गीतगोविन्द (अन्य संस्करण) · अध्याय 9
नोते: {व्यपोलयतु वः श्रेयांसि इति नि- पाठः.}
इति श्री-श्री-गीत-गोविन्दे महा-काव्ये खण्डिता-वर्णने
विलक्ष-लक्ष्मीपतिर् नाम
अष्टमः सर्गः
॥8॥
(9)
नवमः सर्गः
मुग्ध-मुकुन्दः
ताम् अथ मन्मथ-खिन्नां रति-रस-भिन्नां विषाद-सम्पन्नाम् ।
अनुचिन्तित-हरि-चरितां कलहान्तरिताम् उवाच रहसि सखी
॥ प्रबन्धः 18 ॥
गुर्जरी-राग-यति-तालाभ्यां गीयते ।
हरिर् अभिसरति वहति मधु-पवने ।
किम् अपरम् अधिक-सुखं सखि भवने
माधवे मा कुरु मानिनि मानम् अये ॥ ध्रुव-पदम् ॥
ताल-फलाद् अपि गुरुम् अतिसरसम् ।
किं विफली-कुरुषे कुच-कलशम्
कति न कथितम् इदम् अनुपदम् अचिरम् ।
मा परिहर हरिम् अतीशय-रुचिरम्
किम् इति विषीदसि रोदिषि विकला ।
विहसति युवती-सभा तव सकला
सजल-नलिनी-दल-शीलित-शयने ।
नोते: {शीतल-}
हरिम् अवलोकय सफलय नयने
जनयसि मनसि किम् इति गुरु-खेदम् ।
शृणु मम वचनम् अनीहित-भेदम्
हरिर् उपयातु वदतु बहु-मधुरम् ।
किम् इति करोषि हृदयम् अतिविधुरम्
श्री-जयदेव-भणितम् अतिललितं ।
सुखयतु रसिक-जनं हरि-चरितं
* * * * *
स्निग्धे यत् परुषासि प्रणमति स्तब्धासि यद् रागिणि द्वेष-स्थासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये ।
तद् युक्तं विपरीत-कारिणि तव श्रीखण्ड-चर्चा विषं शीतांशुस् तपनो हिमं हुतवहः क्रीडा-मुदो यातनाः
सान्द्रानन्द-पुरन्दरादि-दिविषद्-वृन्दैर् अमन्दादराद् आनम्रैर् मुकुटेन्द्र-नील-मणिभिः सन्दर्शितेन्दिन्दिरम् ।
स्वच्छन्दं मकरन्द-सुन्दर-गलन्-मन्दाकिनी-मेदुरं श्री-गोविन्द-पदारविन्दम् अशुभ-स्कन्दाय वन्दामहे
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0