गीतगोविन्द (अन्य संस्करण) · अध्याय 5
इति श्री-गीत-गोविन्दे स्निग्ध-मधुसूदनो नाम
चतुर्थः सर्गः
॥4॥
(5)
पञ्चमः सर्गः
साकाङ्क्ष-पुण्डरीकाक्षः
अहम् इह निवसामि याहि राधाम् अनुनय मद्-वचनेन चानयेथाः ।
इति मधु-रीपुणा सखी नियुक्ता स्वयम् इदम् एत्य पुनर् जगाद राधाम्
॥ प्रबन्धः 10 ॥
देशीवराडि-रागेण रूपक-तालेन गीयते ।
वहति मलय-समीरे मदनम् उपनिधाय ।
स्फुटति कुसुम-निकरे विरहि-हृदय-दलनाय
तव विरहे वन-माली सखि सीदति । ध्रुव-पदम् ॥
दहति शिशिर-मयूखे मरणम् अनुकरोति ।
पतति मदन-विशिखे विलपति विकलतरोऽति
ध्वनति मधुप-समूहे श्रवणम् अपिदधाति ।
मनसि कलित-विरहे निशि निसि रुजम् उपयाति
वसति विपिन-विताने त्यजति ललित-धाम ।
लुठति धरणि-शयने बहु विलपति तव नाम
भणति कवि-जयदेवे विरह-विलसितेन ।
मनसि रभस-विभवे हरिर् उदयतु सुकृतेन
* * * * *
पूर्वं यत्र समं त्वया रति-पतेर् आसादिताः सिद्धयस् तस्मिन्न् एव निकुञ्ज-मन्मथ-महा-तीर्थे पुनर् माधवः ।
ध्यायंस् त्वाम् अनिशं जपन्न् अपि तवैवालाप-मन्त्रावलिं भूयस् त्वत्-कुच-कुम्भ-निर्भर-परीरम्भामृतं वाञ्छति
॥ प्रबन्धः 11 ॥
गुर्जरी-रागेण एकतालि-तालेन गीयते ।
रति-सुख-सारे गतम् अभिसारे मदन-मनोहर-वेशम् ।
न कुरु नितम्बिनि गमन-विलम्बनम् अनुसर तं हृदयेशम्
धीर-समीरे यमुना-तीरे वसति वने वन-माली ।
पीन-पयोधर-परिसर-मर्दन-चञ्चल-कर-युग-शाली ॥ ध्रुव॥
नोते: {थिस् लिने दोएस् नोत् सेएम् तो बे इन् अल्ल् वेर्सिओन्स्. प्रबोधनन्द दोएस् नोत् चोम्मेन्त् ओन् इत्.}
नाम-समेतं कृत-सङ्केतं वादयते मृदु-वेणुम् ।
बहु मनुतेऽतनु ते तनु-सङ्गत-पवन-चलितम् अपि रेणुम्
पतति पतत्रे विचलति पत्रे शङ्कित-भवद्-उपयानम् ।
रचयति शयनं सचकित-नयनं पश्यति तव पन्थानम्
मुखरम् अधीरं त्यज मञ्जीरं रिपुम् इव केलि-सुलोलम् ।
चल सखि कुञ्जं सतिमिर-पुञ्जं शीलय नील-निचोलम्
उरसि मुरारेर् उपहित-हारे घन इव तरल-बलाके ।
तडिद् इव पीते रति-विपरीते राजसि सुकृत-विपाके
विगलित-वसनं परिहृत-रशनं घटय जघनम् अपिधानम् ।
किशलय-शयने पङ्कज-नयने निधिम् इव हर्ष-निधानम्
हरिर् अभिमाणी रजनिर् इदानीम् इयम् अपि याति विरामम् ।
कुरु मम वचनं सत्वर-रचनं पूरय मधु-रिपु-कामम्
श्री-जयदेवे कृत-हरि-सेवे भणति परम-रमणीयम् ।
प्रमुदित-हृदयं हरिम् अतिसदयं नमत सुकृत-कमनीयं
* * * * *
विकिरति मुहुः श्वासान् आशाः पुरो मुहुर् ईक्षते प्रविशति मुहुः कुञ्जं गूञ्जन् मुहुर् बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुर् ईक्षते मदन-कदन-क्लान्तः कान्ते प्रियस् तव वर्तते
त्वद्-वाम्येन समं समग्रम् अधुना तिग्मांशुर् अस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुण-स्वनेन सदृशी दीर्घ-मद्-अभ्यर्थना तन् मुग्धे विफलं विलम्बनम् असौ रम्योऽभिसार-क्षणः
आश्लेषाद् अनु चुम्बनाद् अनु नखो-लेखाद् अनु स्वान्तज-प्रोद्बोधाद् अनु सम्भ्रमाद् अनु रतारम्भाद् अनु प्रीतयोः ।
अन्यार्थं गतयोर् भ्रमान् मिलितयोः सम्भाषणैर् जानतोर् दम्पत्योर् इह को न को न तमसि व्रीडा-विमिश्रो रसः
स-भय-चकितं विन्यस्यन्तीं दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथम् अपि रहः प्राप्ताम् अङ्गैर् अनङ्ग-तरण्गिभिः सुमुखि सुभगः पश्यन् स त्वाम् उपैतु कृतार्थताम्
राधा-मुग्ध-मुखारविन्द-मधुपस् त्रैलोक्य-मौलि-स्थली नेपथ्योचित-नील-रत्नम् अवनी-भारावतारान्तकः ।
स्वच्छन्दं व्रज-सुन्दरी-जन-मनस्-तोष-प्रदोषोदयः कंस-ध्वंसन-धूम-केतुर् अवतु त्वां देवकी-नन्दनः
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0