गीतगोविन्द (अन्य संस्करण) · अध्याय 3
इति श्री-गीत-गोविन्द-महा-काव्ये अक्लेश-केशवो नाम
द्वितीयः सर्गः
॥2॥
(3)
तृतीयः सर्गः
मुग्ध-मधुसूदनः
कंसारिर् अपि संसार-वासनाबद्ध-शृङ्खलाम् ।
नोते: {वासनाबद्ध- इति चैतन्य-चरितामृतस्य पाठः.}
राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः
इतस् ततस् ताम् अनुसृत्य राधिकाम् अनङ्ग-बाण-व्रण-खिन्न-मानसः ।
कृतानुतापः स कलिन्द-नन्दिनी-तटान्त-कुञ्जे विषसाद माधवः
॥ प्रबन्धः 7 ॥
गुर्जरी-राग-यति-तालाभ्यां गीयते ।
माम् इयं चलिता विलोक्य वृतं वधू-निचयेन ।
सापराधतया मयापि न वारिताऽतिभयेन
हरि हरि हतादरतया गता सा कुपितेव ॥ध्रुव-पदम् ॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं मम जीवितेन गृहेण
चिन्तयामि तद्-आननं कुटिल-भ्रु कोप-भरेण ।
शोन-पद्मम् इवोपरि-भ्रमताकुलं भ्रमरेण
ताम् अहं हृदि सङ्गताम् अनिशं भृशं रमयामि ।
किं वनेऽनुसरामि ताम् इह किं वृथा विलपामि
तन्वि खिन्नम् असूयया हृदयं तवाकलयामि ।
तन् न वेद्मि कुतो गतासि न तेन तेऽनुनयामि
दृश्यसे पुरतो गतागतम् एव मे विदधासि ।
किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि
क्षम्यताम् अपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि
वर्णितं जयदेवकेन हरेर् इदं प्रणतेन ।
नोते: {प्रवणेन}
किन्दुबिल्व-समुद्र-सम्भव-रोहिणी-रमणेन
* * * * *
हृदि बिस-लता-हारो नायं भुजङ्गम-नायकः कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः ।
मलयज-रजो नेदं भस्म प्रिया-रहिते मयि प्रहर न हर-भ्रान्त्याऽनङ्ग क्रुधा किम् उ धावसि
पाणौ मा कुरु चूत-सायकम् अमुं मा चापम् आरोपय कृईडा-निर्जित-विश्व मूर्च्छित-जनाघातेन किं पौरुषम् ।
तस्या एव मृगी-दृशो मनसिज प्रेण्खत्-कताक्षाशुग-श्रेणी-जर्जरितं मनाग् अपि मनो नाद्यापि सन्धुक्षते
भ्रू-पल्लवं धनुर् अपाङ्ग-तरण्गितानि बाणा गुणः श्रवण-पालिर् इति स्मरेण ।
तस्याम् अनङ्ग-जय-जङ्गम-देवतायाम् अस्त्राणि निर्जित-जगन्ति किम् अर्पितानि
भ्रू-चापे निहितः कटाक्ष-विशिखो निर्मातु मर्म-व्यथां श्यामात्मा कुटिलः करोतु कबरी-भारोऽपि मारोद्यमम् ।
मोहं तावद् अयं च तन्वि तनुतां बिम्ब-धरो रागवान् सद्-वृत्तः स्तन-मण्डलस् तव कथं प्राणैर् मम क्रीडति
तानि स्पर्श-सुखानि ते च तरलाः स्निग्धा दृशोर् विभ्रमास् तद्-वक्त्राम्बुज-सौरभं स च सुधा-स्यन्दि गिरां वक्रिमा ।
स बिम्बाधर-माधुरीति विषयासङ्गेऽपि चेन् मानसं तस्यां लग्न-समाधि हन्त विरह-व्याधिः कथं वर्धते
तिर्यक्-कण्ठ-विलोल-मौलि-तरलोत्तंसस्य वम्शोच्चरद्-गीति-स्थान-कृतावधान-ललना-लक्षैर् न संलक्षिताः ।
नोते: {दीप्ति इति नि- पाठान्तरः.}
संमुग्धे मधुसूदनस्य मधुरे राधा-मुखेन्दौ सुधा-सारे कन्दलिताश् चिरं ददतु वः क्षेमं कटाक्षोर्मयः
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0