गोरक्षशतक (अन्य संस्करण) · श्लोक 82-101
अपान-प्राणयोर् ऐक्यात् क्षयान् मूत्र-पुरीषयोः
युवा भवति वृद्धोऽपि सततं मूल-बन्धनात् ॥
पद्मासनं समारुह्य सम-काय-शिरो-धरः
नासाग्र-दृष्टिर् एकान्ते जपेद् ओङ्कारम् अव्ययम् ॥
भूर् भुवः स्वर् इमे लोकाः सोम-सूर्याग्नि-देवताः
यस्या मात्रासु तिष्ठन्ति तत् परं ज्योतिर् ओम् इति ॥
त्रयः कालास् त्रयो वेदास् त्रयो लोकास् त्रयः स्वेराः
त्रयो देवाः स्थिता यत्र तत् परं ज्योतिर् ओम् इति ॥
क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी
त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिर् ओम् इति ॥
आकाराश् च तथो-कारो म-कारो बिन्दु-संज्ञकः
तिस्रो मात्राः स्थिता यत्र तत् परं ज्योतिर् ओम् इति ॥
वचसा तज् जयेद् बीजं वपुषा तत् समभ्यसेत्
मनसा तत् स्मरेन् नित्यं तत् परं ज्योतिर् ओम् इति ॥
शुचिर् वाप्य् अशुचिर् वापि यो जपेत् प्रणवं सदा
लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥
चले वाते चलो बिन्दुर् निश्चले निश्चलो भवेत्
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ॥
यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते
मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत् ॥
यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम्
यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् काल-भयं कुतः ॥
अतः काल-भयाद् ब्रह्मा प्राणायाम-परायणः
योगिनो मुनयश् चैव ततो वायुं निरोधयेत् ॥
षट्-त्रिंशद्-अङ्गुलो हंसः प्रयाणं कुरुते बहिः
वाम-दक्षिण-मार्गेण ततः प्राणोऽभिधीयते ॥
शुद्धिम् एति यदा सर्वं नाडी-चक्रं मलाकुलम्
तदैव जायते योगी प्राण-संग्रहणे क्षमः ॥
बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥
अमृतं दधि-सङ्काशं गो-क्षीर-रजतोपमम्
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ॥
दक्षिणो श्वासम् आकृष्य पूरयेद् उदरं शनैः
कुम्भयित्वा विधानेन पुरश् चन्द्रेण रेचयेत् ॥
प्रज्वलज्-ज्वलन-ज्वाला पुञ्जम् आदित्य-मण्डलम्
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ॥
प्राणं चोदिडया पिबेन् परिमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया
सूर्य-चन्द्रमसोर् अनेन विधिना बिम्ब-द्वयं ध्यायतः शुद्धा नाडि-गणा भवन्ति यमिनो मास-त्रयाद् ऊर्ध्वतः ॥
यथेष्ठं धारणं वायोर् अनलस्य प्रदीपनम्
नादाभिव्यक्तिर् आरोग्यं जायते नाडि-शोधनात् ॥
मूल पाठ: Gorakṣaśataka · Edition: the version of the text found in Briggs' Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304). · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0