भाषा

ENहिગુ
ग्रंथ पाठ

गीतगोविन्द (अन्य संस्करण) · अध्याय 4

4.1

इति श्री-गीत-गोविन्द-महा-काव्ये मुग्ध-मधुसूदनो नाम
तृतीयः सर्गः
॥3॥
(4)
चतुर्थः सर्गः
स्निग्ध-मधुसूदनः
यमुना-तीर-वानीर-निकुञ्जे मन्दं आस्थितं ।
प्राह प्रेम-भरोद्भ्रान्तं माधवं राधिका-सखी

4.2

॥ प्रबन्धः 8 ॥
कर्णाट-रागैक-ताली-तालाभ्यां गीयते ।
निन्दति चन्दनम् इन्दु-किरणम् अनु विन्दति खेदम् अधीरम् ।
व्याल-निलय-मिलनेन गरलम् इव कलयति मलय-समीरम्

4.3

माधव मनसिज-विशिख-भयाद् इव भावनया त्वयि लीना ।
सा विरहे तव दीना ॥ ध्रुव-पदम् ॥
अविरल-निपतित-मदन-शराद् इव भवद्-अवनाय वीशालम् ।
स्व-हृदय-मर्मणि वर्म करोति सजल-नलिनी-दल-जालम्

4.4

कुसुम-विशिख-शर-तल्पम् अनल्प-विलास-कला-कमणीयम् ।
व्रतम् इव तव परिरम्भ-सुखाय करोति कुसुम-शयनीयम्

4.5

वहति च चलित-विलोचन-जलधारम् आनन-कमलम् उदारम् ।
विधुम् इव विकट-विधुन्तुद-दन्त-दलन-गलितामृत-धारम्

4.6

विलिखति रहसि कुरङ्ग-मदेन भवन्तम् असम-शर-भूतम् ।
प्रणमति मकरम् अधो विनिधाय करे च शरं नव-चूतम्

4.7

ध्यान-लयेन पुरः परिकल्प्य भवन्तम् अतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम्

4.8

प्रति-पदम् इदम् अपि निगदति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधा-निधिर् अपि तनुते तनु-दाहम्

4.9

श्री-जयदेव-भणितम् इदम् अधिकं यदि मनसा नटणीयम् ।
हरि-विरहाकुल-बल्लव-युवति-सखी-वचनं पठनीयम्

4.10

* * * * *
आवासो विपिनायते प्रिय-सखी-मालापि जालायते तापोऽपि श्वसितेन दाव-दहन-ज्वाल-कलापायते ।
सापि त्वद्-विरहेण हन्त हरिणी-रूपायते हा कथं कन्दर्पोऽपि यमायते विरचयन् शार्दूल-विक्रीडितम्

4.11

॥ प्रबन्धः 9 ॥
देशाख्य-रागैक-ताली-तालाभ्यां गीयते ।
स्तन-विनिहितम् अपि हारम् उदारम् ।
स मनुते कृशा-तनुर् इव भारम्

4.12

राधिका तव विरहे केशव ॥ ध्रुवम् ॥
स-रस-मसृणम् अपि मलयज-पङ्कम् ।
पश्यति विषम् इव वपुषि स-शङ्कम्

4.13

श्वसित-पवनम् अनुपम-परिणाहम् ।
मदन-दहनम् इव वहति स-दाहम्

4.14

दिशि दिशि किरति सजल-कण-जालम् ।
नयन-नलिनम् इव विगलित-नालम्

4.15

त्यजति न पाणि-तलेन कपोलम् ।
बाल-शशिनम् इव सायम् अलोलम्

4.16

नयन-विषयम् अपि किशलय-तल्पं ।
कलयति विहित-हुताश-विकल्पम्

4.17

हरिर् इति हरिर् इति जपति स-कामम् ।
विरह-विहित-मरणेव निकामं

4.18

श्री-जयदेव-भणितम् इति गीतम् ।
सुखयतु केशव-पदम् उपनीतम्

4.19

* * * * *
सा रोमाञ्चति शीत्करोति विलपत्य् उत्कम्पते ताम्यति ध्यायत्य् उद्भ्रमति प्रमीलति पतत्य् उद्याति मूर्च्छत्य् अपि ।
एतावत्य् अतनु-ज्वरे वर-तनुर् जीवेन् न किं ते रसात् स्वर्-वैद्य-प्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः

4.20

स्मरातुरं दैवत-वैद्य-हृद्य त्वद्-अङ्ग-सङ्गामृत-मात्र-साध्यम् ।
निवृत्त-बाधां कुरुषे न राधाम् उपेन्द्र-वज्राद् अपि दारुणोऽसि

4.21

कन्दर्प-ज्वर-संज्वरातुर-तनोर् अश्चर्यम् अस्याश् चिरं चेतश् चन्दन-चन्द्रमः-कमलिनी-चिन्तासु सन्ताम्यति ।
किन्तु क्लान्ति-वशेन शीतल-तनुं त्वाम् एकम् एव प्रियं ध्यायन्ती रहसि स्थिता कथम् अपि क्षीणा क्षणं प्राणिति

4.22

क्षणम् अपि विरहः पुरा न सेहे नयन-निमीलन-खिन्नया यया ते ।
श्वसिति कथम् असौ रसाल-शाखां चिर-विरहेण विलोक्य पुष्पिताग्रम्

4.23

वृष्टि-व्याकुल-गोकुल-वन-रसाद् उद्धृत्य गोवर्धनं बिभ्रद् बल्लव-वल्लभाभिर् अधिकानन्दाच् चिरं चुम्बितः ।
दर्पेणेव तद्-अर्पिताधर-तटी-सिन्दूर-मुद्राङ्कितो बाहुर् गोप-तनोस् तनोतु भवतां श्रेयांसि कंस-द्विषः

मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc