गोरक्षशतक (अन्य संस्करण) · श्लोक 62-81
क्षय-कुष्ठ-गुदावर्त गुल्माजीर्ण-पुरोगमाः
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥
कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम्
गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी ॥
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ॥
पीड्यते न स रोगेण लिप्यते न च कर्मणा
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥
चित्तं चरति खे यस्माज् जिह्वा चरति खे गता
तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता ॥
बिन्दु-मूलं शरीरं तु शिरास् तत्र प्रतिष्ठिताः
भावयन्ति शरीरं या आपाद-तल-मस्तकम् ॥
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः
न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ॥
यावद् बिन्दुः स्थितो देहे तावत् काल-भयं कुतः
यावद् बद्धा नभो-मुद्रा तावद् बिन्दुर् न गच्छति ॥
चलितोऽपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम्
व्रजत्य् ऊर्ध्वं हृतः शक्त्या निरुद्धो योनि-मुद्रया ॥
स पुनर् द्विविधो बिन्दुः पण्डुरो लोहितस् तथा
पाण्डुरं शुक्रम् इत्य् आहुर् लोहितं तु महाराजः ॥
सिन्दूर-द्रव-सङ्काशं रवि-स्थाने स्थितं रजः
शशि-स्थाने स्थितो बिन्दुस् तयोर् ऐक्यं सुदुर्लभम् ॥
बिन्दुः शिवो रजः शक्तिर् बिन्दुम् इन्दू रजो रविः
उभयोः सङ्गमाद् एव प्राप्यते परमं पदम् ॥
वायुना शक्ति-चारेण प्रेरितं तु महा-रजः
बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस् तदा ॥
शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम्
तयोः समरसैकत्वं योजानाति स योगवित् ॥
उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः
उड्डीयानं तद् एव स्यात् तव बन्धोऽभिधीयते ॥
उदरात् पश्चिमे भागे ह्य् अधो नाभेर् निगद्यते
उड्डीयनस्य बन्धोऽयं तत्र बन्धो विधीयते ॥
बध्नाति हि सिराजालम् अधो-गामि शिरो-जलम्
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ॥
जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे
पीयूषं न पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम्
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोऽभिधीयते ॥
मूल पाठ: Gorakṣaśataka · Edition: the version of the text found in Briggs' Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0