भाषा

ENहिગુ
ग्रंथ पाठ

गोपथब्राह्मण · अध्याय 9

9.1

(ग्ब्र्_2,3.23चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः ॥
(ग्ब्र्_2,4.1अ) ओं <कया नश् चित्र आ भुवत् [ऋव् 4.31.1, श्स् 20.124.1]> <कया त्वं न ऊत्या [ऋव् 8.93.19]>_इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
(ग्ब्र्_2,4.1ब्) <कस् तम् इन्द्र त्वावसुम् [ऋव् 7.32.14]> इति बार्हतः प्रगाथस्
(ग्ब्र्_2,4.1च्) तस्योपरिष्टाद् ब्राह्मणम्_
(ग्ब्र्_2,4.1द्) <सद्यो ह जातो वृषभः कनीनः [ऋव् 3.48.1]>_इत्य् उक्थमुखम्
(ग्ब्र्_2,4.1ए) <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋव् 4.19.1]>_इति पर्यासः_
(ग्ब्र्_2,4.1f) <उशन्नु षु णः सुमना उपाके [ऋव् 4.20.4]>_इति यजति_
(ग्ब्र्_2,4.1ग्) एताम् एव तद् देवतां यथाभागं प्रीणाति
(ग्ब्र्_2,4.1ह्) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,4.1इ) प्रत्य् एवाभिमृशन्ते [एद्. सेएम्स् तो गिवे एवाभिमृशन्त]
(ग्ब्र्_2,4.1ज्) नाप्याययन्ति
(ग्ब्र्_2,4.1क्) न ह्य् अनाराशंसाः सीदन्ति

9.2

(ग्ब्र्_2,4.2अ) <तं वो दस्मम् ऋतीषहं [ऋव् 8.88.1, श्स् 20.9.1]> <तत् त्वा यामि सुवीर्यम् [ऋव् 8.3.9, श्स् 20.9.4]> इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ_
(ग्ब्र्_2,4.2ब्) <उद् उ त्ये मधुमत्तमा गिरः [ऋव् 8.3.15, श्स् 20.59.1]>_इति बार्हतः प्रगाथः
(ग्ब्र्_2,4.2च्) पशवो वै प्रगाथः
(ग्ब्र्_2,4.2द्) पशवः स्वरः
(ग्ब्र्_2,4.2ए) पशूनाम् आप्त्यै_
(ग्ब्र्_2,4.2f) अतो मध्यं वै सर्वेषां छन्दसां बृहती
(ग्ब्र्_2,4.2ग्) मध्यं माध्यंदिनं सवनानाम्_
(ग्ब्र्_2,4.2ह्) तन् मध्येनैव मध्यं समर्धयति_
(ग्ब्र्_2,4.2इ) <इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋव् 3.34.1, श्स् 20.11.1]>_इत्य् उक्थमुखम्
(ग्ब्र्_2,4.2ज्) <उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋव् 7.23.1, श्स् 20.12.1]>_इति पर्यासः_
(ग्ब्र्_2,4.2क्) <एवेद् इन्द्रं वृषणं वज्रबाहुम् [ऋव् 7.23.6अ, श्स् 20.12.6अ]> इति परिदधाति
(ग्ब्र्_2,4.2ल्) <वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः [ऋव् 7.26.6ब्, श्स् 20.12.6ब्]>_इति_
(ग्ब्र्_2,4.2म्) अन्नं वा अर्कः_
(ग्ब्र्_2,4.2न्) अन्नाद्यम् एवास्मै तत् परिदधाति
(ग्ब्र्_2,4.2ओ) <स न स्तुतो वीरवद् धातु गोमत् [ऋव् 7.26.6च्, श्स् 20.12.6च्]>_इति
(ग्ब्र्_2,4.2प्) अन्नं वा अर्कः_इति
(ग्ब्र्_2,4.2q) प्रजां चैवास्मै तत् पशूंश् चाशास्ते
(ग्ब्र्_2,4.2र्) <यूयं पात स्वस्तिभिः सदा नः [ऋव् 7.26.6द्, श्स् 20.12.6द्]>_इति स्वस्तिमती रूपसमृद्धा
(ग्ब्र्_2,4.2स्) एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं यत् कर्म क्रियमाणम् ऋग्यजुर्वाभिवदति
(ग्ब्र्_2,4.2त्) स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति_
(ग्ब्र्_2,4.2उ) <ऋजीषी वज्री वृषभस् तुराषाट् [ऋव् 5.40.4, श्स् 20.12.7]>_इति यजति_ [एद्. ऋजिषी, चोर्रेच्तेद् प्. 302]
(ग्ब्र्_2,4.2व्) एताम् एव तद् देवतां यथाभागं प्रीणाति
(ग्ब्र्_2,4.2w) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,4.2x) प्रत्य् एवाभिमृशन्ते
(ग्ब्र्_2,4.2य्) नाप्याययन्ति
(ग्ब्र्_2,4.2z) न ह्य् अनाराशंसाः सीदन्ति

9.3

(ग्ब्र्_2,4.3अ) <तरोभिर् वो विदद्वसुम् [ऋव् 8.66.1]>_<तरणिर् इत् सिषासति [ऋव् 7.32.20]>_इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ_
(ग्ब्र्_2,4.3ब्) <उद् इन् न्व् अस्य रिच्यते [ऋव् 7.32.12, श्स् 20.59.3]>_इति बार्हतः प्रगाथस्
(ग्ब्र्_2,4.3च्) तस्योक्तं ब्राह्मणम्_
(ग्ब्र्_2,4.3द्) <भूय इद् वावृधे वीर्याय [ऋव् 6.30.1]>_इत्य् उक्थमुखम्
(ग्ब्र्_2,4.3ए) <इमाम् ऊ षु प्रभृतिं सातये धाः [ऋव् 3.36.1]>_इति पर्यासस्
(ग्ब्र्_2,4.3f) तस्य दशमीम् उद्धरति
(ग्ब्र्_2,4.3ग्) घोरस्य वा आङ्गिरसस्यैतद् आर्षं नेद् यज्ञं निर्दहेच् छस्यमानम्_
(ग्ब्र्_2,4.3ह्) <पिबा वर्धस्व तव घा सुतासः [ऋव् 3.36.3]>_इति यजति_
(ग्ब्र्_2,4.3इ) एताम् एव तद् देवतां यथाभागं प्रीणाति
(ग्ब्र्_2,4.3ज्) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,4.3क्) प्रत्य् एवाभिमृशन्ते
(ग्ब्र्_2,4.3ल्) नाप्याययन्ति
(ग्ब्र्_2,4.3म्) न ह्य् अनाराशंसाः सीदन्ति

9.4

(ग्ब्र्_2,4.4अ) अथाध्वर्यो शंसावोम् इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते
(ग्ब्र्_2,4.4ब्) पञ्चपदा पङ्क्तिः
(ग्ब्र्_2,4.4च्) पाङ्क्तो यज्ञः
(ग्ब्र्_2,4.4द्) सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति_
(ग्ब्र्_2,4.4ए) ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम्_
(ग्ब्र्_2,4.4f) सर्वे समवतीभिः परिदधति
(ग्ब्र्_2,4.4ग्) तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्कः_
(ग्ब्र्_2,4.4ह्) अन्तेनैवान्तं परिदधति
(ग्ब्र्_2,4.4इ) सर्वे मद्वतीभिर् यजन्ति
(ग्ब्र्_2,4.4ज्) तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
(ग्ब्र्_2,4.4क्) यद् यज्ञे ऽभिरूपं तत् समृद्धम्_
(ग्ब्र्_2,4.4ल्) सर्वे ऽनुवषट्कुर्वन्ति
(ग्ब्र्_2,4.4म्) स्विष्टकृत्वानुवषट्कारः_
(ग्ब्र्_2,4.4न्) नेत् स्विकृत अन्तरयामेति_
(ग्ब्र्_2,4.4ओ) अन्तरिक्षलोको माध्यंदिनं सवनम्_
(ग्ब्र्_2,4.4प्) तस्य पञ्च दिशः
(ग्ब्र्_2,4.4q) पञ्चोक्थानि माध्यंदिनस्य सवनस्य
(ग्ब्र्_2,4.4र्) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति

9.5

(ग्ब्र्_2,4.5अ) अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄन् एव तेन प्रीणाति_
(ग्ब्र्_2,4.5ब्) उपांशु पात्नीवतस्याग्नीध्रो यजति
(ग्ब्र्_2,4.5च्) रेतो वै पात्नीवतः_
(ग्ब्र्_2,4.5द्) उपांश्व् इव वै रेतः सिच्यते
(ग्ब्र्_2,4.5ए) तन् नानुवषट्करोति नेद् रेतः सिक्तं संस्थापयानीति_
(ग्ब्र्_2,4.5f) असंस्थितम् इव वै रेतः सिक्तं समृद्धम्_
(ग्ब्र्_2,4.5ग्) संस्था वा एषा यद् अनुवषट्कारस्
(ग्ब्र्_2,4.5ह्) तस्मान् नानुवषट्करोति
(ग्ब्र्_2,4.5इ) नेष्टुर् उपस्थे धिष्ण्यान्ते वासीनो भक्षयति
(ग्ब्र्_2,4.5ज्) पत्नीभाजनं वै नेष्टा_
(ग्ब्र्_2,4.5क्) अग्नीत् पत्नीषु रेतो धत्ते
(ग्ब्र्_2,4.5ल्) रेतसः सिक्ताः प्रजाः प्रजायन्ते
(ग्ब्र्_2,4.5म्) प्रजानां प्रजननाय
(ग्ब्र्_2,4.5न्) प्रजावान् प्रजनयिष्णुर् भवति
(ग्ब्र्_2,4.5ओ) प्रजात्यै
(ग्ब्र्_2,4.5प्) प्रजायते प्रजया पशुभिर् य एवं वेद

9.6

(ग्ब्र्_2,4.6अ) अथ शाकलाञ् जुह्वति
(ग्ब्र्_2,4.6ब्) तद् यथाहिर् जीर्णायास् त्वचो निर्मुच्येतेषीका वा मुञ्जाद् एवं हैवैते सर्वस्मात् पाप्मनः संप्रमुच्यन्ते ये शाकलाञ् जुह्वति
(ग्ब्र्_2,4.6च्) द्रोणकलशे धाना भवन्ति
(ग्ब्र्_2,4.6द्) तासां हस्तैर् आदधति
(ग्ब्र्_2,4.6ए) पशवो वै धानास्
(ग्ब्र्_2,4.6f) ता आहवनीयस्य भस्मान्ते निवपन्ति
(ग्ब्र्_2,4.6ग्) योनिर् वै पशूनाम् आहपनीयः
(ग्ब्र्_2,4.6ह्) स्व एवैनांस् तद् गोष्ठे निरपक्रमे निदधति_
(ग्ब्र्_2,4.6इ) अथ सव्यावृतो ऽप्सु सोमान् आप्याययन्ति
(ग्ब्र्_2,4.6ज्) तान् हान्तर्वेद्यां सादयन्ति
(ग्ब्र्_2,4.6क्) तद् धि सोमस्यायतनम्_
(ग्ब्र्_2,4.6ल्) चात्वालाद् अपरेणाध्वर्युश् चमसान् अद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति
(ग्ब्र्_2,4.6म्) यदा वा आपश् चौषधयश् च संगच्छन्ते ऽथ कृत्स्नः सोमः संपद्यते
(ग्ब्र्_2,4.6न्) ता वैष्णव्य् अर्चा निनयन्ति
(ग्ब्र्_2,4.6ओ) यज्ञो वै विष्णुः_
(ग्ब्र्_2,4.6प्) यज्ञ एवैनम् अन्ततः प्रतिष्ठापयति_
(ग्ब्र्_2,4.6q) अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद् भक्षेण दैवं भक्षम् अन्तर्दधति

9.7

(ग्ब्र्_2,4.7अ) पूतिर् वा एषो ऽमुष्मिंल् लोके ऽध्वर्युं च यजमानं चाभिवहति
(ग्ब्र्_2,4.7ब्) तद् यद् एनं दध्नानभिहुत्यावभृथम् उपहरेयुर् यथा कुणपं वात्य् एवम् एवैनं तत् करोति_
(ग्ब्र्_2,4.7च्) अथ यद् एनं दध्नाभिहुत्यावभृथम् उपहरन्ति सर्वम् एवैनं सयोनिं संतनुते
(ग्ब्र्_2,4.7द्) समृद्धिं संभरन्ति_
(ग्ब्र्_2,4.7ए) <अभूद् देवः सविता वन्द्यो नु नः [ऋव् 4.54.1]>_इति जुहोति
(ग्ब्र्_2,4.7f) सर्वम् एवैनं सपर्वाणं संभरति [एद्. अवैनं]
(ग्ब्र्_2,4.7ग्) तिसृभिस्
(ग्ब्र्_2,4.7ह्) त्रिवृद् धि यज्ञः_
(ग्ब्र्_2,4.7इ) द्रप्सवतीभिर् अभिजुहोति
(ग्ब्र्_2,4.7ज्) सर्वम् एवैनं सर्वाङ्गं संभरति
(ग्ब्र्_2,4.7क्) सौमीभिर् अभिजुहोति
(ग्ब्र्_2,4.7ल्) सर्वम् एवैनं सात्मानं संभरति
(ग्ब्र्_2,4.7म्) पञ्चभिर् अभिजुहोति
(ग्ब्र्_2,4.7न्) पाङ्क्तो यज्ञः_
(ग्ब्र्_2,4.7ओ) यज्ञम् एवावरुन्द्धे
(ग्ब्र्_2,4.7प्) पाङ्क्तः पुरुषः
(ग्ब्र्_2,4.7q) पुरुषम् एवाप्नोति
(ग्ब्र्_2,4.7र्) पाङ्क्ताः पशवः
(ग्ब्र्_2,4.7स्) पशुष्व् एव प्रतितिष्ठति
(ग्ब्र्_2,4.7त्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद

9.8

(ग्ब्र्_2,4.8अ) अग्निर् वाव यम इयं यमी
(ग्ब्र्_2,4.8ब्) कुसीदं वा एतद् यमस्य यजमान आदत्ते यद् ओषधीभिर् वेदिं स्तृणाति
(ग्ब्र्_2,4.8च्) तां यद् अनुपोष्य प्रयायाद् यातयेरन्न् एनम् अमुष्मिंल् लोके
(ग्ब्र्_2,4.8द्) यमे यत् कुसीदम् <अपमित्यम् अप्रतीत्तम् [प्स् 16.49.10, श्स् 6.117.1, वैत्स् 24.15]> इति वेदिम् उपोषति_
(ग्ब्र्_2,4.8ए) इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकम् एति
(ग्ब्र्_2,4.8f) <विश्वलोप विश्वदावस्य त्वासञ् जुहोमि [त्स् 3.3.8.2, वैत्स् 24.16]>_इत्य् आह होताद्वा
(ग्ब्र्_2,4.8ग्) यजमानस्यापराभावाय
(ग्ब्र्_2,4.8ह्) यद् उ मिश्रम् इव चरन्त्य् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात्_
(ग्ब्र्_2,4.8इ) एष ह वा अग्निर् वैश्वानरो यत् प्रदाव्यः
(ग्ब्र्_2,4.8ज्) स्वस्याम् एवैनं तद् योन्यां सादयति

9.9

(ग्ब्र्_2,4.9अ) अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षम् उपोषेत्_
(ग्ब्र्_2,4.9ब्) यदि दहति पुण्यसमं भवति
(ग्ब्र्_2,4.9च्) यति न दहति पापसमं भवति_
(ग्ब्र्_2,4.9द्) एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रम् उपयन्ति
(ग्ब्र्_2,4.9ए) यो ह वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारम् एव विद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते_
(ग्ब्र्_2,4.9f) अग्निर् वा उपद्रष्टा
(ग्ब्र्_2,4.9ग्) वायुर् वा उपश्रोता_
(ग्ब्र्_2,4.9ह्) आदित्यो वा अनुख्याता
(ग्ब्र्_2,4.9इ) तान् य एवंविद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते_
(ग्ब्र्_2,4.9ज्) <अयं नो नभसस् पतिः [प्स् 19.16.17, श्स् 6.79.1, च्f. त्स् 3.3.8.5]>_इत्य् आह_
(ग्ब्र्_2,4.9क्) अग्निर् वै नभसस् पतिः_
(ग्ब्र्_2,4.9ल्) अग्निम् एव तद् आहैतं नो गोपायेति
(ग्ब्र्_2,4.9म्) <स त्वं नो नभसस् पतिः [च्f. त्स् 3.3.8.6]>_इत्य् आह
(ग्ब्र्_2,4.9न्) वायुर् वै नभसस् पतिः_
(ग्ब्र्_2,4.9ओ) वायुम् एव तद् आहैतं नो गोपायेति
(ग्ब्र्_2,4.9प्) <देव संस्फान [त्स् 3.3.8.6]>_इत्य् आह_
(ग्ब्र्_2,4.9q) आदित्यो वै देवः संस्फानः_
(ग्ब्र्_2,4.9र्) आदित्यम् एव तद् आहैतं नो गोपायेति_
(ग्ब्र्_2,4.9स्) <अयं ते योनिः [प्स् 3.34.1, श्स् 3.20.1]>_इत्य् अरण्योर् अग्निं समारोपयेत्
(ग्ब्र्_2,4.9त्) तद् आहुर् यद् अरण्योः समारूढो नश्येद् उद् अस्याग्निः सीदेत्
(ग्ब्र्_2,4.9उ) पुनराधेयः स्याद् इति
(ग्ब्र्_2,4.9व्) या ते अग्ने यज्ञिया तनूस् तया मे ह्य् आरोह तया मे ह्य् आविश_
(ग्ब्र्_2,4.9w) अयं ते योनिर् इत्य् आत्मन्न् अग्नीन् समारोपयेत्_
(ग्ब्र्_2,4.9x) एष ह वा अग्नेर् योनिः
(ग्ब्र्_2,4.9य्) स्वस्याम् एवैनं तद् योन्यां सादयति

9.10

(ग्ब्र्_2,4.10अ) यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकताम् अश्नुते य एवं वेद
(ग्ब्र्_2,4.10ब्) यो ह वा एष तपत्य् एषो ऽग्निष्टोम एष साह्नस्
(ग्ब्र्_2,4.10च्) तं सहैवाह्ना संस्थापयेयुः
(ग्ब्र्_2,4.10द्) साह्नो वै नामैषः_
(ग्ब्र्_2,4.10ए) तेनासंत्वरमाणाश् चरेयुः_
(ग्ब्र्_2,4.10f) यद् ध वा इदं पूर्वयोः सवनयोर् असंत्वरमाणाश् चरन्ति तस्माद् धेदं प्राच्यो ग्रामता बहुलाविष्टाः_
(ग्ब्र्_2,4.10ग्) अथ यद् धेदं तृतीयसवने संत्वरमाणाश् चरन्ति तस्माद् धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति
(ग्ब्र्_2,4.10ह्) यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने_
(ग्ब्र्_2,4.10इ) एवम् उ ह यजमानो ऽप्रमायुको भवति
(ग्ब्र्_2,4.10ज्) तेनासंत्वरमाणाश् चरेयुः_
(ग्ब्र्_2,4.10क्) यदा वा एष प्रातर् उदेत्य् अथ मन्द्रतमं तपति
(ग्ब्र्_2,4.10ल्) तस्मान् मन्द्रतमया वाचा प्रातःसवने शंसेत्_
(ग्ब्र्_2,4.10म्) अथ यदाभ्येत्य् अथ बलीयस् तपति
(ग्ब्र्_2,4.10न्) तस्माद् बलीयस्या वाचा माध्यंदिने सवने शंसेत्_
(ग्ब्र्_2,4.10ओ) अथो यदाभितराम् एत्य् अथो बलिष्ठतमं तपति
(ग्ब्र्_2,4.10प्) तस्माद् बलिष्ठतमया वाचा तृतीयसवने शंसेत्_
(ग्ब्र्_2,4.10q) एवं शंसेद् यदि वाच ईशीत
(ग्ब्र्_2,4.10र्) वाग् घि शस्त्रम्_
(ग्ब्र्_2,4.10स्) यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत_
(ग्ब्र्_2,4.10त्) एतत् सुशस्ततरम् इव भवति
(ग्ब्र्_2,4.10उ) स वा एष न कदा चनास्तम् अयति नोदयति
(ग्ब्र्_2,4.10व्) तद् यद् एनं पश्चाद् अस्तम् अयतीति मन्यन्ते ऽह्न एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते_
(ग्ब्र्_2,4.10w) अहर् एवाधस्तात् कृणुते रात्रीं परस्तात्
(ग्ब्र्_2,4.10x) स वा एष न कदा चनास्तम् अयति नोदयति
(ग्ब्र्_2,4.10य्) तद् यद् एनं पुरस्ताद् उदयतीति मन्यते रात्रेर् एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते
(ग्ब्र्_2,4.10z) रात्रिम् एवाधस्तात् कृणुते ऽहः परस्तात्
(ग्ब्र्_2,4.10अअ) स वा एष न कदा चनास्तम् अयति नोदयति
(ग्ब्र्_2,4.10ब्ब्) न ह वै कदा चन निम्रुचति_
(ग्ब्र्_2,4.10च्च्) एतस्य ह सायुज्यं सलोकताम् अश्नुते य एवं वेद

9.11

(ग्ब्र्_2,4.11अ) अथात एकाहस्यैव तृतीयसवनम्_
(ग्ब्र्_2,4.11ब्) देवासुरा वा एषु लोकेषु समयतन्त
(ग्ब्र्_2,4.11च्) ते देवा असुरान् अभ्यजयम्_
(ग्ब्र्_2,4.11द्) ते जिता अहोरात्रयोः संधिं समभ्यवागुः
(ग्ब्र्_2,4.11ए) स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः
(ग्ब्र्_2,4.11f) कश् चाहं चेमान् असुरान् अभ्युत्थास्यामहा इति_
(ग्ब्र्_2,4.11ग्) अहं चेत्य् अग्निर् अब्रवीत्_
(ग्ब्र्_2,4.11ह्) अहं चेति वरुणः_
(ग्ब्र्_2,4.11इ) अहं चेति बृहस्पतिः_
(ग्ब्र्_2,4.11ज्) अहं चेति विष्णुस्
(ग्ब्र्_2,4.11क्) तान् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुः_
(ग्ब्र्_2,4.11ल्) यद् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुस् तस्माद् उत्था
(ग्ब्र्_2,4.11म्) अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद
(ग्ब्र्_2,4.11न्) सो ऽग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय
(ग्ब्र्_2,4.11ओ) यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाअय तस्माद् आग्नेयीभिर् उक्थानि प्रणयन्ति
(ग्ब्र्_2,4.11प्) यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय तस्मात् साकम् अश्वम्_
(ग्ब्र्_2,4.11q) यत् पञ्च देवता अभ्युत्तस्थुस् तस्मात् पञ्च देवता उक्थे शस्यन्ते
(ग्ब्र्_2,4.11र्) या वाक् सो ऽग्निः_
(ग्ब्र्_2,4.11स्) यः प्राणः स वरुणः_
(ग्ब्र्_2,4.11त्) यन् मनः स इन्द्रः_
(ग्ब्र्_2,4.11उ) यच् चक्षुः स बृहस्पतिः_
(ग्ब्र्_2,4.11व्) यच् छ्रोत्रं स विष्णुः_
(ग्ब्र्_2,4.11w) एते ह वा एतान् पञ्चभिः प्राणैः समीर्योदस्थापयन्_ [एद्. समीर्युदस्थापयन्, चोर्र्. पत्यल्]
(ग्ब्र्_2,4.11x) तस्माद् उ एवैताः पञ्च देवता उक्थे शस्यन्ते

9.12

(ग्ब्र्_2,4.12अ) प्रजापतिर् ह्य् एतेभ्यः पञ्चभ्यः प्राणेभ्यो ऽन्यान् देवान् ससृजे
(ग्ब्र्_2,4.12ब्) यद् उ चेदं किं च पाङ्क्तम्_
(ग्ब्र्_2,4.12च्) तत् सृष्ट्वा व्याज्वलयत्
(ग्ब्र्_2,4.12द्) ते होचुर् देवा म्लानो ऽयं पिता मयोभूः [एद्. पितामयो ऽभूः, चोर्र्. पत्यल्]
(ग्ब्र्_2,4.12ए) पुनर् इमं समीर्योत्थापयामेति
(ग्ब्र्_2,4.12f) स ह सत्त्वम् आख्यायाभ्युपतिष्ठते
(ग्ब्र्_2,4.12ग्) यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते
(ग्ब्र्_2,4.12ह्) यो वै प्रजापतिः स यज्ञः
(ग्ब्र्_2,4.12इ) स एतैर् एव पञ्चभिः प्राणैः समीर्योत्थापितः_
(ग्ब्र्_2,4.12ज्) ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन्_
(ग्ब्र्_2,4.12क्) ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते

9.13

(ग्ब्र्_2,4.13अ) तद् आहुर् यद् द्वयोर् देवतयो स्तुवत इन्द्राग्न्योर् इत्य् अथ कस्माद् भूयिष्ठा देवता उक्थे शस्यन्त इति_ [एद्. भूयिष्ठो, चोर्र्. पत्यल्]
(ग्ब्र्_2,4.13ब्) अन्तो वा आग्निमारुतम् अन्तर् उक्थान्य् अन्त आश्विनम्_
(ग्ब्र्_2,4.13च्) कनीयसीषु देवतासु स्तुवते तिष्ठेति_
(ग्ब्र्_2,4.13द्) अथ कस्माद् भूयिष्ठो देवता उक्थे शस्यन्त इति
(ग्ब्र्_2,4.13ए) द्वे द्वे उक्थमुखे भवतस् तद् यद् द्वे द्वे

9.14

(ग्ब्र्_2,4.14अ) अथ यद् ऐन्द्रावारुणं मैत्रावरुस्योक्थं भवत्य् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्य् ऐन्द्रावैष्णावम् अच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकम् ऐन्द्रावारुणं भवति
(ग्ब्र्_2,4.14ब्) द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकम् ऐन्द्राबार्हस्पत्यं भवति
(ग्ब्र्_2,4.14च्) द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकम् ऐन्द्रावैष्णवं भवति
(ग्ब्र्_2,4.14द्) द्वे द्वे उक्थमुखे भवतस्
(ग्ब्र्_2,4.14ए) तद् यद् द्वे द्वे

9.15

(ग्ब्र्_2,4.15अ) अथ यद् ऐन्द्रावरुणं मैत्रावरुणस्योक्थं भवति_<इन्द्रावरुणा सुतपाव् इमं सुतं सोमं पिबतं मद्यं धृतव्रतौ [श्स् 7.58.1, ऋव् 6.68.10]>_इत्य् ऋचाभ्यनूक्तम्_
(ग्ब्र्_2,4.15ब्) मद्वद् धि तृतीयसवनम्
(ग्ब्र्_2,4.15च्) <एह्य् ऊ षु ब्रवाणि ते [ऋव् 6.16.16]>_<आग्निर् अगामि भारतः [ऋव् 6.16.19]>_इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
(ग्ब्र्_2,4.15द्) <चर्षणीधृतं मघवानम् उक्थ्यम् [ऋव् 3.51.1]> इत्य् उक्थमुखम्_
(ग्ब्र्_2,4.15ए) तस्योपरिष्टाद् ब्राह्मणम्
(ग्ब्र्_2,4.15f) <अस्तभ्नाद् द्याम् असुरो विश्ववेदाः [ऋव् 8.42.1]>_इति वारुणं सांशंसिकम् [एद्. अस्तभ्नाद्याम्, चोर्रेच्तेद् प्. 302]
(ग्ब्र्_2,4.15ग्) अहं चेति वरुणो ऽब्रवीत्_
(ग्ब्र्_2,4.15ह्) देवतयोः संशंसायान् अतिशंसाय_
(ग्ब्र्_2,4.15इ) <इन्द्रावरुणा युवम् अध्वराय नः [ऋव् 7.82.1]>_इति पर्यास ऐन्द्रावरुणे
(ग्ब्र्_2,4.15ज्) ऐन्द्रावरुणम् अस्यैतन् नित्यम् उक्थम्_
(ग्ब्र्_2,4.15क्) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(ग्ब्र्_2,4.15ल्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(ग्ब्र्_2,4.15म्) विजित्या एव_
(ग्ब्र्_2,4.15न्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
(ग्ब्र्_2,4.15ओ) सैकपादिनी भवति_
(ग्ब्र्_2,4.15प्) एकपादिन्या होता परिदधाति
(ग्ब्र्_2,4.15q) यत्र होतुर् होत्रकाणां युञ्जन्ति तत् समृद्धम्_
(ग्ब्र्_2,4.15र्) तद् वै खल्व् <आ वां राजानाव् अध्वरे ववृत्याम् [ऋव् 7.84.1]> इति_ [एद्. आवां, चोर्रेच्तेद् प्. 303]
(ग्ब्र्_2,4.15स्) एवम् एव केवलपर्यासं कुर्यात् केवलसूक्तम्_
(ग्ब्र्_2,4.15त्) केवलसूक्तम् एवोत्तरयोर् भवति_
(ग्ब्र्_2,4.15उ) <इन्द्रावरुणा मधुमत्तमस्य [प्स् 20.7.6, श्स् 7.58.2, ऋव् 6.68.11]>_इति यजति_
(ग्ब्र्_2,4.15व्) एते एव तद् देवते यथाभागं प्रीणाति
(ग्ब्र्_2,4.15w) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,4.15x) प्रत्य् एवाभिमृशन्ते
(ग्ब्र्_2,4.15य्) नाप्याययन्ति न ह्य् अनाराशंसाः सीदन्ति

9.16

(ग्ब्र्_2,4.16अ) अथ यद् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति_<इन्द्रश् च सोमं पिबतं बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू [ऋव् 4.50.10]> इत्य् ऋचाभ्यनूक्तम्_
(ग्ब्र्_2,4.16ब्) मद्वद् धि तृतीयसवनम्_
(ग्ब्र्_2,4.16च्) <वयम् उ त्वाम् अपूर्व्य [ऋव् 8.21.1, श्स् 20.14.1।20.62.1]> <यो न इदमिदं पुरा [ऋव् 8.21.9, श्स् 20.14.3।20.62.3, वैत्स् 25.3]>_इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
(ग्ब्र्_2,4.16द्) <प्र मंहिष्ठाय बृहते बृहद्रये [ऋव् 1.57.1, श्स् 20.15.1]>_इत्य् उक्थमुखम्
(ग्ब्र्_2,4.16ए) ऐन्द्राजागतम्_
(ग्ब्र्_2,4.16f) जागताः पशवः
(ग्ब्र्_2,4.16ग्) पशूनाम् आप्त्यै
(ग्ब्र्_2,4.16ह्) जागतम् उ वै तृतीयसवनम्_
(ग्ब्र्_2,4.16इ) तृतीयसवनस्य रूपम्
(ग्ब्र्_2,4.16ज्) <उदप्रुतो न वयो रक्षमाणाः [ऋव् 10.68.1, श्स् 20.16.1]>_इति बार्हस्पत्यं सांशंसिकम्
(ग्ब्र्_2,4.16क्) अहं चेति बृहस्पतिर् अब्रवीत्_
(ग्ब्र्_2,4.16ल्) देवतयोः संशंसायनतिशंसाय_
(ग्ब्र्_2,4.16म्) <अच्छा म इन्द्रं मतयः स्वर्विदः [ऋव् 10.43.1, श्स् 20.17.1]>_इति पर्यास ऐन्द्राबार्हस्पत्यः_
(ग्ब्र्_2,4.16न्) ऐन्द्राबार्हस्पत्यम् अस्यैतन् नित्यम् उक्थम्_
(ग्ब्र्_2,4.16ओ) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(ग्ब्र्_2,4.16प्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(ग्ब्र्_2,4.16q) विजित्या एव_
(ग्ब्र्_2,4.16र्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
(ग्ब्र्_2,4.16स्) <बृहस्पतिर् नः परि पातु पश्चात् [ऋव् 10.42।43।44.11अ, प्स् 15.11.1।16.8.11अ, श्स् 7.51.1।20.17.11।20.89.11।20.94.11अ]>_इत्य् ऐन्द्राबार्हस्पत्या परिदधाति_
(ग्ब्र्_2,4.16त्) इन्द्राबृहस्पत्योर् एव यज्ञं प्रतिष्ठापयति_
(ग्ब्र्_2,4.16उ) <उतोत्तरस्माद् अधराद् अघायोर् इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु [ऋव् 10.42।43।44.11ब्च्द्, प्स् 15.11.1।16.8.11ब्च्द्, श्स् 7.51.1।20.17.11।20.89.11।20.94.11ब्च्द्]>_इति
(ग्ब्र्_2,4.16व्) सर्वाभ्य एव दिग्भ्य आशिषम् आशास्ते नार्त्वी
(ग्ब्र्_2,4.16w) यं कामं कामयते सो ऽस्मै कामः समृध्यते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति [एद्. एतस्या, चोर्र्. पत्यल्; एद्. ब्राह्मणाच्छंय्]
(ग्ब्र्_2,4.16x) <बृहस्पते युवम् इन्द्रश् च वस्वः [ऋव् 7.97.10]>_इति यजति_
(ग्ब्र्_2,4.16य्) एते एव तद् देवते यथाभागं प्रीणाति
(ग्ब्र्_2,4.16z) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,4.16अअ) प्रत्य् एवाभिमृशन्ते
(ग्ब्र्_2,4.16ब्ब्) नाप्याययन्ति
(ग्ब्र्_2,4.16च्च्) न ह्य् अनाराशंसाः सीदन्ति

9.17

(ग्ब्र्_2,4.17अ) अथ यद् ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति_<इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना [ऋव् 6.69.3]>_इत्य् ऋचाभ्यनूक्तम्_ [एद्. अच्छावाकस्योक्तं]
(ग्ब्र्_2,4.17ब्) मद्वद् धि तृतीयसवनम्
(ग्ब्र्_2,4.17च्) <अधा हीन्द्र गिर्वणः [ऋव् 8.98.7]>_<इयं त इन्द्र गिर्वणः [ऋव् 8.13.4]>_इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ_
(ग्ब्र्_2,4.17द्) <ऋतुर् जनित्री तस्या अपस् परि [ऋव् 2.13.1]>_इत्य् उक्थमुखम्_
(ग्ब्र्_2,4.17ए) तस्योक्तं ब्राह्मणम्_
(ग्ब्र्_2,4.17f) <नू मर्तो दयते सनिष्यन् [ऋव् 7.100.1]>_इति वैष्णवं सांशंसिकम् [एद्. सांशंसिकंम्]
(ग्ब्र्_2,4.17ग्) अहं चेति विष्णुर् अब्रवीत्_
(ग्ब्र्_2,4.17ह्) देवतयोः संशंसायानतिशंसाय
(ग्ब्र्_2,4.17इ) <सं वां कर्मणा सम् इषा हिनोमि [ऋव् 6.69.1]>_इति पर्यास ऐन्द्रावैष्णवः_
(ग्ब्र्_2,4.17ज्) ऐन्द्रावैष्णवम् अस्यैतन् नित्यम् उक्थम्_ [एद्. उखं]
(ग्ब्र्_2,4.17क्) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(ग्ब्र्_2,4.17ल्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(ग्ब्र्_2,4.17म्) विजित्या एव_
(ग्ब्र्_2,4.17न्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै_
(ग्ब्र्_2,4.17ओ) <उभा जिग्यथुर् न परा जयेथे [ऋव् 6.69.8, प्स् 20.16.3, श्स् 7.44.1]> इत्य् ऐन्द्रावैष्णव्यर्चा परिदधाति_
(ग्ब्र्_2,4.17प्) इन्द्राविष्णोर् एव यज्ञं प्रतिष्ठापयति_
(ग्ब्र्_2,4.17q) <इन्द्राविष्णू पिबतं मध्वो अस्य [ऋव् 6.69.7]>_इति यजति_
(ग्ब्र्_2,4.17र्) एते एव तद् देवते यथाभागं प्रीणाति
(ग्ब्र्_2,4.17स्) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,4.17त्) प्रत्य् एवाभिमृशन्ते
(ग्ब्र्_2,4.17उ) नाप्याययन्ति
(ग्ब्र्_2,4.17व्) न ह्य् अनाराशंसाः सीदन्ति

9.18

(ग्ब्र्_2,4.18अ) अथाध्वर्यो शंशंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते
(ग्ब्र्_2,4.18ब्) चतस्रो वै दिशः_
(ग्ब्र्_2,4.18च्) दिक्षु तत् प्रतितिष्ठन्ते_
(ग्ब्र्_2,4.18द्) अथो चतुष्पादः पशवः
(ग्ब्र्_2,4.18ए) पशूनाम् आप्त्यै_
(ग्ब्र्_2,4.18f) अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास्
(ग्ब्र्_2,4.18ग्) तस्माच् चतुः
(ग्ब्र्_2,4.18ह्) सर्वे त्रैष्टुभं जागतानि शंसन्ति
(ग्ब्र्_2,4.18इ) जागतं हि तृतीयसवनम्
(ग्ब्र्_2,4.18ज्) अथ हैतत् त्रैष्टुभानि_
(ग्ब्र्_2,4.18क्) अप्रतिभूतम् इव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम्_
(ग्ब्र्_2,4.18ल्) धीतरसं वा एतत् सवनं यत् तृतीयसवनम्
(ग्ब्र्_2,4.18म्) अथ हैतद् अधीतरसं शुक्रियं छन्दो यत् त्रिष्टुब् अयातयाम
(ग्ब्र्_2,4.18न्) सवनस्यैव तत् सरसतायै
(ग्ब्र्_2,4.18ओ) सर्वे समवतीभिः परिदधति
(ग्ब्र्_2,4.18प्) तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्को ऽन्तः सजाया उ ह वा अवैनाय_
(ग्ब्र्_2,4.18q) अन्तेनैवान्तं परिदधति
(ग्ब्र्_2,4.18र्) सर्वे मद्वतीभिर् यजन्ति
(ग्ब्र्_2,4.18स्) तद् यन् मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
(ग्ब्र्_2,4.18त्) यद् यज्ञे ऽभिरूपं तत् समृद्धम्_
(ग्ब्र्_2,4.18उ) सर्वे ऽनुवषट्कुर्वन्ति
(ग्ब्र्_2,4.18व्) स्विष्टकृत्वानुवषट्कारः_
(ग्ब्र्_2,4.18w) नेत् स्विष्टकृत अन्तरयामेति_
(ग्ब्र्_2,4.18x) असौ वै लोकस् तृतीयसवनम्_
(ग्ब्र्_2,4.18य्) तस्य पञ्च दिशः
(ग्ब्र्_2,4.18z) पञ्चोक्थानि तृतीयसवनस्य
(ग्ब्र्_2,4.18अअ) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोति
(ग्ब्र्_2,4.18ब्ब्) तद् यद् एषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल् लोकान् ऋध्नोतीमांल् लोकान् ऋध्नोतीति

9.19

(ग्ब्र्_2,4.19अ) तद् आहुः किं षोडशिनः षोडशित्वम्_
(ग्ब्र्_2,4.19ब्) षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिर् अक्षरैर् आदत्ते
(ग्ब्र्_2,4.19च्) द्वे वा अक्षरे अतिरिच्येते षोडशिनो ऽनुष्टुभम् अभिसंपन्नस्य
(ग्ब्र्_2,4.19द्) वाचो वा एतौ स्तनौ
(ग्ब्र्_2,4.19ए) सत्यानृते वाव ते
(ग्ब्र्_2,4.19f) अवत्य् एनं सत्यं नैनम् अनृतं हिनस्ति य एवं वेद य एवं वेद

मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc