भाषा

ENहिગુ
ग्रंथ पाठ

गोपथब्राह्मण · अध्याय 10

10.1

[एद्. वेद य एवं वेइ]
(ग्ब्र्_2,4.19चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः ॥
(ग्ब्र्_2,5.1अ) ओम् अहर् वै देवा आश्रयन्त रात्रीम् असुरास्
(ग्ब्र्_2,5.1ब्) ते समावद्वीर्या एवासन्
(ग्ब्र्_2,5.1च्) नो व्यावर्तन्त
(ग्ब्र्_2,5.1द्) सो ऽब्रवीद् इन्द्रः कश् चाहं चेमान् असुरान् रात्रीम् अन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. पत्यल्]
(ग्ब्र्_2,5.1ए) स देवेषु न प्रत्यविन्दत्_
(ग्ब्र्_2,5.1f) अबिभयू रात्रेस्तमसो मृत्योस्
(ग्ब्र्_2,5.1ग्) तम इव हि रात्रिः_
(ग्ब्र्_2,5.1ह्) मृत्युर् वै तमस्
(ग्ब्र्_2,5.1इ) तस्माद् धाप्य् एतर्हि भूयान् इव नक्तं स यावन् मात्रम् इवापक्रम्य बिभेति
(ग्ब्र्_2,5.1ज्) तं वै छन्दांस्य् एवान्ववायन्_
(ग्ब्र्_2,5.1क्) तद् यच् छन्दांस्य् एवान्ववायंस् तस्माद् इन्द्रश् च छन्दांसि च रात्रिं वहन्ति
(ग्ब्र्_2,5.1ल्) न निविच् छस्यते न पुरोरुङ् न धाय्या नान्या देवता
(ग्ब्र्_2,5.1म्) इन्द्रश् च ह्य् एव छन्दांसि च रात्रिं वहन्ति
(ग्ब्र्_2,5.1न्) तान् वै पर्यायैः पर्यायम् अनुदन्त
(ग्ब्र्_2,5.1ओ) यत् पर्यायैः पर्यायम् अनुदन्त तस्मात् पर्यायास्
(ग्ब्र्_2,5.1प्) तत् पर्यायाणां पर्यायत्वम्_
(ग्ब्र्_2,5.1q) तान् वै प्रथमैर् एव पर्यायैः पूर्वरात्राद् अनुदन्त मध्यमैर् मध्यरात्राद् उत्तमैर् अपररात्रात्_
(ग्ब्र्_2,5.1र्) अपिशर्वर्या अपिस्मसीत्य् अब्रुवन्_
(ग्ब्र्_2,5.1स्) तद् यद् अपिशर्वर्या अपिस्मसीत्य् अब्रुवंस् तद् अपिशर्वराणाम् अपिशर्वरत्वम्_
(ग्ब्र्_2,5.1त्) शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह_
(ग्ब्र्_2,5.1उ) एतानि ह वा इन्द्रं रात्र्यास् तमसो मृत्योर् अभिपत्यावारयन्_
(ग्ब्र्_2,5.1व्) तद् अपिशर्वराणाम् अपिशर्वरत्वम्

10.2

(ग्ब्र्_2,5.2अ) प्रथमेषु पर्यायेषु स्तुवते प्रथमान्य् एव पदानि पुनर् आददते
(ग्ब्र्_2,5.2ब्) यद् एवैषां मनोरथा आसंस् तद् एवैषां तेनाददते
(ग्ब्र्_2,5.2च्) मध्यमेषु पर्यायेषु स्तुवते मध्यमान्य् एव पदानि पुनर् आददते
(ग्ब्र्_2,5.2द्) यद् एवैषाम् अश्वा गाव आसंस् तद् एवैषां तेनाददते_
(ग्ब्र्_2,5.2ए) उत्तमेषु पर्यायेषु स्तुवत उत्तमान्य् एव पदानि पुनर् आददते
(ग्ब्र्_2,5.2f) यद् एवैषां वासो हिरण्यं मणिर् अध्यात्मम् आसीत् तद् एवैषां तेनाददते_
(ग्ब्र्_2,5.2ग्) आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद

10.3

(ग्ब्र्_2,5.3अ) पवमानवद् अहर् इत्य् आहुर् न रात्रिः पवमानवती
(ग्ब्र्_2,5.3ब्) कथम् उभे पवमानवती भवतः
(ग्ब्र्_2,5.3च्) केन ते समावद्भाजौ भवत इति
(ग्ब्र्_2,5.3द्) यद् एवेन्द्राय मद्वने सुतम् इदं वसो सुतम् अन्ध इदं ह्य् अन्वोजसा सुतम् इति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती
(ग्ब्र्_2,5.3ए) तेनोभे पवमानवती भवतस्
(ग्ब्र्_2,5.3f) तेन ते समावद्भाजौ भवतः
(ग्ब्र्_2,5.3ग्) पञ्चदशस्तोत्रम् अहर् इत्य् आहुर् न रात्रिः पञ्चदशस्तोत्रा
(ग्ब्र्_2,5.3ह्) कथम् उभे पञ्चदशस्तोत्रे भवतः
(ग्ब्र्_2,5.3इ) केन ते समावद्भाजौ भवत इति
(ग्ब्र्_2,5.3ज्) द्वादश स्तोत्राण्य् अपिशर्वराणि
(ग्ब्र्_2,5.3क्) तिसृभिर् देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते
(ग्ब्र्_2,5.3ल्) तेन रात्रिः पञ्चदशस्तोत्रा
(ग्ब्र्_2,5.3म्) तेनोभे पञ्चदशस्तोत्रे भवतस्
(ग्ब्र्_2,5.3न्) तेन ते समावद्भाजौ भवतः
(ग्ब्र्_2,5.3ओ) परिमितं स्तुवन्त्य् अपरिमितमनुशंसन्ति
(ग्ब्र्_2,5.3प्) परिमितं भूतम् अपरिमितं भव्यम्
(ग्ब्र्_2,5.3q) अपरिमितान्य् एवावरुन्ध्याद् इत्य् अतिशंसति स्तोमम्
(ग्ब्र्_2,5.3र्) अति वै प्रजास्यात्मानम् अति पशवस्
(ग्ब्र्_2,5.3स्) तद् यद् एवास्यात्यात्मानं तद् एवास्यैतेनाप्याययन्ति_
(ग्ब्र्_2,5.3त्) अथो द्वयं वा इदं सर्वं स्नेहश् चैव तेजश् च_
(ग्ब्र्_2,5.3उ) अथ तद् अहोरात्राभ्याम् आप्तम्_
(ग्ब्र्_2,5.3व्) स्नेहतेजसोर् आप्त्यै
(ग्ब्र्_2,5.3w) गायत्रान् स्तोत्रियानुरूपाञ् छंसन्ति
(ग्ब्र्_2,5.3x) तेजो वै गायत्री
(ग्ब्र्_2,5.3य्) तमः पाप्मा रात्रिस्
(ग्ब्र्_2,5.3z) तेन तेजसा तमः पाप्मानं तरन्ति
(ग्ब्र्_2,5.3अअ) पुनरादायं शंसन्ति_
(ग्ब्र्_2,5.3ब्ब्) एवं हि सामगा स्तुवते
(ग्ब्र्_2,5.3च्च्) यथा स्तुतम् अनुशस्तं भवति
(ग्ब्र्_2,5.3द्द्) न हि तत् स्तुतं यन् नानुशस्तम्_
(ग्ब्र्_2,5.3एए) तद् आहुर् अथ कस्माद् उत्तमात् प्रतीहाराद् आहूय साम्ना शस्त्रम् उपसंतन्वन्तीति

10.4

(ग्ब्र्_2,5.4अ) पुरुषो वै यज्ञस्
(ग्ब्र्_2,5.4ब्) तस्य शिर एव हविर्धानम्_
(ग्ब्र्_2,5.4च्) मुखम् आहवनीयः_
(ग्ब्र्_2,5.4द्) उदरं सदः_
(ग्ब्र्_2,5.4ए) अन्नम् उक्थानि
(ग्ब्र्_2,5.4f) बाहू मार्जालीयश् चाग्नीध्रीयश् च
(ग्ब्र्_2,5.4ग्) या इमा देवतास् ते ऽन्तःसदसं धिष्ण्याः
(ग्ब्र्_2,5.4ह्) प्रतिष्ठे गार्हपत्यव्रतश्रपणाव् इत्य् अथापरम्_
(ग्ब्र्_2,5.4इ) तस्य मन एव ब्रह्मा
(ग्ब्र्_2,5.4ज्) प्राण उद्गाता_
(ग्ब्र्_2,5.4क्) अपानः प्रस्तोता
(ग्ब्र्_2,5.4ल्) व्यानः प्रतिहर्ता
(ग्ब्र्_2,5.4म्) वाग् घोता
(ग्ब्र्_2,5.4न्) चक्षुर् अध्वर्युः
(ग्ब्र्_2,5.4ओ) प्रजाति सदस्यः_
(ग्ब्र्_2,5.4प्) अङ्गानि होत्राशंसिनः_
(ग्ब्र्_2,5.4q) आत्मा यजमानस्
(ग्ब्र्_2,5.4र्) तद् यद् अध्वर्युः स्तोत्रम् उपाकरोति सोमः पवत इति चक्षुर् एव तत् प्राणैः संदधाति_
(ग्ब्र्_2,5.4स्) अथ यत् प्रस्तोता ब्रह्माणम् आमन्त्रयते ब्रह्मन्त् स्तोष्यामः प्रशास्तर् इति मनो ऽग्रणीर् भवति_
(ग्ब्र्_2,5.4त्) एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति
(ग्ब्र्_2,5.4उ) प्राणान् एव तन् मनसा संदधाति_
(ग्ब्र्_2,5.4व्) अथ यद् ब्रह्मा स्तुतेत्य् उच्चैर् अनुजानाति मनो वै ब्रह्मा
(ग्ब्र्_2,5.4w) मन एव तत् प्राणैः संदधाति_
(ग्ब्र्_2,5.4x) अथ यत् प्रस्तोता प्रस्तौत्य् अपानम् एव तत् प्राणैः संदधाति_
(ग्ब्र्_2,5.4य्) अथ यत् प्रतिहर्ता प्रतिहरति व्यानम् एव तद् अपानैः संदधाति_
(ग्ब्र्_2,5.4z) अथ यद् उद्गातोद्गायति समानम् एव तत् प्राणैः संदधाति_
(ग्ब्र्_2,5.4अअ) अथ यद् धोता साम्ना शस्त्रम् उपसंतनोति वाग् वै होता वाचम् एव तत् प्राणैः संदधाति_
(ग्ब्र्_2,5.4ब्ब्) अथ यत् सदस्यो ब्रह्माणम् उपासीदति प्रजातिर् वै सदस्यः प्रजातिम् एवाप्नोति_
(ग्ब्र्_2,5.4च्च्) अथ यद् धोत्राशंसिनः सामसंततिं कुर्वन्त्य् अङ्गानि वै होत्राशंसिनो ऽङ्गान्य् एवास्य तत् प्राणैः संदधाति_
(ग्ब्र्_2,5.4द्द्) अथ यद् यजमानः स्तोत्रम् उपासीदत्य् आत्मा वै यजमान आत्मानम् एवास्य तत् कल्पयति
(ग्ब्र्_2,5.4एए) तस्मान् नैनं बहिर्वेद्यभ्याश्रावयेत्_
(ग्ब्र्_2,5.4ff) नाभ्युदियात्_
(ग्ब्र्_2,5.4ग्ग्) नाभ्यस्तमियात्_
(ग्ब्र्_2,5.4ह्ह्) नाधिष्ण्ये प्रतपेत्_
(ग्ब्र्_2,5.4इइ) नेत् प्राणेभ्य आत्मानम् अन्तरगाद् इति

10.5

(ग्ब्र्_2,5.5अ) प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्राद् एव तद् असुरान् निर्घ्नन्ति
(ग्ब्र्_2,5.5ब्) मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति
(ग्ब्र्_2,5.5च्) मध्यमरात्राद् एव तद् असुरान् निर्घ्नन्ति_
(ग्ब्र्_2,5.5द्) उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति_
(ग्ब्र्_2,5.5ए) उत्तमरात्राद् एव तद् असुरान् निर्घ्नन्ति
(ग्ब्र्_2,5.5f) तद् यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्य् एवम् एवैतत् स्तोत्रियानुरूपाभ्याम् अहोरात्राभ्याम् एव तद् असुरान् निर्घ्नन्ति
(ग्ब्र्_2,5.5ग्) गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री
(ग्ब्र्_2,5.5ह्) तेज एवास्मै तद् ब्रह्मवर्चसं यजमाने दधति
(ग्ब्र्_2,5.5इ) गायत्रीः शस्त्वा जगतीः शंसन्ति
(ग्ब्र्_2,5.5ज्) ब्रह्म ह वै जगती
(ग्ब्र्_2,5.5क्) ब्रह्मणैवास्मै तद् ब्रह्मवर्चसं यजमाने दधति
(ग्ब्र्_2,5.5ल्) व्याह्वयन्ते गायत्रीश् च जगतीश् चान्तरेण
(ग्ब्र्_2,5.5म्) छन्दांस्य् एव तन् नानावीर्याणि कुर्वन्ति
(ग्ब्र्_2,5.5न्) जगतीः शस्त्वा त्रिष्टुभः शंसन्ति
(ग्ब्र्_2,5.5ओ) पशवो वै जगती
(ग्ब्र्_2,5.5प्) पशून् एव तत् त्रिष्टुब्भिः परिदधति
(ग्ब्र्_2,5.5q) बलं वै वीर्यं त्रिष्टुप्_
(ग्ब्र्_2,5.5र्) बलम् एव तद् वीर्ये ऽन्ततः प्रतिष्ठापयति_
(ग्ब्र्_2,5.5स्) अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस् त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः_
(ग्ब्र्_2,5.5त्) एतद् वै रात्रीरूपम्_
(ग्ब्र्_2,5.5उ) जागृयाद् रात्रिम्_
(ग्ब्र्_2,5.5व्) यावद् उ ह वै न वा स्तुवते न वा शस्यते तावद् ईश्वरा असुरा रक्षांसि च यज्ञम् अन्ववनयन्ति
(ग्ब्र्_2,5.5w) तस्माद् आहवनीयं समिद्धम् आग्नीध्रीयं गार्हपत्यं धिष्ण्यान् समुज्ज्वलयतेति भाषेरन्
(ग्ब्र्_2,5.5x) ज्वलयेरन्
(ग्ब्र्_2,5.5य्) प्रकाशम् इवैव तत् स्यात्_
(ग्ब्र्_2,5.5z) आरेभन्तः शयीरन्_
(ग्ब्र्_2,5.5अअ) तान् ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति
(ग्ब्र्_2,5.5ब्ब्) ते तमः पाप्मानम् अपाघ्नते ते तमः पाप्मानमपाघ्नते

10.6

(ग्ब्र्_2,5.6अ) विश्वरूपं वै त्वाष्ट्रम् इन्द्रो ऽहन्
(ग्ब्र्_2,5.6ब्) स त्वष्टा हतपुत्रो ऽभिचरणीयम् अपेन्द्रं सोमम् आहरत्
(ग्ब्र्_2,5.6च्) तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
(ग्ब्र्_2,5.6द्) स विष्वङ् व्यार्छत्
(ग्ब्र्_2,5.6ए) तस्मात् सोमो नानुपहूतेन [न] पातव्यः
(ग्ब्र्_2,5.6f) सोमपीथो ऽस्य व्यर्धुको भवति
(ग्ब्र्_2,5.6ग्) तस्य मुखात् प्राणेभ्यः श्रीर् यशांस्य् ऊर्ध्वान्य् उदक्रामन्_ [एद्. प्रणेभ्यः, चोर्र्. पत्यल्]
(ग्ब्र्_2,5.6ह्) तानि पशून् प्राविशन्_
(ग्ब्र्_2,5.6इ) तस्मात् पशवो यशः_
(ग्ब्र्_2,5.6ज्) यशो ह भवति य एवं वेद
(ग्ब्र्_2,5.6क्) ततो ऽस्मा एतद् अश्विनौ च सरस्वती च यज्ञं समभरन्त् सौत्रामणिं भैषज्याय
(ग्ब्र्_2,5.6ल्) तयेन्द्रम् अभ्यषिञ्चन्_
(ग्ब्र्_2,5.6म्) ततो वै स देवानां श्रेष्ठो ऽभवत्_
(ग्ब्र्_2,5.6न्) श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश् चैवंविद्वान्त् सौत्रामण्याभिषिच्यते

10.7

(ग्ब्र्_2,5.7अ) अथ साम गायति ब्रह्मा
(ग्ब्र्_2,5.7ब्) क्षत्रं वै साम
(ग्ब्र्_2,5.7च्) क्षत्रेणैवैनं तद् अभिषिञ्चति_
(ग्ब्र्_2,5.7द्) अथो साम्राज्यं वै साम
(ग्ब्र्_2,5.7ए) साम्राज्येनैवैनं तत् साम्राज्यं गमयति_
(ग्ब्र्_2,5.7f) अथो सर्वेषां वा एष वेदानां रसो यत् साम
(ग्ब्र्_2,5.7ग्) सर्वेषाम् एव तद् वेदानां रसेनाभिषिञ्चति
(ग्ब्र्_2,5.7ह्) बृहत्यां गायति
(ग्ब्र्_2,5.7इ) बृहत्यां वा असाव् आदित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस् तपति_
(ग्ब्र्_2,5.7ज्) ऐन्द्र्यां बृहत्यां गायति_
(ग्ब्र्_2,5.7क्) ऐन्द्रो वा एष यज्ञक्रतुर् यत् सौत्रामणिः_
(ग्ब्र्_2,5.7ल्) इन्द्रायतन एष एतर्हि यो यजते
(ग्ब्र्_2,5.7म्) स्व एवैनं तद् आयतने प्रीणाति_
(ग्ब्र्_2,5.7न्) अथ कस्मात् संशानानि नाम_
(ग्ब्र्_2,5.7ओ) एतैर् वै सामभिर् देवा इन्द्रम् इन्द्रियेण वीर्येण समश्यन्_
(ग्ब्र्_2,5.7प्) तथैवैतद् यजमाना एतैर् एव सामभिर्
(ग्ब्र्_2,5.7q) इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन]
(ग्ब्र्_2,5.7र्) संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति_
(ग्ब्र्_2,5.7स्) एष्व् एवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति
(ग्ब्र्_2,5.7त्) चतस्रो वै दिशः_
(ग्ब्र्_2,5.7उ) दिक्षु तत् प्रतितिष्ठन्ते_
(ग्ब्र्_2,5.7व्) अथो चतुष्पादः पशवः
(ग्ब्र्_2,5.7w) पशूनाम् आप्त्यै
(ग्ब्र्_2,5.7x) तद् आहुर् यद् एतत् साम गीयते ऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा
(ग्ब्र्_2,5.7य्) त्रया देवा एकादशेत्य् आहुः_
(ग्ब्र्_2,5.7z) एतद् वा एतस्य साम्न उक्थम् एषा प्रतिष्ठा
(ग्ब्र्_2,5.7अअ) त्रयस्त्रिंशं ग्रहं गृह्णाति
(ग्ब्र्_2,5.7ब्ब्) साम्नः प्रतिष्ठायै प्रतिष्ठायै

10.8

(ग्ब्र्_2,5.8अ) प्रजापतिर् अकामयत वाजम् आप्नुयां स्वर्गं लोकम् इति
(ग्ब्र्_2,5.8ब्) स एतं वाजपेयम् अपश्यत्_
(ग्ब्र्_2,5.8च्) वाजपेयो वा एष य एष तपति
(ग्ब्र्_2,5.8द्) वाजम् एतेन यजमानः स्वर्गं लोकम् आप्नोति
(ग्ब्र्_2,5.8ए) शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति
(ग्ब्र्_2,5.8f) तेजो ब्रह्मवर्चसं ताभिर् आप्नोति
(ग्ब्र्_2,5.8ग्) वाजवत्यो माध्यंदिने सवने
(ग्ब्र्_2,5.8ह्) स्वर्गस्य लोकस्य समष्ट्यै_
(ग्ब्र्_2,5.8इ) अन्नवत्यो गणवत्यः पशुमत्यस् तृतीयसवने भवन्ति
(ग्ब्र्_2,5.8ज्) भूमानं ताभिर् आप्नोति
(ग्ब्र्_2,5.8क्) सर्वः सप्तदशो भवति
(ग्ब्र्_2,5.8ल्) प्रजापतिर् वै सप्तदशः
(ग्ब्र्_2,5.8म्) प्रजापतिम् एवाप्नोति
(ग्ब्र्_2,5.8न्) हिरण्यस्रज ऋत्विजो भवन्ति
(ग्ब्र्_2,5.8ओ) महस एव तद् रूपं क्रियते_
(ग्ब्र्_2,5.8प्) एष मे ऽमुष्मिंल् लोके प्रकाशो ऽसद् इति
(ग्ब्र्_2,5.8q) ज्योतिर् वै हिरण्यम्_
(ग्ब्र्_2,5.8र्) ज्योतिषैवैनम् अन्तर्दधति_
(ग्ब्र्_2,5.8स्) आजिं धावन्ति
(ग्ब्र्_2,5.8त्) यजमानम् उज्जापयन्ति
(ग्ब्र्_2,5.8उ) नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति
(ग्ब्र्_2,5.8व्) मनुष्यलोकाद् एवैनम् अन्तर्दधति
(ग्ब्र्_2,5.8w) देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयम् इति ब्रह्मा रथचक्रं सर्पति
(ग्ब्र्_2,5.8x) सवितृप्रसूत एवैनं तत् सर्पति_
(ग्ब्र्_2,5.8य्) अथो प्रजापतिर् वै ब्रह्मा
(ग्ब्र्_2,5.8z) प्रजापतिम् एवैनं वज्राद् अधिप्रसुवति
(ग्ब्र्_2,5.8अअ) नाकस्योज्जित्यै
(ग्ब्र्_2,5.8ब्ब्) वाजिनां संतत्यै
(ग्ब्र्_2,5.8च्च्) वाजिसामाभिगायति
(ग्ब्र्_2,5.8द्द्) वाजिमान् भवति
(ग्ब्र्_2,5.8एए) वाजो वै स्वर्गं लोकः
(ग्ब्र्_2,5.8ff) स्वर्गम् एव तल् लोकं रोहति
(ग्ब्र्_2,5.8ग्ग्) विष्णोः शिपिविष्टवतीषु बृहद् उत्तमं भवति
(ग्ब्र्_2,5.8ह्ह्) स्वर्गम् एव तल् लोकं रूढ्वा ब्रध्नस्य विष्टपम् अतिक्रामत्य् अतिक्रामति

10.9

(ग्ब्र्_2,5.9अ) अथातो ऽप्तोर्यामा
(ग्ब्र्_2,5.9ब्) प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत
(ग्ब्र्_2,5.9च्) ताः सृष्टाः पराच्य एवासन्
(ग्ब्र्_2,5.9द्) नोपावर्तन्त
(ग्ब्र्_2,5.9ए) ता एकेन स्तोमेनोपागृह्णात्
(ग्ब्र्_2,5.9f) ता अत्यरिच्यन्त
(ग्ब्र्_2,5.9ग्) ता द्वाभ्याम्_
(ग्ब्र्_2,5.9ह्) ताः सर्वैस्
(ग्ब्र्_2,5.9इ) तस्मात् सर्वस्तोमस्
(ग्ब्र्_2,5.9ज्) ता एकेन पृष्ठेनोपागृह्णात्
(ग्ब्र्_2,5.9क्) ता अत्यरिच्यनत
(ग्ब्र्_2,5.9ल्) ता द्वाभ्याम्_
(ग्ब्र्_2,5.9म्) ताः सर्वैस्
(ग्ब्र्_2,5.9न्) तस्मात् सर्वपृष्ठस्
(ग्ब्र्_2,5.9ओ) ता अतिरिक्तोक्थे वारवन्तीयेनावारयन्_
(ग्ब्र्_2,5.9प्) तस्माद् एषो ऽतिरिक्तोक्थवान् भवति
(ग्ब्र्_2,5.9q) तस्माद् वारवन्तीयम्_
(ग्ब्र्_2,5.9र्) ता यद् आप्त्वायच्छद् अतो वा अप्तोर्यामा_
(ग्ब्र्_2,5.9स्) अथो प्रजा वा अप्तुर् इत्य् आहुः
(ग्ब्र्_2,5.9त्) प्रजानां यमन इति हैवैतद् उक्तं ता बर्हिः प्रजा अश्नायेरन्_ [एद्. प्रजाश्नायेरंस्, चोर्र्. पत्यल्]
(ग्ब्र्_2,5.9उ) तर्हि हैतैन यजते
(ग्ब्र्_2,5.9व्) स एषो ऽष्टापृष्ठो भवति
(ग्ब्र्_2,5.9w) तद् यथान्यस्मिन् यज्ञे विश्वजितः पृष्ठम् अनु संचरं भवति कथम् एतद् एवम् अत्रेति
(ग्ब्र्_2,5.9x) पितैष यज्ञानाम्_
(ग्ब्र्_2,5.9य्) तद् यथा श्रेष्ठिनि संवश्रेयुर् अपि विद्विषाणा एवम् एवैतच् छ्रेष्ठिनो वशेयान्नम् अन्नस्यानुचर्याय क्षमन्ते

10.10

(ग्ब्र्_2,5.10अ) तद्यथैवादो ऽह्न उक्थानाम् आग्नेयं प्रथमं भवत्य् एवम् एवैतद् अत्राप्य् आग्नेयं प्रथमं भवति_
(ग्ब्र्_2,5.10ब्) ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे]
(ग्ब्र्_2,5.10च्) ऐन्द्रे वा एते
(ग्ब्र्_2,5.10द्) ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति
(ग्ब्र्_2,5.10ए) चतुराहावान्य् अतिरिक्तोक्थानि भवन्ति
(ग्ब्र्_2,5.10f) पशवो वा उक्थानि
(ग्ब्र्_2,5.10ग्) चतुष्टया वै पशवः_
(ग्ब्र्_2,5.10ह्) अथो चतुष्पादः पशवः
(ग्ब्र्_2,5.10इ) पशूनाम् आप्त्यै
(ग्ब्र्_2,5.10ज्) त एते स्तोत्रियानुरूपास् तृचा अर्धर्चशस्याः
(ग्ब्र्_2,5.10क्) प्रतिष्ठा वा अर्धर्चः
(ग्ब्र्_2,5.10ल्) प्रतिष्ठित्या एव_
(ग्ब्र्_2,5.10म्) अथैतेषाम् एवाश्विनानां सूक्तानां द्वे द्वे समाहावम् एकैकम् अहरहः शंसति_
(ग्ब्र्_2,5.10न्) अश्विनौ वै देवानां भिषजौ
(ग्ब्र्_2,5.10ओ) तस्माद् आश्विनानि सूक्तानि शंसति
(ग्ब्र्_2,5.10प्) तद् अश्विभ्यां प्रददुर् इदं भिषज्यतम् इति
(ग्ब्र्_2,5.10q) क्षैत्रपत्याः परिधानीया भवन्ति
(ग्ब्र्_2,5.10र्) यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस् ता दीना एताभिर् यथाक्षेत्रं पाययां चकार तर्पयां चकार_ [एद्. ह तस्तत्, चोर्र्. पत्यल्]
(ग्ब्र्_2,5.10स्) अथो इयं वै क्षेत्रं पृथिवी_
(ग्ब्र्_2,5.10त्) अस्याम् अदीनायाम् अन्ततः प्रतिष्ठास्यामह इति
(ग्ब्र्_2,5.10उ) त्रिष्टुभो याज्या भवन्ति
(ग्ब्र्_2,5.10व्) यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस् ता हैवैना एताभिर् यथौकसं व्यवसाययां चकार
(ग्ब्र्_2,5.10w) तस्माद् एता याज्या भवन्ति तस्माद् एता याज्या भवन्ति

10.11

(ग्ब्र्_2,5.11अ) अथातो ऽनैकाहिकम्_ [एद्. अथतो]
(ग्ब्र्_2,5.11ब्) श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(ग्ब्र्_2,5.11च्) अहीनम् एव तत् संतन्वन्ति_
(ग्ब्र्_2,5.11द्) अहीनस्य संतत्यै
(ग्ब्र्_2,5.11ए) तद् यथा ह वा एकाहः सुत एवम् अहीनः सुतस्
(ग्ब्र्_2,5.11f) तद् यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्य् एवम् अहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति
(ग्ब्र्_2,5.11ग्) तद् यच् छ्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(ग्ब्र्_2,5.11ह्) अहर् एवं तद् अह्नो ऽनुरूपं कुर्वन्ति_
(ग्ब्र्_2,5.11इ) अपरेणैव तद् अह्नापरम् अहर् अभ्यारभन्ते तत्
(ग्ब्र्_2,5.11ज्) तथा न माध्यंदिने सवने
(ग्ब्र्_2,5.11क्) श्रीर् वै पृष्ठानि
(ग्ब्र्_2,5.11ल्) तानि तस्मिन्न् एवावस्थितानि भवन्ति_
(ग्ब्र्_2,5.11म्) एतेनैव विधिना तृतीयसवने
(ग्ब्र्_2,5.11न्) न श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति

10.12

(ग्ब्र्_2,5.12अ) अथात आरम्भणीया एव
(ग्ब्र्_2,5.12ब्) <ऋजुनीती नो वरुण> इति मैत्रावरुणस्य <मित्रो नयतु विद्वान् [ऋव् 1.90.1]> इति
(ग्ब्र्_2,5.12च्) प्रणेता वा एष होत्रकाणां यन् मैत्रावरुणस्
(ग्ब्र्_2,5.12द्) तस्माद् एषा प्रणेतृमती भवति_ [एद्. प्रणेत्रिमती, चोर्र्. पत्यल्]
(ग्ब्र्_2,5.12ए) <इन्द्रं वो विश्वतस् परि [ऋव् 1.7.10अ, श्स् 20.39.1।20.70.16अ]>_ इति ब्राह्मणाच्छंसिनः_
(ग्ब्र्_2,5.12f) <हवामहे जनेभ्यः [ऋव् 1.7.10ब्, श्स् 20.39.1।20.70.16ब्]>_इतीन्द्रम् एवैतयाहरहर् निर्ह्वयन्ते
(ग्ब्र्_2,5.12ग्) न हैवैषां विहवे ऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान् ब्राह्मणाच्छंस्य् एताम् अहरहः शंसति
(ग्ब्र्_2,5.12ह्) <यत् सोम आ सुते नरः [ऋव् 7.94.10अ]>_इत्य् अच्छावाकस्य_
(ग्ब्र्_2,5.12इ) <इन्द्राग्नी अजोहवुः [ऋव् 7.94.10ब्]>_इतीन्द्राग्नी एवैतयाहरहर् निर्ह्वयन्ते
(ग्ब्र्_2,5.12ज्) न हैवैषां विहवे ऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वान् अच्छावाक एताम् अहरहः शंसति
(ग्ब्र्_2,5.12क्) ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः
(ग्ब्र्_2,5.12ल्) स्वर्गम् एवैताभिर् लोकम् अनुसंतरन्ति

10.13

(ग्ब्र्_2,5.13अ) अथातः परिधानीया एव
(ग्ब्र्_2,5.13ब्) <ते स्याम देव वरुण [ऋव् 7.66.9अ]>_इति मैत्रावरुणस्य_
(ग्ब्र्_2,5.13च्) <इषं स्वश् च धीमहि [ऋव् 7.66.9ब्]>_इत्य् अयं वै लोक इषम् इत्य् असौ लोकः स्वर् इति_
(ग्ब्र्_2,5.13द्) उभाव् एवैनौ तौ लोकाव् आरभते
(ग्ब्र्_2,5.13ए) <व्य् अन्तरिक्षम् अतिरत् [ऋव् 8.14.7अ, श्स् 20.28.1अ, 20.39.2अ]>_इति ब्राह्मणाच्छंसिनः_
(ग्ब्र्_2,5.13f) विवत् तृचम्_
(ग्ब्र्_2,5.13ग्) स्वर्गम् एवैताभिर् लोकं विवृणोति
(ग्ब्र्_2,5.13ह्) <मदे सोमस्य रोचनेन्द्रो यद् अभिनद् वलम् [ऋव् 8.14.7ब्च्, श्स् 20.28.1ब्च्, 20.39.2ब्च्]> इति
(ग्ब्र्_2,5.13इ) सिषासवो ह वा एते यद् दीक्षितास्
(ग्ब्र्_2,5.13ज्) तस्माद् एषा वलवती भवति_
(ग्ब्र्_2,5.13क्) <उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । अर्वाञ्चं नुनुदे वलम् [ऋव् 8.14.8, श्स् 20.28.2, 20.39.3]> इति [एद्. कृवन्, चोर्र्. पत्यल्]
(ग्ब्र्_2,5.13ल्) सनिम् एतेभ्य एतयावरुन्द्धे_
(ग्ब्र्_2,5.13म्) <इन्द्रेण रोचना दिवो दृढानि दृंहितानि च । स्थिराणि न पराणुदे [ऋव् 8.14.9, श्स् 20.28.3, 20.39.4]>_इति
(ग्ब्र्_2,5.13न्) स्वर्गम् एवैतयाहरहर् लोकम् अवरुन्द्धे_
(ग्ब्र्_2,5.13ओ) <आहं सरस्वतीवतोः [ऋव् 8.38.10अ]>_इत्य् अच्छावाकस्य_ [एद्. स्वरस्वतीवतोर्, चोर्रेच्तेद् प्. 303]
(ग्ब्र्_2,5.13प्) <इन्द्राग्न्योर् अवो वृणे [ऋव् 8.38.10ब्]>_इति_
(ग्ब्र्_2,5.13q) एतद् ध वा इन्द्राग्न्योः प्रियं धामो यद् वाग् इति प्रियेणैवैनौ तद् धाम्ना समर्धयति
(ग्ब्र्_2,5.13र्) प्रियेणैव धाम्ना समृध्यते य एवं वेद

10.14

(ग्ब्र्_2,5.14अ) उभय्यो होत्रकाणां परिधानीया भवन्त्य् अहीनपरिधानयाश् चैकाहिनस्य
(ग्ब्र्_2,5.14ब्) तत ऐकाहिकीभिर् एव मैत्रावरुणः परिदधाति
(ग्ब्र्_2,5.14च्) तेनास्माल् लोकान् न प्रच्यवते_
(ग्ब्र्_2,5.14द्) आहिनीकीभिर् अच्छावाकः
(ग्ब्र्_2,5.14ए) स्वर्गस्य लोकस्याप्त्यै_
(ग्ब्र्_2,5.14f) उभयीभिर् ब्राह्मणाच्छंसी_
(ग्ब्र्_2,5.14ग्) एवम् असाव् उभौ व्यन्वारभमाण एतीमं च लोकम् अमुं च_
(ग्ब्र्_2,5.14ह्) अथो ऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं च_
(ग्ब्र्_2,5.14इ) एवम् असाव् उभौ व्यन्वारभमाण एति_
(ग्ब्र्_2,5.14ज्) अथ तत ऐकाहिकीभिर् एव तृतीयसवने होत्रकाः परिदधति
(ग्ब्र्_2,5.14क्) तेनास्माल् लोकान् न प्रच्यवते_
(ग्ब्र्_2,5.14ल्) आहिनीकीभिर् अच्छावाकः
(ग्ब्र्_2,5.14म्) स्वर्गस्य लोकस्य समष्ट्यै
(ग्ब्र्_2,5.14न्) कामं तद् धोता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः_
(ग्ब्र्_2,5.14ओ) यद् वै होता तद् धोत्रकाः
(ग्ब्र्_2,5.14प्) प्राणो वै होताङ्गानि होत्रकाः
(ग्ब्र्_2,5.14q) समानो वा अयं प्राणो ऽङ्गान्य् अनुसंचरति
(ग्ब्र्_2,5.14र्) तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः_
(ग्ब्र्_2,5.14स्) यद् वै होता तद् धोत्रकाः_
(ग्ब्र्_2,5.14त्) आत्मा वै होताङ्गानि होत्रकाः
(ग्ब्र्_2,5.14उ) समाना वा इमे ऽङ्गानाम् अन्तास्
(ग्ब्र्_2,5.14व्) तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः_ [एद्. पुर्वेद्युः]
(ग्ब्र्_2,5.14w) यद् वै होता तद् धोत्रकाः
(ग्ब्र्_2,5.14x) सूक्तान्तैर् होता परिदधाति_
(ग्ब्र्_2,5.14य्) अथ समान्य एव होत्रकाणां परिधानीया भवन्ति

10.15

(ग्ब्र्_2,5.15अ) यः श्वस्तोत्रियस् तम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(ग्ब्र्_2,5.15ब्) अहीनम् एव तत् संतन्वन्ति_
(ग्ब्र्_2,5.15च्) अहीनस्य संतत्यै
(ग्ब्र्_2,5.15द्) त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिने ऽहीनसूक्तानि शंसन्ति_
(ग्ब्र्_2,5.15ए) <आ सत्यो यातु मघवां ऋजीषी [ऋव् 4.16.1, श्स् 20.77.1]>_इति सत्यवान् मैत्रावरुणः_ [एद्. सत्यवन्, चोर्र्. पत्यल्]
(ग्ब्र्_2,5.15f) <अस्मा इद् उ प्र तवसे तुराय [ऋव् 1.16.1, श्स् 20.35.1]>_इति ब्राह्मणाच्छंसी
(ग्ब्र्_2,5.15ग्) <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋव् 3.31.1]>_इत्य् अच्छावाकस्
(ग्ब्र्_2,5.15ह्) तद् आहुः कस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
(ग्ब्र्_2,5.15इ) वीर्यवान् वा एष बह्वृचो यद् अच्छावाकः_
(ग्ब्र्_2,5.15ज्) वहति ह वै वह्निर् धुरो यासु युज्यते
(ग्ब्र्_2,5.15क्) तस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
(ग्ब्र्_2,5.15ल्) तानि पञ्चस्व् अहःसु शस्यन्ते चतुर्विंशे ऽभिजिति विषुवति विश्वजिति महाव्रते
(ग्ब्र्_2,5.15म्) तान्य् एतान्य् अहीनसूक्तानीत्य् आचक्षते
(ग्ब्र्_2,5.15न्) न ह्य् एषु किं चन हीयते
(ग्ब्र्_2,5.15ओ) पराञ्चि ह वा एतान्य् अहान्य् अनभ्यावर्तीनि भवन्ति
(ग्ब्र्_2,5.15प्) तस्माद् एतान्य् एतेष्व् अहःसु शस्यन्ते
(ग्ब्र्_2,5.15q) यद् एतानि शंसन्ति तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,5.15र्) यद् वेवैतानि शंसन्तीन्द्रम् एवैतैर् निर्ह्वयन्ते यथर्षभं वाशितायै
(ग्ब्र्_2,5.15स्) ते वै देवाश् चर्षयश् चाब्रुवन्त् समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्]
(ग्ब्र्_2,5.15त्) तद् एतद् यज्ञस्य समानम् अपश्यन्_
(ग्ब्र्_2,5.15उ) समानान् प्रगाथान्त् समानीः प्रतिपदः समानानि सूक्तानि_ [एद्. प्रगाथांत्]
(ग्ब्र्_2,5.15व्) ओकःसारी वा इन्द्रः_
(ग्ब्र्_2,5.15w) यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्य् एव तत्रापरम्_
(ग्ब्र्_2,5.15x) यज्ञस्यैव सेन्द्रतायै

मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc