भाषा

ENहिગુ
ग्रंथ पाठ

गोपथब्राह्मण · अध्याय 8

8.1

(ग्ब्र्_2,2.24चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः ॥
(ग्ब्र्_2,3.1अ) ओं देवपात्रं वै वषट्कारः_
(ग्ब्र्_2,3.1ब्) यद् वषट्करोति देवपात्रेणैव तद् देवतास् तर्पयति_
(ग्ब्र्_2,3.1च्) अथो यद् आभितृष्यन्तीर् अभिसंस्थं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति
(ग्ब्र्_2,3.1द्) तद् यथैवादो ऽश्वान् वा गा वा पुनरभ्याकारं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति_
(ग्ब्र्_2,3.1ए) इमान् एवाग्नीन् उपासत इत्य् आहुर् धिष्ण्यान्
(ग्ब्र्_2,3.1f) अथ कस्मात् पूर्वस्मिन्न् एवाग्नौ जुह्वति पूर्वस्मिन् वषट्करोति
(ग्ब्र्_2,3.1ग्) यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान् प्रीणाति_
(ग्ब्र्_2,3.1ह्) अथ संस्थितान् सोमान् भक्षयन्तीत्य् आहुर् येषां नानुवषट्करोति
(ग्ब्र्_2,3.1इ) तद् आहुः को नु सोमस्य स्विष्टकृद्भाग इति
(ग्ब्र्_2,3.1ज्) यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव संस्थितान् सोमान् भक्षयन्तीत्य् आहुः
(ग्ब्र्_2,3.1क्) स उ एष सोमस्य स्विष्टकृद्भागो यद् अनुवषट्करोति

8.2

(ग्ब्र्_2,3.2अ) वज्रो वै वषट्कारः
(ग्ब्र्_2,3.2ब्) स यं द्विष्यात् तं मनसा ध्यायन् वषट्कुर्यात्
(ग्ब्र्_2,3.2च्) तस्मिंस् तद् वज्रम् आस्थापयति
(ग्ब्र्_2,3.2द्) षड् इति वषट्करोति
(ग्ब्र्_2,3.2ए) षड् वा ऋतवः_
(ग्ब्र्_2,3.2f) ऋतूनाम् आप्त्यै
(ग्ब्र्_2,3.2ग्) वौषड् इति वषट्करोति_
(ग्ब्र्_2,3.2ह्) असौ वाव वाव् ऋतवः षट्_
(ग्ब्र्_2,3.2इ) एतम् एव तद् ऋतुष्व् आदधाति_
(ग्ब्र्_2,3.2ज्) ऋतुषु प्रतिष्ठापयति
(ग्ब्र्_2,3.2क्) तद् उ ह स्माह वैद एतानि वा एतेन षट् प्रतिष्ठापयति
(ग्ब्र्_2,3.2ल्) द्यौर् अन्तरिक्षे प्रतिष्ठिता_
(ग्ब्र्_2,3.2म्) अन्तरिक्षं पृथिव्याम्_
(ग्ब्र्_2,3.2न्) पृथिव्य् अप्सु_
(ग्ब्र्_2,3.2ओ) आपः सत्ये
(ग्ब्र्_2,3.2प्) सत्यं ब्रह्मणि
(ग्ब्र्_2,3.2q) ब्रह्म तपसीति_
(ग्ब्र्_2,3.2र्) एता एव तद् देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीर् इदं सर्वम् अनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. पत्यल्]
(ग्ब्र्_2,3.2स्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद

8.3

(ग्ब्र्_2,3.3अ) त्रयो वै वषट्काराः_
(ग्ब्र्_2,3.3ब्) वज्रो धामच्छद् रिक्तः
(ग्ब्र्_2,3.3च्) स यद् एवोच्चैर् बलं वषट्करोति स वज्रस्
(ग्ब्र्_2,3.3द्) तं तं प्रहरति द्विषते भ्रातृव्याय वधं यो ऽस्य स्तृत्यस् तस्मै स्तरीतवे
(ग्ब्र्_2,3.3ए) तस्मात् स भ्रातृव्यवता वषट्कृत्यः_
(ग्ब्र्_2,3.3f) अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत्
(ग्ब्र्_2,3.3ग्) तं तं प्रजाश् च पशवश् चानूपतिष्ठन्ते
(ग्ब्र्_2,3.3ह्) तस्मात् स प्रजाकामेन पशुकामेन वषट्कृत्यः_
(ग्ब्र्_2,3.3इ) अथ येनैव षड् अपराध्नोति स रिक्तः_
(ग्ब्र्_2,3.3ज्) रिणक्त्य् आत्मानं रिणक्ति यजमानम्_
(ग्ब्र्_2,3.3क्) पापीयान् वषट्कर्ता भवति पापीयान् यस्मै वषट्करोति
(ग्ब्र्_2,3.3ल्) तस्मात् तस्याशां नेयात्
(ग्ब्र्_2,3.3म्) किं स्वित् स यजमानस्य पापभद्रम् आद्रियेतेति ह स्माह यो ऽस्य वषट्कर्ता भवति_
(ग्ब्र्_2,3.3न्) अत्रैवैनं यथा कामयेत तथा कुर्यात्_
(ग्ब्र्_2,3.3ओ) यं कामयेत यथैवानीजानो ऽभूत् तथैवेजानः स्याद् इति यथैवास्यर्चं ब्रूयात् तथैवास्य वषट्कुर्यात्
(ग्ब्र्_2,3.3प्) समानम् एवैनं तत् करोति
(ग्ब्र्_2,3.3q) यं कामयेत पापीयान् स्याद् इत्य् उच्चैस्तराम् अस्यर्चं ब्रूयान् नीचैस्तरां वषट्कुर्यात्
(ग्ब्र्_2,3.3र्) पापीयांसम् एवैनं तत् करोति
(ग्ब्र्_2,3.3स्) यं कामयेत श्रेयान् स्याद् इति नीचैस्तराम् अस्यर्चं ब्रूयाद् उच्चैस्तरां वषट्कुर्यात्_
(ग्ब्र्_2,3.3त्) श्रेयांसम् एवैनं तत् करोति
(ग्ब्र्_2,3.3उ) श्रिय एवैनं तच् छ्रियम् आदधाति

8.4

(ग्ब्र्_2,3.4अ) यस्यै देवतायै हविर् गृहीतं स्यात् तां मनसा ध्यायन् वषट्कुर्यात् [एद्. दवतायै]
(ग्ब्र्_2,3.4ब्) साक्षाद् एव तद् देवतां प्रीणाति
(ग्ब्र्_2,3.4च्) प्रत्यक्षाद् देवतां परिगृह्णाति
(ग्ब्र्_2,3.4द्) संततम् ऋचा वषट्कृत्यम्_
(ग्ब्र्_2,3.4ए) संतत्यै
(ग्ब्र्_2,3.4f) संधीयते प्रजया पशुभिर् य एवं वेद

8.5

(ग्ब्र्_2,3.5अ) वज्रो वै वषट्कारः
(ग्ब्र्_2,3.5ब्) स उ एष प्रहृतो ऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम्_
(ग्ब्र्_2,3.5च्) तस्माद् धाप्य् एतर्हि भूयान् इव मृत्युस्
(ग्ब्र्_2,3.5द्) तस्य हैषैव शान्तिर् एषा प्रतिष्ठा यद् वाग् इति
(ग्ब्र्_2,3.5ए) वषट्कृत्य वाग् इत्य् अनुमन्त्रयते
(ग्ब्र्_2,3.5f) वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेद् इति [एद्. प्रतिष्ठीसि, चोर्रेच्तेद् प्. 302]
(ग्ब्र्_2,3.5ग्) तद् उ स्माह दीर्घम् एवैतैत् सदप्रभ्व् ओजः सह ओज इत्य् अनुमन्त्रयेत_
(ग्ब्र्_2,3.5ह्) ओजश् च ह वै सहश् च वषट्कारस्य प्रियतमे तन्वौ
(ग्ब्र्_2,3.5इ) प्रियाभ्याम् एव तत् तनूभ्यां समर्धयति
(ग्ब्र्_2,3.5ज्) प्रियया तन्वा समृध्यते य एवं वेद

8.6

(ग्ब्र्_2,3.6अ) वाक् च वै प्राणापानौ च वषट्कारस्
(ग्ब्र्_2,3.6ब्) ते वषट्कृते वषट्कृते व्युत्क्रामन्ति
(ग्ब्र्_2,3.6च्) तान् अनुमन्त्रयते वाग् ओजः सह ओजो मयि प्राणापानाव् इति
(ग्ब्र्_2,3.6द्) वाचं चैव तत् प्राणापानौ च होतात्मनि प्रतिष्ठापयति
(ग्ब्र्_2,3.6ए) सर्वम् आयुर् एति
(ग्ब्र्_2,3.6f) न पुरा जरसः प्रमीयते य एवं वेद
(ग्ब्र्_2,3.6ग्) <शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः [ऋव् 8.48.4, वैत्स् 19.18]>_इत्य् आत्मानं प्रत्यभिमृशति_
(ग्ब्र्_2,3.6ह्) ईश्वरो वा एषो ऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुम् अनर्हन् मा भक्षयेद् इति
(ग्ब्र्_2,3.6इ) तद् यद् एतेन प्रत्यभिमृशत्य् आयुर् एवास्मै तत् प्रतिरते_
(ग्ब्र्_2,3.6ज्) आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसान् आप्याययन्त्य् अभिरूपाभ्याम्_
(ग्ब्र्_2,3.6क्) यद् यज्ञे ऽभिरूपं तत् समृद्धम्

8.7

(ग्ब्र्_2,3.7अ) प्राणा वा ऋतुयाजास्
(ग्ब्र्_2,3.7ब्) तद् यद् ऋतुयाजैश् चरन्ति प्राणान् एव तद् यजमाने दधति
(ग्ब्र्_2,3.7च्) षड् ऋतुनेति यजन्ति
(ग्ब्र्_2,3.7द्) प्राणम् एव तद् यजमाने दधति
(ग्ब्र्_2,3.7ए) चत्वार ऋतुभिर् इति यजन्ति_
(ग्ब्र्_2,3.7f) अपानम् एव तद् यजमाने दधति
(ग्ब्र्_2,3.7ग्) द्विर् ऋतुनेत्य् उपरिष्टात्_
(ग्ब्र्_2,3.7ह्) व्यानम् एव तद् यजमाने दधति
(ग्ब्र्_2,3.7इ) स चासु संभृतस् त्रेधा विहृतः प्राणो ऽपानो व्यान इति [एद्. ऽपाणो]
(ग्ब्र्_2,3.7ज्) ततो ऽन्यत्र गुणितस्
(ग्ब्र्_2,3.7क्) तथा ह यजमानः सर्वम् आयुर् एत्य् अस्मिंल् लोक आर्ध्नोति_
(ग्ब्र्_2,3.7ल्) आप्नोत्य् अमृतत्वम् अक्षितं स्वर्गे लोके
(ग्ब्र्_2,3.7म्) ते वा एते प्राणा एव यद् ऋतुयाजास्
(ग्ब्र्_2,3.7न्) तस्माद् अनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. पत्यल्]
(ग्ब्र्_2,3.7ओ) प्राणानां सन्तत्यै
(ग्ब्र्_2,3.7प्) सन्तन्ता इव हीमे प्राणाः_
(ग्ब्र्_2,3.7q) अथो ऋतवो वा ऋतुयाजाः
(ग्ब्र्_2,3.7र्) संस्थानुवषट्कारः_ [एद्. अनुवषट्कुआरो]
(ग्ब्र्_2,3.7स्) यो ऽत्रानुवषट्कुर्याद् असंस्थितान् ऋतून् संस्थापयेत्_
(ग्ब्र्_2,3.7त्) यस् तं तत्र ब्रूयाद् असंस्थितान् ऋतून् समतिष्ठिपद् दुःषमं भविष्यतीति शश्वत् तथा स्यात्

8.8

(ग्ब्र्_2,3.8अ) तद् आहुर् यद् धोता यक्षद् धोता यक्षद् इति मैत्रावरुणो होत्रे प्रेष्यत्य् अथ कस्माद् अहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद् धोता यक्षद् इति प्रेष्यतीति
(ग्ब्र्_2,3.8ब्) वाग् वै होता वाक् सर्व ऋत्विजः_
(ग्ब्र्_2,3.8च्) वाग् यक्षद् वाग् यक्षद् इति_
(ग्ब्र्_2,3.8द्) अथो सर्वे वा एते सप्त होतारो ऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति_
(ग्ब्र्_2,3.8ए) अथ य उपरिष्टाद् द्वादशर्चजामितायै
(ग्ब्र्_2,3.8f) ते वै द्वादश भवन्ति
(ग्ब्र्_2,3.8ग्) द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. पत्यल्]
(ग्ब्र्_2,3.8ह्) संवत्सरः प्रजापतिः
(ग्ब्र्_2,3.8इ) प्रजापतिर् यज्ञः
(ग्ब्र्_2,3.8ज्) स यो ऽत्र भक्षयेद् यस् तं तत्र ब्रूयाद् अशान्तो भक्षो ऽननुवषट्कृत आत्मानम् अन्तरगान् न जीविष्यतीति तथा ह स्यात्_ [एद्. ऽनानुवषट्कृत, चोर्र्. पत्यल्]
(ग्ब्र्_2,3.8क्) यो वै भक्षयेत् प्राणो भक्षः प्राण आत्मानम् अन्तरगाद् इति तथैव भवति
(ग्ब्र्_2,3.8ल्) लिम्पेद् इवैवावजिघ्रेद् अत्र च द्विदेवत्येषु चेति
(ग्ब्र्_2,3.8म्) तद् उ तत्र शासनं वेदयन्ते_
(ग्ब्र्_2,3.8न्) अथ यद् अभू व्यभिचरतो नान्योन्यम् अनुप्रपद्येते अध्वर्यू तस्माद् ऋतुर् ऋतुं नानुप्रपद्यते

8.9

(ग्ब्र्_2,3.9अ) प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत
(ग्ब्र्_2,3.9ब्) ता हिंकारेणैवाभ्यजिघ्रत् [एद्. हिंकारेन, चोर्र्. पत्यल्]
(ग्ब्र्_2,3.9च्) ताः प्रजा अश्वम् आरंस् तद् बध्यते वा एतद् यज्ञो यद् धवींषि पच्यन्ते यत् सोमः सूयते यत् पशुर् आलभ्यते
(ग्ब्र्_2,3.9द्) हिंकारेण वा एतत् प्रजापतिर् हतम् अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति
(ग्ब्र्_2,3.9ए) तस्माद् उ हिंक्रियते
(ग्ब्र्_2,3.9f) तस्माद् उ य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति
(ग्ब्र्_2,3.9ग्) प्रजापतिर् हि तम् अभिजिघ्रति
(ग्ब्र्_2,3.9ह्) यच् छकुनिर् आण्डम् अध्यास्ते यन् न सूयते तद् धि सापि हिंकृणोति_
(ग्ब्र्_2,3.9इ) अथो खल्व् आहुर् महर्षिर् वा एतद् यज्ञस्याग्रे गेयम् अपश्यत्
(ग्ब्र्_2,3.9ज्) तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस्
(ग्ब्र्_2,3.9क्) तं देवाश् च ऋषयश् चाब्रुवन् वसिष्ठो ऽयम् अस्तु यो नो यज्ञस्याग्रे गेयम् अद्राग् इति
(ग्ब्र्_2,3.9ल्) तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस्
(ग्ब्र्_2,3.9म्) ततो वै स देवानां श्रेष्ठो ऽभवत्_
(ग्ब्र्_2,3.9न्) येन वै श्रेष्ठस् तेन वसिष्ठस्
(ग्ब्र्_2,3.9ओ) तस्माद् यस्मिन् वासिष्ठो ब्राह्मणः स्यात् तं दक्षिणाया नान्तरीयात् [एद्. स्यांत्]
(ग्ब्र्_2,3.9प्) तथा हास्य प्रीतो हिंकारो भवति_
(ग्ब्र्_2,3.9q) अथ देवाश् च ह वा ऋषयश् च यद् ऋक्सामे अपश्यंस् ते ह स्मैते अपश्यन्_
(ग्ब्र्_2,3.9र्) ते यत्रैते अपश्यंस् तत एवैनं सर्वं दोहम् अदुहन्_
(ग्ब्र्_2,3.9स्) ते वा एते दुग्धे यातयामे ये ऋक्सामे
(ग्ब्र्_2,3.9त्) ते हिंकारेणैवाप्यायेते
(ग्ब्र्_2,3.9उ) हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते
(ग्ब्र्_2,3.9व्) तस्माद् उ हिंकृत्याध्वर्यवः सोमम् अभिषुण्वन्ति
(ग्ब्र्_2,3.9w) हिंकृत्योद्गातारः साम्ना स्तुवन्ति
(ग्ब्र्_2,3.9x) हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति
(ग्ब्र्_2,3.9य्) हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति
(ग्ब्र्_2,3.9z) तस्माद् उ हिंक्रियते
(ग्ब्र्_2,3.9अअ) प्रजापतिर् हि तम् अभिजिघ्रति_
(ग्ब्र्_2,3.9ब्ब्) अथो खल्व् आहुर् एको वै प्रजापतेर् व्रतं बिभर्ति गौर् एव
(ग्ब्र्_2,3.9च्च्) तद् उभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति

8.10

(ग्ब्र्_2,3.10अ) देवविशः कल्पयितव्या इत्य् आहुः_
(ग्ब्र्_2,3.10ब्) छन्दश् छन्दसि प्रतिष्ठाप्यम् इति
(ग्ब्र्_2,3.10च्) शंसावोम् इत्य् आह्वयते प्रातःसवने त्र्यक्षरेण
(ग्ब्र्_2,3.10द्) शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
(ग्ब्र्_2,3.10ए) तद् अष्टाक्षरं संपद्यते_
(ग्ब्र्_2,3.10f) अष्टाक्षरा वै गायत्री
(ग्ब्र्_2,3.10ग्) गायत्रीम् एवैतत् पुरस्तात् प्रातःसवने ऽचीकॢपताम्
(ग्ब्र्_2,3.10ह्) उक्थं वाचीत्य् आह शस्त्वा चतुरक्षरम्
(ग्ब्र्_2,3.10इ) ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति चतुरक्षरम्_
(ग्ब्र्_2,3.10ज्) तद् अष्टाक्षरं संपद्यते_
(ग्ब्र्_2,3.10क्) अष्टाक्षरा वै गायत्री
(ग्ब्र्_2,3.10ल्) गायत्रीम् एवैतद् उभयतः प्रातःसवने ऽचीकॢपताम्
(ग्ब्र्_2,3.10म्) अध्वर्यो शंसावोम् इत्य् आह्वयते माध्यंदिने षडक्षरेण
(ग्ब्र्_2,3.10न्) शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
(ग्ब्र्_2,3.10ओ) तद् एकादशाक्षरं संपद्यते_
(ग्ब्र्_2,3.10प्) एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतत् पुरस्तान् माध्यंदिने ऽचीकॢपताम्
(ग्ब्र्_2,3.10q) उक्थं वाचीन्द्रायेत्य् आह शस्त्वा षडक्षरम्
(ग्ब्र्_2,3.10र्) ओमुक्थशा यजेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम्_
(ग्ब्र्_2,3.10स्) तद् एकादशाक्षरं संपद्यते_
(ग्ब्र्_2,3.10त्) एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतद् उभयतो माध्यंदिने ऽचीकॢपताम्
(ग्ब्र्_2,3.10उ) अध्वर्यो शंशंसावोम् इत्य् आह्वयते तृतीयसवने सप्ताक्षरेण
(ग्ब्र्_2,3.10व्) शंसवो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम्_
(ग्ब्र्_2,3.10w) तद् द्वादशाक्षरं संपद्यते
(ग्ब्र्_2,3.10x) द्वादशाक्षरा वै जगती
(ग्ब्र्_2,3.10य्) जगतीम् एवैतत् पुरस्तात् तृतीयसवने ऽचीकॢपताम्
(ग्ब्र्_2,3.10z) उक्थं वाचीन्द्राय देवेभ्य इत्य् आह शस्त्वा नवाक्षरम्
(ग्ब्र्_2,3.10अअ) ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति त्र्यक्षरम्_
(ग्ब्र्_2,3.10ब्ब्) तद् द्वादशाक्षरं संपद्यते
(ग्ब्र्_2,3.10च्च्) द्वादशाक्षरा वै जगती
(ग्ब्र्_2,3.10द्द्) जगतीम् एवैतद् उभयतस् तृतीयसवने ऽचीकॢपताम् इति_
(ग्ब्र्_2,3.10एए) एतद् वै तच् छन्दश् छन्दसि प्रतिष्ठापयति
(ग्ब्र्_2,3.10ff) कल्पयत्य् एव देवविशो य एवं वेद
(ग्ब्र्_2,3.10ग्ग्) तद् अप्य् एषाभ्यनूक्ता यद् गायत्रे अधि गायत्रम् आहितम् इति

8.11

(ग्ब्र्_2,3.11अ) अथैतन् नाना छन्दांस्य् अन्तरेण गर्ता इव_
(ग्ब्र्_2,3.11ब्) अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते
(ग्ब्र्_2,3.11च्) ताभ्यां प्रतिपद्यते
(ग्ब्र्_2,3.11द्) तद् गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम्_
(ग्ब्र्_2,3.11ए) तद् अनवानं संक्रामेत्_
(ग्ब्र्_2,3.11f) अमृतं वै प्रणवः_
(ग्ब्र्_2,3.11ग्) अमृतेनैव तन् मृत्युं तरति
(ग्ब्र्_2,3.11ह्) तद् यथा मत्येन वा वंशेन वा गर्तं संक्रामेद् एवं तत् प्रणवेनोपसंतनोति
(ग्ब्र्_2,3.11इ) ब्रह्म ह वै प्रणवः_
(ग्ब्र्_2,3.11ज्) ब्रह्मणैवास्मै तद् ब्रह्मोपसंतनोति
(ग्ब्र्_2,3.11क्) शुद्धः प्रणवः स्यात् प्रजाकामानाम्_
(ग्ब्र्_2,3.11ल्) मकारान्तः प्रतिष्ठाकामानाम्_
(ग्ब्र्_2,3.11म्) मकारान्तः प्रणवः स्याद् इति हैक आहुः
(ग्ब्र्_2,3.11न्) शुद्ध इति त्व् एव स्थितः_
(ग्ब्र्_2,3.11ओ) मीमांसितः प्रणवः_
(ग्ब्र्_2,3.11प्) अथात इह शुद्ध इह पूर्ण इति
(ग्ब्र्_2,3.11q) शुद्धः प्रणवः स्यात्_
(ग्ब्र्_2,3.11र्) शस्त्रानुवचनयोर् मध्य इति ह स्माह कौषीतकिस्
(ग्ब्र्_2,3.11स्) तथा संहितं भवति
(ग्ब्र्_2,3.11त्) मकारान्तो ऽवसानार्थे
(ग्ब्र्_2,3.11उ) प्रतिष्ठा वा अवसानम्_
(ग्ब्र्_2,3.11व्) प्रतिष्ठित्या एव_
(ग्ब्र्_2,3.11w) अथोभयोः कामयोर् आप्त्यै_
(ग्ब्र्_2,3.11x) एतौ वै छन्दःप्रवाहाव् अवरं छन्दः परं छन्दो ऽतिप्रवहतस्
(ग्ब्र्_2,3.11य्) तस्यायुर् न हिनस्ति
(ग्ब्र्_2,3.11z) छन्दसां छन्दो ऽतिप्रोढं स्यात् तत्रैव यं द्विष्यात् तं मनसा प्रैव विध्येत्_
(ग्ब्र्_2,3.11अअ) छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति
(ग्ब्र्_2,3.11ब्ब्) त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह यज्ञस्यैव तद् बर्हिसो नह्यति
(ग्ब्र्_2,3.11च्च्) स्थेम्ने बलायाविस्रंसाय
(ग्ब्र्_2,3.11द्द्) यद्य् अपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण_
(ग्ब्र्_2,3.11एए) अथो प्रातःसवनरूपेणेति
(ग्ब्र्_2,3.11ff) न त्रिष्टुब्जगत्याव् एतस्मिन् स्थाने ऽर्धर्चशस्ये यत् किं चिच् छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यम् इति सा स्थितिः

8.12

(ग्ब्र्_2,3.12अ) अथात एकाहस्य प्रातःसवनम्_
(ग्ब्र्_2,3.12ब्) प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर् मृत्युपाशेन प्रत्युपाक्रामत
(ग्ब्र्_2,3.12च्) स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत
(ग्ब्र्_2,3.12द्) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
(ग्ब्र्_2,3.12ए) तं सामाज्येष्ठसीदत्
(ग्ब्र्_2,3.12f) स वायव्या प्र"उगं प्रत्यपद्यत
(ग्ब्र्_2,3.12ग्) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
(ग्ब्र्_2,3.12ह्) तं माध्यंदिने पवमाने ऽसीदत्
(ग्ब्र्_2,3.12इ) स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत
(ग्ब्र्_2,3.12ज्) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
(ग्ब्र्_2,3.12क्) स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियम् आसीदत्
(ग्ब्र्_2,3.12ल्) तम् अस्तृणोत्
(ग्ब्र्_2,3.12म्) तस्माद् उ य एव पूर्वम् आसीदति स तत् स्तृणुते विद्वान्
(ग्ब्र्_2,3.12न्) मृत्युर् अनवकाशम् अपाद्रवद् अशंसद् इतरो निष्केवल्यम्_
(ग्ब्र्_2,3.12ओ) तस्माद् एकम् एवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यम् एव_
(ग्ब्र्_2,3.12प्) अत्र हि प्रजापतिं मृत्युर् व्यजहात्

8.13

(ग्ब्र्_2,3.13अ) मित्रावरुणाव् अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतं मैत्रावरुणीयाम्_
(ग्ब्र्_2,3.13ब्) तथेत्य् अब्रूताम्_
(ग्ब्र्_2,3.13च्) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(ग्ब्र्_2,3.13द्) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां मैत्रावरुणीयाम्_
(ग्ब्र्_2,3.13ए) तस्मान् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति
(ग्ब्र्_2,3.13f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्_
(ग्ब्र्_2,3.13ग्) यद् व् एव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः [ऋव् 7.63.5]>_<उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः [ऋव् 1.137.2]>_इत्य् ऋचाभ्यनूक्तम्
(ग्ब्र्_2,3.13ह्) <आ नो मित्रावरुणा [ऋव् 3.62.16]>_<आ नो गन्तं रिशादसा [ऋव् 5.71.1]>_इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
(ग्ब्र्_2,3.13इ) <प्र वो मित्राय गायत [ऋव् 5.68.1]>_इत्य् उक्थमुखम्_
(ग्ब्र्_2,3.13ज्) <प्र मित्रयोर् वरुणयोः [ऋव् 7.66.1]>_इति पर्यासः_
(ग्ब्र्_2,3.13क्) <आ यातं मित्रावरुणा [ऋव् 7.66.19]>_इति यजति_
(ग्ब्र्_2,3.13ल्) एते एव तद् देवते यथाभागं प्रीणाति
(ग्ब्र्_2,3.13म्) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,3.13न्) प्रत्य् एवाभिमृशन्ते
(ग्ब्र्_2,3.13ओ) नाप्याययन्ति
(ग्ब्र्_2,3.13प्) न ह्य् अनाराशंसाः सीदन्ति

8.14

(ग्ब्र्_2,3.14अ) इन्द्रम् अब्रवीत् त्वं न इमं यज्ञस्याङ्गम् अनुसमाहर ब्राह्मणाच्छंसीयाम्_
(ग्ब्र्_2,3.14ब्) केन सहेति
(ग्ब्र्_2,3.14च्) सूर्येनेति
(ग्ब्र्_2,3.14द्) तथेत्य् अब्रूताम्_
(ग्ब्र्_2,3.14ए) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(ग्ब्र्_2,3.14f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां ब्राह्मणाच्छंसीयाम्_
(ग्ब्र्_2,3.14ग्) तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति
(ग्ब्र्_2,3.14ह्) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्_
(ग्ब्र्_2,3.14इ) यद् व् एवैन्द्राणि सूर्यन्यङ्गानि शंसति_<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः [ऋव् 10.112.1]>_इत्य् ऋचाभ्यनूक्तम्
(ग्ब्र्_2,3.14ज्) <आ याहि सुषुमा हि ते [ऋव् 8.17.1, वैत्स् 21.1]>_<आ नो याहि सुतावतः [ऋव् 8.17.4, वैत्स् 21.1]>_इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ_
(ग्ब्र्_2,3.14क्) <अयम् उ त्वा विचर्षणे [ऋव् 8.17.7, वैत्स् 21.2]>_इत्य् उक्थमुखम्
(ग्ब्र्_2,3.14ल्) <उद् घेद् अभिश्रुतामघम् [ऋव् 8.93.1, वैत्स् 21.2]> इति पर्यासः_
(ग्ब्र्_2,3.14म्) <इन्द्र क्रतुविदम् [ऋव् 3.40.2]> इति यजति_
(ग्ब्र्_2,3.14न्) एते एव तद् देवते यथाभागं प्रीणाति
(ग्ब्र्_2,3.14ओ) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,3.14प्) प्रत्य् एवाभिमृशन्ते
(ग्ब्र्_2,3.14q) नाप्याययन्ति
(ग्ब्र्_2,3.14र्) न ह्य् अनाराशंसाः सीदन्ति

8.15

(ग्ब्र्_2,3.15अ) इन्द्राग्नी अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतम् अच्छावाकीयाम्_
(ग्ब्र्_2,3.15ब्) तथेत्य् अब्रूताम्_
(ग्ब्र्_2,3.15च्) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(ग्ब्र्_2,3.15द्) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम् अच्छावाकीयाम्_
(ग्ब्र्_2,3.15ए) तस्माद् अच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति
(ग्ब्र्_2,3.15f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्_
(ग्ब्र्_2,3.15ग्) यद् व् एवैन्द्राग्नानि शंसति <प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋव् 8.38.7]>_इत्य् ऋचाभ्यनूक्तम्
(ग्ब्र्_2,3.15ह्) <इन्द्राग्नी आ गतम् [ऋव् 3.12.1]>_<तोशा वृत्रहणा हुवे [ऋव् 3.12.4]>_इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ_ [एद्. तोषा, चोर्रेच्तेद् प्. 302]
(ग्ब्र्_2,3.15इ) <इन्द्राग्नी अपसस् परि [ऋव् 3.12.7]>_इत्य् उक्थमुखम्
(ग्ब्र्_2,3.15ज्) <इहेन्द्राग्नी उपह्वये [ऋव् 1.21.1]>_इति पर्यासः_
(ग्ब्र्_2,3.15क्) <इन्द्राग्नी आ गतम्> इति यजति_
(ग्ब्र्_2,3.15ल्) एते एव तद् देवते यथाभागं प्रीणाति
(ग्ब्र्_2,3.15म्) वषट्कृत्यानुवषट्करोति
(ग्ब्र्_2,3.15न्) प्रत्य् एवाभिमृशन्ते
(ग्ब्र्_2,3.15ओ) नाप्याययन्ति
(ग्ब्र्_2,3.15प्) न ह्य् अनाराशंसाः सीदन्ति

8.16

(ग्ब्र्_2,3.16अ) अथ शंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुर् आह्वयन्ते
(ग्ब्र्_2,3.16ब्) चतस्रो वै दिशः_ [एद्. चसस्रो]
(ग्ब्र्_2,3.16च्) दिक्षु तत् प्रतितिष्ठन्ति_
(ग्ब्र्_2,3.16द्) अथो चतुष्पादः पशवः
(ग्ब्र्_2,3.16ए) पशूनाम् आप्त्यै_
(ग्ब्र्_2,3.16f) अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास्
(ग्ब्र्_2,3.16ग्) तस्माच् चतुः सर्वे गायत्राणि शंसन्ति
(ग्ब्र्_2,3.16ह्) गायत्रं हि प्रातःसवनम्_
(ग्ब्र्_2,3.16इ) सर्वे समवतीभिः परिदधति
(ग्ब्र्_2,3.16ज्) तद् यत् समवतीभिः परिदधति
(ग्ब्र्_2,3.16क्) अन्तो वै पर्यासः_
(ग्ब्र्_2,3.16ल्) अन्त उदर्कः_
(ग्ब्र्_2,3.16म्) अन्तेनैवान्तं परिदधति
(ग्ब्र्_2,3.16न्) सर्वे मद्वतीभिर् यजन्ति
(ग्ब्र्_2,3.16ओ) तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
(ग्ब्र्_2,3.16प्) यद् यज्ञे ऽभिरूपं तत् समृद्धम्_
(ग्ब्र्_2,3.16q) सर्वे ऽनुवषट्कुर्वन्ति
(ग्ब्र्_2,3.16र्) स्विष्टकृत्वानुवषट्कारः_
(ग्ब्र्_2,3.16स्) नेत् स्विष्टकृतम् अन्तरयामेति_
(ग्ब्र्_2,3.16त्) अयं वै लोकः प्रातःसवनम्_
(ग्ब्र्_2,3.16उ) तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य
(ग्ब्र्_2,3.16व्) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति

8.17

(ग्ब्र्_2,3.17अ) घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति
(ग्ब्र्_2,3.17ब्) यज्ञं वा एतद् धन्ति यद् दक्षिणा नीयन्ते
(ग्ब्र्_2,3.17च्) यज्ञं वा एतद् दक्षयन्ति
(ग्ब्र्_2,3.17द्) तद् दक्षिणानां दक्षिणात्वम्_
(ग्ब्र्_2,3.17ए) स्वर्गो वै लोको माध्यंदिनं सवनम्_
(ग्ब्र्_2,3.17f) यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै
(ग्ब्र्_2,3.17ग्) बहु देयम्_
(ग्ब्र्_2,3.17ह्) सेतुं वा एतद् यजमानः संस्कुरुते
(ग्ब्र्_2,3.17इ) स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै
(ग्ब्र्_2,3.17ज्) द्वाभ्यां गार्हपत्ये जुहोति_
(ग्ब्र्_2,3.17क्) अध्वर्युर् अस्याक्रान्तेनाक्रामयति_
(ग्ब्र्_2,3.17ल्) आग्नेय्याग्नीध्रीये_
(ग्ब्र्_2,3.17म्) अन्तरिक्षं तेन
(ग्ब्र्_2,3.17न्) यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके
(ग्ब्र्_2,3.17ओ) हिरण्यं हस्ते भवति_
(ग्ब्र्_2,3.17प्) अथ नयति
(ग्ब्र्_2,3.17q) सत्यं वै हिरण्यम्_
(ग्ब्र्_2,3.17र्) सत्येनैवैनं तन् नयति_
(ग्ब्र्_2,3.17स्) अग्रेण गार्हपत्यं जघनेन सदो ऽन्तराग्नीध्रीयं च सदश् च
(ग्ब्र्_2,3.17त्) ता उदीचीर् अन्तराग्नीध्रीयं च सदश् च चात्वालं चोत्सृजन्ति_
(ग्ब्र्_2,3.17उ) एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकम् आयन्_
(ग्ब्र्_2,3.17व्) ता वा एताः पन्थानम् अभिवहन्ति

8.18

(ग्ब्र्_2,3.18अ) अग्नीधे ऽग्रे ददाति
(ग्ब्र्_2,3.18ब्) यज्ञमुखं वा अग्नीत्_
(ग्ब्र्_2,3.18च्) यज्ञमुखेनैव तद् यज्ञमुखं समर्धयति
(ग्ब्र्_2,3.18द्) ब्रह्मणे ददाति
(ग्ब्र्_2,3.18ए) प्राजापत्यो वै ब्रह्मा
(ग्ब्र्_2,3.18f) प्रजापतिम् एव तया प्रीणाति_
(ग्ब्र्_2,3.18ग्) ऋत्विग्भ्यो ददाति
(ग्ब्र्_2,3.18ह्) होत्रा एव तया प्रीणाति
(ग्ब्र्_2,3.18इ) सदस्येभ्यो ददाति
(ग्ब्र्_2,3.18ज्) सोमपीथं तया निष्क्रीणीते
(ग्ब्र्_2,3.18क्) न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात्_
(ग्ब्र्_2,3.18ल्) यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति
(ग्ब्र्_2,3.18म्) याम् अश्रुश्रुवुषे ऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति
(ग्ब्र्_2,3.18न्) याम् अप्रसृप्ताय ददाति वनस्पतस् तया प्रथन्ते
(ग्ब्र्_2,3.18ओ) यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते
(ग्ब्र्_2,3.18प्) यां भीषा क्षत्रं तया ब्रह्मातीयात्_
(ग्ब्र्_2,3.18q) यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा
(ग्ब्र्_2,3.18र्) यस् तां पुनः प्रतिगृह्णीयाद् व्याघ्र्य् एनं भूत्वा प्रव्लीनीयात्_
(ग्ब्र्_2,3.18स्) अन्यया सह प्रतिगृह्णीयात्_
(ग्ब्र्_2,3.18त्) अथ हैनं न प्रव्लीनाति

8.19

(ग्ब्र्_2,3.19अ) यद् गां ददाति वैश्वदेवी वै गौः_
(ग्ब्र्_2,3.19ब्) विश्वेषाम् एव तद् देवानां तेन प्रियं धामोपैति
(ग्ब्र्_2,3.19च्) यद् अजं ददात्य् आग्नेयो वा अजः_
(ग्ब्र्_2,3.19द्) अग्नेर् एव तेन प्रियं धामोपैति
(ग्ब्र्_2,3.19ए) यद् अविं ददात्य् आव्यं तेनावजयति
(ग्ब्र्_2,3.19f) यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते
(ग्ब्र्_2,3.19ग्) यद् अनो वा रथो वा ददाति शरीरं तेन
(ग्ब्र्_2,3.19ह्) यद् वासो ददाति ब्रृहस्पतिं तेन
(ग्ब्र्_2,3.19इ) यद् धिरण्यं ददात्य् आयुस् तेन वर्षीयः कुरुते
(ग्ब्र्_2,3.19ज्) यद् अश्वं ददाति सौर्यो वा अश्वः
(ग्ब्र्_2,3.19क्) सूर्यस्यैव तेन प्रियं धामोपैति_
(ग्ब्र्_2,3.19ल्) अन्ततः प्रतिहर्त्रे देयम्_
(ग्ब्र्_2,3.19म्) रौद्रौ वै प्रतिहर्ता
(ग्ब्र्_2,3.19न्) रुद्रम् एव तन् निरवजयति
(ग्ब्र्_2,3.19ओ) यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रम् अन्ववयजेत्
(ग्ब्र्_2,3.19प्) स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत्
(ग्ब्र्_2,3.19q) तद् अत्रिर् अपनुनोद
(ग्ब्र्_2,3.19र्) तद् अत्रिर् अन्वपश्यत्_
(ग्ब्र्_2,3.19स्) यद् आत्रेयाय हिरण्यं ददाति तम एव तेनापहते_
(ग्ब्र्_2,3.19त्) अथो ज्योतिर् उपरिष्टाद् धारयति
(ग्ब्र्_2,3.19उ) स्वर्गस्य लोकस्य समष्ट्यै

8.20

(ग्ब्र्_2,3.20अ) अथात एकाहस्यैव माध्यंदिनम्
(ग्ब्र्_2,3.20ब्) ऋक् च वा इदम् अग्ने साम चास्तां
(ग्ब्र्_2,3.20च्) सैव नामर्ग् आसीत्_
(ग्ब्र्_2,3.20द्) अमो नाम साम
(ग्ब्र्_2,3.20ए) सा वा ऋक्सामोपावदन् मिथुनं संभवाव प्रजात्या इति
(ग्ब्र्_2,3.20f) नेत्य् अब्रवीत् साम
(ग्ब्र्_2,3.20ग्) ज्यायान् वा अतो मम महिमेति
(ग्ब्र्_2,3.20ह्) ते द्वे भूत्वोपावदताम्_
(ग्ब्र्_2,3.20इ) ते न प्रति चन समवदत
(ग्ब्र्_2,3.20ज्) तास् तिस्रो भूत्वोपावदन्
(ग्ब्र्_2,3.20क्) यत् तिस्रो भूत्वोपावदंस् तत् तिसृभिः समभवत्_
(ग्ब्र्_2,3.20ल्) यत् तिसृभिः समभवत् तस्मात् तिसृभिः स्तुवन्ति
(ग्ब्र्_2,3.20म्) तिसृभिर् उद्गायन्ति
(ग्ब्र्_2,3.20न्) तिसृभिर् हि साम संमितं भवति
(ग्ब्र्_2,3.20ओ) तस्माद् एकस्य बह्व्यो जाया भवन्ति
(ग्ब्र्_2,3.20प्) न हैकस्या बहवः सह पतयः_
(ग्ब्र्_2,3.20q) यद् वै तत् सा चामश् च समवदतां तत् सामाभवत्
(ग्ब्र्_2,3.20र्) तत् साम्नः सामत्वम्_
(ग्ब्र्_2,3.20स्) सामन् भवति
(ग्ब्र्_2,3.20त्) श्रेष्ठतां गच्छति
(ग्ब्र्_2,3.20उ) यो वै भवति स सामन् भवति_
(ग्ब्र्_2,3.20व्) असामन्य इति ह निन्दन्ते
(ग्ब्र्_2,3.20w) ते वै पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेताम् आहावश् च हिंकारश् च प्रस्तावश् च प्रथमा चर्ग् उद्गीथश् च मध्यमा च प्रतीहारश् चोत्तमा च निधनं च वषट्कारश् च ते यत् पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेतां तस्माद् आहुः पाङ्क्तो यज्ञः
(ग्ब्र्_2,3.20x) पाङ्क्ताः पशव इति
(ग्ब्र्_2,3.20य्) यद् उ विराजं दशिनीम् अभिसंपद्येतां तस्माद् आहुर् विराजि यज्ञो दशिन्यां प्रतिष्ठित इति
(ग्ब्र्_2,3.20z) यद् उ बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति
(ग्ब्र्_2,3.20अअ) तद् एनं स्वेन रूपेण समर्धयति [एद्. रुपेण]
(ग्ब्र्_2,3.20ब्ब्) द्वे तिस्रः करोति पुनरादायम्_
(ग्ब्र्_2,3.20च्च्) प्रजात्यै रूपम्_
(ग्ब्र्_2,3.20द्द्) द्वाव् इवाग्रे भवतस्
(ग्ब्र्_2,3.20एए) तत उपप्रजायेते

8.21

(ग्ब्र्_2,3.21अ) आत्मा वै स्तोत्रियः
(ग्ब्र्_2,3.21ब्) प्रजा अनुरूपः
(ग्ब्र्_2,3.21च्) पत्नी धाय्या
(ग्ब्र्_2,3.21द्) पशवः प्रगाथः_
(ग्ब्र्_2,3.21ए) गृहाः सूक्तम्_
(ग्ब्र्_2,3.21f) यद् अन्तरात्मंस् तन् निवित्
(ग्ब्र्_2,3.21ग्) प्रतिष्ठा परिधानीयान्नं याज्या
(ग्ब्र्_2,3.21ह्) सो ऽस्मिंश् च लोके भवत्य् अमुष्मिंश् च प्रजया च पशुभिश् च गृहेषु भवति य एवं वेद

8.22

(ग्ब्र्_2,3.22अ) स्तोत्रियं शंसति_
(ग्ब्र्_2,3.22ब्) आत्मा वै स्तोत्रियः
(ग्ब्र्_2,3.22च्) स मध्यमया वाचा शंस्तव्यः_
(ग्ब्र्_2,3.22द्) आत्मानम् एवास्य तत् कल्पयत्य् अनुरूपं शंसति
(ग्ब्र्_2,3.22ए) प्रजा वा अनुरूपः_
(ग्ब्र्_2,3.22f) तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति
(ग्ब्र्_2,3.22ग्) प्रतिरूपो हैवास्य प्रजायाम् आजायते नाप्रतिरूपः_
(ग्ब्र्_2,3.22ह्) तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति
(ग्ब्र्_2,3.22इ) स उच्चैस्तराम् इव शंस्तव्यः
(ग्ब्र्_2,3.22ज्) प्रजाम् एवास्य तच् छ्रेयसीं करोति
(ग्ब्र्_2,3.22क्) धाय्यां शंसति
(ग्ब्र्_2,3.22ल्) पत्नी वै धाय्या
(ग्ब्र्_2,3.22म्) सा नीचैस्तराम् इव शंस्तव्या_
(ग्ब्र्_2,3.22न्) अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान् नीचैस्तरां धाय्यां शंसति
(ग्ब्र्_2,3.22ओ) प्रगाथं शंसति
(ग्ब्र्_2,3.22प्) पशवो वै प्रगाथः
(ग्ब्र्_2,3.22q) सः स्वरवत्या वाचा शंस्तव्यः
(ग्ब्र्_2,3.22र्) पशवो वै प्रगाथः
(ग्ब्र्_2,3.22स्) पशवः स्वरः
(ग्ब्र्_2,3.22त्) पशूनाम् आप्त्यै
(ग्ब्र्_2,3.22उ) सूक्तं शंसति
(ग्ब्र्_2,3.22व्) गृहा वै सूक्तम्_
(ग्ब्र्_2,3.22w) प्रतिवीतम्_
(ग्ब्र्_2,3.22x) तत् प्रतिवीततमया वाचा शंस्तव्यम्_
(ग्ब्र्_2,3.22य्) स यद्य् अपि ह दूरात् पशूंल् लभते गृहान् एवैनान् आजिगमिषति
(ग्ब्र्_2,3.22z) गृहा हि पशूनां प्रतिष्ठा
(ग्ब्र्_2,3.22अअ) निविदं शंसति
(ग्ब्र्_2,3.22ब्ब्) यद् अन्तरात्मंस् तन् निवित्
(ग्ब्र्_2,3.22च्च्) तद् एवास्य तत् कल्पयति
(ग्ब्र्_2,3.22द्द्) परिधानीयां शंसति
(ग्ब्र्_2,3.22एए) प्रतिष्ठा वै परिधानीया
(ग्ब्र्_2,3.22ff) प्रतिष्ठायाम् एवैनं ततः प्रतिष्ठापयति
(ग्ब्र्_2,3.22ग्ग्) याज्यया यजति_
(ग्ब्र्_2,3.22ह्ह्) अन्नं वै याज्या_
(ग्ब्र्_2,3.22इइ) अन्नाद्यम् एवास्य तत् कल्पयति
(ग्ब्र्_2,3.22ज्ज्) मूलं वा एतद् यज्ञस्य यद् धाय्याश् च याज्याश् च
(ग्ब्र्_2,3.22क्क्) तद् यद् अन्या अन्या धाय्याश् च याज्याश् च कुर्युर् उन्मूलम् एव तद् यज्ञं कुर्युस् तस्मात् ताः समान्य एव स्युः

8.23

(ग्ब्र्_2,3.23अ) तद् आहुः किंदेवत्यो यज्ञ इति_
(ग्ब्र्_2,3.23ब्) ऐन्द्र इति ब्रूयात्_
(ग्ब्र्_2,3.23च्) ऐन्द्रे वाव यज्ञे सति यथाभागम् अन्या देवता अन्वायंस् ताः प्रातःसवने मरुत्वतीये तृतीयसवने च_
(ग्ब्र्_2,3.23द्) अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात्
(ग्ब्र्_2,3.23ए) तस्मात् सर्वे निष्केवल्यानि शंसन्ति
(ग्ब्र्_2,3.23f) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,3.23ग्) यद् व् एव निष्केवल्यान्य् एकं ह वा अग्रे सवनम् आसीत् प्रातःसवनम् एव_
(ग्ब्र्_2,3.23ह्) अथ हैतं प्रजापतिर् इन्द्राय ज्येष्ठाय पुत्रायैतत् सवनं निरमिमीत यन् माध्यंदिनं सवनम्_
(ग्ब्र्_2,3.23इ) तस्मान् माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति
(ग्ब्र्_2,3.23ज्) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,3.23क्) यद् व् एव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनो ऽनुशंसन्ति मैत्रावरुणं तृचं प्रऽउगे होता शंसति
(ग्ब्र्_2,3.23ल्) तद् उभयं मैत्रावरुणं मैत्रावरुणो ऽनुशंसति_
(ग्ब्र्_2,3.23म्) ऐन्द्रं तृचं प्रऽउगे होता शंसति
(ग्ब्र्_2,3.23न्) तद् उभयम् ऐन्द्रम्
(ग्ब्र्_2,3.23ओ) ऐन्द्रं ब्राह्मणाच्छंस्य् अनुशंसति_
(ग्ब्र्_2,3.23प्) ऐन्द्राग्नं तृचं प्रऽउगे होता शंसति
(ग्ब्र्_2,3.23q) तद् उभयम् ऐन्द्राग्नाग्नम् अच्छावाको ऽनुशंसति_
(ग्ब्र्_2,3.23र्) अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात्
(ग्ब्र्_2,3.23स्) तस्मात् सर्वे निष्केवल्यानि शंसन्ति
(ग्ब्र्_2,3.23त्) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,3.23उ) यद् व् एव निष्केवल्यानि <यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य [ऋव् 7.98.5, श्स् 20.87.5]>_इत्य् ऋचाभ्यनूक्तम्_
(ग्ब्र्_2,3.23व्) देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अजिघांसन्_
(ग्ब्र्_2,3.23w) ते ऽब्रुवन् वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति
(ग्ब्र्_2,3.23x) मध्यतो वसिष्ठम्
(ग्ब्र्_2,3.23य्) उत्तरतो भरद्वाजम्_
(ग्ब्र्_2,3.23z) सर्वान् अनु विश्वामित्रम्_
(ग्ब्र्_2,3.23अअ) तस्मान् मैत्रावरुणो वामदेवान् न प्रच्यवते वसिष्ठाद् ब्राह्मणाच्छंसी भरद्वाजाअ अच्छावाकः सर्वे विश्वामित्रात्_
(ग्ब्र्_2,3.23ब्ब्) एत एवास्मै तदृषयो ऽहरहर् नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद

मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc