भाषा

ENहिગુ
ग्रंथ पाठ

गूढार्थदीपिका · अध्याय 4

4.1

प्रोषितप्रमदया इदं वच उद्यते । इति षष्ठेना[=]
4 न्वय॥ ॥ इदं किं - हे कुमुदसमानदन्ति इति द्वितीयात् (?) स[=]
5 म्बद्ध्यते ॥ सलिलैर् जलै॥, क्षितौ पृथिव्यां, रजो धूलि॥,
6 निहतं शान्तीकृतं ॥ तृतीयान्तकर्तृत्वात् प्रथमान्तकर्म प्रति[=]
7 पादितं [व्ग्ल्. स्व् 150,1], कृदन्तक्रिया । क्षितौ विषयार्थे सप्तमी । रजो रजो[=]
8 गुणे धूल्<ओ>[[औ]] परागे स्त्रीरजस्य् अपि इति विश्व॥ ॥ किं कृत्वा शान्ती[=]
9 कृतं - खम् आकाशम्, उपेत्य प्राप्य । खम् आकाशम् उदाहृतम् इत्य् ए[=]
10 काक्षर्यां [?] ॥ मेघैर् आकाशं प्राप्यते यदा, जलं तदा रज॥[=]
11 शान्त्यै समर्थं भवति । अत॥ खम् उपेत्येत्य् उक्तं ॥ यद् वा - कृति योग॥
12 क्वचित् कर्मणि पञ्चमीति भाष्यकारवचनात् पञ्चम्यर्थे
13 द्वितीया. कीदृशं खं - नीरं दद्<अ>[[आ]]तीति नीरदास्, तैर् निचित[=]
14 म् <ऽ>आच्छादितं । कीदृशैर् नीरदै॥ । प्रियेन हीना या स्त्री, तस्या
15 हृदयम् एवा<ऽ>वनी मही, तां रद<<य>>न्ति पीडयन्ति - तै॥ । रद
16 विलेखने [स्व् 229,8] । अपीति निश्चयेन । रविश् च चन्द्रश् च, तौ रवि[=]
17 चन्द्रौ नोपलक्षितौ । अदर्शनं गतौ इत्य् अर्थ॥ । हे प्रिये. ई[=]
18 दृशे समये स मां प्रति कथं न समागच्छतीति भाव॥ ॥
5.
1 अस्य श्लोकस्य त्रयोदशपदानि ज्ञेयानि । काव्यरूपान् न
2 छेदितानि । एषां रूपा वा । मोहनमन्त्रश् छन्द॥ । तल्लक्षणम् ।
3 ससजा गुरुर् आदिके [ऽ]ग्रिमे । सभरा मोहनमन्त्रकं ल<घ्>[ग्]ऊ ॥
4 अस्यैव वैतालीयम् अपि वदन्ति ॥~

4.2

~॥ हंसा नद[=]
5 न्मेघभयाद् द्रवन्ति निशामुखान्य् अद्य न चन्द्रवन्ति ॥ नवा[=]
6 म्बुमत्ता॥ शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति

मूल पाठ: Gūḍhārthadīpikā commentary on Ghaṭakharparakāvya · Edition: transcription and critical edition from Ms. Cod. Sanskrit 23 in the Austrian National Library Vienna. [Uncorrected preprint of the edition published by W. Slaje in 1993] · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc