गोपथब्राह्मण · अध्याय 11
(ग्ब्र्_2,5.15चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः ॥
(ग्ब्र्_2,6.1अ) ओं तान् वा एतान् संपातान् विश्वामित्रः प्रथमम् अपश्यत्_
(ग्ब्र्_2,6.1ब्) <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋव् 4.19.1]> <यन् न इन्द्रो जुजुषे यच् च वष्टि [ऋव् 4.22.1]> <कथा महाम् अवृधत् कस्य होतुः [ऋव् 4.23.1]>_इति
(ग्ब्र्_2,6.1च्) तान् विश्वामित्रेण दृष्टान् वामदेवो ऽसृजत
(ग्ब्र्_2,6.1द्) स हेक्षां चक्रे विश्वामित्रो यान् वा अहं संपातान् अदर्शं तान् वामदेवो ऽसृजत
(ग्ब्र्_2,6.1ए) कानि न्व् अहं हि सूक्तानि संपातांस् तत् प्रतिमान्त् सृजेयम् इति
(ग्ब्र्_2,6.1f) स एतानि सूक्तानि संपातांस् तत् प्रतिमान् असृजत
(ग्ब्र्_2,6.1ग्) <सद्यो ह जातो वृषभः कनीनः [ऋव् 3.48.1]>_<उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋव् 7.23.1, श्स् 20.12.1]>_<अभि तष्टेव दीधया मनीषाम् [ऋव् 3.38.1]> इति विश्वमित्रः_
(ग्ब्र्_2,6.1ह्) <इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋव् 3.34.1, श्स् 20.11.1]>_<य एक इद् धव्यश् चर्षणीनाम् [ऋव् 6.22.1, श्स् 20.36.1]>_<यस् तिग्मशृङ्गो वृषभो न भीमः [ऋव् 7.19.1, श्स् 20.37.1]>_इति वसिष्ठः_
(ग्ब्र्_2,6.1इ) <इमाम् ऊ षु प्रभृतिं सातये धाः [ऋव् 3.36.1]>_<इच्छन्ति त्वा सोम्यासः सखायः [ऋव् 3.30.1]> <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋव् 3.31.1]>_इति भरद्वाजः_
(ग्ब्र्_2,6.1ज्) एतैर् वै संपातैर् एत ऋषय इमांल् लोकान्त् समपतन्_
(ग्ब्र्_2,6.1क्) तद् यत् समपतंस् तस्मात् संपातास्
(ग्ब्र्_2,6.1ल्) तत् संपातानां संपातत्वम्_
(ग्ब्र्_2,6.1म्) ततो वा एतांस् त्रीन् संपातान् मैत्रावरुणो विपर्यासम् एकैकम् अहरहः शंसत्य् <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋव् 4.19.1]>_इति प्रथमे ऽहनि
(ग्ब्र्_2,6.1न्) <यन् न इन्द्रो जुजुषे यच् च वष्टि [ऋव् 4.22.1]>_इति द्वितीये
(ग्ब्र्_2,6.1ओ) <कथा महाम् अवृधत् कस्य होतुः [ऋव् 4.23.1]>_इति तृतीये
(ग्ब्र्_2,6.1प्) त्रीन् एव संपातान् ब्राह्मणाच्छंसी विपर्यासम् एकैकम् अहरहः शंसति_<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋव् 3.34.1, श्स् 20.11.1]>_इति प्रथमे ऽहनि
(ग्ब्र्_2,6.1q) <य एक इद् धव्यश् चर्षणीनाम् [ऋव् 6.22.1, श्स् 20.36.1]> इति द्वितीये
(ग्ब्र्_2,6.1र्) <यस् तिग्मशृङ्गो वृषभो न भीमः [ऋव् 7.19.1, श्स् 20.37.1]>_इति तृतीये
(ग्ब्र्_2,6.1स्) त्रीन् एव संपातान् अच्छावाको विपर्यासम् एकैकम् अहरहः शंसति_<इमाम् ऊ षु प्रभृतिं सातये धाः [ऋव् 3.36.1]>_इति प्रथमे ऽहनि_
(ग्ब्र्_2,6.1त्) <इच्छन्ति त्वा सोम्यासः सखायः [ऋव् 3.30.1]>_इति द्वितीये
(ग्ब्र्_2,6.1उ) <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋव् 3.31.1]>_इति तृतीये
(ग्ब्र्_2,6.1व्) तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि
(ग्ब्र्_2,6.1w) तानि द्वादश भवन्ति
(ग्ब्र्_2,6.1x) द्वादश ह वै मासाः संवत्सरः
(ग्ब्र्_2,6.1य्) संवत्सरः प्रजापतिः
(ग्ब्र्_2,6.1z) प्रजापतिर् यज्ञस्
(ग्ब्र्_2,6.1अअ) तत् संवत्सरं प्रजापतिं यज्ञम् आप्नोति
(ग्ब्र्_2,6.1ब्ब्) तस्मिन्त् संवत्सरे प्रजापतौ यज्ञे ऽहरहः प्रतितिष्ठन्तो यन्ति
(ग्ब्र्_2,6.1च्च्) प्रतितिष्ठन्ते_ [एद्. प्रतितिष्ठत, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.1द्द्) इदं सर्वम् अनु प्रतितिष्ठति
(ग्ब्र्_2,6.1एए) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_2,6.1ff) तान्य् अन्तरेणावापम् आवपेरन्_
(ग्ब्र्_2,6.1ग्ग्) अन्यूङ्खा विराजश् चतुर्थे ऽहनि वैमदीश् च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे_
(ग्ब्र्_2,6.1ह्ह्) अथ यान्य् अन्यानि महास्तोत्राण्य् अष्टर्चान्य् आवपेरन्
(ग्ब्र्_2,6.2अ) <को अद्य नर्यो देवकामः [ऋव् 4.25.1]>_इति मैत्रावरुणः_
(ग्ब्र्_2,6.2ब्) <वने न वा यो न्य् अधायि चाकन् [ऋव् 10.29.1, श्स् 20.76.1]>_इति ब्राह्मणाच्छंसी_
(ग्ब्र्_2,6.2च्) <आ याह्य् अर्वाङ् उप वन्धुरेष्ठाः [ऋव् 3.43.1]>_इत्य् अच्छावाकः_
(ग्ब्र्_2,6.2द्) एतानि वा आवपनानि_
(ग्ब्र्_2,6.2ए) एतैर् एवावपनैर् देवाश् चर्षयश् च स्वर्गं लोकं आयन्_
(ग्ब्र्_2,6.2f) तथैवैतद् यजमाना एतैर् एवावपनैः स्वर्गं लोकं यन्ति
(ग्ब्र्_2,6.2ग्) <सद्यो ह जातो वृषभः कनीनः [ऋव् 3.48.1]>_इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति
(ग्ब्र्_2,6.2ह्) तद् एतत् सूक्तं स्वर्ग्यम्
(ग्ब्र्_2,6.2इ) एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन्_
(ग्ब्र्_2,6.2ज्) तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
(ग्ब्र्_2,6.2क्) तद् ऋषभवत् पशुमद् भवति
(ग्ब्र्_2,6.2ल्) पशूनाम् आप्त्यै
(ग्ब्र्_2,6.2म्) तत् पञ्चर्चं भवति_
(ग्ब्र्_2,6.2न्) अन्नं वै पङ्क्तिः_
(ग्ब्र्_2,6.2ओ) अन्नाद्यस्यावरुद्ध्यै_
(ग्ब्र्_2,6.2प्) <अरिष्टैर् नः पथिभिः पारयन्ता [ऋव् 6.69.1द्]>_इति स्वर्गताया एवैतद् अहरहः शंसति_
(ग्ब्र्_2,6.2q) <उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋव् 7.23.1, श्स् 20.12.1]>_इति ब्राह्मणाच्छंसी
(ग्ब्र्_2,6.2र्) ब्रह्मण्वद् एतत् सूक्तं समृद्धम्
(ग्ब्र्_2,6.2स्) एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन्_
(ग्ब्र्_2,6.2त्) तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
(ग्ब्र्_2,6.2उ) तद् उ वै षडृचम्_
(ग्ब्र्_2,6.2व्) षड् वा ऋतवः_
(ग्ब्र्_2,6.2w) ऋतूनाम् आप्त्यै
(ग्ब्र्_2,6.2x) तद् उपरिष्टात् संपातानाम् अहरहः शंसति_
(ग्ब्र्_2,6.2य्) <अभि तष्टेव दीधया मनीषाम् [ऋव् 3.38.1अ]> इत्य् अच्छावाकः_ [एद्. अच्छावको]
(ग्ब्र्_2,6.2z) अहरहः शंसत्य् अभिवदति तत्यै रूपम्
(ग्ब्र्_2,6.2अअ) <अभि प्रियाणि मर्मृशत् पराणि [ऋव् 3.38.1च्]>_इति
(ग्ब्र्_2,6.2ब्ब्) यान्य् एव पराण्य् अहानि तानि प्रियाणि
(ग्ब्र्_2,6.2च्च्) तान्य् एव तद् अभिमर्मृशन्तो यन्त्य् अभ्यारभमाणाः
(ग्ब्र्_2,6.2द्द्) परो वा अस्माल् लोकात् स्वर्गो लोकः
(ग्ब्र्_2,6.2एए) स्वर्गम् एव तल् लोकम् अभिमृशन्ति
(ग्ब्र्_2,6.2ff) <कवींर् इच्छामि संदृशे सुमेधाः [ऋव् 3.38.1द्]>_इति
(ग्ब्र्_2,6.2ग्ग्) ये ह वा अनेन पूर्वे प्रेतास् ते वै कवयस् तान् एव तद् अभ्यतिवदति
(ग्ब्र्_2,6.2ह्ह्) यद् उ वै दशर्चं दश वै प्राणाः
(ग्ब्र्_2,6.2इइ) प्राणेन तद् आप्नोति
(ग्ब्र्_2,6.2ज्ज्) प्राणानां संतत्यै
(ग्ब्र्_2,6.2क्क्) यद् उ वै दशर्चम्_
(ग्ब्र्_2,6.2ल्ल्) दश वै पुरुषे प्राणाः_
(ग्ब्र्_2,6.2म्म्) दश स्वर्गा लोकाः
(ग्ब्र्_2,6.2न्न्) प्राणांश् चैव तत् स्वर्गांश् च लोकान् आप्नोति
(ग्ब्र्_2,6.2ओओ) प्राणेषु चैवैतत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति
(ग्ब्र्_2,6.2प्प्) यद् उ वै दशर्चम्_
(ग्ब्र्_2,6.2qq) दशाक्षरा विराट्_
(ग्ब्र्_2,6.2र्र्) इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा
(ग्ब्र्_2,6.2स्स्) तद् एतद् अस्यां प्रतिष्ठायां प्रतिष्ठापयति
(ग्ब्र्_2,6.2त्त्) सकृद् इन्द्रं निराह
(ग्ब्र्_2,6.2उउ) तेनैन्द्राद् रूपान् न प्रच्यवते
(ग्ब्र्_2,6.2व्व्) तद् उपरिष्टात् संपातानाम् अहरहः शंसति
(ग्ब्र्_2,6.3अ) <कस् तम् इन्द्र त्वावसुम् [ऋव् 7.32.14]>_<कन् नव्यो अतसीनाम् [ऋव् 8.3.13]>_<कद् ऊ न्व् अस्याकृतम् [ऋव् 8.66.9]> इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते
(ग्ब्र्_2,6.3ब्) को वै प्रजापतिः
(ग्ब्र्_2,6.3च्) प्रजापतेर् आप्त्यै
(ग्ब्र्_2,6.3द्) यद् एव कद्वन्तस् तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,6.3ए) यद् व् एव कद्वन्तः_
(ग्ब्र्_2,6.3f) अथो अन्नं वै कम्
(ग्ब्र्_2,6.3ग्) अथो अन्नस्यावरुद्ध्यै
(ग्ब्र्_2,6.3ह्) यद् व् एव कद्वन्तः_
(ग्ब्र्_2,6.3इ) अथो सुखं वै कम्
(ग्ब्र्_2,6.3ज्) अथो अन्नस्यावरुद्ध्यै
(ग्ब्र्_2,6.3क्) यद् व् एव कद्वन्तः_
(ग्ब्र्_2,6.3ल्) अथो ऽहरहर् वा एते शान्तान्य् अहीनसूक्तान्य् उपयुञ्जाना यन्ति
(ग्ब्र्_2,6.3म्) तानि कद्वद्भिः प्रगाथैः शमयन्ति
(ग्ब्र्_2,6.3न्) तान्य् एभ्यः शान्तानि कं भवन्ति
(ग्ब्र्_2,6.3ओ) तान्य् एताञ् छान्तानि स्वर्गं लोकम् अभिवहन्ति
(ग्ब्र्_2,6.3प्) त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस्
(ग्ब्र्_2,6.3q) ता हैके पुरस्तात् प्रगाथानां शंसन्ति धाय्या इति वदन्तस्
(ग्ब्र्_2,6.3र्) तद् उ तथा न कुर्यात्
(ग्ब्र्_2,6.3स्) क्षत्रं वै होता विशो होत्राशंसिनः
(ग्ब्र्_2,6.3त्) क्षत्रायैव तद् विशं प्रत्युद्यामिनीं कुर्युः
(ग्ब्र्_2,6.3उ) पापवस्यसम्_
(ग्ब्र्_2,6.3व्) त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्य् एवं विद्यात्_
(ग्ब्र्_2,6.3w) यथा वै समुद्रं प्रतरेयुर् एवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते
(ग्ब्र्_2,6.3x) तद् यथा सैरावतीं नावं पारकामाः समारोहेयुर् एवं हैवैतास् त्रिष्टुभः स्वर्गकामाः समारोहन्ति
(ग्ब्र्_2,6.3य्) न ह वा एतच् छन्दो गमयित्वा स्वर्गं लोकम् उपावर्तते
(ग्ब्र्_2,6.3z) वीर्यवत्तमं हि
(ग्ब्र्_2,6.3अअ) ताभ्यो न व्याह्वयीत
(ग्ब्र्_2,6.3ब्ब्) समानं हि छन्दः_
(ग्ब्र्_2,6.3च्च्) अथो नेद् धाय्याः करवाणीति
(ग्ब्र्_2,6.3द्द्) यद् एनाः शंसन्ति तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,6.3एए) यद् व् एवैनाः शंसन्तीन्द्रमेवैताभिर् निर्ह्वयन्ते यथर्षभं वाशितायै
(ग्ब्र्_2,6.4अ) <अपेन्द्र प्राचो मघवन्न् अमित्रान् [प्स् 19.16.8अ, श्स् 20.125.1अ]> इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति_ [एद्. अपेन्द]
(ग्ब्र्_2,6.4ब्) <अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम [प्स् 19.16.8ब्च्द्, श्स् 20.125.1ब्च्द्]>_इति_
(ग्ब्र्_2,6.4च्) अभयस्य रूपम्
(ग्ब्र्_2,6.4द्) अभयम् इव ह्य् अन्विच्छति
(ग्ब्र्_2,6.4ए) <ब्रह्मणा ते ब्रह्मयुजा युनज्मि [ऋव् 3.35.5, श्स् 20.86.1]>_इति ब्राह्मणाच्छंसी_
(ग्ब्र्_2,6.4f) एताम् अहरहः शंसति युक्तवतीम्_
(ग्ब्र्_2,6.4ग्) युक्त इव ह्य् अहीनः_
(ग्ब्र्_2,6.4ह्) अहीनस्य रूपम्
(ग्ब्र्_2,6.4इ) <उरुं नो लोकम् अनु नेषि [ऋव् 6.47.8, प्स् 3.35.4, श्स् 19.15.4]>_इत्य् अच्छावाको ऽहरहः शंसति_
(ग्ब्र्_2,6.4ज्) अनुनेषीत्य् एत इव ह्य् अहीनः_
(ग्ब्र्_2,6.4क्) अहीनस्य रूपम्_
(ग्ब्र्_2,6.4ल्) नेषीति सत्त्रायणरूपम् ओकःसारी हैवैषाम् इन्द्रो भवति
(ग्ब्र्_2,6.4म्) यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषाम् इन्द्रो यज्ञम् आगच्छति
(ग्ब्र्_2,6.4न्) न शुनंहूययाहीनस्य परिदध्यात्
(ग्ब्र्_2,6.4ओ) क्षत्रियो ह राष्ट्राच् च्यवते
(ग्ब्र्_2,6.4प्) यो हैव परो भवति तम् अभिह्वयति
(ग्ब्र्_2,6.5अ) अथातो ऽहीनस्य युक्तिश् च विमुक्तिश् च
(ग्ब्र्_2,6.5ब्) <व्य् अन्तरिक्षम् अतिरत् [ऋव् 8.14.7अ, श्स् 20.28.1अ, 20.39.2अ]>_इत्य् अहीनं युङ्क्ते_
(ग्ब्र्_2,6.5च्) <एवेद् इन्द्रम् [ऋव् 7.23.6अ, श्स् 20.12.6अ, लोन्गेर् पर्तीक अत् 2.4.2]> इति विमुञ्चति
(ग्ब्र्_2,6.5द्) <नूनं सा ते [ऋव् 2.11.21, 15.10, 16.9, 17.9, 18.9, 19.9, 20.9]>_इत्य् अहीनं युङ्क्ते
(ग्ब्र्_2,6.5ए) <नू ष्टुतः [ऋव् 4.16.21, 17.21, 19.11, 20.11, 21.11, 22.11, 23.11, 24.11]>_इति विमुञ्चति_
(ग्ब्र्_2,6.5f) एषा ह वा अहीनं तन्तुम् अर्हति य एनं योक्तं च विमोक्तं च वेद
(ग्ब्र्_2,6.5ग्) तस्य हैषैव युक्तिर् एषा विमुक्तिस्
(ग्ब्र्_2,6.5ह्) तद् यत् प्रथमे ऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर् नाहीनकर्म कुर्युः_
(ग्ब्र्_2,6.5इ) अथ यद् अहीनपरिधानीयाभिः परिदध्युस् तद् यथा युक्तो ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्
(ग्ब्र्_2,6.5ज्) नाहीनकर्म कुर्युः_
(ग्ब्र्_2,6.5क्) अथ यद् उभयीभिः परिदध्युस् तद् यथा दीर्घाध्व उपविमोकं यायात् तादृक् तत्
(ग्ब्र्_2,6.5ल्) समानीभिः परिदध्युस्
(ग्ब्र्_2,6.5म्) तद् आहुर् एकया द्वाभ्यां वा स्तोमम् अतिशंसेत्_
(ग्ब्र्_2,6.5न्) दीर्घारण्यानि भवन्ति
(ग्ब्र्_2,6.5ओ) यत्र बह्वीभि स्तोमो ऽतिशस्यते ऽथो क्षिप्रं देवेभ्यो ऽन्नाद्यं संप्रयच्छामीति_
(ग्ब्र्_2,6.5प्) अपरिमिताभिर् उत्तरयोः सवनयोर् अपरिमितो वै स्वर्गो लोकः
(ग्ब्र्_2,6.5q) स्वर्गस्य लोकस्य समष्ट्यै
(ग्ब्र्_2,6.5र्) तद् यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत् तादृक् तत्
(ग्ब्र्_2,6.5स्) समानीभिः परिदध्युः
(ग्ब्र्_2,6.5त्) संततो हैवैषाम् आरब्धो ऽविस्रस्तो यज्ञो भवति
(ग्ब्र्_2,6.5उ) संततम् ऋचा वषट्कृत्यम्_
(ग्ब्र्_2,6.5व्) संतत्यै संधीयते प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_2,6.6अ) तद् आहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति_
(ग्ब्र्_2,6.6ब्) असौ वै होता यो ऽसौ तपति
(ग्ब्र्_2,6.6च्) स वा एक एव
(ग्ब्र्_2,6.6द्) तस्माद् एकसूक्तः
(ग्ब्र्_2,6.6ए) स यद् विध्यातो द्वाव् इवाभवति
(ग्ब्र्_2,6.6f) तेज एव मण्डलं भा अपरं शुक्लम् अपरं कृष्णम्_
(ग्ब्र्_2,6.6ग्) तस्माद् अ द्व्युक्थः_
(ग्ब्र्_2,6.6ह्) रश्मयो वाव होत्रास्
(ग्ब्र्_2,6.6इ) ते वा एकैकम्_
(ग्ब्र्_2,6.6ज्) तस्माद् एकोक्थास्
(ग्ब्र्_2,6.6क्) तद् यद् एकैकस्य रश्मेर् द्वौद्वौ वर्णौ भवतस् तस्माद् द्विसूक्ताः
(ग्ब्र्_2,6.6ल्) संवत्सरो वाव होता
(ग्ब्र्_2,6.6म्) स वा एक एव
(ग्ब्र्_2,6.6न्) तस्माद् एकसूक्तस्
(ग्ब्र्_2,6.6ओ) तस्य यद् द्वयान्य् अहानि भवन्ति शीतान्य् अन्यान्य् उष्णान्य् अन्यानि तस्माद् द्व्युक्थः_
(ग्ब्र्_2,6.6प्) ऋतवो वाव होत्रास्
(ग्ब्र्_2,6.6q) ते वा एकैकम्_
(ग्ब्र्_2,6.6र्) तस्माद् एकोक्थास्
(ग्ब्र्_2,6.6स्) तद् यद् एकैकस्यर्तौ द्वौद्वौ मासौ भवतस् तस्माद् द्विसूक्ताः
(ग्ब्र्_2,6.6त्) पुरुषो वाव होता
(ग्ब्र्_2,6.6उ) स वा एक एव
(ग्ब्र्_2,6.6व्) तस्माद् एकसूक्तः
(ग्ब्र्_2,6.6w) स यत् पुरुषो भवत्य् अन्यथैव प्रत्यङ् भवत्य् अन्यथा प्राङ् तस्माद् द्व्युक्थः_
(ग्ब्र्_2,6.6x) अङ्गानि वाव होत्रास्
(ग्ब्र्_2,6.6य्) तानि वा एकैकम्_
(ग्ब्र्_2,6.6z) तस्माद् एकोक्थास्
(ग्ब्र्_2,6.6अअ) तद् यद् एकैकम् अङ्गं द्युतिर् भवति तस्माद् द्विसूक्तास्
(ग्ब्र्_2,6.6ब्ब्) तद् आहुर् यद् द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत् समं भवति
(ग्ब्र्_2,6.6च्च्) यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्
(ग्ब्र्_2,6.6द्द्) तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे द्वे होतुर् उक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति
(ग्ब्र्_2,6.6एए) यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्
(ग्ब्र्_2,6.6ff) तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्य् आप्याययन्ति_
(ग्ब्र्_2,6.6ग्ग्) अथ कतमेन छन्दसायातयामान्य् उक्थानि प्रणयन्ति कया देवतयेति
(ग्ब्र्_2,6.6ह्ह्) गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात्_
(ग्ब्र्_2,6.6इइ) देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अभिचेरिरे यज्ञपर्वणि यज्ञम् एषां हनिष्यामस् तृतीयसवनं प्रति
(ग्ब्र्_2,6.6ज्ज्) तृतीयसवने ह यज्ञस् त्वरिष्टो बलिष्ठः
(ग्ब्र्_2,6.6क्क्) प्रतनुमेषां यज्ञं हनिष्याम इति
(ग्ब्र्_2,6.6ल्ल्) ते वरुणं दक्षिणतो ऽयोजयन्
(ग्ब्र्_2,6.6म्म्) मध्यतो बृहस्पतिम्
(ग्ब्र्_2,6.6न्न्) उत्तरतो विष्णुम्_
(ग्ब्र्_2,6.6ओओ) ते ऽब्रुवन्न् एकैकाः स्मः_
(ग्ब्र्_2,6.6प्प्) नेदम् उत्सहामह इति
(ग्ब्र्_2,6.6qq) स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति
(ग्ब्र्_2,6.6र्र्) तान् इन्द्रो ऽब्रवीत् सर्वे मद्द्वितीया स्थेति
(ग्ब्र्_2,6.6स्स्) ते सर्व इन्द्रद्वितीयास्
(ग्ब्र्_2,6.6त्त्) तस्माद् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् अनुशस्यते
(ग्ब्र्_2,6.6उउ) द्वितीयवन्तो ह वा एतेन स्वा भवन्ति
(ग्ब्र्_2,6.6व्व्) द्वितीयवन्तो मन्यन्ते य एवं वेद
(ग्ब्र्_2,6.7अ) आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति
(ग्ब्र्_2,6.7ब्) वीर्यं वा अग्निः_
(ग्ब्र्_2,6.7च्) वीर्येणैवास्मै तत् प्रणयन्ति_
(ग्ब्र्_2,6.7द्) ऐन्द्रावारुणम् अनुशस्यते
(ग्ब्र्_2,6.7ए) वीर्यं वा इन्द्रः
(ग्ब्र्_2,6.7f) क्षत्रं वरुणः
(ग्ब्र्_2,6.7ग्) पशव उक्थानि
(ग्ब्र्_2,6.7ह्) वीर्येणैव तत् क्षत्रेण चोभयतः पशून् परिगृह्णाति
(ग्ब्र्_2,6.7इ) स्थित्यै_
(ग्ब्र्_2,6.7ज्) अनपक्रान्त्यै_
(ग्ब्र्_2,6.7क्) ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति
(ग्ब्र्_2,6.7ल्) वीर्यं वा इन्द्रः_
(ग्ब्र्_2,6.7म्) वीर्येणैवास्मै तत् प्रणयन्ति_
(ग्ब्र्_2,6.7न्) ऐन्द्राबार्हस्पत्यम् अनुशस्यते
(ग्ब्र्_2,6.7ओ) वीर्यं वा इन्द्रः_
(ग्ब्र्_2,6.7प्) ब्रह्म बृहस्पतिः
(ग्ब्र्_2,6.7q) पशव उक्थानि
(ग्ब्र्_2,6.7र्) वीर्येणैव तद् ब्रह्मणा चोभयतः पशून् परिगृह्णाति
(ग्ब्र्_2,6.7स्) स्थित्यै_
(ग्ब्र्_2,6.7त्) अनपक्रान्त्यै_
(ग्ब्र्_2,6.7उ) ऐन्द्रीष्व् अच्छावाकस्योक्थं प्रणयन्ति
(ग्ब्र्_2,6.7व्) वीर्यं वा इन्द्रः_
(ग्ब्र्_2,6.7w) वीर्येणैवास्मै तत् प्रणयन्ति_
(ग्ब्र्_2,6.7x) ऐन्द्रावैष्णवम् अनुशस्यते
(ग्ब्र्_2,6.7य्) वीर्यं वा इन्द्रः_
(ग्ब्र्_2,6.7z) यज्ञो विष्णुः
(ग्ब्र्_2,6.7अअ) पशव उक्थानि
(ग्ब्र्_2,6.7ब्ब्) वीर्येणैव तद् यज्ञेन चोभयतः पशून् परिगृह्य क्षत्रे ऽन्ततः प्रतिष्ठापयति
(ग्ब्र्_2,6.7च्च्) तस्माद् उ क्षत्रियो भूयिष्ठं हि पशूनाम् ईशते [एद्. भुयिष्ठं, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.7द्द्) याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास्
(ग्ब्र्_2,6.7एए) तान्य् एतान्य् ऐन्द्राणि जागतानि शंसन्ति_
(ग्ब्र्_2,6.7ff) अथो एतैर् एव सेन्द्रं तृतीयसवनम् एतैर् जागतं सवनम्_
(ग्ब्र्_2,6.7ग्ग्) धराणि ह वा अस्यैतान्य् उक्थानि भवन्ति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत्
(ग्ब्र्_2,6.7ह्ह्) तस्मात् तानि सार्धम् एवोपेयुः
(ग्ब्र्_2,6.7इइ) सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति
(ग्ब्र्_2,6.7ज्ज्) ये ह वा एतानि नानूपेयुर् यथा रेतः सिक्तं विलुम्पेत् कुमारं वा जातम् अङ्गशो विभजेत् तादृक् तत्
(ग्ब्र्_2,6.7क्क्) तस्मात् तानि सार्धम् एवोपेयुः
(ग्ब्र्_2,6.7ल्ल्) सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति
(ग्ब्र्_2,6.7म्म्) शिल्पानि शंसति देवशिल्पानि_
(ग्ब्र्_2,6.7न्न्) एतेषां वै शिल्पानाम् अनुकृतीह शिल्पम् अधिगम्यते
(ग्ब्र्_2,6.7ओओ) हस्ती कंसो वासो हिरण्यम् अश्वतरीरथः शिल्पम्_
(ग्ब्र्_2,6.7प्प्) शिल्पं हास्य समधिगम्यते य एवं वेद
(ग्ब्र्_2,6.7qq) यद् एव शिल्पानि शंसति तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,6.7र्र्) यद् व् एव शिल्पान्य् आत्मसंस्कृतिर् वै शिल्पानि_
(ग्ब्र्_2,6.7स्स्) आत्मानम् एवास्य तत् संस्कुर्वन्ति
(ग्ब्र्_2,6.8अ) नाभानेदिष्ठं शंसति
(ग्ब्र्_2,6.8ब्) रेतो वै नाभानेदिष्ठः_
(ग्ब्र्_2,6.8च्) रेत एवास्य तत् कल्पयति
(ग्ब्र्_2,6.8द्) तद् रेतोमिश्रं भवति
(ग्ब्र्_2,6.8ए) <क्ष्मया रेतः संजग्मानो नि षिञ्चत् [ऋव् 10.61.7ब्]>_इति
(ग्ब्र्_2,6.8f) रेतसः समृद्ध्या एव
(ग्ब्र्_2,6.8ग्) तं सनारशंसं शंसति
(ग्ब्र्_2,6.8ह्) प्रजा वै नरः_
(ग्ब्र्_2,6.8इ) वाक् शंसः
(ग्ब्र्_2,6.8ज्) प्रजासु तद् वाचं दधाति
(ग्ब्र्_2,6.8क्) तस्माद् इमाः प्रजा वदन्त्यो जायन्ते
(ग्ब्र्_2,6.8ल्) तं हैके पुरस्तात् प्रगाथानां शंसन्ति पुरुस्तादायतना वाग् इति वदन्तः_
(ग्ब्र्_2,6.8म्) उपरिष्टाद् एक उपरिष्टादायतना वाग् इति वदन्तः_
(ग्ब्र्_2,6.8न्) मध्य एव शंसेत्_
(ग्ब्र्_2,6.8ओ) मध्यायतना वा इयं वाक्_
(ग्ब्र्_2,6.8प्) उपरिष्टान् नेदीयसीव
(ग्ब्र्_2,6.8q) तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति_
(ग्ब्र्_2,6.8र्) एतस्य त्वं प्राणान् कल्पयेति
(ग्ब्र्_2,6.8स्) वालखिल्याः शंसति
(ग्ब्र्_2,6.8त्) प्राणा वै वालखिल्याः
(ग्ब्र्_2,6.8उ) प्राणान् एवास्य तत् कल्पयति
(ग्ब्र्_2,6.8व्) ता विहृताः शंसति
(ग्ब्र्_2,6.8w) विहृता वै प्राणाः
(ग्ब्र्_2,6.8x) प्राणेनापानः_
(ग्ब्र्_2,6.8य्) अपानेन व्यानः
(ग्ब्र्_2,6.8z) स पच्छः प्रथमे सूक्ते विहरति_
(ग्ब्र्_2,6.8अअ) अर्धर्चशो द्वितीये_ [एद्. द्वितिये, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.8ब्ब्) ऋक्शः तृतीये
(ग्ब्र्_2,6.8च्च्) स यत् प्रथमे सूक्ते विहरति वाचं चैव तन् मनश् च विहरति
(ग्ब्र्_2,6.8द्द्) यद् द्वितीये चक्षुश् चैव तच् छ्रोत्रं च विहरति
(ग्ब्र्_2,6.8एए) यत् तृतीये प्राणां चैव तद् आत्मानं च विहरति
(ग्ब्र्_2,6.8ff) तद् उपाप्तो विहरेत् कामः_
(ग्ब्र्_2,6.8ग्ग्) नेतुर् वै प्रगाथाः कल्पन्ते_
(ग्ब्र्_2,6.8ह्ह्) अतिमर्शम् एव विहरेत्
(ग्ब्र्_2,6.8इइ) तथा वै प्रगाथाः कल्पन्ते
(ग्ब्र्_2,6.8ज्ज्) यद् एवातिमर्शं तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,6.8क्क्) यद् व् एवातिमर्शम् आत्मा वै बृहती
(ग्ब्र्_2,6.8ल्ल्) प्राणाः सतोबृहती
(ग्ब्र्_2,6.8म्म्) स बृहतीम् अशंसीत्
(ग्ब्र्_2,6.8न्न्) स आत्मा_
(ग्ब्र्_2,6.8ओओ) अथ सतोबृहतीम्_
(ग्ब्र्_2,6.8प्प्) ते प्राणाः_
(ग्ब्र्_2,6.8qq) अथ बृहतीम्
(ग्ब्र्_2,6.8र्र्) अथ सतोबृहतीम्_
(ग्ब्र्_2,6.8स्स्) तद् आत्मानं प्राणैः परिवृहन्न् एति
(ग्ब्र्_2,6.8त्त्) यद् व् एवातिमर्शम् आत्मा वै बृहती
(ग्ब्र्_2,6.8उउ) प्रजाः सतोबृहती
(ग्ब्र्_2,6.8व्व्) स बृहतीम् अशंसीत्
(ग्ब्र्_2,6.8ww) स आत्मा_
(ग्ब्र्_2,6.8xx) अथ सतोबृहतीम्_
(ग्ब्र्_2,6.8य्य्) ते प्रजाः_
(ग्ब्र्_2,6.8zz) अथ बृहतीम्
(ग्ब्र्_2,6.8अअअ) अथ सतोबृहतीम्_
(ग्ब्र्_2,6.8ब्ब्ब्) तद् आत्मानं प्रजया परिवृहन्न् एति
(ग्ब्र्_2,6.8च्च्च्) यद् व् एवातिमर्शम् आत्मा वै बृहती
(ग्ब्र्_2,6.8द्द्द्) पशवः सतोबृहती
(ग्ब्र्_2,6.8एएए) स बृहतीम् अशंसीत्
(ग्ब्र्_2,6.8fff) स आत्मा_
(ग्ब्र्_2,6.8ग्ग्ग्) अथ सतोबृहतीम्_
(ग्ब्र्_2,6.8ह्ह्ह्) ते पशवः_
(ग्ब्र्_2,6.8इइइ) अथ बृहतीम्
(ग्ब्र्_2,6.8ज्ज्ज्) अथ सतोबृहतीम्_
(ग्ब्र्_2,6.8क्क्क्) तद् आत्मानं पशुभिः परिवृहन्न् एति
(ग्ब्र्_2,6.8ल्ल्ल्) तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति_
(ग्ब्र्_2,6.8म्म्म्) एतस्य त्वं प्रजनयेति
(ग्ब्र्_2,6.8न्न्न्) सुकीर्तिं शंसति
(ग्ब्र्_2,6.8ओओओ) देवयोनिर् वै सुकीर्तिस्
(ग्ब्र्_2,6.8प्प्प्) तद् यज्ञियायां देवयोन्यां यजमानं प्रजनयति
(ग्ब्र्_2,6.8qqq) वृषाकपिं शंसति_
(ग्ब्र्_2,6.8र्र्र्) आत्मा वै वृषाकपिः_
(ग्ब्र्_2,6.8स्स्स्) आत्मानम् एवास्य तत् कल्पयति
(ग्ब्र्_2,6.8त्त्त्) तं न्यूङ्खयति_
(ग्ब्र्_2,6.8उउउ) अन्नं वै न्यूङ्खः_
(ग्ब्र्_2,6.8व्व्व्) अन्नाद्यम् एवास्मै तत् संप्रयच्छति यथा कुमाराय जाताय स्तनम्_
(ग्ब्र्_2,6.8www) स पाङ्क्तो भवति
(ग्ब्र्_2,6.8xxx) पाङ्क्तो ह्य् अयं पुरुषः पञ्चधा विहितः_
(ग्ब्र्_2,6.8य्य्य्) लोमानि त्वग् अस्थि मज्जा मस्तिष्कम्_
(ग्ब्र्_2,6.8zzz) स यावान् एव पुरुषस् तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति_
(ग्ब्र्_2,6.8अअअअ) एतस्य त्वं प्रतिष्ठा कल्पयेति_
(ग्ब्र्_2,6.8ब्ब्ब्ब्) एवयामरुतं शंसति
(ग्ब्र्_2,6.8च्च्च्च्) प्रतिष्ठा वा एवयामरुत्
(ग्ब्र्_2,6.8द्द्द्द्) प्रतिष्ठायाम् एवैनम् अन्ततः प्रतिष्ठापयति
(ग्ब्र्_2,6.8एएएए) याज्यया यजति_
(ग्ब्र्_2,6.8ffff) अन्नं वै याज्या_
(ग्ब्र्_2,6.8ग्ग्ग्ग्) अन्नाद्यम् एवास्मै तत् संप्रयच्छति
(ग्ब्र्_2,6.9अ) तानि वा एतानि सहचराणीत्य् आचक्षते यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत्
(ग्ब्र्_2,6.9ब्) तानि सह वा शंसेत् सह वा न शंसेत्_
(ग्ब्र्_2,6.9च्) यद् एषाम् अन्तरीयात् तद् यजमानस्यान्तरीयात्_
(ग्ब्र्_2,6.9द्) यदि नाभानेदिष्ठं रेतो ऽस्यान्तरीयात्_
(ग्ब्र्_2,6.9ए) यदि वालखिल्याः प्राणान् अस्यान्तरीयात्_
(ग्ब्र्_2,6.9f) यदि वृषाकपिम् आत्मानम् अस्यान्तरीयात्_
(ग्ब्र्_2,6.9ग्) यद्य् एवायामरुतं प्रतिष्ठा वा एवयामरुत् प्रतिष्ठाया एवैनं तं श्रावयेद् दैव्याश् च मानुष्याश् च
(ग्ब्र्_2,6.9ह्) तानि सह वा शंसेत् सह वा न शंसेत्
(ग्ब्र्_2,6.9इ) स ह बुडिल आश्वितरास्युर् विश्वजितो होता सन्न् ईक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुर् उक्थे माध्यंदिनम् अभिप्रच्यवेते
(ग्ब्र्_2,6.9ज्) हन्ताहम् इत्थम् एवायापरुतं शंसयानीति
(ग्ब्र्_2,6.9क्) तद् ध तथा शंसयां चक्रे
(ग्ब्र्_2,6.9ल्) तद् ध तथा शस्यमाने गोश्ल आजगम
(ग्ब्र्_2,6.9म्) स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति
(ग्ब्र्_2,6.9न्) किं ह्य् अभूद् इति_
(ग्ब्र्_2,6.9ओ) एवयामरुद् अयम् उत्तरतः शस्यत इति
(ग्ब्र्_2,6.9प्) स होवाचैन्द्रो वै माध्यंदिनः
(ग्ब्र्_2,6.9q) कथेन्द्रं माध्यंदिनान् निनीषसीति
(ग्ब्र्_2,6.9र्) नेन्द्रं माध्यंदिनान् निनीषामीति स होवाच
(ग्ब्र्_2,6.9स्) छन्दस् त्व् इदम् अमाध्यंदिनंसाचि
(ग्ब्र्_2,6.9त्) जागतं वातिजागतं वा
(ग्ब्र्_2,6.9उ) स उ मारुतः_
(ग्ब्र्_2,6.9व्) मैवं संमृष्टेति
(ग्ब्र्_2,6.9w) स होवाचारमाच्छावाकेति_
(ग्ब्र्_2,6.9x) अथास्मिन्न् अनुशासनम् ईषे
(ग्ब्र्_2,6.9य्) स होवाचैन्द्रम् एष विष्णुन्यङ्गानि शंसति_
(ग्ब्र्_2,6.9z) अथ त्वं होतुर् उपरिष्टाद् रौद्रिया धाय्यायाः पुरस्तान् मारुतस्य सूक्तस्याप्यस्यथा इति
(ग्ब्र्_2,6.9अअ) तथेति
(ग्ब्र्_2,6.9ब्ब्) तद् अप्य् एतर्हि तथैव शस्यते
(ग्ब्र्_2,6.9च्च्) यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथम् अत्राशस्त एव नाभानेदिष्ठो भवत्य् अथ वालखिल्याः शंसति
(ग्ब्र्_2,6.9द्द्) रेतो वा अग्रे ऽथ प्राणाः_
(ग्ब्र्_2,6.9एए) एवं ब्राह्मणाच्छंसी_
(ग्ब्र्_2,6.9ff) अशस्त एव नाभानेदिष्ठो भवत्य् अथ वृषाकपिं शंसति
(ग्ब्र्_2,6.9ग्ग्) रेतो वा अग्रे ऽथात्मा कथम् अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति
(ग्ब्र्_2,6.9ह्ह्) यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति
(ग्ब्र्_2,6.9इइ) स यथा गर्भो योन्याम् अन्तर् एव प्राणान् अस्यान्तरियात्_
(ग्ब्र्_2,6.9ज्ज्) यदि वृषाकपिम् आत्मानम् अस्यान्तरियाद् यद्य् एव या संभवञ् छेते
(ग्ब्र्_2,6.9क्क्) न ह वै सकृद् एवाग्रे सर्वं संभवति_
(ग्ब्र्_2,6.9ल्ल्) एकैकं वा अङ्गं संभवतः संभवति
(ग्ब्र्_2,6.9म्म्) सर्वाणि चेत् समाने ऽहनि क्रियेरन् कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः_
(ग्ब्र्_2,6.9न्न्) अथ हैवैवयामरुतं होता शंसेत्
(ग्ब्र्_2,6.9ओओ) तद् यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.9प्प्) तस्याम् एवैनम् अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति
[एद्. प्रतिस्थापयति 2x, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.10अ) देवक्षेत्रं वै षष्ठम् अहः_
(ग्ब्र्_2,6.10ब्) देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठम् अहर् आगच्छन्ति
(ग्ब्र्_2,6.10च्) न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुर् ऋतोर् गृहे वसतीत्य् आहुस्
(ग्ब्र्_2,6.10द्) तद् यथायथम् ऋत्विज ऋतुयाजान् यजन्त्य् असंप्रदायम्_
(ग्ब्र्_2,6.10ए) तद् यद् ऋतून् कल्पयन्ति यथायथं जनिता
(ग्ब्र्_2,6.10f) तद् आहुर् नर्तुप्रैषैः प्रेष्येयुर् नर्तुप्रैषैर् वषट्कुर्युः_
(ग्ब्र्_2,6.10ग्) वाग् वा ऋतुप्रैषाः_
(ग्ब्र्_2,6.10ह्) आप्यते वै वाक् षष्ठे ऽहनीति
(ग्ब्र्_2,6.10इ) यद् ऋतुप्रैषैः प्रेष्येयुर् यद् ऋतुप्रैषैर् वषट्कुर्युर् वाचम् एव तदाप्तां शान्ताम् ऋक्णवतीं वहरावणीम् ऋच्छेयुः_ [एद्. ऋक्तवतीं, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.10ज्) अच्युताद् यज्ञस्य च्यवेरन्
(ग्ब्र्_2,6.10क्) यज्ञात् प्राणात् प्रजायाः पशुभ्यो जिह्मा ईयुस् [एद्. प्राणान्, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.10ल्) तस्माद् ऋग्मेभ्य एव प्रेषितव्यम्
(ग्ब्र्_2,6.10म्) ऋग्मेभ्यो ऽधि वषट्कृत्यम्_
(ग्ब्र्_2,6.10न्) तन् न वाचम् आप्तां शान्ताम् ऋक्तवतीं वहरावणीम् ऋच्छन्ति
(ग्ब्र्_2,6.10ओ) नाच्युताद् यज्ञस्य च्यवेरन्
(ग्ब्र्_2,6.10प्) न यज्ञात् प्राणान् प्रजायाः पशुभ्यो जिह्मा यन्ति
(ग्ब्र्_2,6.10q) पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम्_
(ग्ब्र्_2,6.10र्) रोहितं वै नामैतच् छन्दो यत् पारुच्छेपम्
(ग्ब्र्_2,6.10स्) एतेन ह वा इन्द्रः सप्त स्वर्गांल् लोकान् आरोहत्_
(ग्ब्र्_2,6.10त्) आरोहति सप्त स्वर्गांल् लोकान् य एवं वेद
(ग्ब्र्_2,6.10उ) तद् आहुर् यत् पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात् सप्तपदाः षष्ठे ऽहनि शस्यन्त इति
(ग्ब्र्_2,6.10व्) षड्भिर् एव पदैः षष्ठम् अहर् अवाप्नुवन्त्य् अवछिद्येवैतद् अहर् यत् सप्तमम्_
(ग्ब्र्_2,6.10w) तद् एव सप्तमेन पदेनाभ्यारुह्या वसन्ति
(ग्ब्र्_2,6.10x) संततैस् त्र्यहैर् अव्यवछिन्नैर् यन्ति य एवंविद्वांस उपयन्ति
(ग्ब्र्_2,6.11अ) देवासुरा वा एषु लोकेषु समयतन्त
(ग्ब्र्_2,6.11ब्) ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्यो ऽसुरान् पराणुदन्त
(ग्ब्र्_2,6.11च्) तेषां यान्य् अन्तर्हस्तानि वसून्य् आसंस् तान्य् आदाय समुद्रं प्रारूप्यन्त
(ग्ब्र्_2,6.11द्) तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्य् आददत
(ग्ब्र्_2,6.11ए) तद् एवैतत् पदं पुनःपदम्
(ग्ब्र्_2,6.11f) स एवाङ्कुश आकुञ्चनाय_
(ग्ब्र्_2,6.11ग्) आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद
(ग्ब्र्_2,6.11ह्) द्यौर् वै देवता षष्ठम् अहर् वहति
(ग्ब्र्_2,6.11इ) त्रयस्त्रिंश स्तोमः_
(ग्ब्र्_2,6.11ज्) रैवतं साम_
(ग्ब्र्_2,6.11क्) अतिच्छन्दश् छन्दः_
(ग्ब्र्_2,6.11ल्) यथादेवतम् एनेन यथास्तोमं यथासाम यथाछन्दसम् ऋध्नोति य एवं वेद
(ग्ब्र्_2,6.11म्) यद् वै समानोदर्कं तत् षष्ठस्याह्नो रूपम्_
(ग्ब्र्_2,6.11न्) यद्य् एव प्रथमम् अहस् तद् उत्तमम् अहस्
(ग्ब्र्_2,6.11ओ) तद् एवैतत् पदं पुनर् यत् षष्ठं यद् अश्ववद् यद् रथवद् यत् पुनरावृत्तं यत् पुनर् निवृत्तं यद् अन्तरूपं यद् असौ लोको ऽभ्युदितो यन् नाभानेदिष्ठं यत् पारुच्छेपं यन् नाराशंसं यद् द्वैपदा यत् सप्तपदा यत् कृतं यद् रैवतं तत् तृतीयस्याह्नो रूपम्
(ग्ब्र्_2,6.11प्) एतानि वै षष्ठस्याह्नो रूपाणि
(ग्ब्र्_2,6.11q) छन्दसाम् उ ह षष्ठेनाह्नाक्तानां रसो ऽत्यनेदत्
(ग्ब्र्_2,6.11र्) तं प्रजापतिर् उदानान् नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा_ [एद्. गयत्र्या]
(ग्ब्र्_2,6.11स्) एतानि वै छन्दांसि षष्ठे ऽहनि शस्तानि भवन्त्य् अयातयामानि
(ग्ब्र्_2,6.11त्) छनदसाम् एव तत् सरसताया अयातयामतायै
(ग्ब्र्_2,6.11उ) सरसानि हास्य छन्दांसि षष्ठे ऽहनि शस्तानि भवन्ति
(ग्ब्र्_2,6.11व्) सरसैश् छन्दोभिर् इष्टं भवति सरसैश् छन्दोभिर् यज्ञं तनुते य एवं वेद
(ग्ब्र्_2,6.12अ) अथ यद् द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [ऋव् 10.157.1, श्स् 20.63.1, 20.124.4]>_इति
(ग्ब्र्_2,6.12ब्) द्विपाद् वै पुरुषः_
(ग्ब्र्_2,6.12च्) द्विप्रतिष्ठः पुरुषः
(ग्ब्र्_2,6.12द्) पुरुषो वै यज्ञस्
(ग्ब्र्_2,6.12ए) तस्माद् द्वैपदौ स्तोत्रियानुरूपौ भवतः_
(ग्ब्र्_2,6.12f) अथ सुकीर्तिं शंसत्य् <अपेन्द्र प्राचो मघवन्न् अमित्रान् [प्स् 19.16.8अ, श्स् 20.125.1अ, सकलपाठ अत् 2.6.4]> इति
(ग्ब्र्_2,6.12ग्) देवयोनिर् वै सुकीर्तिः
(ग्ब्र्_2,6.12ह्) स य एवम् एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान् स्वर्गे लोके प्रतितिष्ठति
(ग्ब्र्_2,6.12इ) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद_
(ग्ब्र्_2,6.12ज्) अथ वृषाकपिं शंसति <वि हि सोतोर् असृक्षत [ऋव् 10.86.1, श्स् 10.126.1]>_इति_
(ग्ब्र्_2,6.12क्) आदित्यो वै वृषाकपिस्
(ग्ब्र्_2,6.12ल्) तद् यत् कम्पयमानो रेतो वर्षति तस्माद् वृषाकपिस्
(ग्ब्र्_2,6.12म्) तद् वृषाकपेर् वृषाकपित्वम्_
(ग्ब्र्_2,6.12न्) वृषाकपिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद
(ग्ब्र्_2,6.12ओ) तस्य तृतीयेषु पादेष्व् आद्यन्तयोर् न्यूङ्खनिनर्दान् करोति_
(ग्ब्र्_2,6.12प्) अन्नं वै न्यूङ्खः_ [एद्. न्युङ्खो, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.12q) बलं निनर्दः_
(ग्ब्र्_2,6.12र्) अन्नाद्यम् एवास्मै तद् बले निदधाति_
(ग्ब्र्_2,6.12स्) अथ कुन्तापं शंसति
(ग्ब्र्_2,6.12त्) कुयं ह वै नाम कुत्सितं भवति
(ग्ब्र्_2,6.12उ) तद् यत् तपति तस्मात् कुन्तापास्
(ग्ब्र्_2,6.12व्) तत् कुन्तापानां कुन्तापत्वम्_
(ग्ब्र्_2,6.12w) तप्यन्ते ऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति
(ग्ब्र्_2,6.12x) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_2,6.12य्) तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति
(ग्ब्र्_2,6.12z) ताः प्रग्राहं शंसति यथा वृषाकपिम्_
(ग्ब्र्_2,6.12अअ) वार्षरूपं हि
(ग्ब्र्_2,6.12ब्ब्) वृषाकपेस् तन् न्यायम् एत्य् एव_
(ग्ब्र्_2,6.12च्च्) अथ रैभीः शंसति
(ग्ब्र्_2,6.12द्द्) <वच्यस्व रेभ वच्यस्व [ऋव्ख् 5.9.1, श्स् 20.127.4]>_इति
(ग्ब्र्_2,6.12एए) रेभन्तो वै देवाश् चर्षयश् च स्वर्गं लोकम् आयन्_
(ग्ब्र्_2,6.12ff) तथैवैतद् यजमाना रेभन्त एव स्वर्गं लोकं यन्ति
(ग्ब्र्_2,6.12ग्ग्) ताः प्रग्राहम् एत्य् एव_
(ग्ब्र्_2,6.12ह्ह्) अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति
(ग्ब्र्_2,6.12इइ) संवत्सरो वै परिक्षित्
(ग्ब्र्_2,6.12ज्ज्) संवत्सरो हीदं सर्वं परिक्षियतीति_
(ग्ब्र्_2,6.12क्क्) अथो खल्व् आहुर् अग्निर् वै परिक्षित्_
(ग्ब्र्_2,6.12ल्ल्) अग्निर् हीदं सर्वं परिक्षियतीति_
(ग्ब्र्_2,6.12म्म्) अथो खल्व् आहुर् गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस् तद् यथा कुर्यात्_
(ग्ब्र्_2,6.12न्न्) गाथा एवैताः शस्ता भवन्ति
(ग्ब्र्_2,6.12ओओ) यद्य् उ वै गाथा अग्नेर् एव गाथाः संवत्सरस्य वेति ब्रूयात्_
(ग्ब्र्_2,6.12प्प्) यद्य् उ वै मन्त्रो ऽग्निर् एव मन्त्रः संवत्सरस्य वेति ब्रूयात्
(ग्ब्र्_2,6.12qq) ताः प्रग्राहम् एत्य् एव_
(ग्ब्र्_2,6.12र्र्) अथ कारव्याः शंसति_<इन्द्रः कारुम् अबूबुधत् [ऋव्ख् 5.11.1, श्स् 20.127.11]>_इति
(ग्ब्र्_2,6.12स्स्) यद् एव देवाः कल्याणं कर्माकुर्वंस् तत् कारव्याभिर् अवाप्नुवन्_
(ग्ब्र्_2,6.12त्त्) तथैवैतद् यजमाना यद् एव देवाः कल्याणं कर्म कुर्वन्ति तत् कारव्याभिर् अवाप्नुवन्ति
(ग्ब्र्_2,6.12उउ) ताः प्रग्राहम् इत्य् एव_
(ग्ब्र्_2,6.12व्व्) अथ दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [ऋव्ख् 5.12.1, श्स् 20.128.1]>_इति जनकल्पा उत्तराः शंसति <यो ऽनाक्ताक्षो अनभ्यक्तः [ऋव्ख् 5.13.1, श्स् 20.128.6]>_इति_
(ग्ब्र्_2,6.12ww) ऋतवो वै दिशः प्रजननस्
(ग्ब्र्_2,6.12xx) तद् यद् दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [ऋव्ख् 5.12.1, श्स् 20.128.1]>_इति जनकल्पा उत्तराः शंसत्य् ऋतून् एव तत् कल्पयति_
(ग्ब्र्_2,6.12य्य्) ऋतुषु प्रतिष्ठापयति
(ग्ब्र्_2,6.12zz) प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति
(ग्ब्र्_2,6.12अअअ) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_2,6.12ब्ब्ब्) ता अर्धर्चशः शंसति
(ग्ब्र्_2,6.12च्च्च्) प्रतिष्ठित्या एव_
(ग्ब्र्_2,6.12द्द्द्) अथेन्द्रगाथाः शंसति <यद् इन्द्रादो दाशराज्ञे [ऋव्ख् 5.14.1, श्स् 20.128.12]>_इति_
(ग्ब्र्_2,6.12एएए) इन्द्रगाथाभिर् ह वै देवा असुरान् आगायाथैनान् अत्यायन्_
(ग्ब्र्_2,6.12fff) तथैवैतद् यजमाना इन्द्रगाथाभिर् एवाप्रियं भ्रातृव्यम् आगायाथैनम् अतियन्ति
(ग्ब्र्_2,6.12ग्ग्ग्) ता अर्धर्चशः शंसति
(ग्ब्र्_2,6.12ह्ह्ह्) प्रतिष्ठित्या एव
(ग्ब्र्_2,6.13अ) अथैतशप्रलापं शंसत्य् <एता अश्वा आ प्लवन्ते [ऋव्ख् 5.15.1, श्स् 20.129.1]>_इति_
(ग्ब्र्_2,6.13ब्) ऐतशो ह मुनिर् यज्ञस्यायुर् ददर्श
(ग्ब्र्_2,6.13च्) स ह पुत्रान् उवाच पुत्रका यज्ञस्यायुर् अभिददर्शम्_
(ग्ब्र्_2,6.13द्) तद् अभिलपिष्यामि मा मा दृप्तं मन्यध्वम् इति
(ग्ब्र्_2,6.13ए) तथेति
(ग्ब्र्_2,6.13f) तद् अभिललाप
(ग्ब्र्_2,6.13ग्) तस्य हाभ्यग्निर् ऐतशायनो ज्येष्ठः पुत्रो ऽभिद्रुत्य मुखम् अपिजग्राह ब्रुवन् दृप्तो नः पितेति
(ग्ब्र्_2,6.13ह्) स होवाच धिक् त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर् यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गाम् अकरिष्यं सहस्रायुषं पुरुषम् इति
(ग्ब्र्_2,6.13इ) तस्माद् अभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया
(ग्ब्र्_2,6.13ज्) यद् ऐतशप्रलापस् तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,6.13क्) यद् व् एवैतशप्रलापो ऽयातयामा वा अक्षितिर् ऐतशप्रलापः_ [एद्. ऐतशैतशप्रलापो]
(ग्ब्र्_2,6.13ल्) अयातयामा मे यज्ञो ऽसद् अक्षितिर् मे यज्ञो ऽसद् इति
(ग्ब्र्_2,6.13म्) तं वा एतम् ऐतशप्रलापं शंसति पदावग्राहम्_ [एद्. वा ऐतशैतशप्रलापं]
(ग्ब्र्_2,6.13न्) तासाम् उत्तमेन पदेन प्रणौति यथा निविदः_ [एद्. प्राणौति, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.13ओ) अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [ऋव्ख् 5.16.1, श्स् 20.133.1]>_इति प्रतिराधान् उत्तरान् शंसति <भुग् इत्य् अभिगतः [ऋव्ख् 5.18.1, श्स् 20.135.1]>_इति [एद्. प्रतिराधानुत्तरान्ः]
(ग्ब्र्_2,6.13प्) प्रवल्हिकाभिर् ह वै देवा असुराणां रसान् प्रववृहुस्
(ग्ब्र्_2,6.13q) तद् यथाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् तस्मात् प्रवल्हिकास्
(ग्ब्र्_2,6.13र्) तत् प्रवल्हिकानां प्रवल्हिकात्वम्_
(ग्ब्र्_2,6.13स्) ता वै प्रतिराधैः प्रत्यराध्नुवन्_
(ग्ब्र्_2,6.13त्) तद् यत् प्रतिराधैः प्रत्यराध्नुवंस् तस्मात् प्रतिराधास्
(ग्ब्र्_2,6.13उ) तत् प्रतिराधानां प्रतिराधत्वम्_
(ग्ब्र्_2,6.13व्) प्रवल्हिकाभिर् एव द्विषतां भ्रातृव्याणां रसान् प्रवल्हिकास्
(ग्ब्र्_2,6.13w) ता वै प्रतिराधैः प्रतिराध्नुवन्ति
(ग्ब्र्_2,6.13x) ताः प्रग्राहम् इत्य् एव_
(ग्ब्र्_2,6.13य्) अथाजिज्ञासेन्याः शंसति_<इहेत्थ प्राग् अपाग् उदग् अधराक् [ऋव्ख् 5.17.1, श्स् 20.134.1]>_इति_ [एद्. उदाग्, चोर्रेच्तेद् प्. 303]
(ग्ब्र्_2,6.13z) आजिज्ञासेन्याभिर् ह वै देवा असुरान् आज्ञायाथैनान् अत्यायन्_
(ग्ब्र्_2,6.13अअ) तथैवैतद् यजमाना आजिज्ञासेन्याभिर् एवाप्रियं भ्रातृव्यम् आज्ञायाथैनम् अतियन्ति
(ग्ब्र्_2,6.13ब्ब्) ता अर्धर्चशः शंसति
(ग्ब्र्_2,6.13च्च्) प्रतिष्ठित्या एव_
(ग्ब्र्_2,6.13द्द्) अथातिवादं शंसति <वीमे देवा अक्रंसत [ऋव्ख् 5.19.1, श्स् 20.135.4]>_इति
(ग्ब्र्_2,6.13एए) श्रीर् वा अतिवादस्
(ग्ब्र्_2,6.13ff) तम् एकर्चं शंसति_
(ग्ब्र्_2,6.13ग्ग्) एकस् ता वै श्रीस्
(ग्ब्र्_2,6.13ह्ह्) तां वै विरेभं शंसति
(ग्ब्र्_2,6.13इइ) विरेभैः श्रियं पुरुषो वहतीति
(ग्ब्र्_2,6.13ज्ज्) ताम् अर्धर्चशः शंसति
(ग्ब्र्_2,6.13क्क्) प्रतिष्ठित्या एव
(ग्ब्र्_2,6.14अ) अथादित्याश् चाङ्गिरसीश् च शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो अदक्षिणाम् अनयन् [ऋव्ख् 5.20.1, श्स् 20.135.6]>_इति
(ग्ब्र्_2,6.14ब्) तद् देवनीथम् इत्य् आचक्षते_
(ग्ब्र्_2,6.14च्) आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति
(ग्ब्र्_2,6.14द्) ते हाङ्गिरसः श्वःसुत्यां ददृशुस्
(ग्ब्र्_2,6.14ए) ते हाग्निम् ऊचुः परेह्य् आदित्येभ्यः श्वःसुत्यां प्रब्रूहीति_
(ग्ब्र्_2,6.14f) अथादित्या अद्यसुत्यां ददृशुस्
(ग्ब्र्_2,6.14ग्) ते हाग्निम् ऊचुर् अद्यसुत्यास्माकम्_
(ग्ब्र्_2,6.14ह्) तेषां नस् त्वं होतासीत्य् उपेमस् त्वाम् इति
(ग्ब्र्_2,6.14इ) स एत्याग्निर् उवाचाथादित्या अद्यसुत्याम् ईक्षन्ते कं वो होतारम् अवोचन् वाह्वयन्ते युष्माकं वयम् इति
(ग्ब्र्_2,6.14ज्) ते हाङ्गिरसश् चुक्रुधुर् मा त्वं गमो नु वयम् इति
(ग्ब्र्_2,6.14क्) नेति हाग्निर् उवाचानिन्द्या वै माह्वयन्ते
(ग्ब्र्_2,6.14ल्) किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति
(ग्ब्र्_2,6.14म्) तस्माद् अतिद्रूरम् अत्यल्पम् इति यजमानस्य हवम् इयाद् एव
(ग्ब्र्_2,6.14न्) किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति
(ग्ब्र्_2,6.14ओ) तान् हादित्यान् अङ्गिरसो याजयां चक्रुस्
(ग्ब्र्_2,6.14प्) तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस्
(ग्ब्र्_2,6.14q) तां ह न प्रतिजगृहुः
(ग्ब्र्_2,6.14र्) सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत् कुपिता मां न प्रत्यग्रहीषुर् इति
(ग्ब्र्_2,6.14स्) तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते
(ग्ब्र्_2,6.14त्) तस्मान् निवृत्तदक्षिणां नोपाकुर्यान् नैनां प्रमृजेत्_
(ग्ब्र्_2,6.14उ) नेद् दक्षिणां प्रमृणजानीति
(ग्ब्र्_2,6.14व्) तस्माद् य एवास्य समानजन्मा भ्रातृव्यः स्याद् वृणहूयुस् तस्मा एनां दद्यात्
(ग्ब्र्_2,6.14w) तन् न पराची दक्षिणा विवृणक्ति
(ग्ब्र्_2,6.14x) द्विषति भ्रातृव्ये ऽन्ततः शुचं प्रतिष्ठापयति यो ऽयौ तपति
(ग्ब्र्_2,6.14य्) स वै शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयंस् तां ह जरितः प्रत्यायन् [ऋव्ख् 5.20.1अब्च्, श्स् 20.135.6अब्च्]>_इति
(ग्ब्र्_2,6.14z) न हीमां पृथिवीं प्रत्यायन्_
(ग्ब्र्_2,6.14अअ) <ताम् उ ह जरितः प्रत्यायन् [ऋव्ख् 5.20.1द्, श्स् 20.135.6द्]>_इति प्रति हि ते ऽमुम् आयन्_
(ग्ब्र्_2,6.14ब्ब्) <तां ह जरितर् नः प्रत्य् अगृभ्णन् [ऋव्ख् 5.20.2अ, श्स् 20.135.7अ]>_इति
(ग्ब्र्_2,6.14च्च्) न हीमां पृथिवीं प्रत्यगृभ्णन्_
(ग्ब्र्_2,6.14द्द्) <ताम् उ ह जरितर् नः प्रत्यगृभ्ण [ऋव्ख् 5.20.2ब्, श्स् 20.135.7ब्]>_इति प्रगृह्यादित्यम् अगृभ्णन्_
(ग्ब्र्_2,6.14एए) <अहानेतरसं न विचेतनानि [ऋव्ख् 5.20.2च्, श्स् 20.135.7च्]>_इत्य् एष ह वा अह्नां विचेता यो ऽसौ तपति
(ग्ब्र्_2,6.14ff) स वै शंसति <यज्ञानेतरसं न पुरोगवासः [ऋव्ख् 5.20.2द्, श्स् 20.135.7द्]>_इति_
(ग्ब्र्_2,6.14ग्ग्) एषा ह वै यज्ञस्य पुरोगवी यद् दक्षिणा
(ग्ब्र्_2,6.14ह्ह्) यथार्हामः स्रस्तम् अतिरेतदन्त्येतेष एवेश्वर उन्नेता
(ग्ब्र्_2,6.14इइ) <उत श्वेत आशुपत्वा उत पद्याभिर् यविष्ठ उतेम् आशु मानं पिपर्ति [ऋव्ख् 5.20.3, श्स् 20.135.8]>_इति_
(ग्ब्र्_2,6.14ज्ज्) एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर् यविष्ठः_
(ग्ब्र्_2,6.14क्क्) <उतेम् आशु मानं पिपर्ति [ऋव्ख् 5.20.3च्, श्स् 20.135.8च्]>_इति_
(ग्ब्र्_2,6.14ल्ल्) <आदित्या रुद्रा वसवस् तेनुत इदं राधः प्रतिगृभ्णीह्य् अङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत् पृथु देवा ददत्वासुरं तद् वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्य् एव गृभायत [ऋव्ख् 5.20.4-5, श्स् 20.135.9-10]>_इति तद् यद् आदित्याश् चाङ्गिरसीश् च शंसति स्वर्गताया एवैतत्_ [एद्. यस्ंआं, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.14म्म्) अहरहः शंसति यथा निविदः_
(ग्ब्र्_2,6.14न्न्) अथ भूतेछदः शंसति <त्वम् इन्द्र शर्म रिणा [ऋव्ख् 5.21.1, श्स् 20.135.11]>_इति
(ग्ब्र्_2,6.14ओओ) इमे वै लोका भूतेछदः_
(ग्ब्र्_2,6.14प्प्) असुरान् ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस् तितीर्षमाणास्
(ग्ब्र्_2,6.14qq) तान् इमे देवाः सर्वेभ्यो भूतेभ्यो ऽछादयन्_
(ग्ब्र्_2,6.14र्र्) तद् यद् एतान् इमे देवाः सर्वेभ्यो ऽछादयंस् तस्माद् भूतेछदस्
(ग्ब्र्_2,6.14स्स्) तद् भूतेछदां भूतेछदत्वम्_
(ग्ब्र्_2,6.14त्त्) छादयन्ति ह वापरम् इमे लोकाः
(ग्ब्र्_2,6.14उउ) सर्वेभ्यो भूतेभ्यो निरघ्नन्_
(ग्ब्र्_2,6.14व्व्) सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद
(ग्ब्र्_2,6.15अ) अथाहनस्याः शंसति <यद् अस्या अंहुभेद्याः [ऋव्ख् 5.22.1, श्स् 20.136.1]>_इति_
(ग्ब्र्_2,6.15ब्) आहनस्याद् वा इदं सर्वं प्रजातम्
(ग्ब्र्_2,6.15च्) आहनस्याद् वा एतद् अधिप्रजायते_
(ग्ब्र्_2,6.15द्) अस्यैव सर्वस्याप्त्यै प्रजात्यै
(ग्ब्र्_2,6.15ए) ता वै षट् शंसेत्
(ग्ब्र्_2,6.15f) षड् वा ऋतवः_
(ग्ब्र्_2,6.15ग्) ऋतवः पितरः
(ग्ब्र्_2,6.15ह्) पितरः प्रजापतिः
(ग्ब्र्_2,6.15इ) प्रजापतिर् आहनस्यास्
(ग्ब्र्_2,6.15ज्) ता दश शंसेद् इति शाम्भव्यस्य वचः_
(ग्ब्र्_2,6.15क्) दशाक्षरा विराट्_
(ग्ब्र्_2,6.15ल्) वैराजो यज्ञस्
(ग्ब्र्_2,6.15म्) तं गर्भा उपजीवन्ति
(ग्ब्र्_2,6.15न्) श्रीर् वै विराट्_
(ग्ब्र्_2,6.15ओ) यशो ऽन्नाद्यम्_
(ग्ब्र्_2,6.15प्) श्रियम् एव तद् विराजं यशस्य् अन्नाद्ये प्रतिष्ठापयति
(ग्ब्र्_2,6.15q) प्रतितिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति
(ग्ब्र्_2,6.15र्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_2,6.15स्) तिस्रः शंसेद् इति वात्स्यस्
(ग्ब्र्_2,6.15त्) त्रिवृद् वै रेतः सिक्तं संभवत्य् आण्डम् उल्वं जरायु
(ग्ब्र्_2,6.15उ) त्रिवृत्प्रत्ययं माता पिता यज् जायते तत् तृतीयम्
(ग्ब्र्_2,6.15व्) अभूतोद्यम् एवैतद् यच् चतुर्थीं शंसेत्
(ग्ब्र्_2,6.15w) सर्वा एव षोडश शंसेद् इति हैके
(ग्ब्र्_2,6.15x) कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.15य्) रेतसः सिक्तात् प्रजाः प्रजायन्ते प्रजानां प्रजननाय
(ग्ब्र्_2,6.15z) प्रजावान् प्रजनयिष्णुर् भवति प्रजात्यै प्रजायते प्रजया पशुभिर् य एवं वेद
(ग्ब्र्_2,6.16अ) अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषम् [ऋव् 4.39.6, ऋव्ख् 5.22.13, श्स् 20.137.3]> इति
(ग्ब्र्_2,6.16ब्) तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [ऋव् 9.101.4, श्स् 20.137.4]>_इत्य् अन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.16च्) पवित्रं पावमान्यस्
(ग्ब्र्_2,6.16द्) तद् उ हैके पावमानीभिर् एव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वाग् अन्नाद्या यः पवत इति वदन्तस्
(ग्ब्र्_2,6.16ए) तद् उ तथा न कूर्याद् उपनश्यति ह वाग् अशनायती
(ग्ब्र्_2,6.16f) स दाधिक्रीम् एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति
(ग्ब्र्_2,6.16ग्) तद् यद् दाधिक्रीं शंसतीयं वाग् आहनस्यां वाचम् अवादीत्
(ग्ब्र्_2,6.16ह्) तद् देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. पत्यल्]
(ग्ब्र्_2,6.16इ) सा वा अनुष्टुब् भवति
(ग्ब्र्_2,6.16ज्) वाग् वा अनुष्टुप्
(ग्ब्र्_2,6.16क्) तत् स्वेनैव छन्दसा वाचं पुनीते
(ग्ब्र्_2,6.16ल्) ताम् अर्धर्चशः शंसति
(ग्ब्र्_2,6.16म्) प्रतिष्ठित्या एव_
(ग्ब्र्_2,6.16न्) अथ पावमानीः शंसति
(ग्ब्र्_2,6.16ओ) पवित्रं वै पावमान्यः_
(ग्ब्र्_2,6.16प्) इयं वाग् आहनस्यां वाचम् अवादीत्
(ग्ब्र्_2,6.16q) तत् पावमानीभिर् एव वाचं पुनीते
(ग्ब्र्_2,6.16र्) ताः सर्वा अनुष्टुभो भवन्ति
(ग्ब्र्_2,6.16स्) वाग् वा अनुष्टुप्
(ग्ब्र्_2,6.16त्) तत् स्वेनैव छन्दसा वाचं पुनीते
(ग्ब्र्_2,6.16उ) ता अर्धर्चशः शंसति
(ग्ब्र्_2,6.16व्) प्रतिष्ठित्या एव_
(ग्ब्र्_2,6.16w) <अव द्रप्सो अंशुमतीम् अतिष्ठत् [ऋव् 8.96.13, श्स् 20.137.7]>_इत्य् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसति_
(ग्ब्र्_2,6.16x) अथ हैतद् उत्सृष्टम्_
(ग्ब्र्_2,6.16य्) तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति सवनधारणम् इदं गुल्मह इति वदन्तस्
(ग्ब्र्_2,6.16z) तद् उ तथा न कुर्यात्
(ग्ब्र्_2,6.16अअ) त्रिष्टुबायतना वा इयं वाग् एषां होत्रकाणां यद् ऐन्द्राबार्हस्पत्या तृतीयसवने
(ग्ब्र्_2,6.16ब्ब्) तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति स्व एवैनं तद् आयतने प्रीणाति स्वयोर् देवतयोः
(ग्ब्र्_2,6.16च्च्) कामं नित्यम् एव परिदध्यात्
(ग्ब्र्_2,6.16द्द्) कामं तृचस्योत्तमया
(ग्ब्र्_2,6.16एए) तद् आहुः संशंसेत् षष्ठे ऽहनि न संशंसेत्
(ग्ब्र्_2,6.16ff) कथम् अन्येष्व् अहःसु संशंसति
(ग्ब्र्_2,6.16ग्ग्) कथम् अत्र न संशंसतीति_
(ग्ब्र्_2,6.16ह्ह्) अथो खल्व् आहुर् नैव संशंसेत्
(ग्ब्र्_2,6.16इइ) स्वर्गौ वै लोकः षष्ठम् अहः_
(ग्ब्र्_2,6.16ज्ज्) असमायी वै स्वर्गो लोकः
(ग्ब्र्_2,6.16क्क्) कश् चिद् वै स्वर्गे लोके शमयतीति
(ग्ब्र्_2,6.16ल्ल्) तस्मान् न संशंसति
(ग्ब्र्_2,6.16म्म्) यद् एव न संशंसति तत् स्वर्गस्य लोकस्य रूपम्_
(ग्ब्र्_2,6.16न्न्) यद् व् एवैनाः संशंसति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुद् एतानि वा अत्रोक्थानि भवन्ति तस्मान् न संशंसति_
(ग्ब्र्_2,6.16ओओ) ऐन्द्रो वृषाकपिः
(ग्ब्र्_2,6.16प्प्) सर्वाणि छन्दांस्य् ऐतशप्रलापः_
(ग्ब्र्_2,6.16qq) उपाप्तो यद् ऐन्द्राबार्हस्पत्या तृतीयसवने तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्य् ऐन्द्राबार्हस्पत्या परिधानीया विशो अदेवीर् अभ्याचरन्तीर् इति_
(ग्ब्र्_2,6.16र्र्) अपरजना ह वै विशो देवीर् न ह्य् अस्यापरजनं भयं भवति
(ग्ब्र्_2,6.16स्स्) शान्ताः प्रजाः कॢप्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणम्
मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0