भाषा

ENहिગુ
ग्रंथ पाठ

गोपथब्राह्मण · अध्याय 7

7.1

(ग्ब्र्_2,1.26अ) त्रयोदशं वा एतं मासम् आप्नोति यच् छुनासीर्येण यजते_
(ग्ब्र्_2,1.26ब्) एतावान् वै संवत्सरो यावान् एष त्रयोदशो मासः_
(ग्ब्र्_2,1.26च्) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
(ग्ब्र्_2,1.26द्) यन् मथ्यते तस्योक्तं ब्राह्मणम्_
(ग्ब्र्_2,1.26ए) यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रं भवति
(ग्ब्र्_2,1.26f) प्रतिष्ठा वै पौर्णमासम्_
(ग्ब्र्_2,1.26ग्) प्रतिष्ठित्या एवाथ यद् वायुं यजति प्राणो वै वायुः
(ग्ब्र्_2,1.26ह्) प्राणम् एव तेन प्रीणाति_
(ग्ब्र्_2,1.26इ) अथ यच् छुनासीरं यजति संवत्सरो वै शुनासीरः
(ग्ब्र्_2,1.26ज्) संवत्सरम् एव तेन प्रीणाति_
(ग्ब्र्_2,1.26क्) अथ यत् सूर्यं यजत्य् असौ वै सूर्यो यो ऽसौ तपति_
(ग्ब्र्_2,1.26ल्) एतम् एव तेन प्रीणाति_
(ग्ब्र्_2,1.26म्) अथ यच् छ्वेतां दक्षिणां ददात्य् एतस्यैव तद् रूपं क्रियते_
(ग्ब्र्_2,1.26न्) अथ यत् प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनम् एव तत् कुर्वन्ति
(ग्ब्र्_2,1.26ओ) यज्ञस्यैव शान्तिर् यजमानस्य भैषज्याय
(ग्ब्र्_2,1.26प्) तैर् वा एतैश् चातुर्मास्यैर् देवाः सर्वान् कामान् आप्नुवंत् सर्वा इष्टीः सर्वम् अमृतत्वम्_
(ग्ब्र्_2,1.26q) स वा एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि
(ग्ब्र्_2,1.26र्) तस्य मुखम् एव वैश्वदेवम्_
(ग्ब्र्_2,1.26स्) बाहू वरुणप्रघासाः
(ग्ब्र्_2,1.26त्) प्राणो ऽपानो व्यान इत्य् एतास् तिस्र इष्टयः_ [एद्. प्रणो]
(ग्ब्र्_2,1.26उ) आत्मा महाहविः
(ग्ब्र्_2,1.26व्) प्रतिष्ठा शुनासीरम्_
(ग्ब्र्_2,1.26w) स वा एष प्रजापतिर् एव संवत्सरो यच् चातुर्मास्यानि
(ग्ब्र्_2,1.26x) सर्वं वै प्रजापतिः
(ग्ब्र्_2,1.26य्) सर्वं चातुर्मास्यानि
(ग्ब्र्_2,1.26z) तत् सर्वेणैव सर्वम् आप्नोति य एवं वेद यश् चैवं विद्वांश् चातुर्मास्यैर् यजते चातुर्मास्यैर् यजते चातुर्मास्यैर्यजते
(ग्ब्र्_2,1.26चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः ॥
(ग्ब्र्_2,2.1अ) ओं मांसीयन्ति वा आहिताग्नेर् अग्नयस्
(ग्ब्र्_2,2.1ब्) त एनम् एवाग्रे ऽभिध्यायन्ति यजमानम्_
(ग्ब्र्_2,2.1च्) य एतम् ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितम् आत्मानं निरवदयते_
(ग्ब्र्_2,2.1द्) आयुष्काम आलभेत
(ग्ब्र्_2,2.1ए) प्राणापानौ वा इन्द्राग्नी
(ग्ब्र्_2,2.1f) प्राणापानाव् एवात्मनि धत्ते_
(ग्ब्र्_2,2.1ग्) आयुष्मान् भवति
(ग्ब्र्_2,2.1ह्) प्रजाकाम आलभेत
(ग्ब्र्_2,2.1इ) प्राणापानौ वा इन्द्राग्नी
(ग्ब्र्_2,2.1ज्) प्राणापानौ प्रजा अनुप्रजायन्ते
(ग्ब्र्_2,2.1क्) प्रजावान् भवति
(ग्ब्र्_2,2.1ल्) पशुकाम आलभेत
(ग्ब्र्_2,2.1म्) प्राणापानौ वा इन्द्राग्नी
(ग्ब्र्_2,2.1न्) प्राणापानौ पशवो ऽनुप्रजायन्ते
(ग्ब्र्_2,2.1ओ) पशुमान् भवति
(ग्ब्र्_2,2.1प्) यामं शुकं हारितम् आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्याम् इति_ [एद्. शुकहरितं, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.1q) एतेन ह वै यमो ऽमुष्मिंल् लोक आर्ध्नोत्
(ग्ब्र्_2,2.1र्) पितृलोक एवार्ध्नोति
(ग्ब्र्_2,2.1स्) त्वाष्ट्रं वडवम् आलभेत प्रजाकामः
(ग्ब्र्_2,2.1त्) प्रजापतिर् वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत् [एद्. सिसृक्समाणः, चोर्रेच्तेद् प्. 302; पत्यल्: रेअद् नाविन्दत?]
(ग्ब्र्_2,2.1उ) स त्वाष्ट्रं वडवम् अपश्यत्
(ग्ब्र्_2,2.1व्) त्वष्टा हि रूपाणां प्रजनयिता
(ग्ब्र्_2,2.1w) तेन प्रजा असृजत
(ग्ब्र्_2,2.1x) तेन मिथुनम् अविन्दत्
(ग्ब्र्_2,2.1य्) प्रजावान् मिथुनवान् भवति य एवं वेद यश् चैवंविद्वान् एतम् आलभते
(ग्ब्र्_2,2.1z) योनीन् वा एष काम्यान् पशून् आलभते यो ऽनिष्ट्वैन्द्राग्नेन काम्यं पशुम् आलभत इष्ट्वालम्भः समृद्ध्यै

7.2

(ग्ब्र्_2,2.2अ) पञ्चधा वै देवा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस्
(ग्ब्र्_2,2.2ब्) ते देवा अब्रुवन्न् असुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मः_
(ग्ब्र्_2,2.2च्) या न इमाः प्रियास् तन्वस् ताः समवद्यामहा इति
(ग्ब्र्_2,2.2द्) ताः समवाद्यन्त
(ग्ब्र्_2,2.2ए) ताभ्यः स निरृच्छाद्यो नः प्रथमो ऽन्यो ऽन्यस्मै द्रुह्याद् इति
(ग्ब्र्_2,2.2f) यत् तन्वः समवाद्यन्त तत् तानूनप्त्रस्य तानूनप्त्रत्वम्_
(ग्ब्र्_2,2.2ग्) ततो देवा अभवन् परासुरास्
(ग्ब्र्_2,2.2ह्) तस्माद् यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिम् आर्छति
(ग्ब्र्_2,2.2इ) यत् तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै
(ग्ब्र्_2,2.2ज्) भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति

7.3

(ग्ब्र्_2,2.3अ) पञ्च कृत्वो ऽवद्यति
(ग्ब्र्_2,2.3ब्) पाङ्क्तो यज्ञः
(ग्ब्र्_2,2.3च्) पञ्चधा हि ते ताः समवाद्यन्त_
(ग्ब्र्_2,2.3द्) आपतये त्वा गृह्णामीत्य् आह
(ग्ब्र्_2,2.3ए) प्राणो वा आपतिः
(ग्ब्र्_2,2.3f) प्राणम् एव तेन प्रीणाति
(ग्ब्र्_2,2.3ग्) परिपतये त्वेत्य् आह
(ग्ब्र्_2,2.3ह्) मनो वै परिपतिः_
(ग्ब्र्_2,2.3इ) मन एव तेन प्रीणाति
(ग्ब्र्_2,2.3ज्) तनूनप्त्र इत्य् आह
(ग्ब्र्_2,2.3क्) तन्वो हि ते ताः समवाद्यन्त
(ग्ब्र्_2,2.3ल्) शाक्वरायेत्य् आह
(ग्ब्र्_2,2.3म्) शक्त्यै हि ते ताः समवाद्यन्त
(ग्ब्र्_2,2.3न्) शक्मन ओजिष्ठायेत्य् आह_
(ग्ब्र्_2,2.3ओ) ओजिष्ठं हि ते तद् आत्मनः समवाद्यन्त_
(ग्ब्र्_2,2.3प्) अनाधृष्टम् इत्य् आह_
(ग्ब्र्_2,2.3q) अनाधृष्टं ह्य् एतत्_
(ग्ब्र्_2,2.3र्) अनाधृष्यम् इत्य् आह_
(ग्ब्र्_2,2.3स्) अनाधृष्यं ह्य् एतत्_
(ग्ब्र्_2,2.3त्) देवानाम् ओज इत्य् आह
(ग्ब्र्_2,2.3उ) देवानां ह्य् एतद् ओजः_
(ग्ब्र्_2,2.3व्) अभिशस्तिपा इत्य् आह_
(ग्ब्र्_2,2.3w) अभिशस्तिपा ह्य् एतत्_
(ग्ब्र्_2,2.3x) अनभिशस्तेन्यम् इत्य् आह_
(ग्ब्र्_2,2.3य्) अनभिशस्तेन्यं ह्य् एतत्_ [एद्. अनभिशस्तेनं, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.3z) अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषं स्विते मा धा इत्य् आह यथायजुर् एवैतत्

7.4

(ग्ब्र्_2,2.4अ) घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्_
(ग्ब्र्_2,2.4ब्) स्रुचौ बाहू
(ग्ब्र्_2,2.4च्) तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते
(ग्ब्र्_2,2.4द्) अवधीयेत सोमस्
(ग्ब्र्_2,2.4ए) तस्मात् स्रुचौ चाज्यं चान्तिकम् आहार्षीत्_
(ग्ब्र्_2,2.4f) अन्तिकम् इव खलु वा अस्यैतत् प्रचरन्ति यत् तानूनप्त्रेण प्रचरन्ति_
(ग्ब्र्_2,2.4ग्) अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद इत्य् आह
(ग्ब्र्_2,2.4ह्) यद् एवास्यापवायते यन् मीयते तद् एवास्यैतेनाप्याययन्ति_
(ग्ब्र्_2,2.4इ) आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह_
(ग्ब्र्_2,2.4ज्) उभाव् एवेन्द्रं च सोमं चाप्याययन्ति_
(ग्ब्र्_2,2.4क्) आप्याययास्मान्त् सखीन्त् सन्या मेधया प्रजया धनेनेत्य् आह_
(ग्ब्र्_2,2.4ल्) ऋत्विजो वा एतस्य सखायस्
(ग्ब्र्_2,2.4म्) तान् एवास्यैतेनाप्याययन्ति
(ग्ब्र्_2,2.4न्) स्वस्ति ते देव सोम सुत्याम् उदृचम् अशीयेत्य् आह_
(ग्ब्र्_2,2.4ओ) आशिषम् एवैताम् आशास्ते
(ग्ब्र्_2,2.4प्) प्र वा एतस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति_
(ग्ब्र्_2,2.4q) अन्तरिक्षदेवत्यो हि सोम आप्यायितः_
(ग्ब्र्_2,2.4र्) एष्टा राय एष्टा वामानि प्रेषे भगाय
(ग्ब्र्_2,2.4स्) ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति
(ग्ब्र्_2,2.4त्) द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिंल् लोके प्रतितिष्ठति प्रतितिष्ठति

7.5

(ग्ब्र्_2,2.5अ) मख इत्य् एतद् यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात्_
(ग्ब्र्_2,2.5ब्) छिद्रं खम् इत्य् उक्तम्_
(ग्ब्र्_2,2.5च्) तस्य मेति प्रतिषेधः_
(ग्ब्र्_2,2.5द्) मा छिद्रं करिष्यतीति
(ग्ब्र्_2,2.5ए) छिद्रो हि यज्ञो भिन्न इवोदधिर् विस्रवति
(ग्ब्र्_2,2.5f) तद् वै खलु छिद्रं भवत्य् ऋत्विग्यजमानविमानाद् वा_
(ग्ब्र्_2,2.5ग्) अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानाम् अप्रयोगाद् यथोक्तानां वा दक्षिणानाम् अप्रदानाद् धीनाद् वातिरिक्ताद् वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमाद् इति_
(ग्ब्र्_2,2.5ह्) एतद् वै सर्वं ब्रह्मण्य् अर्पितम्_
(ग्ब्र्_2,2.5इ) ब्रह्मैव विद्वान् यद् भृग्वङ्गिरोवित् सम्यग् अधीयानश् चरितब्रह्मचर्यो ऽन्यूनानतिरिक्ताङ्गो ऽप्रमत्तो यज्ञं रक्षति
(ग्ब्र्_2,2.5ज्) तस्य प्रमादाद् यदि वाप्य् असांनिध्याद् यथा भिन्ना नौर् अगाधे महत्य् उदके संप्लवेन् मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनाम्
(ग्ब्र्_2,2.5क्) एवं खल्व् अपि यज्ञश् छिन्नभिन्नो ऽपध्वस्त उत्पाताद्भुतो बहुलो ऽथर्वभिर् असंस्कृतो ऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनां
(ग्ब्र्_2,2.5ल्) तद् अपि श्लोकाः
(ग्ब्र्_2,2.5म्) छिन्नभिन्नो ऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् ॥
(ग्ब्र्_2,2.5न्) ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद् यत्र यज्ञो विरिष्यते ॥ [एद्. विरष्यते, चोर्रेच्तेद् प्. 302]
(ग्ब्र्_2,2.5ओ) दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदाद् असंस्कृतः ॥
(ग्ब्र्_2,2.5प्) चतुष्पात् सकलो यज्ञश् चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैर् ऋत्विग्भिर् वेदपारगैः ॥
(ग्ब्र्_2,2.5q) प्रायश्चित्तैर् अनुध्यानैर् अनुज्ञानानुमन्त्रणैः । होमैश् च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् ॥ इति
(ग्ब्र्_2,2.5र्) तस्माद् यजमानो भृग्वङ्गिरोविदम् एव तत्र ब्रह्माणं वृणीयात्
(ग्ब्र्_2,2.5स्) स हि यज्ञं तारयतीति ब्राह्मणम्

7.6

(ग्ब्र्_2,2.6अ) यज्ञो वै देवेभ्य उदक्रामन् न वो ऽहम् अन्नं भविष्यामीति [एद्. उदक्रमन्, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.6ब्) नेति देवा अब्रुवन्न् अन्नम् एव नो भविष्यसीति
(ग्ब्र्_2,2.6च्) तं देवा विमेथिरे
(ग्ब्र्_2,2.6द्) स एभ्यो विहृतो न प्रबभूव
(ग्ब्र्_2,2.6ए) ते होचुर् देवाः_
(ग्ब्र्_2,2.6f) न वै न इत्थं विहृतो ऽलं भविष्यति
(ग्ब्र्_2,2.6ग्) हन्तेमं संभराम् एति
(ग्ब्र्_2,2.6ह्) तं संजभ्रुस्
(ग्ब्र्_2,2.6इ) तं संभृत्योचुर् अश्विनाव् इमं भिषज्यतम् इति_ [एद्. अश्विणाव्, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.6ज्) अश्विनौ वै देवानां भिषजौ_
(ग्ब्र्_2,2.6क्) अश्विनाव् अध्वर्यू
(ग्ब्र्_2,2.6ल्) तस्माद् अध्वर्यू घर्मं संभरतस्
(ग्ब्र्_2,2.6म्) तं संभृत्योचतुर् ब्रह्मन् घर्मेण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् उद्गातः सामानि गायेति
(ग्ब्र्_2,2.6न्) प्रचरत घर्मम् इत्य् अनुजानाति
(ग्ब्र्_2,2.6ओ) ब्रह्मप्रसूता हि प्रचरन्ति
(ग्ब्र्_2,2.6प्) ब्रह्म हेदं प्रसवानाम् ईशे
(ग्ब्र्_2,2.6q) सवितृप्रसूततायै
(ग्ब्र्_2,2.6र्) <घर्मं तपामि [प्स् 5.16.2, सकल अत् वैत्स् 14.1]> <ब्रह्म जज्ञानम् [प्स् 5.2.2, श्स् 4.1.1, वैत्स् 14.1]> <इयं पित्र्या राष्ट्र्य् एत्व् अग्रे [प्स् 5.2.1, श्स् 4.1.2, वैत्स् 14.1]>_इति घर्मं ताप्यमानम् उपासीत शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः_
(ग्ब्र्_2,2.6स्) एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धम्_
(ग्ब्र्_2,2.6त्) यत् कर्म क्रियमाणम् ऋग् यजुर् वाभिवदति स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद
(ग्ब्र्_2,2.6उ) देवमिथुनं वा एतद् यद् घर्मस्
(ग्ब्र्_2,2.6व्) तस्माद् अन्तर्धाय प्रचरन्ति_
(ग्ब्र्_2,2.6w) अन्तर्हिता वै मिथुनं चरन्तीति
(ग्ब्र्_2,2.6x) तद् एतद् देवमिथुनम् इत्य् आचक्षते
(ग्ब्र्_2,2.6य्) तस्य यो घर्मस् तच्छिश्नम्_
(ग्ब्र्_2,2.6z) यौ शफौ ताव् आण्ड्यौ
(ग्ब्र्_2,2.6अअ) योपयमनी ते श्रोणिकपाले
(ग्ब्र्_2,2.6ब्ब्) यत् पयस् तद् रेतस्
(ग्ब्र्_2,2.6च्च्) तद् अग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय
(ग्ब्र्_2,2.6द्द्) सो ऽग्निर् देवयोनिर् ऋङ्मयो यजुर्मयः साममयो ब्रह्ममयो ऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकम् एति
(ग्ब्र्_2,2.6एए) तद् आहुर् न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनम् उत्तरे यज्ञक्रतवो भवन्तीति
(ग्ब्र्_2,2.6ff) कामं तु यो ऽनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्यात्_
(ग्ब्र्_2,2.6ग्ग्) आत्मा वै स यज्ञस्येति विज्ञायते_
(ग्ब्र्_2,2.6ह्ह्) अपशिरसा ह वा एष यज्ञेन यजते यो ऽप्रवर्ग्येण यजते
(ग्ब्र्_2,2.6इइ) शिरो ह वा एतद् यज्ञस्य यत् प्रवर्ग्यस्
(ग्ब्र्_2,2.6ज्ज्) तस्मात् प्रवर्ग्यवतैव याजयेन् नाप्रवग्येण
(ग्ब्र्_2,2.6क्क्) तद् अप्य् एषाभ्यनूक्ता <चत्वारि शृङ्गा [प्स् 8.13.3, सकल अत् ग्ब्र् 1,2.16f]>_इति

7.7

(ग्ब्र्_2,2.7अ) देवाश् च ह वा ऋषयश् चासुरैः संयत्ता आसन्_ [एद्. चिआसुरैः]
(ग्ब्र्_2,2.7ब्) तेषाम् असुराणाम् इमाः पुरः प्रत्यभिजिता आसन्न् अयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस्
(ग्ब्र्_2,2.7च्) ते देवाः संघातंसंघातं पराजयन्त
(ग्ब्र्_2,2.7द्) ते ऽविदुर् अनायतना हि वै स्मस्
(ग्ब्र्_2,2.7ए) तस्मात् पराजयामहा इति [एद्. पराजयामह, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.7f) त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रम् अन्तरिक्षात् सदः पृथिव्यास्
(ग्ब्र्_2,2.7ग्) ते देवा अब्रुवन्न् उपसदम् उपायाम_
(ग्ब्र्_2,2.7ह्) उपसदा वै महापुरं जयन्तीति
(ग्ब्र्_2,2.7इ) त एभ्यो लोकेभ्यो निरघ्नन्_
(ग्ब्र्_2,2.7ज्) एकयामुष्माल् लोकाद् एकयान्तरिक्षाद् एकया पृथिव्यास्
(ग्ब्र्_2,2.7क्) तस्माद् आहुर् उपसदा वै महापुरं जयन्तीति
(ग्ब्र्_2,2.7ल्) त एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशन्_
(ग्ब्र्_2,2.7म्) ते षड् उपायन्_
(ग्ब्र्_2,2.7न्) तान् उपसद्भिर् एवर्तुभ्यो निरघ्नन्
(ग्ब्र्_2,2.7ओ) द्वाभ्याम् अमुष्माल् लोकाद् द्वाभ्याम् अन्तरिक्षाद् द्वाभ्यां पृथिव्यास्
(ग्ब्र्_2,2.7प्) त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन्_
(ग्ब्र्_2,2.7q) ते द्वादशोपायन्_
(ग्ब्र्_2,2.7र्) तान् उपसद्भिर् एव संवत्सरान् निरघ्नन्_
(ग्ब्र्_2,2.7स्) चतसृभिर् अमुष्माल् लोकाच् चतसृभिर् अन्तरिक्षाच् चतसृभिः पृथिव्यास्
(ग्ब्र्_2,2.7त्) ते संवत्सरान् निर्हता अहोरात्रे प्राविशन्_
(ग्ब्र्_2,2.7उ) ते यत् सायम् उपायंस् तेनैनान् रात्र्या अनुदन्त यत् प्रातस् तेनाह्नस्
(ग्ब्र्_2,2.7व्) तस्माद् गौः सायं प्रातस्तनम् आप्यायते प्रातः सायन्तनम्_
(ग्ब्र्_2,2.7w) तान् उपसद्भिर् एवैभ्यो लोकेभ्यो नुदमाना आयन्_
(ग्ब्र्_2,2.7x) ततो देवा अभवन् परासुराः
(ग्ब्र्_2,2.7य्) सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वान् उपसदम् उपैति

7.8

(ग्ब्र्_2,2.8अ) न द्वादशाग्निष्टोमस्योपसदः स्युः_
(ग्ब्र्_2,2.8ब्) अशान्ता निर्मृज्युर् न तिस्रो ऽहीनस्य_
(ग्ब्र्_2,2.8च्) उपरिष्टाद् यज्ञक्रतुर् गरीयान् अभिषीदेद् यथा गुरुर् भारो ग्रीवा निःशृणीयाद् आर्तिम् आर्छेत्_
(ग्ब्र्_2,2.8द्) द्वादशाहीनस्य कुर्यात्
(ग्ब्र्_2,2.8ए) प्रत्युत्तब्ध्यै सयत्वाय
(ग्ब्र्_2,2.8f) तिस्रो ऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय
(ग्ब्र्_2,2.8ग्) ते देवा असुर्यान् इमांल् लोकान् नान्ववैतुम् अधृष्णुवन्_
(ग्ब्र्_2,2.8ह्) तान् अग्निना मुखेनान्ववायन्
(ग्ब्र्_2,2.8इ) यद् अग्निम् अन्त्य् उपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रे ऽन्ववनयत्य् एवम् एवैतद् अग्निना मुखेनेमांल् लोकान् अभिनयन्तो यन्ति [एद्. ऽन्ववनयन्त्य्, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.8ज्) यो ह वै देवान् साध्यान् वेद सिध्यत्य् अस्मै_
(ग्ब्र्_2,2.8क्) इमे वाव लोका यत् साध्या देवाः
(ग्ब्र्_2,2.8ल्) स य एवम् एतान्त् साध्यान् वेद सिध्यत्य् अस्मै
(ग्ब्र्_2,2.8म्) सिध्यत्य् अमुष्मै सिध्यत्य् अस्मै लोकाय य एवंविद्वान् उपसदम् उपैति

7.9

(ग्ब्र्_2,2.9अ) अथ यत्राहाध्वर्युर् अग्नीद् देवपत्नीर् व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्याम् आह्वयेति तद् अपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे
(ग्ब्र्_2,2.9ब्) पृथिव्य् अग्नेः पत्नी
(ग्ब्र्_2,2.9च्) वाग् वातस्य पत्नी
(ग्ब्र्_2,2.9द्) सेनेन्द्रस्य पत्नी
(ग्ब्र्_2,2.9ए) धेना बृहस्पतेः पत्नी
(ग्ब्र्_2,2.9f) पथ्या पूष्णः पत्नी
(ग्ब्र्_2,2.9ग्) गायत्री पसूनां पत्नी
(ग्ब्र्_2,2.9ह्) त्रिष्टुब् रुद्राणां पत्नी
(ग्ब्र्_2,2.9इ) जगत्य् आदित्यानां पत्नी_
(ग्ब्र्_2,2.9ज्) अनुष्टुम् मित्रस्य पत्नी
(ग्ब्र्_2,2.9क्) विराड् वरुणस्य पत्नी
(ग्ब्र्_2,2.9ल्) पङ्क्तिर् विष्णोः पत्नी
(ग्ब्र्_2,2.9म्) दीक्षा सोमस्य राज्ञः पत्नीति_
(ग्ब्र्_2,2.9न्) अति भ्रातृव्यान् आरोहति नैनं भ्रातृव्या आरोहन्त्य् उपरि भ्रातृव्यान् आरोहति य एवंविद्वान् आग्नीध्रो देवपत्नीर् व्याचष्टे

7.10

[एद्. आरुओहन्त्य्, आरुओहति]
(ग्ब्र्_2,2.10अ) यथा वै रथ एकैकम् अरम् अभिप्रतितिष्ठन् वर्तत एवं यज्ञ एकैकां तन्वम् अभिप्रतितिष्ठन्न् एति
(ग्ब्र्_2,2.10ब्) पुरा प्रचरितोर् आग्नीध्रीये होतव्याः_
(ग्ब्र्_2,2.10च्) एतद् ध वा उवाच वासिष्ठः सात्यहव्यो ऽस्कन् सोम इत्य् उक्ते मा सूर्क्षत प्रचरत प्रातर् वावाद्याहं सोमं समस्थापयम् इति
(ग्ब्र्_2,2.10द्) नास्य सोम स्कन्दति य एवंविद्वान्त् सोमं पिबति
(ग्ब्र्_2,2.10ए) स ह स्म वै स आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबति_
(ग्ब्र्_2,2.10f) अहं वाव सर्वतो यज्ञं वेद य एतान् वेद
(ग्ब्र्_2,2.10ग्) न माम् एष हिंसिष्यतीति
(ग्ब्र्_2,2.10ह्) नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त् सोमं पिबति
(ग्ब्र्_2,2.10इ) तं ह स्म यद् आहुः कस्मात् त्वम् इदम् आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबसीति
(ग्ब्र्_2,2.10ज्) देवतास्व् एव यज्ञं प्रतिष्ठापयामीत्य् अब्रवीद् ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान् यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद् ब्रह्मणो, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.10क्) देवतास्व् एव यज्ञं प्रतिष्ठापयति
(ग्ब्र्_2,2.10ल्) यज्ञार्तिं प्रतिजुहुयात्
(ग्ब्र्_2,2.10म्) सयोनित्वाय
(ग्ब्र्_2,2.10न्) त्रयस्त्रिंशद् वै यज्ञस्य तन्व इति_
(ग्ब्र्_2,2.10ओ) एकान्नत्रिंशत् स्तोमभागास्
(ग्ब्र्_2,2.10प्) त्रीणि सवनानि
(ग्ब्र्_2,2.10q) यज्ञश् चतुर्थः_
(ग्ब्र्_2,2.10र्) स्तोमभागैर् एवैतत् स्तोमभागान् प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम्_
(ग्ब्र्_2,2.10स्) सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः_
(ग्ब्र्_2,2.10त्) देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति
(ग्ब्र्_2,2.10उ) यद्यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन्_
(ग्ब्र्_2,2.10व्) सवितृप्रसूता एव स्तुवन्ति_
(ग्ब्र्_2,2.10w) ऋध्नुवन्ति_
(ग्ब्र्_2,2.10x) ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे_
(ग्ब्र्_2,2.10य्) ऋध्यते यजमान ऋध्यते प्रजायाः_ [एद्. ऋध्यते ऋध्यते, चोर्रेच्तेद् प्. 302]
(ग्ब्र्_2,2.10z) ऋध्यते पशुभ्यः_
(ग्ब्र्_2,2.10अअ) ऋध्यते ब्रह्मणे यस्यैवंविद्वान् ब्रह्मा भवति

7.11

(ग्ब्र्_2,2.11अ) देवाश् च ह वा असुराश् चास्पर्धन्त
(ग्ब्र्_2,2.11ब्) ते देवाः समावद् एव यज्ञे कुर्वाणा आसन्
(ग्ब्र्_2,2.11च्) यद् एव दवा अकुर्वत तद् असुरा अकुर्वत
(ग्ब्र्_2,2.11द्) ते न व्यावृतम् अगच्छन्_
(ग्ब्र्_2,2.11ए) ते देवा अब्रुवन् नयतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामह इति
(ग्ब्र्_2,2.11f) तम् एताभिर् आच्छाद्योदक्रामन् यजूंषि यज्ञे समिधः स्वाहेति
(ग्ब्र्_2,2.11ग्) तं तिर उपर्य् असुरेभ्यो यज्ञम् अतन्वत
(ग्ब्र्_2,2.11ह्) तम् एषां यज्ञम् असुरा नान्ववायन्_
(ग्ब्र्_2,2.11इ) ततो देवा अभवन् परासुराः
(ग्ब्र्_2,2.11ज्) स य एवंविद्वांस् तिर उपर्य् असुरेभ्यो यज्ञं तनुते भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति_
(ग्ब्र्_2,2.11क्) एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश् चतुर्भिर् अन्वाख्यायम्_
(ग्ब्र्_2,2.11ल्) पुरस्तात् प्रातरनुवाकस्य जुहुयात्_
(ग्ब्र्_2,2.11म्) एतावान् वै यज्ञो यावान् एष यज्ञस् तं वृङ्क्ते
(ग्ब्र्_2,2.11न्) सयज्ञो भवति
(ग्ब्र्_2,2.11ओ) अयज्ञ इतरः_
(ग्ब्र्_2,2.11प्) एतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्य_
(ग्ब्र्_2,2.11q) एष ह वै प्रत्यक्षं द्वादशाहस्
(ग्ब्र्_2,2.11र्) तम् एवालभ्यैतैर् एव जुहुयात्
(ग्ब्र्_2,2.11स्) पुरस्ताद् दीक्षायाः_
(ग्ब्र्_2,2.11त्) एषा ह वै प्रत्यक्षं दीक्षा
(ग्ब्र्_2,2.11उ) ताम् एवालभ्यैतैर् एवातिथ्यम् अभिमृशेद् <यज्ञेन यज्ञम् अयजन्त देवाः [श्स् 7.5.1, प्स् 20.2.2, वैत्स् 16.15]>_ इति

7.12

(ग्ब्र्_2,2.12अ) यत्र विजानाति ब्रह्मन्त् सोमो ऽस्कन्न् इति तम् एतयालभ्याभिमन्त्रयते_<अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् [ऋव् 4.54.1]>_इति
(ग्ब्र्_2,2.12ब्) <ये अग्नयो अप्स्व् अन्तर् [श्स् 3.21.1, वैत्स् 16.16, च्f. प्स् 10.9.1?]> इति सप्तभिर् अभिजुहोति
(ग्ब्र्_2,2.12च्) यद् एवास्यावस्कन्नं भवति तद् एवास्यैतद् अग्नौ स्वगाकरोति_
(ग्ब्र्_2,2.12द्) अग्निर् हि सुकृतीनां हविषां प्रतिष्ठा_
(ग्ब्र्_2,2.12ए) अथ विसृप्य वैप्रुषान् होमाञ् जुहोति <द्रप्सश् चस्कन्द [ऋव् 10.17.11, प्स् 20.13.7, श्स् 18.4.28, वैत्स् 16.17]>_इति [एद्. जुह्वति, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.12f) या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्य् अंशुर् वा ता एवास्यैतद् आहवनीये स्वगाकरोति_ [एद्. आहवणीये]
(ग्ब्र्_2,2.12ग्) आहवनीयो ह्य् आहुतीनां प्रतिष्ठा
(ग्ब्र्_2,2.12ह्) <यस् ते द्रप्स स्कन्दति [ऋव् 10.17.12अ, प्स् 20.13.8अ, वैत्स् 16.17]>_इति
(ग्ब्र्_2,2.12इ) स्तोको वै द्रप्सः_
(ग्ब्र्_2,2.12ज्) <यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् [ऋव् 10.17.12ब्, प्स् 20.13.8ब्, वैत्स् 16.17]>_इति बाहुभिर् अभिच्युतो ऽंशुर् अधिषवणाभ्याम् अधिस्कन्दति_
(ग्ब्र्_2,2.12क्) <अध्वर्योर् वा परि यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् [प्स् 20.13.8च्द्, ऋव् 10.17.12च्द्, वैत्स् 16.17]> इति
(ग्ब्र्_2,2.12ल्) तद् यथा वषट्कृतं स्वाहाकृतं हुतम् एवं भवति

7.13

(ग्ब्र्_2,2.13अ) ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन्_
(ग्ब्र्_2,2.13ब्) तं वसिष्ठ एव प्रत्यक्षम् अपश्यत्
(ग्ब्र्_2,2.13च्) सो ऽबिभेद् इतरेभ्य ऋषिभ्यो मा प्रवोचद् इति
(ग्ब्र्_2,2.13द्) सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते_
(ग्ब्र्_2,2.13ए) अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति
(ग्ब्र्_2,2.13f) तस्मा एतान् स्तोमभागान् उवाच
(ग्ब्र्_2,2.13ग्) ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
(ग्ब्र्_2,2.13ह्) स्तोमो वा एते एतेषां भागस्
(ग्ब्र्_2,2.13इ) तत् स्तोमभागानां स्तोमभागत्वम्_
(ग्ब्र्_2,2.13ज्) रश्मिर् असि क्षयाय त्वेति
(ग्ब्र्_2,2.13क्) क्षयो वै देवाः_
(ग्ब्र्_2,2.13ल्) देवेभ्य एव यज्ञं प्राह
(ग्ब्र्_2,2.13म्) प्रेतिर् असि धर्मणे त्वेति
(ग्ब्र्_2,2.13न्) धर्मो मनुष्याः_
(ग्ब्र्_2,2.13ओ) मनुष्येभ्य एव यज्ञं प्राह_
(ग्ब्र्_2,2.13प्) अन्वितिर् असि संधिर् असि प्रतिधिर् असीति [एद्. अनितिर्, चोर्र्. पत्यल्]
(ग्ब्र्_2,2.13q) त्रयो वै लोकाः_
(ग्ब्र्_2,2.13र्) लोकेष्व् एव यज्ञं प्रतिष्ठापयति
(ग्ब्र्_2,2.13स्) विष्टम्भो ऽसीति
(ग्ब्र्_2,2.13त्) वृष्टिम् एवावरुन्द्धे
(ग्ब्र्_2,2.13उ) प्रावो ऽस्य् अह्नांसीति मिथुनम् एव करोति_
(ग्ब्र्_2,2.13व्) उशिग् असि प्रकेतो ऽसि सुदितिर् असीति_
(ग्ब्र्_2,2.13w) अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग् द्वात्रिंशी स्वरस् त्रयस्त्रिंशस्त्रयस्त्रिंशद् देवाः_
(ग्ब्र्_2,2.13x) देवेभ्य एव यज्ञं प्राह_
(ग्ब्र्_2,2.13य्) ओजो ऽसि पितृभ्यस् त्वेति
(ग्ब्र्_2,2.13z) बलम् एव तत्पितॄन् अनुसंतनोति
(ग्ब्र्_2,2.13अअ) तन्तुर् असि प्रजाभ्यस् त्वेति
(ग्ब्र्_2,2.13ब्ब्) प्रजा एव पशून् अनुसंतनोति
(ग्ब्र्_2,2.13च्च्) रेवद् अस्य् ओषधीभ्यस् त्वेति_
(ग्ब्र्_2,2.13द्द्) ओषधीष्व् एव यज्ञं प्रतिष्ठापयति
(ग्ब्र्_2,2.13एए) पृतनाषाड् असि पशुभ्यस् त्वेति
(ग्ब्र्_2,2.13ff) प्रजा एव पशून् अनुसंतनोति_
(ग्ब्र्_2,2.13ग्ग्) अभिजिद् असीति
(ग्ब्र्_2,2.13ह्ह्) वज्रो वै षोडशी
(ग्ब्र्_2,2.13इइ) व्यावृत्तो ऽसौ वज्रस्
(ग्ब्र्_2,2.13ज्ज्) तस्माद् एषो ऽन्यैर् व्यावृत्तः_
(ग्ब्र्_2,2.13क्क्) नाभुर् असीति
(ग्ब्र्_2,2.13ल्ल्) प्रजापतिर् वै सप्तदशः
(ग्ब्र्_2,2.13म्म्) प्रजापतिम् एवावरुन्द्धे

7.14

(ग्ब्र्_2,2.14अ) अधिपतिर् असि धरुणो ऽसि संसर्पो ऽसि वयोधा असीति
(ग्ब्र्_2,2.14ब्) प्राणो ऽपानश् चक्षुः श्रोत्रम् इत्य् एतानि वै पुरुषम् अकरन् प्रणान् उपैति
(ग्ब्र्_2,2.14च्) प्रजात्या एव
(ग्ब्र्_2,2.14द्) त्रिवृद् असि प्रवृद् असि स्ववृद् अस्य् अनुवृद् असीति
(ग्ब्र्_2,2.14ए) मिथुनम् एव करोति_
(ग्ब्र्_2,2.14f) आरोहो ऽसि प्ररोहो ऽसि संरोहो ऽस्य् अनुरोहो ऽसीति [एद्. आरुओहो]
(ग्ब्र्_2,2.14ग्) प्रजापतिर् एव
(ग्ब्र्_2,2.14ह्) वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असीति
(ग्ब्र्_2,2.14इ) प्रतिष्ठितिर् एव_
(ग्ब्र्_2,2.14ज्) आक्रमो ऽसि संक्रमो ऽस्य् उत्क्रमो ऽस्य् उत्क्रान्तिर् असीति_
(ग्ब्र्_2,2.14क्) ऋद्धिर् एव
(ग्ब्र्_2,2.14ल्) यद् यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन्_
(ग्ब्र्_2,2.14म्) सवितृप्रसूता एव स्तुवन्ति_
(ग्ब्र्_2,2.14न्) ऋध्नुवन्ति
(ग्ब्र्_2,2.14ओ) बृहस्पतये स्तुतेति
(ग्ब्र्_2,2.14प्) बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा
(ग्ब्र्_2,2.14q) तद् अनुमत्यैवों भूर् जनद् इति प्रातःसवने_
(ग्ब्र्_2,2.14र्) ऋग्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेति_
(ग्ब्र्_2,2.14स्) एवों भुवो जनद् इति माध्यंदिने सवने
(ग्ब्र्_2,2.14त्) यजुर्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तैः_
(ग्ब्र्_2,2.14उ) स्तुतेत्य् एवों स्वर् जनद् इति तृतीयसवने
(ग्ब्र्_2,2.14व्) सामभिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेत्य् एव_
(ग्ब्र्_2,2.14w) अथ यद्य् अहीन उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्यामा वा स्यात् सर्वाभिः सर्वाभिर् अत ऊर्ध्वं व्याहृतिभिर् अनुजानाति_
(ग्ब्र्_2,2.14x) ओं भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इन्द्रवन्त स्तुतेति सेन्द्रान् मापगायत सेन्द्रान् स्तुतेत्य् एव_
(ग्ब्र्_2,2.14य्) इन्द्रियवान् ऋद्धिमान् वशीयान् भवति य एवं वेद यश् चैवंविद्वान्त् स्तोमभागैर् यजते

7.15

(ग्ब्र्_2,2.15अ) यो ह वा आयतांश् च प्रतियतांश् च स्तोमभागान् विद्यात् स विष्पर्धमानयोः समृतसोमयोर् ब्रह्मा स्यात्
(ग्ब्र्_2,2.15ब्) <स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून् वो देवान् रुद्रान् वो देवान् आदित्यान् वो देवान् साध्यान् वो देवान् आप्त्यान् वो देवान् विश्वान् वो देवान् सर्वान् वो देवान् विश्वतस् परि हवामहे [वैत्स् 17.7]>
(ग्ब्र्_2,2.15च्) <जनेभ्यो ऽस्माकम् अस्तु केवलः [वैत्स् 17.7 (च्f. प्स् 5.4.9च्)]>_
(ग्ब्र्_2,2.15द्) <इतः कृणोतु वीर्यम् [वैत्स् 17.7 (प्स् 5.4.9द्)]> इति_
(ग्ब्र्_2,2.15ए) एते ह वा आयताश् च प्रतियताश् च स्तोमभागास्
(ग्ब्र्_2,2.15f) ताञ् जपन्न् उपर्युपरि परेषां ब्रह्माणम् अवेक्षेत
(ग्ब्र्_2,2.15ग्) तत एषाम् अधःशिरा ब्रह्मा पतति
(ग्ब्र्_2,2.15ह्) ततो यज्ञस्
(ग्ब्र्_2,2.15इ) ततो यजमानः_
(ग्ब्र्_2,2.15ज्) यजमाने ऽधःशिरसि पतिते स देशो ऽधःशिराः पतति यस्मिन्न् अर्धे यजन्ते
(ग्ब्र्_2,2.15क्) देवाश् च ह वा असुराश् च समृतसोमौ यज्ञाव् अतनुताम्
(ग्ब्र्_2,2.15ल्) अथ बृहस्पतिर् आङ्गिरसो देवानां ब्रह्मा
(ग्ब्र्_2,2.15म्) स आयतांश् च प्रतियतांश् च स्तोमभागाञ् जपन्न् उपर्युपर्य् असुराणां ब्रह्माणम् अवैक्षत
(ग्ब्र्_2,2.15न्) तत एषाम् अधःशिरा ब्रह्मापतत्
(ग्ब्र्_2,2.15ओ) ततो यज्ञस्
(ग्ब्र्_2,2.15प्) ततो ऽसुरा इति

7.16

(ग्ब्र्_2,2.16अ) देवा यज्ञं पराजयन्त
(ग्ब्र्_2,2.16ब्) तम् आग्नीध्रात् पुनर् उपाजयन्त
(ग्ब्र्_2,2.16च्) तद् एतद् यज्ञस्यापराजितं यद् आग्नीध्रम्_
(ग्ब्र्_2,2.16द्) यद् आग्नीध्राद् धिष्ण्यान् विहरति तत एवैनं पुनस् तनुते
(ग्ब्र्_2,2.16ए) पराजित्यै_
(ग्ब्र्_2,2.16f) अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति
(ग्ब्र्_2,2.16ग्) बहिष्पवमाने स्तुत आह_
(ग्ब्र्_2,2.16ह्) अग्नीद् अग्नीन् विहर बर्हि स्तृणीहि पुरोडाशान् अलंकुर्व् इति
(ग्ब्र्_2,2.16इ) यज्ञम् एवापराजित्य पुनस् तन्वाना आयन्ति_
(ग्ब्र्_2,2.16ज्) अङ्गारैर् द्वे सवने विहरति शलाकाभिस् तृतीयसवनं सश्रुक्रत्वाय_
(ग्ब्र्_2,2.16क्) अथो संभवत्य् एवम् एवैतत्_
(ग्ब्र्_2,2.16ल्) दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन्_ [एद्. अजिधांसन्]
(ग्ब्र्_2,2.16म्) तान्य् आग्नीध्रेणापाघ्नत
(ग्ब्र्_2,2.16न्) तस्माद् दक्षिणामुखस् तिष्ठन्न् अग्नीत् प्रत्याश्रावयति
(ग्ब्र्_2,2.16ओ) यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै

7.17

(ग्ब्र्_2,2.17अ) तद् आहुर् अथ कस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति न हविर्यज्ञ इति_
(ग्ब्र्_2,2.17ब्) अकृत्स्ना वा एषा देवयज्या यद् धविर्यज्ञः_
(ग्ब्र्_2,2.17च्) अथ हैषैव कृत्स्ना देवयज्या यत् सौम्यो ऽध्वरस्
(ग्ब्र्_2,2.17द्) तस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति
(ग्ब्र्_2,2.17ए) जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग् यद् वाचो मधुमत्तमं तस्मिन् मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात् स्वाहाकारेण जुहोति [एद्. -स्वाहाकरेण]
(ग्ब्र्_2,2.17f) तस्माद् वाग् अत ऊर्ध्वम् उत्सृष्टा यज्ञं वहति मनसोत्तराम्_
(ग्ब्र्_2,2.17ग्) मनसा हि मनः प्रीतम्_
(ग्ब्र्_2,2.17ह्) तद् उ हैके सप्ताहुतीर् जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रम् इति वदन्तः_
(ग्ब्र्_2,2.17इ) यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै
(ग्ब्र्_2,2.17ज्) प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम्_
(ग्ब्र्_2,2.17क्) तस्मात् सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः_
(ग्ब्र्_2,2.17ल्) जनं ह्य् एतत्_
(ग्ब्र्_2,2.17म्) देवलोकं ह्य् अध्यारोहन्ति
(ग्ब्र्_2,2.17न्) तेषाम् एतद् आयतनं चोदयनं च यद् आग्नीध्रं च सदश् च
(ग्ब्र्_2,2.17ओ) तद् यो ऽविद्वान्त् संचरत्य् आर्तिम् आर्छत्यि_
(ग्ब्र्_2,2.17प्) अथ यो विद्वान्त् संचरति न स धिष्णीयाम् आर्तिम् आर्छति

7.18

[एद्. विद्वन्त्]
(ग्ब्र्_2,2.18अ) प्रजापतिर् वै यज्ञस्
(ग्ब्र्_2,2.18ब्) तस्मिन्त् सर्वे कामाः सर्वा इष्टीः सर्वम् अमृतत्वम्_
(ग्ब्र्_2,2.18च्) तस्य हैते गोप्तारो यद् धिष्ण्यास्
(ग्ब्र्_2,2.18द्) तान्त् सदः प्रस्रप्स्यन् नमस्करोति
(ग्ब्र्_2,2.18ए) नमो नम इति
(ग्ब्र्_2,2.18f) न हि नमस्कारम् अति देवास्
(ग्ब्र्_2,2.18ग्) ते ह नमसिताः कर्तारम् अतिसृजन्तीति
(ग्ब्र्_2,2.18ह्) तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति
(ग्ब्र्_2,2.18इ) न हि नमस्कारम् अति देवाः
(ग्ब्र्_2,2.18ज्) स तत्रैव यजमानः सर्वान् कामान् आप्नोति सर्वान् कामान् आप्नोति

7.19

(ग्ब्र्_2,2.19अ) यो वै सदस्यान् गन्धर्वान् वेद न सदस्याम् आर्तिम् आर्छति
(ग्ब्र्_2,2.19ब्) सदः प्रस्रप्स्यन् ब्रूयाद् उपद्रष्ट्रे नम इति_
(ग्ब्र्_2,2.19च्) अग्निर् वै द्रष्टा तस्मा उ एवात्मानं परिददाति
(ग्ब्र्_2,2.19द्) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
(ग्ब्र्_2,2.19ए) सदः प्रसृप्य ब्रूयाद् उपश्रोत्रे नम इति
(ग्ब्र्_2,2.19f) वायुर् वा उपश्रोता
(ग्ब्र्_2,2.19ग्) तस्मा उ एवात्मानं परिददाति
(ग्ब्र्_2,2.19ह्) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
(ग्ब्र्_2,2.19इ) सदः प्रसर्पन् ब्रूयाद् अनुख्यात्रे नम इति_
(ग्ब्र्_2,2.19ज्) आदित्यो वा अनुख्याता
(ग्ब्र्_2,2.19क्) तस्मा उ एवात्मानं परिददाति
(ग्ब्र्_2,2.19ल्) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
(ग्ब्र्_2,2.19म्) सदः प्रसृप्तो ब्रूयाद् उपद्रष्ट्रे नम इति
(ग्ब्र्_2,2.19न्) ब्राह्मणो वा उपद्रष्टा
(ग्ब्र्_2,2.19ओ) तस्मा उ एवात्मानं परिददाति
(ग्ब्र्_2,2.19प्) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
(ग्ब्र्_2,2.19q) ते वै सदस्या गन्धर्वाः
(ग्ब्र्_2,2.19र्) स य एवम् एतान्त् सदस्यान् गन्धर्वान् अविद्वान्त् सदः प्रसर्पति स सदस्याम् आर्तिम् आर्छति_
(ग्ब्र्_2,2.19स्) अथ यो विद्वान्त् संचरति न सदस्याम् आर्तिम् आर्छति_
(ग्ब्र्_2,2.19त्) एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस्
(ग्ब्र्_2,2.19उ) ते न सदस्याम् आर्तिम् आर्छन्ति_
(ग्ब्र्_2,2.19व्) अथ यान् कामयेत न सदस्याम् आर्तिम् आर्छेयुर् इति तेभ्य एतेन सर्वं सदः परिब्रूयात्
(ग्ब्र्_2,2.19w) ते न सदस्याम् आर्तिम् आर्छन्ति_
(ग्ब्र्_2,2.19x) अथ यं कामयेत प्रमीयतेति तम् एतेभ्य आवृश्चेत्
(ग्ब्र्_2,2.19य्) प्रमीयते

7.20

(ग्ब्र्_2,2.20अ) तद् आहुर् यद् ऐन्द्रो यज्ञो ऽथ कस्माद् द्वाव् एव प्रातःसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च_ [एद्. ऐद्रीभ्यां]
(ग्ब्र्_2,2.20ब्) <इदं ते सोम्यं मधु [ऋव् 8.65.8]>_इति होता यजति_
(ग्ब्र्_2,2.20च्) <इन्द्र त्वा वृषभं वयम् [ऋव् 3.40.1, वैत्स् 19.6]> इति ब्राह्मणाच्छंसी
(ग्ब्र्_2,2.20द्) नानादेवत्याभिर् इतरे
(ग्ब्र्_2,2.20ए) कथं तेषाम् ऐन्द्र्यो भवन्ति
(ग्ब्र्_2,2.20f) <मित्रं वयं हवामहे [ऋव् 1.23.4अ]>_इति मैत्रावरुणो यजति
(ग्ब्र्_2,2.20ग्) <वरुणं सोमपीतये [ऋव् 1.23.4ब्]>_इति
(ग्ब्र्_2,2.20ह्) यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम्_
(ग्ब्र्_2,2.20इ) तेनेन्द्रं प्रीणाति
(ग्ब्र्_2,2.20ज्) <मरुतो यस्य हि क्षये [ऋव् 1.86.1अ, श्स् 20.1.2अ]>_इति पोता यजति
(ग्ब्र्_2,2.20क्) <स सुगोपातमो जनः [ऋव् 1.86.1च्, श्स् 20.1.2च्]>_इति_ [एद्. सुगोपतमो, चोर्रेच्तेद् प्. 302]
(ग्ब्र्_2,2.20ल्) इन्द्रो वै गोपास्
(ग्ब्र्_2,2.20म्) तद् ऐन्द्रं रूपम्_
(ग्ब्र्_2,2.20न्) तेनेन्द्रं प्रीणाति_
(ग्ब्र्_2,2.20ओ) <अग्ने पत्नीर् इहा वह [ऋव् 1.22.9अ]>_इति नेष्टा यजति
(ग्ब्र्_2,2.20प्) <त्वष्टारं सोमपीतये [ऋव् 1.22.9च्]>_इति
(ग्ब्र्_2,2.20q) यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम्_
(ग्ब्र्_2,2.20र्) तेनेन्द्रं प्रीणाति_
(ग्ब्र्_2,2.20स्) <उक्षान्नाय वशान्नाय [ऋव् 8.43.11अ, प्स् 3.12.6अ, श्स् 3.21.6अ।20.1.3अ]>_इत्य् आग्नीध्रो यजति
(ग्ब्र्_2,2.20त्) <सोमपृष्ठाय वेधसे [ऋव् 8.43.11ब्, प्स् 3.12.6ब्, श्स् 3.21.6ब्।20.1.3ब्]>_इति_
(ग्ब्र्_2,2.20उ) इन्द्रो वै वेधास्
(ग्ब्र्_2,2.20व्) तद् ऐन्द्रं रूपम्_
(ग्ब्र्_2,2.20w) तेनेन्द्रं प्रीणाति
(ग्ब्र्_2,2.20x) <प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋव् 8.38.7]>_इति
(ग्ब्र्_2,2.20य्) स्वयंसमृद्धा अच्छावाकस्य_
(ग्ब्र्_2,2.20z) एवम् उ हैता ऐन्द्र्यो भवन्ति
(ग्ब्र्_2,2.20अअ) यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति
(ग्ब्र्_2,2.20ब्ब्) यद् गायत्र्यस् तेनाग्नेय्यस्
(ग्ब्र्_2,2.20च्च्) तस्माद् एताभिस् त्रयम् अवाप्तं भवति

7.21

(ग्ब्र्_2,2.21अ) ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभिर् यजन्ति_
(ग्ब्र्_2,2.21ब्) अभितृणवतीभिर् एके
(ग्ब्र्_2,2.21च्) <पिबा सोमम् अभि यम् उग्र तर्दः [ऋव् 6.17.1]>_इति होता यजति
(ग्ब्र्_2,2.21द्) <स ईं पाहि य ऋजीषी तरुत्रः [ऋव् 6.17.2]>_इति मैत्रावरुणः_
(ग्ब्र्_2,2.21ए) <एवा पाहि प्रत्नथा मन्दतु त्वा [ऋव् 6.17.3]>_इति ब्राह्मणाच्छंसी_
(ग्ब्र्_2,2.21f) <अर्वाङ् एहि सोमकामं त्वाहुः [ऋव् 1.104.9]>_इति पोता
(ग्ब्र्_2,2.21ग्) <तवायं सोमस् त्वम् एह्य् अर्वाङ् [ऋव् 3.35.6]> इति नेष्टा_
(ग्ब्र्_2,2.21ह्) <इन्द्राय सोमाः प्रदिवो विदानाः [ऋव् 3.36.2]>_इत्य् अच्छावाकः_
(ग्ब्र्_2,2.21इ) <आपूर्णो अस्य कलशः स्वाहा [ऋव् 3.32.15]>_इत्य् आग्नीध्रः_ [एद्. स्वहोत्य्]
(ग्ब्र्_2,2.21ज्) एवम् उ हैता अभितृणवत्यो भवन्ति_
(ग्ब्र्_2,2.21क्) इन्द्रो वै प्रातःसवनं नाभ्यजयत्
(ग्ब्र्_2,2.21ल्) स एताभिर् माध्यंदिनं सवनम् अभ्यतृणत्
(ग्ब्र्_2,2.21म्) तद् यद् एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् तस्माद् एता अभितृणवत्यो भवन्ति

7.22

(ग्ब्र्_2,2.22अ) तद् आहुर् यद् ऐन्द्रार्भवं तृतीयसवनम् अथ कस्माद् एक एव तृतीयसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रार्भव्या यजति_
(ग्ब्र्_2,2.22ब्) <इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितम् [ऋव् 3.60.5]> इति होतैव
(ग्ब्र्_2,2.22च्) नानादेवत्याभिर् इतरे
(ग्ब्र्_2,2.22द्) कथं तेषाम् ऐन्द्रार्भव्यो भवन्ति_
(ग्ब्र्_2,2.22ए) <इन्द्रावरुणा सुतपाव् इमं सुतम् [ऋव् 6.68.10, प्स् 20.7.5अ, श्स् 7.58.1अ]>_ इति मैत्रावरुणो यजति [एद्. सतम्, चोर्रेच्तेद् प्. 302]
(ग्ब्र्_2,2.22f) <युवो रथो अध्वरो देववीतये [प्स् 20.7.5च्, श्स् 7.58.1च्, ऋव् 6.68.10च्]>_इति बहूनि वाह
(ग्ब्र्_2,2.22ग्) तद् ऋभूणां रूपम्
(ग्ब्र्_2,2.22ह्) <इन्द्रश् च सोमं पिबतं बृहस्पतये [ऋव् 4.50.10अ, वैत्स् 22.11]>_इति ब्राह्मणाच्छंसी यजति_
(ग्ब्र्_2,2.22इ) <आ वां विशन्त्व् इन्दवः स्वाभुवः [ऋव् 4.50.10च्]>_इति बहूनि वाह
(ग्ब्र्_2,2.22ज्) तद् ऋभूणां रूपम्
(ग्ब्र्_2,2.22क्) <आ वो वहन्तु सप्तयो रघुष्यदः [ऋव् 1.85.6अ]>_इति पोता यजति
(ग्ब्र्_2,2.22ल्) <रघुपत्वानः प्र जिगात बाहुभिः [ऋव् 1.85.6ब्]>_इति बहूनि वाह
(ग्ब्र्_2,2.22म्) तद् ऋभूणां रूपम्
(ग्ब्र्_2,2.22न्) <अमेव नः सुहवा आ हि गन्तन [ऋव् 2.36.3]>_इति नेष्टा यजति
(ग्ब्र्_2,2.22ओ) गन्तनेति बहूनि वाह
(ग्ब्र्_2,2.22प्) तद् ऋभूणां रूपम्
(ग्ब्र्_2,2.22q) <इन्द्राविष्णू पिबतं मध्वो अस्य [ऋव् 6.69.7अ]>_इत्य् अच्छावाको यजति_
(ग्ब्र्_2,2.22र्) <आ वाम् अन्धांसि मदिराण्य् अग्मन् [ऋव् 6.69.7च्]>_इति बहूनि वाह
(ग्ब्र्_2,2.22स्) तद् ऋभूणां रूपम्
(ग्ब्र्_2,2.22त्) <इमं स्तोमम् अर्हते जातवेदसे [ऋव् 1.94.1अ]>_इत्य् आग्नीध्रो यजति
(ग्ब्र्_2,2.22उ) <रथम् इव सं महेमा मनीषया [ऋव् 1.94.1ब्]>_इति बहूनि वाह
(ग्ब्र्_2,2.22व्) तद् ऋभूणां रूपम्
(ग्ब्र्_2,2.22w) एवम् उ हैता ऐन्द्रार्भव्यो भवन्ति
(ग्ब्र्_2,2.22x) यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति
(ग्ब्र्_2,2.22य्) यद् उ जगत्प्रासाहा जागतम् उ वै तृतीयसवनम्_
(ग्ब्र्_2,2.22z) तृतीयसवनस्य समष्ट्यै

7.23

(ग्ब्र्_2,2.23अ) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(ग्ब्र्_2,2.23ब्) विचक्षयन्ति ब्राह्मणम्_
(ग्ब्र्_2,2.23च्) चनसयन्ति प्राजापत्यम्_
(ग्ब्र्_2,2.23द्) सत्यं वदन्ति_
(ग्ब्र्_2,2.23ए) एतद् वै मनुष्येषु सत्यं यच् चक्षुस्
(ग्ब्र्_2,2.23f) तस्माद् आहुर् आचक्षाणम् अद्राग् इति
(ग्ब्र्_2,2.23ग्) स यद् आहाद्राक्षम् इति तथाहास्य श्रद्दधति
(ग्ब्र्_2,2.23ह्) यद्य् उ वै स्वयं वै दृष्टं भवति न बहूनां जनानाम् एष श्रद्दधाति
(ग्ब्र्_2,2.23इ) तस्माद् विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(ग्ब्र्_2,2.23ज्) सत्योत्तरा हैवैषां वाग् उदिता भवति

7.24

(ग्ब्र्_2,2.24अ) समृतयज्ञो वा एष यद् दर्शपूर्णमासौ
(ग्ब्र्_2,2.24ब्) कस्य वाव देवा यज्ञम् आगच्छन्ति कस्य वा न
(ग्ब्र्_2,2.24च्) बहूनां वा एतद् यजमानानां सामान्यम् अहस्
(ग्ब्र्_2,2.24द्) तस्मात् पूर्वेद्युर् देवताः परिगृह्णीयात्_
(ग्ब्र्_2,2.24ए) यो ह वै पूर्वेद्युर् देवताः परिगृह्णाति तस्य श्वो भूते यज्ञम् आगच्छन्ति
(ग्ब्र्_2,2.24f) तस्माद् विहव्यस्य चतस्र ऋचो जपेत्_
(ग्ब्र्_2,2.24ग्) यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः

मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc