गोपथब्राह्मण · अध्याय 6
(ग्ब्र्_1,5.25चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥
(ग्ब्र्_1चोल्) इति पूर्वब्राह्मणं समाप्तम्
(ग्ब्र्_2,1.1अ) अथ यद् ब्रह्मसदनात् तृणं निरस्यति शोधयत्य् एवैनं तत्_
(ग्ब्र्_2,1.1ब्) अथोपविशतीदम् अहम् अर्वाग्वसोः सदने सीदामीति_
(ग्ब्र्_2,1.1च्) अर्वाग्वसुर् ह वै देवानां ब्रह्मा पराग्वसुर् असुराणाम्_
(ग्ब्र्_2,1.1द्) तमेवैतत् पूर्वं सादयति_
(ग्ब्र्_2,1.1ए) अरिष्टं यज्ञं तनुताद् इति_
(ग्ब्र्_2,1.1f) अथोपविश्व जपति बृहस्पतिर् ब्रह्मेति
(ग्ब्र्_2,1.1ग्) बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा
(ग्ब्र्_2,1.1ह्) तस्मिन्न् एवैतद् अनुज्ञाम् इच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्य् आ हविष्कृत उद्वादनात्_
(ग्ब्र्_2,1.1इ) एतद् वै यज्ञस्य द्वारम्_
(ग्ब्र्_2,1.1ज्) तद् एतद् अशून्यं करोति_
(ग्ब्र्_2,1.1क्) इष्टे च स्विष्टकृत्य् आनुयाजानां प्रसवाद् इति_
(ग्ब्र्_2,1.1ल्) एतद् वै यज्ञस्य द्वितीयं द्वारम्_
(ग्ब्र्_2,1.1म्) तद् एवैतद् अशून्यं करोति
(ग्ब्र्_2,1.1न्) यत् परिधयः परिधीयन्ते यज्ञस्य गोपीथाय
(ग्ब्र्_2,1.1ओ) परिधीन् परिधत्ते यज्ञस्य सात्मत्वाय
(ग्ब्र्_2,1.1प्) परिधीन्त् संमार्ष्टि
(ग्ब्र्_2,1.1q) पुनात्य् एवैनान्_
(ग्ब्र्_2,1.1र्) त्रिर् मध्यमम्_
(ग्ब्र्_2,1.1स्) त्रय इमे प्राणाः
(ग्ब्र्_2,1.1त्) प्राणान् एवाभिजयति
(ग्ब्र्_2,1.1उ) त्रिर् दक्षिणार्ध्यम्_
(ग्ब्र्_2,1.1व्) त्रयो वै लोकाः_
(ग्ब्र्_2,1.1w) लोकान् एवाभिजयति
(ग्ब्र्_2,1.1x) त्रिर् उत्तरार्ध्यं
(ग्ब्र्_2,1.1य्) त्रयो वै देवलोकाः_
(ग्ब्र्_2,1.1z) देवलोकान् एवाभिजयति
(ग्ब्र्_2,1.1अअ) त्रिर् उपवाजयति त्रयो वै देवयानाः पन्थानस्
(ग्ब्र्_2,1.1ब्ब्) तान् एवाभिजयति
(ग्ब्र्_2,1.1च्च्) ते वै द्वादश भवन्ति
(ग्ब्र्_2,1.1द्द्) द्वादश ह वै मासाः संवत्सरः
(ग्ब्र्_2,1.1एए) संवत्सरम् एव तेन प्रीणाति_
(ग्ब्र्_2,1.1ff) अथो संवत्सरम् एवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै
(ग्ब्र्_2,1.2अ) प्रजापतिर् वै रुद्रं यज्ञान् निरभजत्
(ग्ब्र्_2,1.2ब्) सो ऽकामयत
(ग्ब्र्_2,1.2च्) मेयम् अस्मा आकूतिः समर्धि यो मा यज्ञान् निरभाक्षीद् इति
(ग्ब्र्_2,1.2द्) स यज्ञम् अभ्यायम्याविध्यत्
(ग्ब्र्_2,1.2ए) तद् आविद्धं निरकृन्तत्
(ग्ब्र्_2,1.2f) तत् प्राशित्रम् अभवत्
(ग्ब्र्_2,1.2ग्) तद् उदयच्छत्
(ग्ब्र्_2,1.2ह्) तद् भगाय पर्यहरन्_
(ग्ब्र्_2,1.2इ) तत् प्रत्यैक्षत
(ग्ब्र्_2,1.2ज्) तस्य चक्षुः परापतत्
(ग्ब्र्_2,1.2क्) तस्माद् आहुर् अन्धो वै भग इति_
(ग्ब्र्_2,1.2ल्) अपि ह तं नेच्छेद् यम् इच्छति
(ग्ब्र्_2,1.2म्) तत् सवित्रे पर्यहरन्_
(ग्ब्र्_2,1.2न्) तत् प्रत्यगृहात् तस्य पाणी प्रचिच्छेद
(ग्ब्र्_2,1.2ओ) तस्मै हिरण्मयौ प्रत्यदधुस्
(ग्ब्र्_2,1.2प्) तस्माद् धिरण्यपाणिर् इति स्तुतस्
(ग्ब्र्_2,1.2q) तत् पूष्णे पर्यहरन्_
(ग्ब्र्_2,1.2र्) तत् प्राश्नात्
(ग्ब्र्_2,1.2स्) तस्य दन्ताः परोप्यन्त
(ग्ब्र्_2,1.2त्) तस्माद् आहुर् अदन्तकः पूषा पिष्टभाजन इति
(ग्ब्र्_2,1.2उ) तद् इध्मायाङ्गिरसाय पर्यहरन्_
(ग्ब्र्_2,1.2व्) तत् प्राश्नात्
(ग्ब्र्_2,1.2w) तस्य शिरो व्यपतत्
(ग्ब्र्_2,1.2x) तं यज्ञ एवाकल्पयत्
(ग्ब्र्_2,1.2य्) स एष इध्मः
(ग्ब्र्_2,1.2z) समिधो ह पुरातनस्
(ग्ब्र्_2,1.2अअ) तद् बर्हय आङ्गिरसाय पर्यहरन्_
(ग्ब्र्_2,1.2ब्ब्) तत् प्राश्नात्
(ग्ब्र्_2,1.2च्च्) तस्याङ्गा पर्वाणि व्यस्रंसन्त
(ग्ब्र्_2,1.2द्द्) तं यज्ञ एवाकल्पयत्
(ग्ब्र्_2,1.2एए) तद् एतद् बर्हिः
(ग्ब्र्_2,1.2ff) प्रस्तरो ह पुरातनस्
(ग्ब्र्_2,1.2ग्ग्) तद् बृहस्पतय आङ्गिरसाय पर्यहरन्_
(ग्ब्र्_2,1.2ह्ह्) सो ऽबिभेद् बृहस्पतिर् इत्थं वाव स्य आर्तिम् आरिष्यतीति
(ग्ब्र्_2,1.2इइ) स एतं मन्त्रम् अपश्यत्
(ग्ब्र्_2,1.2ज्ज्) <सूर्यस्य त्वा चक्षुषा प्रतीक्षे [प्स् 20.57.11, कौश्स् 91.2, वैत्स् 3.8]> इत्य् अब्रवीत्_
(ग्ब्र्_2,1.2क्क्) न हि सूर्यस्य चक्षुः किं चन हिनस्ति
(ग्ब्र्_2,1.2ल्ल्) सो ऽबिभेत् प्रतिगृह्णन्तं मा हिंसिष्यतीति
(ग्ब्र्_2,1.2म्म्) देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्य् अब्रवीत्
(ग्ब्र्_2,1.2न्न्) सवितृप्रसूत एवैनं तद् देवताभिः प्रत्यगृह्णात्
(ग्ब्र्_2,1.2ओओ) तद् व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास् त्वा नाभौ सादयामीति
(ग्ब्र्_2,1.2प्प्) पृथिवी वा अन्नानां शमयित्री तयैवैनच् छमयां चकार
(ग्ब्र्_2,1.2qq) सो ऽबिभेत् प्राश्नन्तं मा हिंसिष्यतीति_
(ग्ब्र्_2,1.2र्र्) अग्नेष् ट्वास्येन प्राश्नामीत्य् अब्रवीत्_
(ग्ब्र्_2,1.2स्स्) न ह्य् अग्नेर् आस्यं किं चन हिनस्ति
(ग्ब्र्_2,1.2त्त्) सो ऽबिभेत् प्राशितं मा हिंसिष्यतीति_
(ग्ब्र्_2,1.2उउ) इन्द्रस्य त्वा जठरे सादयामीत्य् अब्रवीत्_
(ग्ब्र्_2,1.2व्व्) न हीन्द्रस्य जठरं किं चन हिनस्ति
(ग्ब्र्_2,1.2ww) वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति
(ग्ब्र्_2,1.3अ) अथो आहुर् ब्राह्मणस्योदर इति_
(ग्ब्र्_2,1.3ब्) आत्मास्यात्मन्न् आत्मानं मे मा हिंसीः स्वाहेति_
(ग्ब्र्_2,1.3च्) अन्नं वै सर्वेषां भूतानाम् आत्मा तेनैवैनच् छमयां चकार
(ग्ब्र्_2,1.3द्) प्राशितम् अनुमन्त्रयते <यो ऽग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एतत् सुहुतम् अस्तु प्राशित्रं तन् मा मा हिंसीत् परमे व्योमन् [प्स् 20.57.15]>_ इति
(ग्ब्र्_2,1.3ए) तत् सर्वेण ब्रह्मणा प्राश्नात्
(ग्ब्र्_2,1.3f) तत एनं नाहिनत्
(ग्ब्र्_2,1.3ग्) तस्माद् यो ब्रह्मिष्ठः स्यात् तं ब्रह्माणं कुर्वीत
(ग्ब्र्_2,1.3ह्) बृहस्पतिर् वै सर्वं ब्रह्म
(ग्ब्र्_2,1.3इ) सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते
(ग्ब्र्_2,1.3ज्) अप वा एतस्मात् प्राणाः क्रामन्ति य आविद्धं प्राश्नाति_
(ग्ब्र्_2,1.3क्) अद्भिर् मार्जयित्वा प्राणान्त् संस्पृशते वाङ् म आस्यन्न् इति_
(ग्ब्र्_2,1.3ल्) अमृतं वै प्राणाः_
(ग्ब्र्_2,1.3म्) अमृतम् आपः
(ग्ब्र्_2,1.3न्) प्राणान् एव यथास्थानम् उपाह्वयते
(ग्ब्र्_2,1.3ओ) तद् उ हैक आहुर् इन्द्राय पर्यहरन्न् इति
(ग्ब्र्_2,1.3प्) ते देवा अब्रुवन्न् इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस्
(ग्ब्र्_2,1.3q) तस्मा एनत् परिहरतेति
(ग्ब्र्_2,1.3र्) तत् तस्मै पर्यहरन्_
(ग्ब्र्_2,1.3स्) तत् स ब्रह्मणा शयमां चकार
(ग्ब्र्_2,1.3त्) तस्माद् आहुर् इन्द्रो ब्रह्मेति
(ग्ब्र्_2,1.3उ) यवमात्रं भवति
(ग्ब्र्_2,1.3व्) यवमात्रं वै विषस्य न हिनस्ति
(ग्ब्र्_2,1.3w) यद् अधस्ताद् अभिधारयति तस्माद् अधस्तात् प्रक्षरणं प्रजा अरुर् न हिनस्ति
(ग्ब्र्_2,1.3x) यद् उपरिष्टाद् अभिधारयति तस्माद् उपरिष्टात् प्रक्षरणं प्रजा अरुर् न हिनस्ति
(ग्ब्र्_2,1.3य्) यद् उभयतो ऽभिघारयत्य् उभयतो ऽभिघारि प्रजा अरुर् घातुकं स्यात्_
(ग्ब्र्_2,1.3z) यत् समयाभिहरेद् अनभिविद्धं यज्ञस्याभिविध्येत्
(ग्ब्र्_2,1.4अ) अग्रेण परिहरति
(ग्ब्र्_2,1.4ब्) तीर्थेनैव परिहरति
(ग्ब्र्_2,1.4च्) वि वा एतद् यज्ञश् छिद्यते यत् प्राशित्रं परिहरति
(ग्ब्र्_2,1.4द्) यद् आह ब्रह्मन् प्रस्थास्यामीति बृहस्पतिर् वै सर्वं ब्रह्म
(ग्ब्र्_2,1.4ए) सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणतः संदधाति_
(ग्ब्र्_2,1.4f) अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस्
(ग्ब्र्_2,1.4ग्) तत एवैनम् आलभते
(ग्ब्र्_2,1.4ह्) यद् धस्तेन प्रमीवेद् वेपनः स्यात्_
(ग्ब्र्_2,1.4इ) यच् छीर्ष्णा शीर्षक्तिमान्त् स्यात्_
(ग्ब्र्_2,1.4ज्) यत् तूष्णीम् आसीतासंप्रत्तो यज्ञः स्यात्
(ग्ब्र्_2,1.4क्) प्रतिष्ठेत्य् एव ब्रूयात्_
(ग्ब्र्_2,1.4ल्) वाचि वै यज्ञः श्रितः_
(ग्ब्र्_2,1.4म्) यत्र ब्रह्मा यत्रैव यज्ञः श्रितस् तत एवैनं संप्रयच्छति_
(ग्ब्र्_2,1.4न्) अग्नीध आदधाति_
(ग्ब्र्_2,1.4ओ) अग्निमुखान् एवर्तून् प्रीणाति_
(ग्ब्र्_2,1.4प्) अथोत्तरासाम् आहुतीनां प्रतिष्ठित्या
(ग्ब्र्_2,1.4q) अथो समिद्वत्य् अव जुहोति
(ग्ब्र्_2,1.4र्) परिधीन्त् संमार्ष्टि
(ग्ब्र्_2,1.4स्) पुनात्य् एवैनान्_
(ग्ब्र्_2,1.4त्) सकृत्सकृत् संमार्ष्टि
(ग्ब्र्_2,1.4उ) पराङ् एव ह्य् एतर्हि यज्ञः_
(ग्ब्र्_2,1.4व्) चतुः संपद्यते_
(ग्ब्र्_2,1.4w) अथो चतुष्पादः पशवः
(ग्ब्र्_2,1.4x) पशूनाम् आप्त्यै
(ग्ब्र्_2,1.4य्) देव सवितर् एतत् ते प्राहेत्य् आह प्रसूत्यै
(ग्ब्र्_2,1.4z) बृहस्पतिर् ब्रह्मेत्य् आह
(ग्ब्र्_2,1.4अअ) स हि ब्रह्मिष्ठः
(ग्ब्र्_2,1.4ब्ब्) स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्य् आह
(ग्ब्र्_2,1.4च्च्) यज्ञाय च यजमानाय च पशूनाम् आप्त्यै
(ग्ब्र्_2,1.5अ) न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते
(ग्ब्र्_2,1.5ब्) य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै_
(ग्ब्र्_2,1.5च्) इष्टी वा एतेन यद् यजते ऽथो वा एतेन पूर्ती य एष ओदनः पच्यते_
(ग्ब्र्_2,1.5द्) एष ह वा इष्टापूर्ती य एनं पचति
(ग्ब्र्_2,1.6अ) द्वया वै देवा यजमानस्य गृहम् आगच्छन्ति सोमपा अन्ये ऽसोमपा अन्ये
(ग्ब्र्_2,1.6ब्) हुतादो ऽन्ये ऽहुतादो ऽन्ये_
(ग्ब्र्_2,1.6च्) एते वै देवा अहुतादो यद् ब्राह्मणाः_
(ग्ब्र्_2,1.6द्) एतद्देवत्य एष यः पुरानीजानः_
(ग्ब्र्_2,1.6ए) एते ह वा एतस्य प्रजायाः पशूनाम् ईशते
(ग्ब्र्_2,1.6f) ते ऽस्याप्रीता इषम् ऊर्जम् आदायापक्रामन्ति
(ग्ब्र्_2,1.6ग्) यद् अन्वाहार्यम् अन्वाहरति तान् एव तेन प्रीणाति
(ग्ब्र्_2,1.6ह्) दक्षिणतःसद्भ्यः परिहर्तवा आह
(ग्ब्र्_2,1.6इ) दक्षिणावतैव यज्ञेन यजते_
(ग्ब्र्_2,1.6ज्) आहुतिभिर् एव देवान् हुतादः प्रीणाति दक्षिणाभिर् मनुष्यदेवान्_
(ग्ब्र्_2,1.6क्) ते ऽस्मै प्रीता इषम् ऊर्जं नियच्छन्ति
(ग्ब्र्_2,1.7अ) देवाश् च ह वा असुराश् चास्पर्धन्त
(ग्ब्र्_2,1.7ब्) ते देवाः प्रजापतिम् एवाभ्ययजन्त_
(ग्ब्र्_2,1.7च्) अन्यो ऽन्यस्यासन्न् असुरा अजुहवुस्
(ग्ब्र्_2,1.7द्) ते देवा एतम् ओदनम् अपश्यन्_
(ग्ब्र्_2,1.7ए) तं प्रजापतये भागम् अनुनिरवपन्_
(ग्ब्र्_2,1.7f) तं भागं पश्यन् प्रजापतिर् देवान् उपावर्तत
(ग्ब्र्_2,1.7ग्) ततो देवा अभवन् परासुराः
(ग्ब्र्_2,1.7ह्) स य एवंविद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
(ग्ब्र्_2,1.7इ) प्रजापतिर् वै देवेभ्यो भागधेयानि व्यकल्पयत्
(ग्ब्र्_2,1.7ज्) सो ऽमन्यतात्मानम् अन्तरगाम् इति
(ग्ब्र्_2,1.7क्) स एतम् ओदनम् अभक्तम् अपश्यत्
(ग्ब्र्_2,1.7ल्) तम् आत्मने भागं निरवपत्
(ग्ब्र्_2,1.7म्) प्रजापतेर् वा एष भागः_
(ग्ब्र्_2,1.7न्) अपरिमितः स्यात्_
(ग्ब्र्_2,1.7ओ) अपरिमितो हि प्रजापतिः
(ग्ब्र्_2,1.7प्) प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान्
(ग्ब्र्_2,1.7q) अक्षितो ऽसि_
(ग्ब्र्_2,1.7र्) अक्षित्यै त्वा
(ग्ब्र्_2,1.7स्) मा मे क्षेष्ठा अमुत्रामुष्मिंल् लोक इह च
(ग्ब्र्_2,1.7त्) प्राणापनौ मे पाहि
(ग्ब्र्_2,1.7उ) समानव्यानौ मे पाहि_
(ग्ब्र्_2,1.7व्) उदानरूपे मे पाहि_
(ग्ब्र्_2,1.7w) ऊर्ग् असि_
(ग्ब्र्_2,1.7x) ऊर्जं मे धेहि
(ग्ब्र्_2,1.7य्) कुर्वतो मे मा क्षेष्ठाः_
(ग्ब्र्_2,1.7z) ददतो मे मोपदसः
(ग्ब्र्_2,1.7अअ) प्रजापतिम् अहं त्वया समक्षम् ऋध्यासम् इति
(ग्ब्र्_2,1.7ब्ब्) प्रजापतिम् एव समक्षम् ऋध्नोति य एवं वेद य एवं वेद
(ग्ब्र्_2,1.8अ) ये वा इह यज्ञैर् आर्ध्नुवंस् तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि
(ग्ब्र्_2,1.8ब्) तन् नक्षत्राणां नक्षत्रत्वं यन् न क्षीयन्ति
(ग्ब्र्_2,1.8च्) दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ
(ग्ब्र्_2,1.8द्) ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि पतन्तीव
(ग्ब्र्_2,1.8ए) तद् यथा ह वा इदम् अस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैते ऽमुष्मांल् लोकान् नोनुद्यन्ते
(ग्ब्र्_2,1.8f) त एते प्रच्यवन्ते
(ग्ब्र्_2,1.9अ) यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदियात् तांस् त्रेधा ताण्डुलान् विभजेत्_
(ग्ब्र्_2,1.9ब्) ये मध्यमास् तान् अग्नये दात्रे ऽष्टाकपालं निर्वपेत्_
(ग्ब्र्_2,1.9च्) ये स्थविष्ठास् तान् इन्द्राय प्रादात्रे दधनि चरुम्_
(ग्ब्र्_2,1.9द्) ये क्षोदिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम्_ [एद्. क्षोदिस्थास्, चोर्र्. पत्यल्]
(ग्ब्र्_2,1.9ए) पशवो वा एते ऽतिरिच्यन्ते
(ग्ब्र्_2,1.9f) तान् एवाप्नोति
(ग्ब्र्_2,1.9ग्) तान् अवरुन्द्धे_
(ग्ब्र्_2,1.9ह्) अग्निर् वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता
(ग्ब्र्_2,1.9इ) यद् एवेदं क्षुद्रं पशूनां तद् विष्णोः शिपिविष्टम्_
(ग्ब्र्_2,1.9ज्) तद् एवाप्नोति
(ग्ब्र्_2,1.9क्) पशून् एवावरुन्द्धे
(ग्ब्र्_2,1.10अ) या पूर्वा पौर्णमासी सानुमतिः_
(ग्ब्र्_2,1.10ब्) योत्तरा राका
(ग्ब्र्_2,1.10च्) या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः_
(ग्ब्र्_2,1.10द्) चन्द्रमा एव धाता च विधाता च
(ग्ब्र्_2,1.10ए) यत् पूर्णो ऽन्यां वसत्य् अपूर्णो ऽन्यां तन् मिथुनम्_
(ग्ब्र्_2,1.10f) यत् पश्यत्य् अन्यां नान्यां तन् मिथुनम्_
(ग्ब्र्_2,1.10ग्) यद् अमावास्यायाश् चन्द्रमा अधि प्रजायते तन् मिथुनम्_
(ग्ब्र्_2,1.10ह्) तस्माद् एवास्मै मिथुनात् पशून् प्रजनयति
(ग्ब्र्_2,1.11अ) न द्वे यजेत
(ग्ब्र्_2,1.11ब्) यत् पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात्_
(ग्ब्र्_2,1.11च्) यद् उत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात्_
(ग्ब्र्_2,1.11द्) नेष्टिर् भवति न यज्ञस्
(ग्ब्र्_2,1.11ए) तद् अनु ह्रीतमुख्य् अपगल्भो जायते_
(ग्ब्र्_2,1.11f) एकाम् एव यजेत
(ग्ब्र्_2,1.11ग्) प्रगल्भो हैव जायते_
(ग्ब्र्_2,1.11ह्) अनादृत्य तद् द्वे यजेत
(ग्ब्र्_2,1.11इ) यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया
(ग्ब्र्_2,1.11ज्) देवता एवं पूर्वयाप्नोतीन्द्रियम् उत्तर्या
(ग्ब्र्_2,1.11क्) देवलोकम् एव पूर्वयावरुन्द्धे मनुष्यलोकम् उत्तरया भूयसो यज्ञक्रतून् उपैत्य_
(ग्ब्र्_2,1.11ल्) एषा ह वै सुमना नामेष्टिः_
(ग्ब्र्_2,1.11म्) यम् अद्येजानं पश्चाच् चन्द्रमा अभ्युदियाद् अस्मा अस्मिंल् लोक आर्धुकं भवति
(ग्ब्र्_2,1.12अ) अग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासाव् आरिप्समाणः_
(ग्ब्र्_2,1.12ब्) अग्निर् वै सर्वा देवता विष्णुर् यज्ञः_
(ग्ब्र्_2,1.12च्) देवताश् चैव यज्ञं चारभत ऋद्ध्यै_
(ग्ब्र्_2,1.12द्) ऋध्नोत्य् एव_
(ग्ब्र्_2,1.12ए) उभौ सहारम्भाव् इत्य् आहुः_
(ग्ब्र्_2,1.12f) उदिन् नु शृङ्गे सितो मुच्यत इति
(ग्ब्र्_2,1.12ग्) दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः_
(ग्ब्र्_2,1.12ह्) अथ यत् परस्तात् पौर्णमास आरभ्यते तद् यथा पूर्वं क्रियते
(ग्ब्र्_2,1.12इ) तद् यत् पौर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती पौर्णमासः सरस्वान् इति_
(ग्ब्र्_2,1.12ज्) उभाव् एवैनौ सहारभत ऋद्ध्यै_
(ग्ब्र्_2,1.12क्) ऋध्नोत्य् एव
(ग्ब्र्_2,1.13अ) अग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्य प्रज्ञातेष्टिर् अतिपद्यते
(ग्ब्र्_2,1.13ब्) बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिर् अतिपद्यते_
(ग्ब्र्_2,1.13च्) अग्निर् वै देवानां पथिकृत्
(ग्ब्र्_2,1.13द्) तम् एव भागधेयेनोपासरत्
(ग्ब्र्_2,1.13ए) स एनं पन्थानम् अपिनयति_
(ग्ब्र्_2,1.13f) अनड्वान् दक्षिणा
(ग्ब्र्_2,1.13ग्) स हि पन्थानम् अभिवहति
(ग्ब्र्_2,1.14अ) अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन् प्रवसेत्_
(ग्ब्र्_2,1.14ब्) बहु वा एष व्रतम् अतिपातयति य आहिताग्निः सन् प्रवसति व्रत्ये ऽहनि स्त्रियं वोपैति मांसं वाश्नाति_
(ग्ब्र्_2,1.14च्) अग्निर् वै देवानां व्रतपतिः_
(ग्ब्र्_2,1.14द्) अग्निम् एतस्य व्रतम् अगात्
(ग्ब्र्_2,1.14ए) तस्माद् एतस्य व्रतम् आलम्भयते
(ग्ब्र्_2,1.15अ) अग्नये व्रतभृते ऽष्टाकपालं निर्वपेद् य आहिताग्निर् आर्तिजम् अश्रु कुर्यात्_
(ग्ब्र्_2,1.15ब्) आनीतो वा एष देवानां य आहिताग्निस्
(ग्ब्र्_2,1.15च्) तस्माद् एतेनाश्रु न कर्तव्यम्_
(ग्ब्र्_2,1.15द्) न हि देवा अश्रु कुर्वन्ति_
(ग्ब्र्_2,1.15ए) अग्निर् वै देवानां व्रतभृत्_
(ग्ब्र्_2,1.15f) अग्निम् एतस्य व्रतम् अगात्
(ग्ब्र्_2,1.15ग्) तस्माद् एतस्य व्रतम् आलम्भयते
(ग्ब्र्_2,1.16अ) ऐन्द्राग्नम् उस्रम् अनुसृष्टम् आलभेत यस्य पिता पितामहः सोमं न पिबेत्_
(ग्ब्र्_2,1.16ब्) इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति
(ग्ब्र्_2,1.16च्) यद् ऐन्द्र इन्द्रियेणैवैनं तद् वीर्येण समर्धयति
(ग्ब्र्_2,1.16द्) देवताभिर् वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति
(ग्ब्र्_2,1.16ए) यद् आग्नेयो ऽग्निर् वै सर्वा देवताः
(ग्ब्र्_2,1.16f) सर्वाभिर् एवैनं तद् देवताभिः समर्धयति_
(ग्ब्र्_2,1.16ग्) अनुसृष्टो भवति_
(ग्ब्र्_2,1.16ह्) अनुसृष्ट इव ह्य् एतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति
(ग्ब्र्_2,1.16इ) तस्माद् एष एव तस्या देवतायाः पशूनां समृद्धः
(ग्ब्र्_2,1.17अ) देवा वा ओषधीषु पक्वास्व् आजिम् अयुः
(ग्ब्र्_2,1.17ब्) स इन्द्रो ऽवेद् अग्निर् वावेमाः प्रथम उज्जेष्यतीति
(ग्ब्र्_2,1.17च्) सो ऽब्रवीद् यतरो नौ पूर्व उज्जयात् तन् नौ सहेति
(ग्ब्र्_2,1.17द्) ता अग्निर् उदजयत्
(ग्ब्र्_2,1.17ए) तद् इन्द्रो ऽनूदजयत्
(ग्ब्र्_2,1.17f) स एष ऐन्द्राग्नः सन्न् आग्नेन्द्रः_
(ग्ब्र्_2,1.17ग्) एका वै तर्हि यवस्य श्नुष्टिर् आसीद् एका व्रीहेर् एका माषस्यैका तिलस्य
(ग्ब्र्_2,1.17ह्) तद् विश्वे देवा अब्रुवन् वयं वा एतत् प्रथयिष्यामो भागो नो ऽस्त्व् इति
(ग्ब्र्_2,1.17इ) तद् भूम एव वैश्वदेवः_
(ग्ब्र्_2,1.17ज्) अथो प्रथयत्य् एतेनैव
(ग्ब्र्_2,1.17क्) पयसि स्याद् वैश्वदेवत्वाय
(ग्ब्र्_2,1.17ल्) वैश्वदेवं हि पयः_
(ग्ब्र्_2,1.17म्) अथेमाव् अब्रूतां न वा ऋत आवाभ्याम् एवैतद् यूयं प्रथयत मयि प्रतिष्ठितम् असौ वृष्ट्या पचति नैतदितो ऽभ्युज्जेष्यतीति
(ग्ब्र्_2,1.17न्) भागो नाव् अस्त्व् इति
(ग्ब्र्_2,1.17ओ) ताभ्यां वा एष भागः क्रियत उज्जित्या एव_
(ग्ब्र्_2,1.17प्) अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः
(ग्ब्र्_2,1.17q) सौमीर् वा ओषधीः
(ग्ब्र्_2,1.17र्) सोम ओषधीनाम् अधिराजः_
(ग्ब्र्_2,1.17स्) याश् च ग्राम्या याश्चारण्यास् तासाम् एष उद्धारो यच् छ्यामाकः_
(ग्ब्र्_2,1.17त्) यच् छ्यामाकः सौम्यस् तम् एव भागिनं कृणुते
(ग्ब्र्_2,1.17उ) यद् अकृत्वाग्रयणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अद्यात्
(ग्ब्र्_2,1.17व्) संवत्सराद् वा एतद् अधिप्रजायते यद् आग्रयणम्_
(ग्ब्र्_2,1.17w) संवत्सरं वै ब्रह्मा
(ग्ब्र्_2,1.17x) तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्व् आवपेत_
(ग्ब्र्_2,1.17य्) एकहायनी दक्षिणा
(ग्ब्र्_2,1.17z) स हि संवत्सरस्य प्रतिमा
(ग्ब्र्_2,1.17अअ) रेत एव ह्य् एषो ऽप्रजातः
(ग्ब्र्_2,1.17ब्ब्) प्रजात्यै
(ग्ब्र्_2,1.18अ) अथ हैतद् अप्रतिरथम् <इन्द्रस्य बाहू स्थविरौ वृषाणौ>_ इति_
(ग्ब्र्_2,1.18ब्) एतेन ह वा इन्द्रो ऽसुरान् प्रत्यजयत्_ [एद्. ऽसुरान]
(ग्ब्र्_2,1.18च्) अप्रति ह भवत्य् एतेन यजमानो भ्रातृव्यं जयति
(ग्ब्र्_2,1.18द्) संग्रामे जुहुयाद् अप्रति ह भवति_
(ग्ब्र्_2,1.18ए) एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत्
(ग्ब्र्_2,1.18f) स राष्ट्र्य् अभवत्_
(ग्ब्र्_2,1.18ग्) यं कामयेत राष्ट्री स्याद् इति तम् एतेन संनह्येत्_
(ग्ब्र्_2,1.18ह्) राष्ट्री ह भवति_
(ग्ब्र्_2,1.18इ) एतेन ह वा इन्द्रो विराजम् अभ्यजयत्_
(ग्ब्र्_2,1.18ज्) दशैवान्वाह
(ग्ब्र्_2,1.18क्) दशाक्षरा विराड् वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते
(ग्ब्र्_2,1.18ल्) तद् उ हैक एकादशान्वाहुः_
(ग्ब्र्_2,1.18म्) एकादशाक्षरा वै त्रिष्टुप् त्रैष्टुभो वज्रः_
(ग्ब्र्_2,1.18न्) वज्रेणैवैतद् रक्षांस्य् अपसेधति
(ग्ब्र्_2,1.18ओ) दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन्_
(ग्ब्र्_2,1.18प्) तान्य् अप्रतिरथेनापाघ्नत
(ग्ब्र्_2,1.18q) तस्माद् ब्रह्माप्रतिरथं जपन्न् एति
(ग्ब्र्_2,1.18र्) यद् ब्रह्माप्रतिरथं जपन्न् एति यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै
(ग्ब्र्_2,1.19अ) अथातश् चातुर्मास्यानां प्रयोगः
(ग्ब्र्_2,1.19ब्) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत
(ग्ब्र्_2,1.19च्) मुखं वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी मुखम् उत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व]
(ग्ब्र्_2,1.19द्) तद् यथा प्रवृत्तस्यान्तौ समेतौ स्याताम् एवम् एवैतत् संवत्सरस्यान्तौ समेतौ भवतस्
(ग्ब्र्_2,1.19ए) तद् यत् फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर् यजते मुखत एवैतत् संवत्सरं प्रयुङ्क्ते_
(ग्ब्र्_2,1.19f) अथो भैषज्ययज्ञा वा एते यच् चातुर्मास्यानि
(ग्ब्र्_2,1.19ग्) तस्माद् ऋतुसंधिषु प्रयुज्यन्ते_
(ग्ब्र्_2,1.19ह्) ऋतुसंधिषु वै व्याधिर् जायते
(ग्ब्र्_2,1.19इ) तान्य् एतान्य् अष्टौ हवींस्षि भवन्ति
(ग्ब्र्_2,1.19ज्) अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति
(ग्ब्र्_2,1.19क्) चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः_
(ग्ब्र्_2,1.19ल्) अथ यद् अग्निं मन्थन्ति प्रजापतिर् वै वैश्वदेवम्_
(ग्ब्र्_2,1.19म्) प्रजात्या एव_
(ग्ब्र्_2,1.19न्) अथैतं दैवं गर्भं प्रजनयति_
(ग्ब्र्_2,1.19ओ) अथ यत् सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः
(ग्ब्र्_2,1.19प्) प्रजापतेर् आप्त्यै
(ग्ब्र्_2,1.19q) अथ यत् सद्वन्ताव् आज्यभागाव् असिसंतीति वै सद्वन्तौ भवतः_
(ग्ब्र्_2,1.19र्) अथ यद् विराजौ संयाज्ये अन्नं वै श्रीर् विराड् अन्नाद्यस्य श्रियो ऽवरुद्ध्यै_ [एद्. ऽवरुद्ध्या ऽथ]
(ग्ब्र्_2,1.19स्) अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन् नक्षत्रीयां विराजम् आप्नोति_
(ग्ब्र्_2,1.19त्) अथो आहुर् दशनीं विराजम् इति प्रयाजानुयाजा हवींष्य् आघाराव् आज्यभागाव् इति
(ग्ब्र्_2,1.20अ) अथ यद् अग्नीषोमौ प्रथमं देवतानां यजत्य् अग्नीषोमौ वै देवानां मुखम्_
(ग्ब्र्_2,1.20ब्) मुखत एव तद् देवान् प्रीणाति_
(ग्ब्र्_2,1.20च्) अथ यत् सवितारं यजत्य् असौ वै सविता यो ऽसौ तपति_
(ग्ब्र्_2,1.20द्) एतम् एव तेन प्रीणाति_
(ग्ब्र्_2,1.20ए) अथ यत् सरस्वतीं यजति वाग् वै सरस्वती
(ग्ब्र्_2,1.20f) वाचम् एतेन प्रीणाति_
(ग्ब्र्_2,1.20ग्) अथ यन् पूषणं यजत्य् असौ वै पूषा यो ऽसौ तपति_
(ग्ब्र्_2,1.20ह्) एतम् एव तेन प्रीणाति_
(ग्ब्र्_2,1.20इ) अथ यन् मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस्
(ग्ब्र्_2,1.20ज्) तान् एव तेन प्रीणाति_
(ग्ब्र्_2,1.20क्) अथ यद् विश्वान् देवान् यजत्य् एते वै विश्वे देवा यत् सर्वे देवास्
(ग्ब्र्_2,1.20ल्) तान् एव तेन प्रीणाति_
(ग्ब्र्_2,1.20म्) अथ यद् द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ
(ग्ब्र्_2,1.20न्) प्रतिष्ठित्या एव_
(ग्ब्र्_2,1.20ओ) अथ यद् वाजिनो यजति पशवो वै वाजिनः
(ग्ब्र्_2,1.20प्) पशून् एव तेन प्रीणाति_
(ग्ब्र्_2,1.20q) अथो ऋतवो वै वाजिनः_
(ग्ब्र्_2,1.20र्) ऋतून् एव तेन प्रीणाति_
(ग्ब्र्_2,1.20स्) अथो छन्दांसि वै वाजिनः_
(ग्ब्र्_2,1.20त्) छन्दांस्य् एव तेन प्रीणाति_
(ग्ब्र्_2,1.20उ) अथो देवाश्वा वै वाजिनः_
(ग्ब्र्_2,1.20व्) अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति_
(ग्ब्र्_2,1.20w) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति
(ग्ब्र्_2,1.21अ) वैश्वदेवेन वै प्रजापतिः प्रजा असृजत
(ग्ब्र्_2,1.21ब्) ताः सृष्टा अप्रसूता वरुणस्य यवाञ् जक्षुस्
(ग्ब्र्_2,1.21च्) ता वरुणो वरुणपाशैः प्रत्यबन्धात्
(ग्ब्र्_2,1.21द्) ताः प्रजाः प्रजापतिं पितरम् एत्योपावदन्न् उप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणम् अप्रीणात्
(ग्ब्र्_2,1.21ए) स प्रीतो वरुणः_
(ग्ब्र्_2,1.21f) वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः संप्रमुच्यन्त इति
(ग्ब्र्_2,1.21ग्) तत एतं प्रजापतिर् यज्ञक्रतुम् अपश्यद् वरुणप्रघासान्_
(ग्ब्र्_2,1.21ह्) तम् आहरत्
(ग्ब्र्_2,1.21इ) तेनायजत
(ग्ब्र्_2,1.21ज्) तेनेष्ट्वा वरुणम् अप्रीणात्
(ग्ब्र्_2,1.21क्) स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत्
(ग्ब्र्_2,1.21ल्) प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच् च पाप्मनो मुच्यन्ते
(ग्ब्र्_2,1.21म्) य एवं वेद_
(ग्ब्र्_2,1.21न्) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
(ग्ब्र्_2,1.21ओ) यन् मथ्यते तस्योक्तं ब्राह्मणम्
(ग्ब्र्_2,1.21प्) अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम्
(ग्ब्र्_2,1.21q) अथ यन् नव प्रयाजा नवानुयाजा नवैतानि हवींषि
(ग्ब्र्_2,1.21र्) समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि
(ग्ब्र्_2,1.21स्) तेषाम् उक्तं ब्राह्मणम्
(ग्ब्र्_2,1.22अ) अथ यद् ऐन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी
(ग्ब्र्_2,1.22ब्) बलम् एव तत् तेजसि प्रतिष्ठापयति_
(ग्ब्र्_2,1.22च्) अथ यद् वारुण्य् आमिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. पत्यल्]
(ग्ब्र्_2,1.22द्) स उ वै पयोभाजनस्
(ग्ब्र्_2,1.22ए) तस्माद् वारुण्य् आमिक्षा_ [एद्. अमिक्षा]
(ग्ब्र्_2,1.22f) अथ यन् मारुती पयस्याप्सु वै मरुतः श्रिताः_ [एद्. श्रितः. चोर्र्. पत्यल्]
(ग्ब्र्_2,1.22ग्) आपो हि पयः_
(ग्ब्र्_2,1.22ह्) अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस्
(ग्ब्र्_2,1.22इ) तस्मान् मारुती पयस्या_
(ग्ब्र्_2,1.22ज्) अथ यत् काय एककपालः प्रजापतिर् वै कः
(ग्ब्र्_2,1.22क्) प्रजापतेर् आप्त्या
(ग्ब्र्_2,1.22ल्) अथो सुखस्य वा एतन् नामधेयं कम् इति [एद्. नामघेयम्]
(ग्ब्र्_2,1.22म्) सुखम् एव तद् अध्य् आत्मन् धत्ते_
(ग्ब्र्_2,1.22न्) अथ यन् मिथुनौ गावौ ददाति तत् प्रजात्यै रूपम्
(ग्ब्र्_2,1.22ओ) उक्थ्या वाजिनः_
(ग्ब्र्_2,1.22प्) अथ यद् अप्सु वरुणं यजति स्व एवैनं तद् आयतने प्रीणाति_
(ग्ब्र्_2,1.22q) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैर् इष्टं भवति
(ग्ब्र्_2,1.23अ) ऐन्द्रो वा एष यज्ञक्रतुर् यत् साकमेधास्
(ग्ब्र्_2,1.23ब्) तद् यथा महाराजः पुरस्तात् सेनानीकानि व्युह्याभयं पन्थानम् अन्वियाद् एवम् एवैतत् पुरस्ताद् देवता यजति [एद्. सैनानीकानि, चोर्र्. पत्यल्]
(ग्ब्र्_2,1.23च्) तद् यथैवादः सोमस्य महाव्रतम् एवम् एवैतद् इष्टिमहाव्रतम्
(ग्ब्र्_2,1.23द्) अथ यद् अग्निम् अनीकवन्तं प्रथमं देवतानां यजत्य् अग्निर् वै देवानां मुखम्_
(ग्ब्र्_2,1.23ए) मुखत एव तद् देवान् प्रीणाति_
(ग्ब्र्_2,1.23f) अथ यन् मध्यंदिने मरुतः सांतपनान् यजतीन्द्रो वै मरुतः संतपनाः_
(ग्ब्र्_2,1.23ग्) ऐन्द्रं माध्यंदिनम्_
(ग्ब्र्_2,1.23ह्) तस्माद् एतान् इन्द्रेणोपसंहितान् यजति_
(ग्ब्र्_2,1.23इ) अथ यत् सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः
(ग्ब्र्_2,1.23ज्) सायं पोषः पशूनाम्_
(ग्ब्र्_2,1.23क्) तस्मात् सायं गृहमेधीयेन चरन्ति_
(ग्ब्र्_2,1.23ल्) अतह् यच् छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत् प्रातः कर्मोपसंतन्वन्ति_
(ग्ब्र्_2,1.23म्) अथ यत् प्रातर् मरुतः क्रीडिनो यजतीन्द्रो वै मरुतः क्रीडिनस्
(ग्ब्र्_2,1.23न्) तस्माद् एनान् इन्द्रेणोपसंहितान् यजति_
(ग्ब्र्_2,1.23ओ) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
(ग्ब्र्_2,1.23प्) यन् मथ्यते तस्योक्तं ब्राह्मणम्
(ग्ब्र्_2,1.23q) अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम्
(ग्ब्र्_2,1.23र्) अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्व् एव षट्संचराणि हवींषि भवन्त्य् ऐन्द्राग्नान्तानि
(ग्ब्र्_2,1.23स्) तेषाम् उक्तं ब्राह्मणम्
(ग्ब्र्_2,1.23त्) अथ यन् महेन्द्रम् अन्ततो यजत्य् अन्तं वै श्रेष्ठी भजते
(ग्ब्र्_2,1.23उ) तस्माद् एनम् अन्ततो यजति_
(ग्ब्र्_2,1.23व्) अथ यद् वैश्वकर्मण एककपालो ऽसौ वै विश्वकर्मा यो ऽसौ तपति_
(ग्ब्र्_2,1.23w) एतम् एव तेन प्रीणाति_
(ग्ब्र्_2,1.23x) अथ यद् ऋषभं ददात्य् ऐन्द्रो ह यज्ञक्रतुः
(ग्ब्र्_2,1.24अ) अथ यद् अपराह्णे पितृयज्ञेन चरन्त्य् अपराह्णभाजो वै पितरस्
(ग्ब्र्_2,1.24ब्) तस्माद् अपराह्णे पितृयज्ञेन चरन्ति
(ग्ब्र्_2,1.24च्) तद् आहुर् यद् अपरपक्षभाजो वै पितरः कस्माद् एनान् पूर्वपक्षे यजन्तीति
(ग्ब्र्_2,1.24द्) देवा वा एते पितरस्
(ग्ब्र्_2,1.24ए) तस्माद् एनान् पूर्वपक्षे यजन्तीति_
(ग्ब्र्_2,1.24f) अथ यद् एकां सामिधेनीं त्रिर् अन्वाह सकृद् ह वै पितरस्
(ग्ब्र्_2,1.24ग्) तस्माद् एकां सामिधेनीं त्रिर् अन्वाह_
(ग्ब्र्_2,1.24ह्) अथ यद् यजमानस्यार्षेयं नाह नेद् यजमानं प्रवृणजानीति_
(ग्ब्र्_2,1.24इ) अथ यत् सोमं पितृमन्तं पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्वात्तान् इत्य् आवाहयति
(ग्ब्र्_2,1.24ज्) न हैके स्वं महिमानम् आवाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेद् इति त्व् एव स्थितम्
(ग्ब्र्_2,1.24क्) अग्नेर् ह्य् एष महिमा भवति_
(ग्ब्र्_2,1.24ल्) ओं स्वधेत्य् आश्रावयति_
(ग्ब्र्_2,1.24म्) अस्तु स्वधेति प्रत्याश्रावयति
(ग्ब्र्_2,1.24न्) स्वधाकारो हि पितॄणाम्
(ग्ब्र्_2,1.24ओ) अथ यत् प्रयाजानुयाजेभ्यो बर्हिष्मन्ताव् उद्धरति प्रजा वै बर्हिर् नेत् प्रजां पितृषु दधानीति
(ग्ब्र्_2,1.24प्) ते वै षट् संपद्यन्ते
(ग्ब्र्_2,1.24q) षड् वा ऋतवः_
(ग्ब्र्_2,1.24र्) ऋतवः पितरः
(ग्ब्र्_2,1.24स्) पितॄणाम् आप्त्यै
(ग्ब्र्_2,1.25अ) अथ यज् जीवनवन्ताव् आज्यभागौ भवतो यजमानम् एव तज् जीवयति_
(ग्ब्र्_2,1.25ब्) अथ यद् एकैकस्य हविषस् तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्य् एवैनान् प्रथमया
(ग्ब्र्_2,1.25च्) द्वितीयया गमयति
(ग्ब्र्_2,1.25द्) प्रैव तृतीयया यच्छति_
(ग्ब्र्_2,1.25ए) अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयति_
(ग्ब्र्_2,1.25f) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(ग्ब्र्_2,1.25ग्) तम् एवैतद् उदक्संस्थं कुर्वन्ति_
(ग्ब्र्_2,1.25ह्) अथ यद् अग्निं कव्यवाहनम् अन्ततो यजत्य् एतत् स्विष्टकृतो पितरस्
(ग्ब्र्_2,1.25इ) तस्माद् अग्निं कव्यवाहनम् अन्ततो यजति_
(ग्ब्र्_2,1.25ज्) अथ यद् इडाम् उपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा
(ग्ब्र्_2,1.25क्) नेत् पशून् प्रवृणजानीति_
(ग्ब्र्_2,1.25ल्) अथ यत् सूक्तवाके यजमानस्याशिषो ऽन्वाह नेद् यजमानं प्रवृणजानीति_
(ग्ब्र्_2,1.25म्) अथ यत् पत्नीं न संयाजयन्ति नेत् पत्नीं प्रवृणजानीति_
(ग्ब्र्_2,1.25न्) अथ यत् पवित्रवति मार्जयन्ते शान्तिर् वै भेषजम् आपः
(ग्ब्र्_2,1.25ओ) शान्तिर् एवैषा भेषजम् अन्ततो यज्ञे क्रियते_
(ग्ब्र्_2,1.25प्) अथ यद् अध्वर्युः पितृभ्यो निपृणाति जीवान् एव तत् पितॄन् अनु मनुष्याः पितरो ऽनुप्रवहन्ति_
(ग्ब्र्_2,1.25q) अथो देवयज्ञम् एवैनं पितृयज्ञेन व्यावर्तयन्ति_
(ग्ब्र्_2,1.25र्) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(ग्ब्र्_2,1.25स्) तम् एवैतद् उदक्संस्थं कुर्वन्ति_
(ग्ब्र्_2,1.25त्) अथ यत् प्राञ्चो ऽभ्युत्क्रम्यादित्यम् उपतिष्ठन्ते देवलोको वा आदित्यः
(ग्ब्र्_2,1.25उ) पितृलोकः पितरः_
(ग्ब्र्_2,1.25व्) देवलोकम् एवैतत् पितृलोकाद् उपसंक्रामन्तीति_
(ग्ब्र्_2,1.25w) अथ यद् दक्षिणाञ्चो ऽभ्युत्क्रम्याग्नीन् उपतिष्ठन्ते प्रीत्यैव तद् देवेष्व् अन्ततो ऽर्धं चरन्ति_
(ग्ब्र्_2,1.25x) अथ यद् उदञ्चो ऽभ्युत्क्रम्य त्रैयंबकैर् यजन्ते रुद्रम् एव तत् स्वस्यां दिशि प्रीणन्ति_ [एद्. स्वायां बुत् सेए चोर्रिगेन्द प्. 302]
(ग्ब्र्_2,1.25य्) अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयन्ति_
(ग्ब्र्_2,1.25z) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(ग्ब्र्_2,1.25अअ) तम् एवैतद् उदक्संस्थं कुर्वन्ति_
(ग्ब्र्_2,1.25ब्ब्) अथ यद् अन्तत आदित्येष्ट्या यजतीयं वा अदितिः_
(ग्ब्र्_2,1.25च्च्) अस्याम् एवैनम् अन्ततः प्रतिष्ठापयति_
(ग्ब्र्_2,1.25द्द्) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैर् इष्टं भवति
मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0