददस्व मे महाविद्यां संबोधिज्ञानसाधनीम् ॥
सद्धर्मश्रीगुणाधारीं षडक्षरीं जगद्धिते ॥
ययाहं क्षिप्रमासाद्य संबोधिज्ञानसन्मणिम् ।
उद्धरेयं जगल्लोकं सांसारमहदम्बुधेः ॥
प्रवर्तयेयमालोकं धर्मचक्रं भवालये ।
मोचयेयं जगत्सर्वं षड्गतिक्लेशबन्धनात् ॥
श्रावयेयं जगत्सर्वं संबुद्धानां सुभाषितान् ।
चारयेयं जगल्लोके महायानं व्रतोत्तमम् ॥
स्थापयेयं जगत्सर्वं बोधिमार्गे ऽभिबोधयन् ।
तद्भवान्मे कृपासिन्धो महाविद्यां षडक्षरीम् ॥
संबोधिज्ञानसंभर्ता प्रयच्छतु जगद्धिते ।
दत्वा मे श्रीमतीमेनां महाविद्यां षडक्षरीम् ॥
त्राता नाथो गुरुः शास्ता सन्मित्रं सद्गुणार्थभृत् ।
गतिर्बन्धुः सुहृत्स्वामि प्रभुः पिता परायणः ॥
द्वीपपरायणो भर्ता शरण्यं भवतां मम ॥
इति संप्रार्थिते तेन श्रुत्वा स धर्मभाणकः ।
विष्कम्भिनं महासत्वं तमालोक्यैवमब्रवीत् ॥
दुर्लभं कुलपुत्रेदं सर्वविद्यामहत्पदम् ।
अभेद्यं सर्वमाराणां वज्रसारमनुत्तरम् ॥
सर्वक्लेशाग्निसंतापप्रशान्तिकरणं महत् ।
भद्रश्रीगुणसद्धर्मसमृद्धिसुखसाधनम् ॥
सर्वसत्त्वहिताधानं बोधिसंभारपूरणम् ।
सर्वधर्मोत्तमोदारं सर्वापायविशोधनम् ॥
अक्षयज्ञानसम्पत्तिविमुक्तिपदसाधनम् ।
दशपारमिताधर्मसारसंबोधिसाधनम् ॥
सर्वदेवादिलोकैश्च समभिकांक्षितं पदम् ।
सर्वधर्मपदस्थानं प्रवेशनपदं महत् ॥
ये च स्वस्वकुलेस्थानाअं देवतानां यथाविधि ।
अभिषेकं समादाय चरन्ति सद्व्रतं सदा ॥
केचित्तीर्थे समाश्रित्य सद्धर्ममोक्षवांछिनः ।
ध्यात्वा मन्त्राणि जल्पन्तो भक्त्याराधयन्ति तान् ॥
केचिद् गिराशरण्ये ऽपि गुहायां निर्जने वने ।
पुण्यक्षेत्रे गृहे रन्मे पीठे प्रेतालये ऽपि च ॥
केचिच्चैत्यविहारे च सभागारे च मण्डपे ।
उद्याने वॄक्षमूले च शिवादिसुरमन्दिरे ॥
केचिन्महोदधेस्तीरे नदीतिरे सरस्तटे ।
एवमन्यत्र सत्क्षेत्रे समाश्रिताः समाहिताः ॥
स्वस्वकुलेष्टदेवानां शरणे समुपस्थिताः ।
ध्यात्वाराध्य समभ्यर्च प्रार्थयन्ति सुनिर्वृतिम् ॥
सुनिर्वृतिं न ते यान्ति कृत्वापि दुष्करं तपः ।
स्वस्वकुलेष्टेवानामालयमेव यान्ति ते ॥
ये च सन्तो महासत्त्वा बोधिसत्त्वाः शुभार्थिनः ।
त्रिरत्नभजनं कृत्वा ददत दानमादरात् ॥
एतत्पुण्याभिलिप्तास्ते भवेयुर्विलाशयाः ।
शुद्धशीलसमाचाराः संचरेरन् सुसंवरम् ॥
एतत्पुण्यानुलिप्तास्ते परिशुद्धत्रिमण्डलाः ।
क्षान्तिव्रतं समाधाय संचरेरन् जगद्धिते ॥
एतत्पुण्याभियुक्तास्ते सद्धर्मसाधनोद्यताः ।
महावीर्ये समुत्साहं कुर्युर्भवार्थसाधनम् ॥
एतत्पुण्यविमुक्तास्ते निःक्लेशा विजितेन्द्रियाः ।
योगध्यानसमाधानाः संतिष्ठेरन् समाहिताः ॥
एतत्पुण्यामृतव्याप्ता अर्हन्तस्ते निरंजनाः ।
संबोधिप्रणिधिं धृत्वा वरेयुर्बौद्धसंवरम् ॥
एतत्पुण्यांशुदीप्तास्ते चतुर्ब्रविहारिणः ।
प्रज्ञारत्नं समासाद्य संचरेरन् सुसंवृतौ ॥
एतत्पुण्यानुभावैस्ते सर्वोपायविचक्षणाः ।
सर्वसत्त्वहिताधानीं चरेयुर्भद्रचारिकाम् ॥
एतत्पुण्यसमृद्धास्ते यथेच्छारुपचारिणः ।
सर्वहितार्थसंभारं पूरयेयुर्जगद्धिते ॥
एतत्पुण्यसमुद्दीप्ता महाभिज्ञा गुणाकराः ।
बोधिमार्गे जगत्सर्वं स्थापयेयुः प्रयत्नतः ॥
एतत्पुण्यमयांगास्ते परमार्थज्ञानमुत्तमम् ।
प्राप्य मारान् विनिर्जित्य संबोधिं समवाप्नुयुः ॥
ततस्ते सुगता बुद्धां जगत्सत्वं सुसंवृतौ ।
बोधयित्वा प्रतिष्ठाप्य संप्रयायुः सुनिर्वृतिम् ॥
एवं चिरेण बुद्धास्ते चरन्तो बोधिचारिकाः ।
दशपारमिताः सर्वाः पूरयित्वा यथाक्रमम् ॥
जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः ।
परमज्ञानमासाद्य संबोधिं प्राप्य निर्वृताः ॥
एवं दुष्करमर्माणि कृत्वा सर्वजिना अपि ।
चिरात् संबोधिमासाद्य संप्रायाताः सुनिर्वृतिम् ॥
य इमां श्रीमहत्सर्वविद्येश्वरीं षडक्षरीम् ।
ध्यात्वा लोकेश्वरं नित्यं जपति बोधिमानसः ॥
स तत्क्षणाद्विशुद्धात्मा परिशुद्धत्रिमण्डलः ।
भद्रश्रीसुखसंपन्नः संप्रयायात् सुखावतीम् ॥
तत्र प्राप्तो ऽमिताभस्य मुनेः शरणनिश्रितः ।
बोधिधर्मामृतं पीत्वा बोधिसत्त्वव्रतं चरेत् ॥
ततः संवृतिशुद्धात्मा सर्वसत्त्वहितोत्सुकः ।
कृती पारमिताः सर्वाः संपूरयन् यथाअक्रमम् ॥
संवृतिधर्मसंभारं पूरयन्ति जितेन्द्रियाः ।
समाधिसद्गुणाधारा जित्वा मारगणानपि ॥
परमार्थं समासाद्य संबोधिं समवाप्नुयात् ।
ततो बुद्धपदं प्राप्य कृत्वा धर्ममयं जगत् ॥
निर्विकल्पो विशुद्धात्मा संप्रयायात् सुनिर्वृतिम् ।
सर्वयोगा महाविद्याः परमार्थाप्तिकारणाः ॥
एषा विद्या महाधर्मसंबोधिज्ञामसाधनी ।
यथा हि तण्डुलसिद्धं संसारधर्मपालनम् ॥
एवमेषा महाविद्या सर्वसद्धर्मपालिनी ।
सर्वलोका सुमेदिन्यामुर्वरायां प्रयत्नतः ॥
कृषित्वा धान्यमारोप्य संपालयन्ति सादरम् ।
तदंकुरे समुद्भूते नदीभिन्नरहाम्बुभिः ॥
मेघधाराम्बुभिः सम्यक् स्fआल्यमानं प्रवर्धिते ।
ततस्तत्परिनिष्पन्नं छिवा खले महीतले ॥
मर्दयित्वा गृहे नीत्वा संशोष्य भास्वदातपैः ।
ततस्तं मुशलेनापि भेदयित्वा समादरात् ॥
तद्बुषाणि परित्यज्य समालोन्त्येव तण्डुलम् ।
तदेव तण्डुलं सिद्धं सर्वसंसारपालनम् ॥
सद्धर्मप्राप्तिसंभारपुरणं बोधिसाधनम् ।
तथा सर्वमहायोगाः सर्वाः पारमिता अपि ॥
सर्वा विद्याश्च मन्त्राणि सद्धर्मप्राप्तिसिद्धये ।
सर्वेषां योगविद्यानां मन्त्राणामपि सत्तमम् ॥
सिद्धमेतन्महाविद्यामन्त्रं सम्बोधिसाधनम् ।
एवमेव महाविद्या सर्वधर्मार्थसाधनी ॥
महत्पुण्यैर्विना नैव लभ्या केनापि सद्दिया ।
सुक्षेत्रे व्यारुहेन्नेव तण्डुलं वितुषं क्वचित् ॥
निष्पुण्यैः लभ्यते नैषा महाविद्या कथंचन ।
यावन्न लभ्यते ह्येषा विद्या सर्वार्थसाधनी ॥
तावत् पुण्यानि सर्वाणि संसाधयेत् प्रयत्नतः ।
यदैषा लभ्यते विद्यां तदा पुण्यनिरादरः ॥
एतामेव महाविद्यां ध्यात्वा लोकेश्वरं जपेत् ।
यदेयं सिध्यते विद्या सर्वसंभारसाधनी ॥
तदा सद्धर्मकार्याणि साधयेत् स्वेच्छयानया ।
एषा हि तण्डुलाकारा संसारधर्मसाधनी ॥
सर्वधर्मास्तुषाकाराअ एतद्विद्याप्तिकारणाः ।
एवं महत्तरीमेनां विद्याराज्ञां षडक्षरीम् ॥
ध्यात्वा पारमिताः सर्वाः प्रणमन्ते सदादरात् ।
संबुद्धां अपि सर्वे ऽथ बोधिसत्त्वा जिनात्मजाः ॥
अर्हन्तो वीतक्लेशाश्च ध्यात्वेमां प्रणमन्त्यपि ।
सर्वे ऽपीन्द्रादयो देवाः ब्रह्मादयो महर्षयः ॥
सूर्यादयो ग्रहाः सर्वे चन्द्रादितारका अपि ।
सर्वसिद्धाश्च साध्याश्च वसवश्चाप्सरोगणाः ॥
सर्वे ऽपि त्रिदशेन्द्राश्च सर्वविद्याधरा अपि ।
विष्णुब्रह्मादिलोकेन्द्राः कुम्भाण्डाश्च यमादयः ॥
सर्वे ऽपि राक्षसेन्द्राश्च वरुणादयो ऽप्यहीश्वराः ।
सर्वे ऽपि गरुडेन्द्राश्च सर्वे ऽपि पवनाधिपाः ॥
सर्वे श्रीदादियक्षेन्द्राः सर्वे ऽपीशादियोगिणः ॥
गन्धर्वकिन्नरेन्द्राश्च सर्वलोकाधिपा अपि ॥
सदा नित्यामिमां विद्यां विद्याराज्ञीं षडक्षरीम् ।
ध्यात्वा स्मृत्वा प्रणत्वापि संभजन्ते समादरात् ॥
ये येप्यस्याः सुसिद्धायाः विद्याराज्ञां समादरात् ।
ध्यात्वा स्मृत्वा प्रणत्वापी प्रभजन्ते सदानिशम् ॥
ते तेअ सर्वे विशुद्धांगाः विमुक्तसर्वपातकाः ।
निःक्लेशा विमलात्मानः संप्रयायुः सुखावतीम् ॥
तत्रामितरुचेः शास्तुः शरणे समुपाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरेरन् जगद्धिते ॥
एवं ते च जगल्लोकं हितं कृत्वा प्रमोदिताः ।
बोधिसत्त्वा महाभिज्ञा भवेयुर्धर्मराजिकाः ॥
ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः ।
अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
एवं महत्तरी विद्या प्रसिद्धेयं षडक्षरी ।
यस्या अनुस्मृतिमात्रेण सर्वे नष्टा हि पापकाः ॥
य एनां जपते नित्यं तस्य यः चीवरं स्पृशेत् ।
सो ऽपि भवेन्महासत्त्वो बोधिसत्त्वो विवर्तिकः ॥
यश्चैनं पूजयेद्भक्त्या तेन सर्वे ऽर्चिता जिनाः ।
ससंघा अपि सत्कारैर्भवन्ति पूजिताः सदा ॥
एवं महत्तरी सर्वभद्रश्रीसद्गुणार्थदा ।
षदक्षरीति विख्याता सर्वत्र भुवनेष्वपि ॥
बुद्धानां जननी माता प्रज्ञापारमितापि सा ।
सांजलिं प्रणतिं धृत्वा भजत्येनां शुभंकरीम् ॥
अत एषा महाविद्या संसारधर्मसाधनी ।
मुनीन्द्रैर्बोधिसत्त्वैश्च सर्वदेवैश्च वन्दिता ॥
अस्या नामसंभारं ग्रहणमपि दुर्लभम् ।
स्मरणं श्रवणं चापि विना पुण्यैर्न लभ्यते ॥
इति तेन समादिष्टं श्रुत्वा स संप्रमोदितः ।
विष्कम्भी सांजलिः प्रार्थ्य नत्वैवं धर्मभाणकम् ॥
भदन्त सद्गुरो शास्तः शरणे ते ऽहमागतः ।
तद्भवान् मे महाविद्यां प्रददातु जगद्धिते ॥
इति संप्रार्थितस्तेन पश्यन् स धर्मभाणकः ।
स्मृत्वा लोकेश्वरं ध्यात्वा तस्थौ तद्दानचिन्तया ॥
तदाकाशान्महच्छब्दो निश्चचार मनोहरः ।
ददस्वास्मै जगल्लोकहितार्थपुण्यवांछिनः ॥
यो ऽयं धीरो महासत्त्वो बोधिसत्त्वो जिनात्मजः ।
सर्वसत्त्वहितानि विद्यामिच्छन् समागतः ॥
श्रद्धाभक्तिप्रसन्नात्मा सं बोधिज्ञानलालसः ।
तत्प्रसिद्धा महाविद्या देयास्मै दीयतामिति ॥
तन्निश्चरन् महाशब्दं श्रुत्वा स धर्मभाणकः ।
कुतो ऽयं चरते शब्द इति ध्यात्वा व्यवस्थितः ॥
भूयो ऽप्येयं महाशब्दो निश्चचार विहायसः ।
देयास्मै सुप्रसन्नाय संबोधिज्ञानसाधिने ॥
सर्वसत्त्वहितार्थाय सद्धर्मश्रीगुणार्थिने ।
बोधिसत्त्वाय धीराय श्रद्धया दीयतामिति ॥
निश्चरन्तं सुशब्दं तं श्रुत्वा स धर्मभाणकः ।
कुतो ऽयं चरते शब्द इति ध्यात्वा व्यलोकयेत् ॥
समीक्ष्य सर्वतो दिक्षु धिमान् स संविलोकयन् ।
विस्मयापन्नचित्तः खे संपश्यन् संददर्श तम् ॥
शरत्पूर्णेन्दुदीप्ताभं जटामिताभशोभितम् ।
पद्महस्तं महासत्त्वमार्वलोकितेश्वरम् ॥
दृष्ट्वा तं खे कजालीनं बोधिसत्त्वं जिनात्मजम् ।
भद्रश्रीसद्गुणाधारं संबोधिधर्मभास्करम् ॥
संपश्यन् समुत्थाय सानन्दविस्मिताशयः ।
अष्टांगैः प्रणतिं कृत्वा तस्थौ ध्यात्वा कृतांजलिः ॥
तमेवं संस्थितं धर्मभाणकं निश्चरेन्द्रियम् ।
स त्रैलोकेश्वरः पश्यन् समामन्त्र्यैवमादिशत् ॥
कुलपुत्रायमुद्योगी संबोधिज्ञानसाधने ।
अस्मै दैया महाविद्या प्रदियतां षडक्षरी ॥
इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः ।
धर्मभाणकः आलोक्य नत्वैनमब्रवीत् ॥
भगवन्नाथ धर्मेन्द्र भवदाज्ञां शिरो वहन् ॥
ददात्वस्मै महाविद्यां तद्भवान् संप्रसीदतु ॥
इति विज्ञप्य लोकेशं ततः स धर्मभाणकः ।
विष्कम्भिनं समामन्त्र्य संपश्न्नेवमब्रवीत् ॥
कुलपुत्र जगच्छास्ता दत्ताज्ञा मे प्रसीदतः ।
दद्यामहं महाविद्यां गृहाणेमां षडक्षरीम् ॥
इत्यादिश्य स धर्मिष्ठो विधिनास्मै महात्मने ।
सविशुद्धिमुदाहृत्य प्रादाद्विद्यां षडक्षरीम् ॥
प्रणवमणिकजहृद्बीजमिति षडक्षरम् ।
सिद्धमेतन्महाविद्या षदक्षरीति विश्रुता ॥
तत्प्रदत्तामिमां विद्यां विद्याधीणां षडक्षरी ।
विष्कम्भी सांजलिर्नत्वा संप्राग्रहीत्प्रमोदितः ॥
तत्क्षणे साचला साब्धिश्चचाल षड् विधा मही ।
पपात पुष्पवृष्टिश्च सर्वतो ऽप्यचरच्छुभम् ॥
तद्विद्या दत्तमात्रे ऽपि विष्कम्भी स समृद्धिमान् ।
अनेकधर्मसंभारसमाधिप्राप्तवानभूत् ।
ततः स सुप्रसन्नाअत्मा शत्रे तस्मै सदक्षिणाम् ।
चतुर्द्वीपां सप्तरत्नपरिपूर्णां ददौ मुदा ॥
तां दृष्ट्वा स महाभिज्ञो धर्मिष्ठो धर्मभाणकः ।
विष्कम्भिनं महासत्त्वं तं समालोक्यैवमब्रवीत् ॥
कुलपुत्र त्वमार्यो ऽसि नानार्यः सुगतात्मजः ।
वैनेयो बोधिसत्त्वस्तत् गृह्णीयां दक्षिणां न ते ॥
एता एकाक्षरस्यापि पर्याप्ता न तु दक्षिणा ।
प्रागेव षडक्षराणां गृह्णियां ते तथापि न ॥
तच्छ्रुत्वा स महाभिज्ञो विष्कम्भी तस्य सद्गुरोः ।
महार्घ्यमूल्यशुद्धाभं मुक्ताहारमुपाहरत् ॥
तमुपनामितं पश्यन् गृहीत्वा धर्मभाणकः ।
तस्मै प्रत्यर्पयित्वा स पश्यंस्तं चैवमब्रवीत् ॥
कुलपुत्र मुनीन्द्रस्य शाक्यमुनेर्जगद्गुरोः ।
एनं पुन उपास्थाप्य मद्वचसा वदेर्नमः ॥
इति शास्त्रा समादिष्टं निशम्य स विनोदितः ।
विष्कम्भिनं सुप्रसन्नं समालोक्यैवमब्रवीत् ॥
भवता यद्यथादिष्टं तत्तथाहं करोमि हि ।
इति विज्ञप्य तं मुक्ताहारं नत्वा समाददे ॥
ततः स सुप्रसन्नात्मा विष्कम्भी तस्य सद्गुरोः ।
पादाअब्जे सांजलिर्नत्वा संप्रस्थितो ऽचरन्मुदा ॥
सार्धं सर्वैः सदा यैस्तैः प्रतिलब्धमनेप्सितः ।
सुमंगलमहोत्साहं जेतोद्यानमुपाचरत् ॥
तत्र स दूरतः पश्यन् भगवन्तं सभाश्रितम् ।
सांजलिः प्रणतिं कृत्वा सहसा समुपासरत् ॥
तत्र समुपासृत्य शास्तुस्तस्य जगद्गुरोः ।
पादाब्जं सांजलिर्नत्वा संपश्यन् समुपाश्रयत् ।
तत्र स भगवान् पश्यन् विष्कम्भिनं समागतम् ।
सुप्रसन्नमुखाम्भोजं समालोक्यैवमादिशत् ॥
स्वागतं कुलपुत्रैहि कश्चित्ते कौशलं तनौ ।
वांछितार्थं समासाद्य समायासि प्रसीदतः ॥
इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रसादितः ।
भगवन्तं जगन्नाथं पश्यन्नेवं न्यवेदयत् ॥
भगवन् लब्धवानस्मि भवत्कृपानुभावतः ।
संबोधिसाधनीं विद्यां भद्रश्रीसद्गुणार्थदाम् ॥
अद्य मे सfअलं जन्म बुद्धपुत्रो ऽस्मि साम्प्रतम् ।
प्राक्संबोधिसन्मार्गो भद्रश्रीमान् जगद्धिते ॥
भगवन् यद्भवांच्छास्ता सर्वर्महितार्थभृत् ।
यथाशु बोधिमाप्नुयाम् तथा मां प्रोत्तुमर्हति ॥
इति तेनोदितम् श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
धन्यस्त्वं कुलपुत्रो ऽसि बोधिसत्त्वो जिनात्मजः ।
सर्वसत्त्वहिताधानी महविद्यासमाप्तवान् ॥
भूयो ऽप्यहं महाविद्यां सप्तसप्ततिकोटिभिः ।
संबुद्धैर्भाषिता या तां दास्यामि ते जगद्धिते ॥
य एतां धारणीं विद्यां सर्वपातकनाशनीम् ।
भद्रश्रीसद्गुणाधारां संबोद्धपदसाधनीम् ॥
समादाय सुचित्तेन स्मृत्वा ध्यात्वा समाहितः ।
संबोधिप्रणिधिं धृत्वा पठति सर्वदादरात् ॥
स सर्वपापनिर्मुक्तः परिशुद्धेन्द्रियः सुधीः ॥
निःक्लेपरिशुद्धात्मा बोधिसत्त्वो भवेत् कृती ॥
सर्वैरपि मुनीन्द्रैस्स समालोक्य सदानिशम् ।
दुष्टमारभ्येभ्यो ऽपि संरक्ष्यते स्वपुत्रवत् ॥
सर्वविघ्नगणानां स्यात् प्रधृष्यः स वीर्यवान् ।
महासत्त्वो महोत्साही सद्धर्मगुणसाधने ॥
संबुद्धजननी देवी प्रġयापारमितापि तम् ।
बोद्धिसत्त्वं महासत्त्वं पश्यन्ती समवत् सदा ॥
लोकेश्वरो ऽपि संपश्यन्स्तं श्रीभद्रगुणाश्रयम् ।
सर्वत्र सर्वदा रक्षेद्योजयन् बोधिसंवरे ॥
ततः स त्रिगुणाभिज्ञो बोधिचर्याव्रतं दधन् ।
सर्वं संबोधिसंभारं संपूरयन् यथाक्रमम् ॥
ततः स सुविशुद्धात्मा निःक्लेशो विमलेन्द्रियः ।
अर्हन् मारान् विनिर्जित्य त्रिविधां बोधिमाप्नुयात् ॥
ततः स त्रिजगच्छास्ता कृत्वा धर्ममयं जगत् ।
सर्वं बोधिव्रते युज्य समाप्नुयात् सुनिर्वृतिम् ॥
एवं महत्तरी विद्यां संबुद्धपदसाधनी ।
एषा त्वया सदा धार्या पठनीया जगद्धिते ॥
ये चाप्येतन्महाविद्यापाठभाषणसुस्वरम् ।
श्रुत्वानुमोदमानास्तं नत्वा भजन्ति सादरम् ॥
ते ऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः ।
त्रिरत्नभजनोद्युक्त्ता भजेयुः सुगतात्माजाः ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाद्य संबुद्धापदमाप्नुयुः ॥
एवं सर्वैर्जगन्नाथैरियं विद्यां महत्तरी ।
धृत्वा संपाठिता नित्यं देशिता च जगद्धिते ॥
इति मत्वा त्वयाप्येषा विद्या संबोधिसाधनी ।
भद्रश्रीधर्मसंभर्त्री पठितव्या जगद्धिते ॥
इत्यादिश्य मुनीन्द्रो ऽसौ भगवांस्त्रिजगद्गुरुः ।
विष्कम्भिने सुधीराय बोधिसत्त्वाय सद्धिये ॥
आअ ओं चले चूले चुन्दे स्वाहेत्येतन्नवाक्षरम् ।
धारणीं परमां विद्यां प्रादात् स्वयमुदाहरन् ॥
शास्त्रा स्वयं प्रदत्तं तां महाविद्यां नवाक्षरीम् ।
विष्कम्भी सांजलिर्नत्वा समादायापठन्मुदा ॥
धृत्वा विष्कम्भिना शास्तुः पाठेमाना गुरोः पुरः ।
संसिद्धा सा महाविद्या बभूव त्रिजगद्धिते ॥
एतद्विद्यानुभावेन विष्कम्भी स विशुद्धदृक् ।
लोकेश्वरस्य प्राद्राक्षीत् सर्वलोमविलान्यपि ॥
तानि दृष्ट्वा स विष्कम्भी सहर्षविस्मयान्वितः ।
अहो चित्रं महामाया संदृश्यते मयाधुना ॥
धर्मकाये जगद्भर्तुः सर्वाणि भुवनान्यपि ।
इति ध्यात्वा समाधाअय संतस्थे निश्चलेन्द्रियः ॥
ततः स सुप्रसन्नात्मा विष्कम्भी संप्रबोधितः ।
भगवन्तं प्रणत्वा च सांजलिरेवमब्रवीत् ॥
भगवंस्त्रिजगद्भर्तुः सर्वधर्माश्रये ऽधुना ॥
लोमविलेषु पश्यामि सर्वाणि भुवनात्मनि ॥
कति सन्ति तनौ तस्य सर्वधर्माधिपस्स्य हि ।
लोमविलेषु लोकास्तान् सर्वान् दर्शयितुमर्हति ॥
इति संप्रार्थिते ते विष्कम्भिना स सर्ववित् ।
भगवान्स्तं महासत्त्वं संपश्यन्नेवमादिशत् ॥
कुलपुत्रे विजानीहि सर्वत्रैधातुकान्यपि ।
भुवनानि जगद्भर्तुः सन्ति धर्ममयाश्रये ॥
तेनासौ त्रिजगन्नाथो सर्वधर्ममयाश्रयः ।
सर्वधर्माधिपः शास्ता सर्वलोकाधिपेश्वरः ॥
एवमसौ महेशाख्यो धर्मश्रीसद्गुणाश्रयः ।
बोधिसत्त्वो महाभिज्ञो धर्मराजो ऽभिराजते ॥
तत्तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहितः ।
नामापि समुदाहृत्य भजितुमर्हति सर्वदा ॥
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा ।
नामापि च समुच्चार्य प्रभजन्ते समाहिताः ॥
दुर्गतिं ते न गच्छन्ति यान्ति सद्गतिमेव हि ।
भद्रश्रीगुणसंपन्नाश्चरेयुः पोषधं सदा ॥
तत्पुण्यपरिशुद्धास्ते निःक्लेविमलेन्द्रियाः ।
बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते ॥
ततस्ते सद्गुणाधाराः कृत्वा सर्वसुभद्रकम् ।
त्रिरत्नस्मृतिमाधाय प्रान्ते प्रेयुः सुखावतीम् ॥
तत्र गत्वामिताभस्य शरणे समुपाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरेरन् महाव्रतम् ॥
ततः ते स्युर्महासत्त्व बोधिसत्त्वा गुणाकराः ।
सर्वं संबोधिसंभारं पूरयित्वा यथाक्रमम् ॥
सर्वसत्त्वहिताधानसंबोधिसाधनोद्यताः ।
अर्हन्तो विमलात्मानश्चतुर्ब्रह्मविहारिणः ॥
जित्वा मारगणान् दुष्टान् महाभिज्ञाः सुभद्रिकाः ।
त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते तत्सभाश्रिताः ।
सर्वे देवादयो लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
ततः सर्वनीवरणविष्कम्भी संप्रसादितः ।
भगवन्तं समालोक्य पुनरेवमभाषत ॥
भगवन्स्त्रिजगन्नाथो लोकेअश्वरो जिनात्मजः ।
नाद्यापीह समायाति कदागच्छेत्तदादिश ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं महासत्त्वं समालोक्यैवमादिशत् ॥
कुलपुत्र स लोकेशो बोधिसत्त्वो जगत्प्रभुः ।
व्याकरणं महेशाय दातुमिहाधुना चरेत् ॥
ममापि दर्शनं कर्तुं दर्शयितुमिमाः सभाः ।
सर्वांच्छुभे प्रतिष्ठाप्य प्रथममिह प्राव्रजेत् ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रबोधितः ।
विष्कम्भी स समालोक्य तस्थौ संहर्षिताशयः ॥
तस्मिन्नवसरे तत्र विहारे जेतकाश्रमे ।
नानावर्णाः सुपुण्याभा अवभास्यात्यरोचयन् ॥
तत्रोद्याने महाकल्पवृक्षाः समीहितार्थदाः ।
सर्वर्तुपुष्पवृक्षाश्च सर्वfअलद्रुमा अपि ॥
अष्टांगगुणशुद्धाम्बुपरिपूर्णाः सरोवराः ।
पद्मादिकजपुष्पाद्याः प्रादुर्भूता मनोरमाः ॥
तद्रश्मिसंपरिस्पृष्टाः सर्वलोकाः सभाश्रिताः ।
महाद्भुतसुखापन्नो बभूवुर्नन्दिताशयाः ॥
तत्सुभद्रनिमित्तानि प्रादुर्भूतानि सर्वतः ।
सरोवरद्रुमादीनि दृष्ट्वा तस्थुः सविस्मयाः ॥
तान् समीक्ष्य स विष्कम्भी सहर्षविस्मयान्वितः ।
भगवन्तं प्रणम्यैवं पओप्रच्छ सांजलिः पुनः ॥
भगवन् कुत आअयाता इमे पुण्यसुरश्मयः ।
नानावर्णाः सुभद्राभा एअतदादेष्टुमर्हती ॥
इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् ।
भगवान्स्तं सभां चापि समालोक्यैवमादिशत् ॥
यो ऽसौ त्रैधातुकाधिश आर्यावलोकितेश्वरः ।
बोधिसत्त्वो समासत्त्व इहागन्तुं समीहते ॥
तेनमास्य सुपुण्याभा समुत्सृज्य समन्ततः ।
भासयित्वा विहारे ऽत्र शोभयितुं समीरिताः ॥
इदानीं स जगन्नाथः सर्वान् सत्त्वान् भवोदधेः ।
उद्धृत्य बोधिसन्मार्गे प्रतिष्ठाप्येह प्राचरेत् ॥
तस्मिन्नवसरे तत्र विहारे संप्रभासयन् ।
समागत्य स लोकेशः प्रविवेशावलोकयन् ॥
तं समागतमालोक्य भगवन् संप्रसादितः ।
स्वागतमेहि भद्रं ते कच्चिदित्यभ्यपृच्छत ॥
इति पृष्टे मुनीन्द्रेण दृष्ट्वावलोकितेश्वरः ।
भगवन्नागतो ऽस्मीति निवेद्य समुपासरत् ॥
तत्र तस्य मुनीन्द्रस्य दिव्यसुवर्णवारिजम् ।
पुरतः समुपस्थाप्य पादाब्जे प्रणतिं व्यधात् ॥
ततः स त्रिजगन्नाथस्तस्य शास्तुर्जगद्गुरोः ।
वामपार्श्वे समाश्रित्य पश्यन्नेवं न्यवेदयन् ॥
भगवन्नमिताभेन भगवतेममम्बुजम् ।
प्रहितं भवताम् सर्वकौशल्यं चापि पृच्छति ॥
तत्सौवर्णांगमालोक्य भगवान् संप्रमोदितः ।
गृहीत्वा वामपार्श्वे संनिधायैवं समादिशत् ॥
धन्यस्त्वं कुलपुत्रासि समुद्धृत्य भवोदधेः ।
बोधिमार्गे त्वया सत्त्वाः कियन्तः संनियोजिताः ॥
इति पृष्टे मुनीन्द्रेअण लोकएश्वरो जिनात्मजः ।
भगवन्तं सभां चापि पश्यन्नेवं न्यवेदयत् ॥
भगवन्स्तत्प्रजानीते भवान् सर्वं भवालये ।
यत्सत्त्वाः समुद्धृत्य संवृतौ योजिता मया ॥
एतत्तदुक्तमाकर्ण्य भगवान् संप्रमोदितः ।
लोकेश्वरं महाभिज्ञं संपश्यन्न्वेवमादिशत् ॥
साधु साधु महासत्त्व सर्वत्रैधातुकाधिपः ।
त्वमेव सर्वसत्त्वानां त्राता नाथो हितार्थभृत् ॥
यत्त्वया सर्वलोकेषु व्यवलोक्य भवोदधेः ।
सर्वसत्त्वाः समुद्धृत्य बोद्धिमार्गे नियोजिताः ॥
तेनासि त्वं महासत्त्वः सर्वत्रैधातुकाधिपः ।
लोकेश्वरो जगद्गर्ता लोकनाथो जगत्प्रभुः ॥
सिद्धानि सर्वकार्याणि यथाभिवांछितान्यपि ।
जयतु ते सदा सर्वसत्त्वोद्धारणसंवरम् ॥
सर्वे ऽपि दुष्टमारास्ते प्रभास्पृटाः शुभाशयाः ।
शरणे समुपासृत्य भवन्तु बोधिचारिणः ॥
सर्वेषामपि सत्त्वानां त्वन्नामस्मृतिभाविनाम् ।
सर्वत्रापि सदा भद्रं भवन्तु निरुपद्रवम् ॥
इत्येवं बहुधा तस्मै लोकेशाय महात्मने ।
सिद्धाशिषं प्रदत्वासौ भगवान् मौनमादधे ॥
तस्मिन्नवसरे तत्र महेश्वरः समागतः ।
भगवन्तं समालोक्य पुरस्तात् समुपाचरत् ॥
भगवतो मुनीन्द्रक्य पुस्तात् समुपाचरत् ॥
भगवतो मुनीन्द्रस्य शरणे समुपाश्रितः ।
पादाब्जे प्रणतिं कृत्वा संपार्थ्यैवं कृतांजलिः ॥
भगवन् सर्वविच्छास्तर्भवच्छरनमाव्रजे ।
तद्भवान्मे महायानसंवरं दातुमर्हति ॥
एतत्संप्रार्थितं तेन महेश्वरेण सादरम् ।
श्रुत्वा स भगवानेनम् महेशमेवमादिशत् ॥
गच्छ त्वं कुलपुत्रेशं प्राथर्येमं जगत्प्रभुम् ।
अयं लोकेश्वरो दद्याद्व्रतं ते बोधिसाधनम् ॥
इत्यादिष्टं स मुनीन्द्रेण श्रुत्वा महेश्वरो मुदा ।
लोकेशस्य पुरो गत्वा पादाब्जे प्रणतिं व्यधात् ॥
ततो महेश्वरस्तस्य लोकेशस्य पुरः स्थितः ।
सद्गुणतथ्यसंवादैस्तुष्य चैवम् कृतांजलिः ॥
नमे ऽहं भगवंच्छास्त्रे ऽवलोकितेश्वराय ते ।
पद्मभृते महेशाय सुप्रह्लादनकराय च ॥
पद्मासनाय पद्मश्रीपरिवृतसुमूर्तये ।
संशुभपद्महस्ताय जगदाश्वासदायिने ॥
पृथिवीवरनेत्राय संशुद्धपंचचक्षुषे ।
जिनरत्नकिरीटाय चिन्तामणिविभूषिते ॥
इत्येवं स महेशानं स्थुत्वा तं श्रीगुणाकरम् ।
तत्पादाब्जे पुनर्नत्वा पश्यन्नेव समाश्रयत् ॥
तमेवं संस्थितं दृष्ट्वा आर्यावलोकितेश्वरः ।
सुप्रसन्नमुखाम्भोजं संपश्यन्नेवमादिशत् ॥
महेश किमभिप्रायं तव चित्ते ऽभिरोचते ।
तदहम् पूरयेयं हि तद्वदस्व ममाग्रतः ॥
इत्यादिष्टं जगद्भर्त्रा निशम्य स महेश्वरः ।
संहर्षितः पुनर्नत्वा संप्राथ्यैवं कृतांजलिः ॥
भगवन् सर्वविच्छास्तर्बोधिं मे वांछते मनः ।
तन्मे ददस्व सम्बोधिव्याकरणं जगद्धिते ।
इति तत्प्रार्थितं श्रुत्वा लोकेश्वरो जगत्प्रभुः ।
तमीशानं समामन्त्र्य संपश्यन्नेवमादिशत् ॥
धन्यो ऽसि त्वं महेशान यत्संबोधिमभीच्छसि ।
तदहं ते प्रदास्यामि संबोधिसाधनं व्रतम् ॥
तदादौ श्रद्धया नित्यं संबोधिनिहिताशयः ।
त्रिरत्नभजनं कृत्वा दद्या अर्थिं समीप्सितम् ॥
ततः शुद्धसमाचारः परिशुद्धत्रिमण्डलः ।
अष्टांगाचारसंपन्नं पोषधं व्रतमाचरे ॥
ततो धैर्यं समालम्ब्य चतुर्ब्रह्मविहारिकः ।
स्वपरात्मसमाधानं क्षान्तिव्रतं समाचरेः ॥
ततः पुण्यमहोत्साहं धृत्वा सद्धर्मसाधनम् ।
सर्वान् दुष्टगणाम् जित्वा संवृतिव्रतमाचरेः ॥
ततः क्लेशान् विनिर्जित्य संसारे रतिनिःस्पृहः ।
ध्यात्वादिओइश्वरसंबुद्धं ध्यानव्रतं समाचरेः ॥
ततः सद्धर्मशास्त्राब्धाववगाह्य जगद्धिते ।
प्रज्ञारत्नं समासाद्य महायानव्रतं चरेः ॥
ततः समाधिगुणापायं सर्वसत्त्वाभिबोधनम् ।
सद्धर्मसाधनं रत्नं धृत्वा कुर्याज्जगद्धितम् ॥
ततः श्रीधारणीद्यासिद्धिसाधनतत्परः ।
सम्बोधिप्रणिधिं धृत्वा संचरेथा जगद्धिते ॥
ततः श्रीगुणसंपन्नो भद्रचर्यासमाहितः ।
सर्वसत्त्वान् वशे स्थाप्य धर्मराजो बली भवेः ॥
ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः ।
अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः ॥
ततस्त्वं स्या महाभिज्ञस्तथागतो मुनीश्वरः ।
सर्वविद्यधिपः शास्ता जगन्नाथो विनायकः ॥
भस्मेश्वर इति ख्यातः सर्वत्रैधातुकेश्वरः ।
सर्वधर्माधिराजेन्द्रः संबुद्धः सुगतो भवेः ॥
लोकधातौ विवृतायां बुद्धक्षेत्रम् भवेत्तव ।
ततस्त्वं भगवान् सर्वं कृत्वा धर्ममयं जगत् ॥
संप्राप्य सौगतं कार्यं सम्बुद्धालयमाप्नुयाः ॥
इत्यादिष्टं जगद्भर्त्रा निशमुअ स महेश्वरः ।
मुदितस्तं जगन्नाथं नत्वा चैकान्तमाश्रयत् ॥
अथोमापि महादेवी लोकेशस्य पुरो गता ।
पादाब्जे प्रांजलिर्नत्वा स्तोत्रमेवं व्यधान्मुदा ॥
नमे ऽहं भगवंच्छास्त्रे ऽवलोकितेश्वराय ते ।
महेशाय जगद्भर्त्रे प्राणदाय महात्मने ॥
पृथिवीधरनेत्राय शुभपद्मधराय च ।
पद्मश्रीपरिवृताय सुचेतनकराय च ॥
धर्मधराय नाथाय दशभूमीश्वराय च ।
सुनिर्वृतिमयानसंप्रस्थिताय् सर्वदा ॥
इत्युमा सा महादेवी संतुष्टा तं जिनात्मजम् ।
लोकेश्वरं पुनर्नत्वा संप्रार्थ्यैवं कृतांजलिः ॥
भगवन् मां समालोक्य स्त्रीभावात् परिमोचय ।
कलिमलाधिवासाच्च गर्भावासाच्च मोचय ॥
क्लेशपरिग्रहोद्वीचेः समुद्धृत्य भवोदधेः ।
बोधिमार्गे प्रतिष्ठाप्य प्रापय सौगतीं गतिम् ॥
इति तया महादेव्या संप्रार्थितं निशम्य सः ।
लोकेश्वर उमादेवीं समालोक्यैवमादिशत् ॥
भगिनि त्वं महादेवि निर्वृतिं यदि वांछसि ।
त्रिरत्नभजनं कृत्वा प्रचेरेः पोषधं व्रतम् ॥
ततस्संशुद्धपुण्याप्ता परिशुद्धत्रिमण्डला ।
भद्रश्रीगुणसम्पन्ना प्रान्ते यायाः सुखावतीम् ॥
तत्रामिताभनाथस्य शरणे समुपाश्रिता ।
सदा धर्मामृतं पीत्पा समुपाश्रिता ।
सदा धर्मामृतं पीत्पा संबोधिव्रतमाप्नुयाः ॥
ततः पारमिताः सर्वाः पुरयित्वा यथाक्रमम् ।
जगद्भर्ता जगनाथो दशभूमीश्वरो भवेः ॥
ततः संबोधिमासाद्य तथागतो मुनीश्वरः ।
उमेश्वर इति ख्यातः संबुद्धो भगवान् जिनः ।
सर्वविद्याधिपः शास्ता सर्वधर्माधिपेश्वरः ॥
धर्मराजो जगन्नाथः सद्धर्मश्रीगुणाकरः ।
सर्वसत्त्वाधिराजो ऽर्हन्सर्वत्रैधातुके प्रभुः ॥
मारजेता महाभिज्ञो विनायको भविष्यसि ।
हिमवद्दक्षिणे पार्श्वे बुद्धक्षेत्रं भवेत्तव ॥
एते ऽपि तीर्थिकाः सर्वे भवेयुः श्रावकास्तव ।
इत्यादिष्टो जगच्छास्त्रा लोकेशेन निशम्य सा ।
उमा देवी प्रहर्षन्ती तत्रैकान्ते समाश्रयत् ॥
अथ स भगवान् सर्वान् सभालोकान् समीक्ष्य तम् ।
विष्कम्भिनं च संपश्यन् समामन्त्रैवमादिशत् ॥
दृष्यतां कुलपुत्रोमा देवी संबोधिकामिनी ।
संबोधौ व्याकृतानेन लोकेशेन जगद्धिते ॥
यूयमप्यस्य सच्छास्तुः शरणे समुपाश्रिताः ।
संबोधिप्रणिधिं धृत्वा भजध्वं सर्वदादरात् ॥
एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः ।
बोद्धिसत्त्वा महासत्त्वा भवेत श्रीगुणाकरा ॥
ततः सर्वत्र सत्त्वानां कृत्वा भद्रवृषोत्सवम् ।
धर्मश्रीसुखसंपन्नाः प्रान्ते प्रेध्वं सुखावतीम् ॥
तत्र गत्वामिताभस्य मुनेः शरणमाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरध्वं जगद्धिते ॥
ततः बोधिसंभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाद्य संबुद्धपदमेष्यथ ॥
एतद्भगवतादिष्टं निशम्य ते सभाश्रिताः ।
विष्कम्भिप्रमुखाः सर्वे लोकाः संमोदिताशयाः ॥
उत्पाअय समुपासृत्य लोकेशस्य जगत्प्रभोः ।
पादाब्जे प्रांजलिं कृत्वा प्रणेमिरे यथाक्रमम् ॥
सर्वेषामपि तेषाः स लोकनाथः शिरः स्पृशन् ।
बोधिसिद्धाशिषं दत्वा चेतांसि प्राभ्यनन्दयत् ॥
ततः श्रीजगन्नाथ आर्यावलोकितेश्वरः ।
भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥
भगवन् गन्तुमिच्छमि सुखावत्यां निजाश्रमे ।
तदनुज्ञां प्रदत्वा मे ऽभिनन्दयतु मानसम् ॥
इति संप्रार्थिते तेन लोकेशेन स सर्ववित् ।
दिव्यरत्नाम्बुजं तस्मै दत्वैवं च समादिशत् ॥
गच्छ त्वं कुलपुत्रेमं पद्मं शास्तुर्महामुनेः ।
उपहृत्य पुरः पृच्छः कौशल्यं मद्गिरा नमेः ॥
तथेति प्रतिविज्ञप्य लोकेश्वरो जिनात्मजः ।
भगवन्तं प्रणत्वा च सभां समीक्ष्य प्राचरत् ॥
ततः संप्रस्थितो लोकनाथः स पुण्यरश्मिभिः ।
संभासयन् जगल्लोकं सरत् सुखावतीं ययौ ॥
ततः स समुपासृत्य शास्तुरमितरोचिषः ।
पादाब्जे सांजलिर्नत्वा तत्पद्मं समुपाहरत् ॥
समीक्ष्य तं समायातं लोकेश्वरं स सर्ववित् ।
अमिताभो जगच्छास्ता सम्पश्यन्नेवमादिशत् ॥
एहि समागतो ऽसि त्वम् कुलपुत्रेह संश्रय ।
सिद्धानि सर्वकार्याणि कच्चित्तवापि कौशलम् ॥
कियन्तो हि त्वया सत्त्वा समुद्धृताः कुतः कुतः ।
दर्शितो भगवांच्छास्ता शाक्यसिंहः मुनीश्वरः ॥
इति पृष्ते ऽमिताभेन लोकेश्वरः स सांजलिः ।
शास्तुरग्रे स्ववृत्तान्तं सर्वमेवं न्यवेदयत् ॥
भगवन् सर्वलोकेषु सर्वेषु नरकेष्वपि ।
निमग्नान् प्राणिनः सर्वान् समालोक्य प्रयत्नतः ॥
समुद्धृत्य प्रसन्नांस्तान् बोधयित्वा विनोदतन् ।
बोधिमार्गे प्रतिष्ठाप्य प्राचारयन् जगद्धिते ॥
एवं तान् सकलान् सत्त्वान् कृत्वा संबोधिसाधिनः ।
जेतोद्याने विहारस्थं संबुद्धं द्रष्टुमाचरम् ॥
तत्राविष्टो ऽहमालोक्य तं मुनीन्द्रसभाश्रितम् ।
सर्वावतीं सभां तान् च सश्रावकजिनात्मजान् ॥
पुरतः समुपासृत्य शाक्यमुनेर्जद्गुरोः ।
पद्मं पुर उपस्थाप्य वन्दित्वा समुपाश्रयम् ॥
तत्र भगवतामग्रे संप्रेषितो महेश्वरः ।
स मया व्याकृतो बोधौ सोमापि व्याकृता तथा ॥
तथा सर्वे ऽपि लोकाश्च तत्सभासमुपाश्रिताः ।
विनोद्य बोधिसंभारव्रते नियोजिता मया ॥
ततस्तस्य मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः ।
भवतां दर्शनं कर्तुं समुत्सुको ऽहमाव्रजे ॥
भवतां प्रहितं तेन भगवता सवन्दनम् ।
इदं रत्मयं पद्मं कौशल्यं चापि पृच्छ्यते ॥
एत्यन्निवेदितं तेन लोकेशेन निशम्य सः ।
अमितभो जगच्छास्ता प्राभ्यनन्दत् प्रमोदितः ॥
ततः सो ऽमितप्रभस्तं लोकेश्वरं समीक्ष्य च ।
साधु धन्यो ऽसि सत्पुत्र इत्याराध्याभ्यनन्दयेत् ॥
इत्येवं स जगन्नाथो महाभिज्ञो जिनात्मजः ।
सर्वसत्त्वहिताधानं व्रतं धृत्वा समाचरेत् ॥
॥ इति सर्वसत्त्वोद्धरणसंबोधिमार्गस्थापनमहेश्वरोमादेवी-संबोधिव्याकरणोपदेशप्रकरणं समाप्तम् ॥
18. सर्व सभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणम्
अथ सर्वनीवरणविष्कम्भि स प्रमोदितः ।
भगवन्तं तमानम्य सांजलिरेवब्रवीत् ॥
भगवन्नद्य स दृष्टो लोकेश्वरो ऽधुना मया ।
तदस्मि परिशुद्धात्मा सद्धर्मप्राप्तवानपि ॥
अद्य मे जन्मसाfअल्यं संसिद्धश्च मनोरथः ।
आशा सम्पूर्णसिद्धा च सम्बोधिं प्राप्तवान् भवे ॥
भूयो ऽपि भगवन्नस्य लोकेशस्य महात्मनः ।
गुणविशेषसत्कीर्तिं श्रोतुमिच्छामि साम्प्रतम् ॥
तद्भवान् सर्वसत्त्वानां सम्बोधिव्रतचारिणाम् ।
मनः प्रोत्साहनं कर्तुं समुपादेष्टुमर्हति ॥
इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् ।
भगवांस्तं महासत्त्वं संपश्यन्नेवमादिशत् ॥
साधु शृणु महासत्त्व कुलपुत्र समाहितः ।
लोकेशगुणसत्कीर्तिं प्रवक्ष्यामि समासतः ॥
अप्रमेयसंख्येयं लोकेशस्य महात्मनः ।
पुण्यगुणप्रमाणानि कर्तुं न शक्यते मया ॥
तद्यथा सर्वलोकेषु सर्वेषामपि भूभृताम् ।
पलसंखयाप्रामाणानि कर्तुं मयापि शक्यते ॥
सपर्वता मही सर्वा कृत्वायणुरजोमया ।
तेषां संख्याप्रमाणानि कर्तुं मया हि शक्यते ॥
सर्वेषामपि चाब्धीनां सर्वासां सरितामपि ।
जलबिन्दुप्रमाणानि संख्यातुं शक्यते मया ॥
सर्वेषामपि वृक्षाणां सर्वत्रापि महीरुहाम् ।
पत्रसंख्याप्रमाणानि प्रकर्तुं शक्यते मया ॥
न त्वस्य लोकनाथस्य पुण्यसंभारमुत्तमम् ।
अप्रेयमसंख्येयं संख्यातुं शक्यते मया ॥
सर्वे सत्त्वाश्च संबुद्धान् सर्वानपि ससांघिकान् ।
सर्वोपकरणैर्नित्यं संभाजेरन् समादरम् ॥
यावत्तेषां महत्पुण्यं बोधिश्रीगुणसाधनम् ।
ततो ऽप्यधिकमौदार्यं लोकेशभजनोद्भवम् ॥
यदसौ त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिमान् ।
सर्वसमाधिसपन्नः प्रकरोति जगद्धिते ॥
ईदृशस्त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिकः ।
सर्वसमाधिसम्पन्नस्त्रैलोक्ये नास्ति कश्चन ॥
तद्यथाहं पुराद्राक्षमस्य त्रैधातुकप्रभोः ।
समाधिगुणमाहात्म्यं सर्वजिनात्मजाधिकम् ॥
तद्यथाभूत्पुरा शास्ता क्रकुच्छन्दस्तथागतः ।
सर्वविद्याधिपो धर्मराजो ऽर्हत् सुगतो जिनः ।
तदाहं दानशूराख्यो बोधिसत्त्वो हितार्थभृत् ॥
तस्य शास्तुर्मुनीन्द्रस्य सद्धर्मशासनारतः ॥
मूल पाठ: Guṇakāraṇḍavyūhasūtra · Edition: Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0