भाषा

ENहिગુ
ग्रंथ पाठ

गीतगोविन्द (अन्य संस्करण) · अध्याय 10

10.1

(10)
दशमः सर्गः
चतुर-चतुर्-भुजः
अत्रान्तरेऽमसृण-रोष-वशाम् अपार-निःश्वास-निःसह-मुखीं सुमुखीम् उपेत्य ।
सव्रीडम् ईक्षित-सखी-वदनां दिनान्ते सानन्द-गद्गद-पदं हरिर् इत्य् उवच

10.2

॥ प्रबन्धः 19 ॥
देशवराडि-रागाष्टाताली-तालाभ्यां गीयते ।
वदसि यदि किञ्चिद् अपि दन्त-रुचि-कौमुदी हरति दर-तिमिरम् अतिघोरम् ।
स्फुरद्-अधर-सीधवे तव वदन-चन्द्रमा रोचयतु लोचन-चकोरं

10.3

प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानं ।
सपदि मदनानलो दहति मम मानसम्
देहि मुख-कमल-मधु-पानं ॥ध्रुव-पदं ॥
सत्यम् एवासि यदि सुदति मयि कोपिनी देहि खर-नखर-शर-घातम् ।
घटय भुज-बन्धनं जनय रद-खण्डनं येन वा भवति सुख-जातं

10.4

त्वम् असि मम भूषणं त्वम् असि मम जीवनं त्वम् असि मम भव-जलधि-रत्नम् ।
भवतु भवतीह मयि सततम् अनुरोधिनी तत्र मम हृदयम् अतियत्नं

10.5

नील-नलिनाभम् अपि तन्वि तव लोचनं धारयति कोकनद-रूपं ।
कुसुम-शर-बाण-भावेन यदि रञ्जयसि कृष्णम् इदम् एतद्-अनुरूपम्

10.6

स्फुरतु कुच-कुम्भयोर् उपरि मणि-मञ्जरी रञ्जयतु तव हृदय-देशम् ।
रसतु रशनापि तव घन-जघन-मण्डले घोषयतु मन्मथ-निदेशम्

10.7

स्थल-कमल-गञ्जनं मम हृदय-रञ्जनं जनित-रति-रङ्ग-परभागम् ।
भण मसृण-वाणि करवाणि चरण-द्वयं सरस-लसद्-अलक्तक-रागम्

10.8

स्मर-गरल-खण्डनं मम शिरसि मण्डनं देहि पद-पल्लवम् उदारम् ।
नोते: {धेहि इति नि- पाठः.}
ज्वलति मयि दारुणो मदन-कदनारुणो हरतु तद्-उपाहित-विकारम्

10.9

इति चटुल-चाटु-पटु-चारु मुर-वैरिणो राधिकाम् अधि वचन-जातम् ।
जयतु जयदेव-कवि-भारती-भूषितं मानिनी-जन-जनित-शातम्

10.10

नोते: {जयति इति पात्ःअः.}
नोते: {जयति पद्मावती-रमण-जयदेव-कवि-भारती-भणितम् अतिशातम् इति टीका-धृत-पाठान्तरः.}
* * * * *
परिहर कृतातङ्के शङ्कां त्वया सततं घन-स्तन-जघनयाक्रान्ते स्वान्ते परानवकाशिनी ।
विशति वितनोर् अन्यो धन्यो न कोऽपि ममान्तरं प्रणयिनि परीरम्भारम्भे विधेहि विधेयताम्

10.11

मुग्धे विधेहि मयि निर्दय-दन्त-दंश-दोर्-वल्लि-बन्ध-निविड-स्तन-पीडनानि ।
चण्डि त्वम् एव मुदम् उद्वह पञ्च-बाण-चाण्डाल-काण्ड-दलनाद् असवः प्रयान्तु

10.12

नोते: {प्रयान्ति}
शशि-मुखि तव भाति भङ्गुर-भ्रूर् युव-जन-मोह-कराल-काल-सर्पी ।
तद्-उदित-भय-भञ्जनाय यूनां त्वद्-अधर-सीधु-सुधैव सिद्ध-मन्त्रः

10.13

व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणि मधुरालापैस् तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखी-भावं तावद् विमुञ्च न मुञ्च मां स्वयम् अतिशय-स्निग्धो मुग्धे प्रियोऽयम् उपस्थितः

10.14

बन्धूक-द्युति-बान्धवोऽयम् अधरः स्निग्धो मधूक-च्छविर् गण्डश् चण्डि चकास्ति नील-नलिन-श्री-मोचनं लोचनम् ।
नासाभ्येति तिल-प्रसून-पदवीं कुन्दाभ-दन्ति प्रिये प्रायस् त्वन्-मुख-सेवया विजयते विश्वं स पुष्पायुधः

10.15

नोते: {सेनयेति टीका-धृत-पाठान्तरः.}
दृशौ तव मदालसे वदनम् इन्दु-सन्दीपनं गतिर् जन-मनोरमा विजित-रम्भं ऊरु-द्वयम् ।
नोते: {विधुत- इति हरिदास-संस्करणे.}
रतिस् तव कलावती रुचिर-चित्र-लेखे भ्रुवाव् अहो विबुध-यौवतं वहसि तन्वि पृथ्वी-गता

10.16

स प्रीतिं तनुतां हरिः कुवलयापीडेन सार्धं रणे राधा-पीन-पयोधर-स्मरण-कृत्-कुम्भेन सम्भेदवान् ।
नोते: {प्रीतिं वस् तनुतां इति हरिदास-संस्करणे.}
यत्र स्विद्यति मीलति क्षणम् अपि क्षिप्रं तद्-आलोकन-व्यामोहेन जितं जितं जितम् अभूत् कंसस्य कोलाहलः

मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc