भाषा

ENहिગુ
ग्रंथ पाठ

गोपथब्राह्मण · अध्याय 5

5.1

(ग्ब्र्_1,4.24चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः ॥
(ग्ब्र्_1,5.1अ) ओम् अभिप्लवः षडहः
(ग्ब्र्_1,5.1ब्) षड् ढ्य् अहानि भवन्ति ज्योतिर् गौर् आयुर् गौर् आयुर् ज्योतिः_
(ग्ब्र्_1,5.1च्) अभिप्लवः पञ्चाहः
(ग्ब्र्_1,5.1द्) पञ्च ह्य् एवाहानि भवन्ति
(ग्ब्र्_1,5.1ए) यद् ध्य् एव प्रथमम् अहस् तद् उत्तमम् अहः_
(ग्ब्र्_1,5.1f) अभिप्लवश् चतुरहः_
(ग्ब्र्_1,5.1ग्) चत्वारो हि स्तोमा भवन्ति त्रिवृत् पञ्चदशः सप्तदश एकविंश एव_
(ग्ब्र्_1,5.1ह्) अभिप्लवस् त्र्यहस्
(ग्ब्र्_1,5.1इ) त्र्यावृत्तिर् ज्योतिर् गौर् आयुः_
(ग्ब्र्_1,5.1ज्) अभिप्लवो द्व्यहः_
(ग्ब्र्_1,5.1क्) द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव_
(ग्ब्र्_1,5.1ल्) अभिप्लव एकाह
(ग्ब्र्_1,5.1म्) एकाहस्य हि स्तोमैस् तायते
(ग्ब्र्_1,5.1न्) चतुर्णाम् उक्थ्यानां द्वादश स्तोत्राण्य् अतिरिच्यन्ते
(ग्ब्र्_1,5.1ओ) स सप्तमो ऽग्निष्टोमस्
(ग्ब्र्_1,5.1प्) तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणम्

5.2

(ग्ब्र्_1,5.2अ) अथातो गाधप्रतिष्ठा
(ग्ब्र्_1,5.2ब्) समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते
(ग्ब्र्_1,5.2च्) तेषां तीर्थम् एव प्रायणीयो ऽतिरात्रस्
(ग्ब्र्_1,5.2द्) तीर्थेन हि प्रतरन्ति
(ग्ब्र्_1,5.2ए) तद् यथा समुद्रं तीर्थेन प्रतरेयुस् तादृक् तत्_
(ग्ब्र्_1,5.2f) गाधं प्रतिष्ठा चतुर्विंशम् अहर् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
(ग्ब्र्_1,5.2ग्) प्रस्नयो ऽभिप्लवः
(ग्ब्र्_1,5.2ह्) प्रस्नेयः पृष्ठ्यः_
(ग्ब्र्_1,5.2इ) गाधं प्रतिष्ठाभिजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्_
(ग्ब्र्_1,5.2ज्) नीविदग्ध एव प्रथमः स्वरसामा
(ग्ब्र्_1,5.2क्) जानुदग्धो द्वितीयः
(ग्ब्र्_1,5.2ल्) कुल्फदग्धस् तृतीयः_
(ग्ब्र्_1,5.2म्) द्वीपः प्रतिष्ठा विषुवान् यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
(ग्ब्र्_1,5.2न्) कुल्फदग्ध एव प्रथमो ऽर्वाक् स्वरसामा
(ग्ब्र्_1,5.2ओ) जानुदग्धो द्वितीयः_
(ग्ब्र्_1,5.2प्) नीविदग्धस् तृतीयः_
(ग्ब्र्_1,5.2q) गाधं प्रतिष्ठा विश्वजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
(ग्ब्र्_1,5.2र्) प्रस्नेयः पृष्ठ्यः प्रस्नेयो ऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः_
(ग्ब्र्_1,5.2स्) गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
(ग्ब्र्_1,5.2त्) तेषां तीर्थम् एवोदयनीयो ऽतिरात्रस्
(ग्ब्र्_1,5.2उ) तीर्थेन ह्य् उद्यन्ति
(ग्ब्र्_1,5.2व्) तद् यथा समुद्रं तीर्थेनोदेयुस् तादृक् तत्_
(ग्ब्र्_1,5.2w) अथ ह स्माह श्वेतकेतुर् आरुणेयः संवत्सराय न्व् अहं दीक्षा इति [एद्. दिक्षा]
(ग्ब्र्_1,5.2x) तस्य ह पिता मुखम् उदीक्ष्योवाच वेत्थ नु त्वम् आयुष्मन्त् संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. पत्यल्]
(ग्ब्र्_1,5.2य्) वेदेति_
(ग्ब्र्_1,5.2z) एतद् ध स्मैतद् विद्वानाहेति ब्राह्मणम्

5.3

(ग्ब्र्_1,5.3अ) पुरुषो वाव संवत्सरस्
(ग्ब्र्_1,5.3ब्) तस्य पादाव् एव प्रायणीयो ऽतिरात्रः
(ग्ब्र्_1,5.3च्) पादाभ्यां हि प्रयन्ति तयोर् यच् छुक्लं तद् अह्नो रूपम्_
(ग्ब्र्_1,5.3द्) यत् कृष्णं तद् रात्रेः_
(ग्ब्र्_1,5.3ए) नखानि नक्षत्राणां रूपम्_
(ग्ब्र्_1,5.3f) लोमान्य् ओषधिवनस्पतीनाम्
(ग्ब्र्_1,5.3ग्) ऊरू चतुर्विंशम् अहः_
(ग्ब्र्_1,5.3ह्) उरो ऽभिप्लवः
(ग्ब्र्_1,5.3इ) पृष्ठं पृष्ठ्यः
(ग्ब्र्_1,5.3ज्) शिर एव त्रिवृत् त्रिवृतं ह्य् एव शिरो भवति त्वग् अस्थि मज्जा मस्तिष्कम्_
(ग्ब्र्_1,5.3क्) ग्रीवाः पञ्चदशश् चतुर्दश ह्य् एवैतस्यां करूकराणि भवन्ति
(ग्ब्र्_1,5.3ल्) वीर्यं पञ्चदशम्_
(ग्ब्र्_1,5.3म्) तस्माद् आभिरण्वीभिः सतीभिर् गुरुं भारं हरति
(ग्ब्र्_1,5.3न्) तस्माद् ग्रीवाः पञ्चदशः_
(ग्ब्र्_1,5.3ओ) उरः सप्तदश._
(ग्ब्र्_1,5.3प्) अष्टाव् अन्ये जत्रवो ऽष्टाव् अन्य उरः सप्तदशम्_
(ग्ब्र्_1,5.3q) तस्माद् उरः सप्तदशः_
(ग्ब्र्_1,5.3र्) उदरम् एकविंशः_
(ग्ब्र्_1,5.3स्) विंशतिर् ह्य् एवैतस्यान्तर उदरे कुन्तापानि भवन्त्य् उदरम् एकविंशम्_
(ग्ब्र्_1,5.3त्) तस्माद् उदरम् एकविंशः_
(ग्ब्र्_1,5.3उ) पार्श्वे त्रिणवस्
(ग्ब्र्_1,5.3व्) त्रयोदशान्याः पर्शवस् त्रयोदशान्याः पार्श्वे त्रिणवे
(ग्ब्र्_1,5.3w) तस्मात् पार्श्वे त्रिणवः_
(ग्ब्र्_1,5.3x) अनूकं त्रयस्त्रिंशः_
(ग्ब्र्_1,5.3य्) द्वात्रिंशतिर् ह्य् एवैतस्य पृष्टीकुण्डीलानि भवन्ति_
(ग्ब्र्_1,5.3z) अनूकं त्रयस्त्रिशम्_
(ग्ब्र्_1,5.3अअ) तस्माद् अनूकं त्रयस्त्रिंशस्
(ग्ब्र्_1,5.3ब्ब्) तस्यायम् एव दक्षिणो बाहुर् अभिजित्
(ग्ब्र्_1,5.3च्च्) तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः_
(ग्ब्र्_1,5.3द्द्) आत्मा विषुवान्_
(ग्ब्र्_1,5.3एए) तस्येमे सव्ये त्रयः प्राणा अर्वाक् स्वरसामानस्
(ग्ब्र्_1,5.3ff) तस्यायं सव्यो बाहुर् विश्वजित्_
(ग्ब्र्_1,5.3ग्ग्) उक्तौ पृष्ठ्याभिप्लवौ
(ग्ब्र्_1,5.3ह्ह्) याव् अवाञ्चौ प्राणौ ते गवायुषी
(ग्ब्र्_1,5.3इइ) अङ्गानि दशरात्रः_
(ग्ब्र्_1,5.3ज्ज्) मुखं महाव्रतम्_
(ग्ब्र्_1,5.3क्क्) तस्य हस्ताव् एवोदयनीयो ऽतिरात्रः_
(ग्ब्र्_1,5.3ल्ल्) हस्ताभ्यां ह्य् उद्यन्ति

5.4

(ग्ब्र्_1,5.4अ) पुरुषो वाव संवत्सरस्
(ग्ब्र्_1,5.4ब्) तस्य प्राण एव प्रायणीयो ऽतिरात्रः
(ग्ब्र्_1,5.4च्) प्राणेन हि प्रयन्ति
(ग्ब्र्_1,5.4द्) वाग् आरम्भणीयम् अहः_
(ग्ब्र्_1,5.4ए) यद्यद् आरभते वाग् आरभते
(ग्ब्र्_1,5.4f) वाचैव तद् आरभते
(ग्ब्र्_1,5.4ग्) तस्यायम् एव दक्षिणः पाणिर् अभिप्लवस्
(ग्ब्र्_1,5.4ह्) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_
(ग्ब्र्_1,5.4इ) गायत्र्या आयतने
(ग्ब्र्_1,5.4ज्) तस्माद् इयम् अस्यै ह्रसिष्ठा
(ग्ब्र्_1,5.4क्) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_
(ग्ब्र्_1,5.4ल्) त्रिष्टुभ आयतने
(ग्ब्र्_1,5.4म्) तस्माद् इयम् अस्यै वरिष्ठा
(ग्ब्र्_1,5.4न्) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_
(ग्ब्र्_1,5.4ओ) जगत्या आयतने
(ग्ब्र्_1,5.4प्) तस्माद् इयम् अनयोर् वरिष्ठा
(ग्ब्र्_1,5.4q) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_
(ग्ब्र्_1,5.4र्) पङ्क्त्या आयतने
(ग्ब्र्_1,5.4स्) पृथुर् इव वै पङ्क्तिस्
(ग्ब्र्_1,5.4त्) तस्माद् इयम् आसां प्रथिष्ठा
(ग्ब्र्_1,5.4उ) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_
(ग्ब्र्_1,5.4व्) विराज आयतने_
(ग्ब्र्_1,5.4w) अन्नं वै श्रीः_
(ग्ब्र्_1,5.4x) विराड् अन्नाद्यम्
(ग्ब्र्_1,5.4य्) अन्न्नाद्यस्य श्रियो ऽवरुद्ध्यै
(ग्ब्र्_1,5.4z) तस्माद् इयम् आसां वरिष्ठा
(ग्ब्र्_1,5.4अअ) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_
(ग्ब्र्_1,5.4ब्ब्) अतिछन्दस आयतने_
(ग्ब्र्_1,5.4च्च्) अतिछन्दो वै छन्दसाम् आयतनम्_
(ग्ब्र्_1,5.4द्द्) तस्माद् इदं प्रथिष्ठं फलकम्_
(ग्ब्र्_1,5.4एए) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_
(ग्ब्र्_1,5.4ff) स इतः स इतो ऽभिप्लवः स इत आत्मा पृष्ठ्यः
(ग्ब्र्_1,5.4ग्ग्) प्लवतीवाभिप्लवस्
(ग्ब्र्_1,5.4ह्ह्) तिष्ठतीव पृष्ठ्यः
(ग्ब्र्_1,5.4इइ) प्लवत इव ह्य् एवम् अङ्गैस्
(ग्ब्र्_1,5.4ज्ज्) तिष्ठतीवात्मना
(ग्ब्र्_1,5.4क्क्) तस्यायम् एव दक्षिणः कर्णो ऽभिजित्
(ग्ब्र्_1,5.4ल्ल्) तस्य यद् दक्षिणम् अक्ष्णः शुक्लं स प्रथमः स्वरसामा
(ग्ब्र्_1,5.4म्म्) यत् कृष्णं स द्वितीयः_
(ग्ब्र्_1,5.4न्न्) यन् मण्डलं स तृतीयः_
(ग्ब्र्_1,5.4ओओ) नासिके विषुवान् मण्डलम् एव प्रथमो ऽर्वाक् स्वरसामा
(ग्ब्र्_1,5.4प्प्) यत् कृष्णं स द्वितीयः_
(ग्ब्र्_1,5.4qq) यच् छुक्लं स तृतीयस्
(ग्ब्र्_1,5.4र्र्) तस्यायं सव्यः कर्णो विश्वजित्_
(ग्ब्र्_1,5.4स्स्) उक्तौ पृष्ठ्याभिप्लवौ
(ग्ब्र्_1,5.4त्त्) याव् अवाञ्चौ प्राणौ ते गवायुषी
(ग्ब्र्_1,5.4उउ) अङ्गानि दशरात्रः_
(ग्ब्र्_1,5.4व्व्) मुखं महाव्रतम्_
(ग्ब्र्_1,5.4ww) तस्योदान एवोदयनीयो ऽतिरात्रः_
(ग्ब्र्_1,5.4xx) उदानेन ह्य् उद्यन्ति

5.5

(ग्ब्र्_1,5.5अ) पुरुषो वाव संवत्सरः
(ग्ब्र्_1,5.5ब्) पुरुष इत्य् एकम्_
(ग्ब्र्_1,5.5च्) संवत्सर इत्य् एकम्
(ग्ब्र्_1,5.5द्) अत्र तत् समम्_
(ग्ब्र्_1,5.5ए) द्वे अहोरात्रे संवत्सरस्य
(ग्ब्र्_1,5.5f) द्वाव् इमौ पुरुषे प्राणाव् इति_
(ग्ब्र्_1,5.5ग्) अत्र तत् समम्_
(ग्ब्र्_1,5.5ह्) त्रयो वा ऋतवः संवत्सरस्य
(ग्ब्र्_1,5.5इ) त्रय इमे पुरुषे प्राणा इति_
(ग्ब्र्_1,5.5ज्) अत्र तत् समम्_
(ग्ब्र्_1,5.5क्) षड् वा ऋतवः संवत्सरस्य
(ग्ब्र्_1,5.5ल्) षड् इमे पुरुषे प्राणा इति_
(ग्ब्र्_1,5.5म्) अत्र तत्समम्_
(ग्ब्र्_1,5.5न्) सप्त वा ऋतवः संवत्सरस्य
(ग्ब्र्_1,5.5ओ) सप्तेमे पुरुषे प्राणा इति_
(ग्ब्र्_1,5.5प्) अत्र तत् समम्_
(ग्ब्र्_1,5.5q) द्वादश मासाः संवत्सरस्य
(ग्ब्र्_1,5.5र्) द्वादशेमे पुरुषे प्राणा इति_
(ग्ब्र्_1,5.5स्) अत्र तत् समम्_
(ग्ब्र्_1,5.5त्) त्रयोदश मासाः संवत्सरस्य
(ग्ब्र्_1,5.5उ) त्रयोदशेमे पुरुषे प्राणा इति_
(ग्ब्र्_1,5.5व्) अत्र तत् समम्_
(ग्ब्र्_1,5.5w) चतुर्विंशतिर् अर्धमासाः संवत्सरस्य
(ग्ब्र्_1,5.5x) चतुर्विंशो ऽयं पुरुषः_
(ग्ब्र्_1,5.5य्) विंशत्यङ्गुलिश् चतुरङ्ग इति_
(ग्ब्र्_1,5.5z) अत्र तत् समम्_
(ग्ब्र्_1,5.5अअ) षड्विंशतिर् अर्धमासाः संवत्सरस्य
(ग्ब्र्_1,5.5ब्ब्) षड्विंशो ऽयं पुरुषः
(ग्ब्र्_1,5.5च्च्) प्रतिष्ठे षड्विंशे इति_
(ग्ब्र्_1,5.5द्द्) अत्र तत् समम्_
(ग्ब्र्_1,5.5एए) त्रीणि च ह वै शतानि षष्टिश् च संवत्सरस्याहोरात्राणीति_
(ग्ब्र्_1,5.5ff) एतावन्त एव पुरुषस्य प्राणा इति_
(ग्ब्र्_1,5.5ग्ग्) अत्र तत् समम्_
(ग्ब्र्_1,5.5ह्ह्) सप्त च ह वै शतानि विंशतिश् च संवत्सरस्याहानि च रात्रयश् चेति_
(ग्ब्र्_1,5.5इइ) एतावन्त एव पुरुषस्यास्थीनि च मज्जानश् चेति_
(ग्ब्र्_1,5.5ज्ज्) अत्र तत् समम्_
(ग्ब्र्_1,5.5क्क्) चतुर्दश च ह वै शतानि चत्वारिंशच् च संवत्सरस्यार्धाहाश् चार्धरात्रयश् चेति_
(ग्ब्र्_1,5.5ल्ल्) एतावन्त एव पुरुषस्य स्थूरा मांसानीति_
(ग्ब्र्_1,5.5म्म्) अत्र तत् समम्
(ग्ब्र्_1,5.5न्न्) अष्टाविंशतिश् च ह वै शतान्य् अशीतिश् च संवत्सरस्य पादाहाश् च पादरात्रयश् चेति_
(ग्ब्र्_1,5.5ओओ) एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति_
(ग्ब्र्_1,5.5प्प्) अत्र तत् समम्_
(ग्ब्र्_1,5.5qq) दश च ह वै सहस्राण्य् अष्टौ च शतानि संवत्सरस्य मुहूर्ता इति_
(ग्ब्र्_1,5.5र्र्) एतावन्त एव पुरुषस्य पेशशमरा इति_
(ग्ब्र्_1,5.5स्स्) अत्र तत् समम्_
(ग्ब्र्_1,5.5त्त्) यावन्तो मुहूर्ताः पञ्चदश कृत्वस् तावन्तः प्राणाः_
(ग्ब्र्_1,5.5उउ) यावन्तः प्राणाः पञ्चदश कृत्वस् तावन्तो ऽपानाः_
(ग्ब्र्_1,5.5व्व्) यावन्तो ऽपानाः पञ्चदश कृत्वस् तावन्तो व्यानाः_
(ग्ब्र्_1,5.5ww) यावन्तो व्यानाः पञ्चदश कृत्वस् तावन्तः समानाः_
(ग्ब्र्_1,5.5xx) यावन्तः समानाः पञ्चदश कृत्वस् तावन्त उदानाः_
(ग्ब्र्_1,5.5य्य्) यावन्त उदानाः पञ्चदश कृत्वस् तावन्त्य् एतादीनि
(ग्ब्र्_1,5.5zz) यावन्त्य् एतादीनि तावन्त्य् एतर्हीणि
(ग्ब्र्_1,5.5अअअ) यावन्त्य् एतर्हीणि तावन्ति स्वेदायनानि
(ग्ब्र्_1,5.5ब्ब्ब्) यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि
(ग्ब्र्_1,5.5च्च्च्) यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः_
(ग्ब्र्_1,5.5द्द्द्) यावन्तो रोमकूपाः पञ्चदश कृत्वस् तावन्तो वर्षतो धारास्
(ग्ब्र्_1,5.5एएए) तद् एतत् क्रोशशतिकं परिमाणम्_
(ग्ब्र्_1,5.5fff) तद् अप्य् एतद् ऋचोक्तं <श्रमाद् अन्यत्र परिवर्तमानश् चरन् वासीनो यदि वा स्वपन्न् अपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणाम् अष्टौ च शतानि संवत्सरस्य मुहूर्तान् यान् वदन्त्य् अहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [श्ब्म् 12.3.2.7-8]>_इति ब्राह्मणम्

5.6

(ग्ब्र्_1,5.6अ) संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः_
(ग्ब्र्_1,5.6ब्) एकम् एव पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्त्य् एकम् उपरिष्टात्
(ग्ब्र्_1,5.6च्) त्रिपञ्चाशतम् एव पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति त्रिपञ्चाशतम् उपरिष्टात्_
(ग्ब्र्_1,5.6द्) विंशतिशतम् एव पुरस्ताद् विषुवत उक्थ्यान् उपयन्ति विंशतिशतम् उपरिष्टात्
(ग्ब्र्_1,5.6ए) षड् एव पुरस्ताद् विषुवतः षोडशिन उपयन्ति षड् उपरिष्टात्
(ग्ब्र्_1,5.6f) त्रिंशद् एव पुरस्ताद् विषुवतः षडहान् उपयन्ति त्रिंशद् उपरिष्टात्
(ग्ब्र्_1,5.6ग्) सैषा संवत्सरस्य समता
(ग्ब्र्_1,5.6ह्) स य एवम् एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्येतीति ब्रह्मणम्

5.7

(ग्ब्र्_1,5.7अ) अथातो यज्ञक्रमाः_
(ग्ब्र्_1,5.7ब्) अग्न्याधेयम्
(ग्ब्र्_1,5.7च्) अग्न्याधेयात् पूर्णाहुतिः
(ग्ब्र्_1,5.7द्) पूर्णहुतेर् अग्निहोत्रम्
(ग्ब्र्_1,5.7ए) अग्निहोत्राद् दर्शपूर्णमासौ
(ग्ब्र्_1,5.7f) दर्शपूर्णमासाभ्याम् आग्रयणम्
(ग्ब्र्_1,5.7ग्) आग्रयणाच् चातुर्मास्यानि
(ग्ब्र्_1,5.7ह्) चातुर्मास्येभ्यः पशुबन्धः
(ग्ब्र्_1,5.7इ) पशुबन्धाद् अग्निष्टोमः_
(ग्ब्र्_1,5.7ज्) अग्निष्टोमाद् राजसूयः_
(ग्ब्र्_1,5.7क्) राजसूयाद् वाजपेयः_
(ग्ब्र्_1,5.7ल्) वाजपेयाद् अश्वमेधः_
(ग्ब्र्_1,5.7म्) अश्वमेधात् पुरुषमेधः
(ग्ब्र्_1,5.7न्) पुरुषमेधात् सर्वमेधः
(ग्ब्र्_1,5.7ओ) सर्वमेधाद् दक्षिणावन्तः_
(ग्ब्र्_1,5.7प्) दक्षिणावद्भ्यो ऽदक्षिणाः_
(ग्ब्र्_1,5.7q) अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्_
(ग्ब्र्_1,5.7र्) ते वा एते यज्ञक्रमाः
(ग्ब्र्_1,5.7स्) स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम्

5.8

(ग्ब्र्_1,5.8अ) प्रजापतिर् अकामयतानन्त्यम् अश्नुवीयेति
(ग्ब्र्_1,5.8ब्) सो ऽग्नीन् आधाय पूर्णाहुत्यायजत
(ग्ब्र्_1,5.8च्) सो ऽन्तम् एवापश्यत्
(ग्ब्र्_1,5.8द्) सो ऽग्निहोत्रेणेष्ट्वान्तम् एवापश्यत्
(ग्ब्र्_1,5.8ए) स दर्शपूर्णमासाभ्याम् इष्ट्वान्तम् एवापश्यत्
(ग्ब्र्_1,5.8f) स आग्रयणेनेष्ट्वान्तम् एवापश्यत्
(ग्ब्र्_1,5.8ग्) स चातुर्मास्यैर् इष्ट्वान्तम् एवापश्यत्
(ग्ब्र्_1,5.8ह्) स पशुबन्धेनेष्ट्वान्तम् एवापश्यत्
(ग्ब्र्_1,5.8इ) सो ऽग्निष्टोमेनेष्ट्वान्तम् एवापश्यत्
(ग्ब्र्_1,5.8ज्) स राजसूयेनेष्ट्वा राजेति नामाधत्त
(ग्ब्र्_1,5.8क्) सो ऽन्तम् एवापश्यत्
(ग्ब्र्_1,5.8ल्) स वाजपेयेनेष्ट्वा सम्राड् इति नामाधत्त
(ग्ब्र्_1,5.8म्) सो ऽन्तम् एवापश्यत्
(ग्ब्र्_1,5.8न्) सो ऽश्वमेधेनेष्ट्वा स्वराड् इति नामाधत्त
(ग्ब्र्_1,5.8ओ) सो ऽन्तम् एवापश्यत्
(ग्ब्र्_1,5.8प्) स पुरुषमेधेनेष्ट्वा विराड् इति नामाधत्त
(ग्ब्र्_1,5.8q) सो ऽन्तम् एवापश्यत्
(ग्ब्र्_1,5.8र्) स सर्वमेधेनेष्ट्वा सर्वराड् इति नामाधत्त
(ग्ब्र्_1,5.8स्) सो ऽन्तम् एवापश्यत्
(ग्ब्र्_1,5.8त्) सो ऽहीनैर् दक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्
(ग्ब्र्_1,5.8उ) सो ऽहीनैर् अदक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्
(ग्ब्र्_1,5.8व्) स सत्त्रेणोभयतो ऽतिरात्रेणान्ततो ऽयजत
(ग्ब्र्_1,5.8w) वाचं ह वै होत्रे प्रायच्छत्
(ग्ब्र्_1,5.8x) प्राणम् अध्वर्यवे चक्षुर् उद्गात्रे मनो ब्रह्मणे ऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः_
(ग्ब्र्_1,5.8य्) एवम् आनन्त्यम् आत्मानं दत्त्वानन्त्यम् आश्नुत
(ग्ब्र्_1,5.8z) तद् या दक्षिणा आनयत् ताभिर् आत्मानं निष्क्रीणीय
(ग्ब्र्_1,5.8अअ) तस्माद् एतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत
(ग्ब्र्_1,5.8ब्ब्) यो ह्य् अनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सो ऽनिष्क्रीय प्रैतीति ब्राह्मणम्

5.9

(ग्ब्र्_1,5.9अ) यद् वै संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् अग्निहोत्रम् अनन्तरितं भवति
(ग्ब्र्_1,5.9ब्) व्रतेतेति ब्रूयात्
(ग्ब्र्_1,5.9च्) कथम् एषां दर्शो ऽनन्तरितो भवति
(ग्ब्र्_1,5.9द्) दध्ना च पुरोडाशेन चेति ब्रूयात्
(ग्ब्र्_1,5.9ए) कथम् एषां पौर्णमासम् अनन्तरितं भवति_
(ग्ब्र्_1,5.9f) आज्येन च पुरोडाशेन चेति ब्रूयात्
(ग्ब्र्_1,5.9ग्) कथम् एषाम् आग्रयणम् अनन्तरितं भवति
(ग्ब्र्_1,5.9ह्) सौम्येन चरुणेति ब्रूयात्
(ग्ब्र्_1,5.9इ) कथम् एषां चातुर्मास्यान्य् अनन्तरितानि भवन्ति
(ग्ब्र्_1,5.9ज्) पयस्ययेति ब्रूयात्
(ग्ब्र्_1,5.9क्) कथम् एषां पशुबन्धो ऽनन्तरितो भवति
(ग्ब्र्_1,5.9ल्) पशुना च पुरोडाशेन चेति ब्रूयात्
(ग्ब्र्_1,5.9म्) कथम् एषां सौम्यो ऽध्वरो ऽनन्तरितो भवति
(ग्ब्र्_1,5.9न्) ग्रहैर् इति ब्रूयात्
(ग्ब्र्_1,5.9ओ) कथम् एषां गृहमेधो ऽनन्तरितो भवति
(ग्ब्र्_1,5.9प्) धानाकरम्भैर् इति ब्रूयात्
(ग्ब्र्_1,5.9q) कथम् एषां पितृयज्ञो ऽनन्तरितो भवति_
(ग्ब्र्_1,5.9र्) औपासनैर् इति ब्रूयात्
(ग्ब्र्_1,5.9स्) कथम् एषां मिथुनम् अनन्तरितं भवति
(ग्ब्र्_1,5.9त्) हिंकारेनेति ब्रूयात्
(ग्ब्र्_1,5.9उ) सैषा संवत्सरे यज्ञक्रतूनाम् अपीतिः
(ग्ब्र्_1,5.9व्) स य एवम् एतां संवत्सरे यज्ञक्रतूनाम् अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम्

5.10

(ग्ब्र्_1,5.10अ) देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे
(ग्ब्र्_1,5.10ब्) तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्य् आसन्न् अथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि
(ग्ब्र्_1,5.10च्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(ग्ब्र्_1,5.10द्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(ग्ब्र्_1,5.10ए) तद् अयातयाम मध्ये यज्ञस्यापश्यन्_
(ग्ब्र्_1,5.10f) तेनायातयाम्ना या वेदे व्यष्टिर् आसीत् तां पञ्चस्व् अपश्यन्न् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे
(ग्ब्र्_1,5.10ग्) ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति
(ग्ब्र्_1,5.10ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा]
(ग्ब्र्_1,5.10इ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(ग्ब्र्_1,5.10ज्) तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यम् अपश्यन्_
(ग्ब्र्_1,5.10क्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(ग्ब्र्_1,5.10ल्) स खलु द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिर् द्वाशमासांत् सुत्याभिः_
(ग्ब्र्_1,5.10म्) अथ यद् द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति_
(ग्ब्र्_1,5.10न्) अथ यद् द्वादश मासांत् सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति
(ग्ब्र्_1,5.10ओ) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(ग्ब्र्_1,5.10प्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(ग्ब्र्_1,5.10q) तत एतं संवत्सरंम् तापश्चितस्याञ्जस्यम् अपश्यन्_
(ग्ब्र्_1,5.10र्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(ग्ब्र्_1,5.10स्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(ग्ब्र्_1,5.10त्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(ग्ब्र्_1,5.10उ) तत एतं द्वादशाहं संवत्सरस्याञ्जस्यम् अपश्यन्_
(ग्ब्र्_1,5.10व्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(ग्ब्र्_1,5.10w) स खलु द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिर् द्वादशाहं सुत्याभिः_
(ग्ब्र्_1,5.10x) अथ यद् द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति_
(ग्ब्र्_1,5.10य्) अथ यद् द्वादशाहं सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति
(ग्ब्र्_1,5.10z) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप]
(ग्ब्र्_1,5.10अअ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(ग्ब्र्_1,5.10ब्ब्) तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यम् अपश्यन्_
(ग्ब्र्_1,5.10च्च्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(ग्ब्र्_1,5.10द्द्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(ग्ब्र्_1,5.10एए) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(ग्ब्र्_1,5.10ff) तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यम् अपश्यन्_
(ग्ब्र्_1,5.10ग्ग्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(ग्ब्र्_1,5.10ह्ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(ग्ब्र्_1,5.10इइ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(ग्ब्र्_1,5.10ज्ज्) स वा एष विश्वजिद् यः सहस्रसंवत्सरस्य प्रतिमा_
(ग्ब्र्_1,5.10क्क्) एष ह प्रजानां प्रजापतिर् यद् विश्वजिद् इति ब्राह्मणम्

5.11

(ग्ब्र्_1,5.11अ) पुरुषं ह वै नारायणं प्रजापतिर् उवाच यजस्य यजस्वेति
(ग्ब्र्_1,5.11ब्) स होवाच यजस्व यजस्वेत्य् एवं हात्थ मा
(ग्ब्र्_1,5.11च्) त्रिर् अपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन
(ग्ब्र्_1,5.11द्) यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो ऽहं वा एतद् वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो विद्वांसो नूनं त्वा याजयेयुः_
(ग्ब्र्_1,5.11ए) एते ह वा अविद्वांसो यत्रानृग्विद् धोता भवत्य् अयजुर्विद् अध्वर्युर् असामविद् उद्गाताभृग्वङ्गिरोविद् ब्रह्मा
(ग्ब्र्_1,5.11f) यजस्वैव हन्त तु ते तद् वक्ष्यामि
(ग्ब्र्_1,5.11ग्) यथा सूत्रे मणिर् इव सूत्रम् एतान्य् उक्थाहानि भवन्ति सूत्रम् इव वा मणाव् इति
(ग्ब्र्_1,5.11ह्) तस्माद् य एव सर्ववित् स्यात् तं ब्रह्माणं कुर्वीत_
(ग्ब्र्_1,5.11इ) एष ह वै विद्वांत् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोवित्_
(ग्ब्र्_1,5.11ज्) एते ह वा अस्य सर्वस्य शमयितारः पालयितारस्
(ग्ब्र्_1,5.11क्) तमाद् ब्रह्मा स्तुते बहिःपवमाने वाचयति

5.13

(ग्ब्र्_1,5.12अ) श्येनो ऽसि गायत्रछन्दा
(ग्ब्र्_1,5.12ब्) अनु त्वारभे
(ग्ब्र्_1,5.12च्) स्वस्ति मा संपारयेति
(ग्ब्र्_1,5.12द्) स यद् आह श्येनो ऽसीति सोमं वा एतद् आह_
(ग्ब्र्_1,5.12ए) एष ह वा अग्निर् भूत्वास्मिंल् लोके संशाययति
(ग्ब्र्_1,5.12f) तद् यत् संशाययति तस्माच् छेयनस्
(ग्ब्र्_1,5.12ग्) तच् छेयनस्य श्येनत्वम्_
(ग्ब्र्_1,5.12ह्) स यद् आह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निं सन्तम् अन्वारभते
(ग्ब्र्_1,5.12इ) स यद् आह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच् छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद
(ग्ब्र्_1,5.13अ) अथ माध्यंदिने पवमाने वाचयति सम्राड् असि त्रिष्टुप्छन्दा
(ग्ब्र्_1,5.13ब्) अनु त्वारभे
(ग्ब्र्_1,5.13च्) स्वस्ति मा संपारयेति
(ग्ब्र्_1,5.13द्) स यद् आह सम्राड् असीति सोमं वा एतद् आह_
(ग्ब्र्_1,5.13ए) एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति
(ग्ब्र्_1,5.13f) तद् यत् सम्राजति तस्मात् सम्राट्
(ग्ब्र्_1,5.13ग्) तत् सम्राजस्य सम्राट्त्वम्_
(ग्ब्र्_1,5.13ह्) स यद् आह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने ऽन्तरिक्षलोके वायुं सन्तम् अन्वारभते
(ग्ब्र्_1,5.13इ) स यद् आह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति
(ग्ब्र्_1,5.13ज्) त्रैष्टुभेनैवैनं तच् छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद

5.14

(ग्ब्र्_1,5.14अ) अथार्भवे पवमाने वाचयति स्वरो ऽसि गयो ऽसि जगच्छन्दा
(ग्ब्र्_1,5.14ब्) अनु त्वारभे
(ग्ब्र्_1,5.14च्) स्वस्ति मा संपारयेति
(ग्ब्र्_1,5.14द्) स यद् आह स्वरो ऽसीति सोमं वा एतद् आह_
(ग्ब्र्_1,5.14ए) एष ह वै सूर्यो भूत्वामुष्मिंल् लोके स्वरति
(ग्ब्र्_1,5.14f) तद् यत् स्वरति तस्मात् स्वरस्
(ग्ब्र्_1,5.14ग्) तत् स्वरस्य स्वरत्वम्_
(ग्ब्र्_1,5.14ह्) स यद् आह गयो ऽसीति सोमं वा एतद् आह_
(ग्ब्र्_1,5.14इ) एष ह वै चन्द्रमा भूत्वा सर्वांल् लोकान् गच्छति
(ग्ब्र्_1,5.14ज्) तद् यद् गच्छति तस्माद् गयस्
(ग्ब्र्_1,5.14क्) तद् गयस्य गयत्वम्_
(ग्ब्र्_1,5.14ल्) स यद् आह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्यं सन्तम् अन्वारभते
(ग्ब्र्_1,5.14म्) स यद् आह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच् छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद

5.15

(ग्ब्र्_1,5.15अ) अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति
(ग्ब्र्_1,5.15ब्) पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम्
(ग्ब्र्_1,5.15च्) अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम्_ [एद्. आदित्या]
(ग्ब्र्_1,5.15द्) वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्_
(ग्ब्र्_1,5.15ए) गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्_
(ग्ब्र्_1,5.15f) प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्_
(ग्ब्र्_1,5.15ग्) वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्_
(ग्ब्र्_1,5.15ह्) त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्
(ग्ब्र्_1,5.15इ) ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्_
(ग्ब्र्_1,5.15ज्) होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्_
(ग्ब्र्_1,5.15क्) वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम्

5.16

(ग्ब्र्_1,5.16अ) स यद् आह मयि भर्ग इति पृथिवीम् एवैतल् लोकानाम् अहाग्निं देवानां वसून् देवान् देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तम् ऋतूनां त्रिवृतं स्तोमानाम् ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचम् इन्द्रियाणाम्

5.17

(ग्ब्र्_1,5.17अ) स यद् आह मयि मह इत्य् अन्तरिक्षम् एवैतल् लोकानाम् आह वायुं देवानां रुद्रान् देवान् देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मम् ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानाम् आध्वर्यवं होत्रकाणां प्राणम् इन्द्रियाणाम्

5.17

(ग्ब्र्_1,5.18अ) स यद् आह मयि यश इति दिवम् एवैतल् लोकानाम् आहादित्यं देवानाम् आदित्यान् देवगणानां जागतं छन्दसाम् उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानाम् औद्गात्रं होत्रकाणां चक्षुर् इन्द्रियाणाम्

5.18

(ग्ब्र्_1,5.19अ) स यद् आह मयि सर्वम् इत्य् अप एवैतल् लोकानाम् आह चन्द्रमसं देवानां विश्वान् देवान् देवगणानाम् आनुष्टुभं छन्दसां दक्षिणां दिशां शरदम् ऋतूनाम् एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणाम्

5.20

(ग्ब्र्_1,5.20अ) स वा एष दशधा चतुः संपद्यते
(ग्ब्र्_1,5.20ब्) दश च ह वै चतुर् विराजो ऽक्षराणि
(ग्ब्र्_1,5.20च्) तं गर्भा उपजीवन्ति
(ग्ब्र्_1,5.20द्) श्रीर् वै विराड्
(ग्ब्र्_1,5.20ए) यशो ऽन्नाद्यम्_
(ग्ब्र्_1,5.20f) श्रियम् एव तद् विराजं यशस्य् अन्नाद्यो प्रतिष्ठापयति
(ग्ब्र्_1,5.20ग्) प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतिष्ठति
(ग्ब्र्_1,5.20ह्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद

5.21

(ग्ब्र्_1,5.21अ) अनर्वाणं ह वै देवं दध्यङ्ङ् आङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति
(ग्ब्र्_1,5.21ब्) स दध्यङ्ङ् आङ्गिरसो ऽब्रवीद् यो वै सप्तदशं प्रजापतिं यज्ञे ऽन्वितं वेद नास्य यज्ञो रिष्यते
(ग्ब्र्_1,5.21च्) न यज्ञपतिं रिष्यन्त इति
(ग्ब्र्_1,5.21द्) ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति
(ग्ब्र्_1,5.21ए) स दध्यङ्ङ् आङ्गिरसो ऽब्रवीन् न वयं विद्मो यदि ब्राह्मणाः स्मो यद्य् अब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति_
(ग्ब्र्_1,5.21f) अनर्वाणश् च ह वा ऋतावन्तश् च पितरः स्वधायाम् आवृषायन्त वयं वदामहै वयं वदामहा इति
(ग्ब्र्_1,5.21ग्) सो ऽयात् स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति
(ग्ब्र्_1,5.21ह्) तस्मात् प्रवरे प्रव्रियमाणे वाचयेद् देवाः पितर इति तिस्रः_
(ग्ब्र्_1,5.21इ) य एति संयजति स भवति यश् च न ब्रूते यश् च न ब्रूत इति ब्राह्मणम्

5.22

(ग्ब्र्_1,5.22अ) सावित्रं ह स्मैतं पूर्वे पुरस्तात् पशुम् आलभन्त इत्य् एतर्हि प्राजापत्यम्_
(ग्ब्र्_1,5.22ब्) यो ह्य् एव सविता स प्रजापतिर् इति वदन्तस्
(ग्ब्र्_1,5.22च्) तस्माद् उ समुप्याग्नींस् तेन यजेरन्_
(ग्ब्र्_1,5.22द्) ते समानधिष्ण्या एव स्युर् ओखासंभरणीयायाः_
(ग्ब्र्_1,5.22ए) उखासंभरणीयायां विन्युपयाग्नींस् तया यजेरन्_
(ग्ब्र्_1,5.22f) ते नानाधिष्ण्या एव स्युर् आ दीक्षणीयायाः_
(ग्ब्र्_1,5.22ग्) दीक्षणीयायां संन्युप्याग्नींस् तया यजेरन्_
(ग्ब्र्_1,5.22ह्) ते समानधिष्ण्या एव स्युर् ओदवसानीयायाः_
(ग्ब्र्_1,5.22इ) उदवसानीयायां विन्युप्याग्नींस् तया यजेरन्_
(ग्ब्र्_1,5.22ज्) ते नानाधिष्ण्या एव स्युः_
(ग्ब्र्_1,5.22क्) अथ यदि यजमानस्योपतपेत् पार्श्वतो ऽग्नीन् आधाय तावद् आसीत यावद् अगदः स्यात्_
(ग्ब्र्_1,5.22ल्) यदि प्रेयात् स्वैर् एव तम् अग्निभिर् दहेत्_
(ग्ब्र्_1,5.22म्) अशवाग्निभिर् इतरे यजमाना आसत इति वदन्तस्
(ग्ब्र्_1,5.22न्) तस्य तद् एव ब्राह्मणं यद् अदः पुरःसवने
(ग्ब्र्_1,5.22ओ) पितृमेध आशिषो व्याख्याताः

5.23

(ग्ब्र्_1,5.23अ) सायंप्रातर्होमौ स्थालीपाको नवश् च यः । बलिश् च पितृयज्ञश् चाष्टका सप्तमः पशुः ॥ इत्य् एते पाकयज्ञाः
(ग्ब्र्_1,5.23ब्) अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः
(ग्ब्र्_1,5.23च्) अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः
(ग्ब्र्_1,5.23द्) के स्विद् देवा प्रवोवाजाः के स्विद् देवा अभिद्यवः । के स्विद् देवा हविष्मन्तः किं स्विज् जिगाति सुम्नयुः ॥
(ग्ब्र्_1,5.23ए) ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस् तज् जिगाति सुन्मयुः ॥
(ग्ब्र्_1,5.23f) कति स्विद् रात्रयः कत्य् अहानि कति स्तोत्राणि कति शस्त्राण्य् अस्य । कति स्वित् सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्य् अस्य ॥
(ग्ब्र्_1,5.23ग्) <द्वाव् अतिरात्रौ षट् शतम् अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [वैत्स् 31.15]> ॥
(ग्ब्र्_1,5.23ह्) अहान्यस्य विंशतिशतानि त्रीण्य् अहश् चैकं तावद् अस्य । संवत्सरस्य सवनाः सहस्रम् असीति त्रीणि च संस्तुतस्य ॥
(ग्ब्र्_1,5.23इ) षट्षष्टिश् च द्वे च शते भवत स्तुतशस्त्राणाम् अयुतं चैकम् अस्य । स्तोत्रियाश् च नवतिसहस्रा द्वे नियुते नवतिश् चाति षट् च ॥
(ग्ब्र्_1,5.23ज्) अष्टौ शतान्य् अयुतानि त्रिंशच् चतुर्नवतिश् च पदान्य् अस्य । संवत्सरस्य कविभिर् मितस्यैतावती मध्यमा देवमात्रा ॥
(ग्ब्र्_1,5.23क्) अयुतम् एकं प्रयुतानि त्रिंशद् द्वे नियुते तथा ह्य् अनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्य् एतावान् आत्मा परमः प्रजापतेः ॥
(ग्ब्र्_1,5.23ल्) आद्यं वषट्कारः प्रदानान्तम् एतम् अग्निष्टोमे पर्वशः साधु कॢप्तम् । सौभेषजं छन्द ईप्सन् यद् अग्नौ चतुःशतं बहुधा हूयते यत् ॥
(ग्ब्र्_1,5.23म्) प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन कॢप्तस् त्रयस्त्रिंशेन सवनं तृतीयम्

5.24

(ग्ब्र्_1,5.24अ) श्रद्धायां रेतस् तपसा तपस्वी वैश्वानरः सिषिचे ऽपत्यम् ईप्सन् । ततो जज्ञे लोकजित् सोमजम्भा ऋषेर् ऋषिर् अङ्गिराः संनभूव ॥
(ग्ब्र्_1,5.24ब्) ऋषेर् यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकम् अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृताम् उ लोकम् ॥
(ग्ब्र्_1,5.24च्) ऋचो ऽस्य भागांश् चतुरो वहन्त्य् उक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर् हविर्भिश् च कृताकृतश् च यजूंषि भागांश् चतुरो वहन्ति ॥
(ग्ब्र्_1,5.24द्) औदुम्बर्यां सामघोषेण तावत् सविष्टुतिभिश् च स्तोमैः छन्दसा । सामानि भागांश् चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥
(ग्ब्र्_1,5.24ए) प्रायश्चित्तैर् भेषजैः संस्तुवन्तो ऽथर्वाणो ऽङ्गिरसश् च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान् भागांश् चतुरो वहन्ति ॥
(ग्ब्र्_1,5.24f) यो ब्रह्मवित् सो ऽभिकरो ऽस्तु वः शिवो धिया धीरो रक्षतु धर्मम् एतम् । मा वः प्रमत्ताम् अमृताच् च यज्ञात् कर्माच् च येनान् अङ्गिरसो ऽपियासीत् ॥
(ग्ब्र्_1,5.24ग्) मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर् युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मम् उद्यतं यज्ञं कालाश स्तुतिगोपनायनम् ॥
(ग्ब्र्_1,5.24ह्) होता च मैत्रावरुणश् च पादम् अच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भि स्तुवन्तो ऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥
(ग्ब्र्_1,5.24इ) अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादम् एकम् । सम् अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥
(ग्ब्र्_1,5.24ज्) साम्नोद्गाता छादयन्न् अप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥
(ग्ब्र्_1,5.24क्) साम्ना दिव्य् एकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादम् एकम् ॥
(ग्ब्र्_1,5.24ल्) अथर्वभिर् अङ्गिरोभिश् च गुप्तो ऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक् चतुर्धा ॥
(ग्ब्र्_1,5.24म्) मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञम् । दक्षिणतो ब्रह्मणस्यों जनद् इत्य् एतां व्याहृतिं जपन् ॥
(ग्ब्र्_1,5.24न्) सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥
(ग्ब्र्_1,5.24ओ) एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिर् एव सुन्वन् । एकविंशतिर् एवैषां संस्थायाम् अङ्गिरो वह ॥
(ग्ब्र्_1,5.24प्) वेदैर् अभिष्टुतो लोको नानावेशापराजितः ।

5.25

(ग्ब्र्_1,5.25अ) सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना यान् ऋषयो सृजन्ति ये च सृष्टाः पुराणैः ॥
(ग्ब्र्_1,5.25ब्) एतेषु वेदेष्व् अपि चैकम् एवापव्रजम् ऋत्विजां संभरन्ति । कृट्स्तृपात् सचते ताम् अशस्तिं विष्कन्धम् एनं विसृतं प्रजासु ॥
(ग्ब्र्_1,5.25च्) निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्य् अनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥
(ग्ब्र्_1,5.25द्) द्वादशवर्षं ब्रह्मचर्यं पृथग् वेदेषु तत् स्मृतम् । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥
(ग्ब्र्_1,5.25ए) सन्ति चैषां समानाः मन्त्राः कल्पाश् च ब्राह्मणानि च । व्यवस्थानं तु तत् सर्वं पृथग्वेदेषु तत् स्मृतम् ॥
(ग्ब्र्_1,5.25f) ऋग्वेदस्य पृथिवी स्थानम् अन्तरिक्षस्थानो ऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतम् ॥
(ग्ब्र्_1,5.25ग्) अग्निर् देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश् च भृग्वङ्गिरसाम् ॥
(ग्ब्र्_1,5.25ह्) त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥
(ग्ब्र्_1,5.25इ) वाग् अध्यात्मम् ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतम् ॥
(ग्ब्र्_1,5.25ज्) ऋग्भिः सह गायत्रं जागतम् आहुर् यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥
(ग्ब्र्_1,5.25क्) ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् उद्वहेत ॥
(ग्ब्र्_1,5.25ल्) ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् आरुरोह ॥
(ग्ब्र्_1,5.25म्) ऋचो विद्वान् पृथिवीं वेद संप्रति यजूंषि विद्वान् बृहद् अन्तरिक्षम् । दिवं वेद सामगो यो विपश्चित् सर्वान् लोकान् यद् भृग्वङ्गिरोवित् ॥
(ग्ब्र्_1,5.25न्) यांश् च ग्रामे यांश् चारण्ये जपन्ति मन्त्रान् नार्थान् बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना सा हि गतिर् ब्रह्मणो यावरार्ध्या ॥
(ग्ब्र्_1,5.25ओ) त्रिविष्टपं त्रिदिवं नाकम् उत्तमं तम् एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तो ऽथर्वणाम् अङ्गिरसां च सा गतिः ॥ अथर्वणाम् अङ्गिरसां च सा गतिर् इति ब्राह्मणम्

मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc