गीतगोविन्द (अन्य संस्करण) · अध्याय 2
नोते: {स्मृत (?)}
॥ इति श्री-गीत-गोविन्दे सामोद-दामोदरो नाम प्रथमः सर्गः ॥
(2)
द्वितीयः सर्गः
अक्लेश-केशवः
विहरति वने राधा साधारण-प्रणये हरौ विगलित-निजोत्कर्षाद् ईर्ष्या-वशेन गताऽन्यतः ।
क्वचिद् अपि लता-कुञ्जे गुञ्जन्-मधु-व्रत-मण्डली मुखर-शिखरे लीन दीनाप्य् उवाच रहः सखीम्
॥ प्रबन्धः 5 ॥
गुर्जरी-रागेण यति-तालेन गीयते ।
सञ्चरद्-अधर-सुधा-मधुर-ध्वनि-मुखरित-मोहन-वंशम् ।
चलित-दृग्-अञ्चल-चञ्चल-मौलि-कपोल-विलोल-वतंसम् ।
रासे हरिम् इह विहित-विलासं स्मरति मनो मम कृत-परिहासम् ॥ ध्रु.
चन्द्रक-चारु-मयूर-शिखण्डक-मण्डल-वलयित-केशम् ।
प्रचुर-पुरन्दर-धनुर्-अनुरञ्जित-मेदुर-मुदिर-सुवेशम्
गोप-कदम्ब-नितम्बवती-मुख-चुम्बन-लम्भित-लोभम् ।
बन्धुजीव-मधुराधर-पल्लवम् उल्लसित-स्मित-शोभम्
विपुल-पुलक-भुज-पल्लव-वलयित-बल्लव-युवति-सहस्रम् ।
कर-चरणोरसि मणि-गण-भूषण-किरण-विभिन्न-तमिस्रम्
जलद-पटल-चलद्-इन्दु-विनिन्दक-चन्दन-तिलक-ललाटम् ।
पीन-पयोधर-परिसर-मर्दन-निर्दय-हृदय-कपाटम्
मणि-मय-मकर-मनोहर-कुण्डल-मण्डित-गण्डम् उदारम् ।
पीत-वसनम् अनुगत-मुनि-मनुज-सुरासुर-वर-परिवारम्
विशद-कदम्ब-तले मिलितं कलि-कलुष-भयं शमयन्तम् ।
माम् अपि किम् अपि तरल-तरङ्गद्-अनङ्ग-दृशा मनसा रमयन्तम्
श्री-जयदेव-भणितम् अतिसुन्दर-मोहन-मधु-रिपु-रूपम् ।
हरि-चरण-स्मरणं प्रति सम्प्रति पुण्यवताम् अनुरूपम्
* * * * *
गणयति गुण-ग्रामं भामं भ्रामाद् अपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः ।
नोते: {भ्रामम्}
युवतिषु वलत्-तृष्णे कृष्णे विहारिणि मां विना पुनर् अपि मनो वामं कामं करोति करोमि किम्
॥ प्रबन्धः 6 ॥
मालव-गौड-रागेन एकताली-तालेन च गीयते ।
निभृत-निकुञ्ज-गृहं गतया निशि रहसि निलीय वसन्तम् ।
चकीत-विलोकित-सकल-दिशा रति-रभस-भरेण हसन्तम्
सखि हे केशी-मथनम् उदारम्
रमय मया सह मदन-मनोरथ-भावितया स-विकारम् ॥ध्रुवम् ॥
प्रथम-समागम-लज्जितया पटु-चाटु-शतैर् अनुकूलम् ।
मृदु-मधुर-स्मित-भाषितया शिथिली-कृत-जघन-दुकूलम्
कीसल-शयन-निवेशितया चिरम् उरसि ममैव शयानम् ।
कृत-परिरम्भण-चुम्बनया परिरभ्य कृताधर-पानम्
अलस-निमीलित-लोचनया पुलकावलि-ललित-कपोलम् ।
श्रम-जल-सकल-कलेवरया वर-मदन-मदाद् अतिलोलम्
कोकिल-कल-रव-कूजितया जित-मनसिज-तन्त्र-विचारम् ।
श्लथ-कुसुमाकुल-कुन्तलया नख-लिखित-घन-स्तन-भारम्
चरण-रणित-मणि-नूपुरया परिपूरित-सुरत-वितानम् ।
मुखर-विशृङ्खल-मेखलया स-कच-ग्रह-चुम्बन-दानम्
रति-सुख-समय-रसालसया दर-मुकुलित-नयन-सरोजम् ।
निःसह-निपतित-तनु-लतया मधुसूदनम् उदित-मनोजम्
श्री-जयदेव-भणितम् इदम् अतिशय-मधु-रिपु-निधुवन-शीलम् ।
सुखम् उत्कण्ठित-गोप-वधू-कथितं वितनोतु सलीलं
* * * * *
हस्त-स्रस्त-विलास-वंशम् अनृजु-भ्रू-वल्लिमद्-बल्लवी-वृन्दोत्सारि-दृगन्त-वीक्षितम् अतिस्वेदार्द्र-गण्ड-स्थलम् ।
माम् उद्वीक्ष्य विलज्जितं स्मृत-सुधा-मुग्धानन-कानने गोविन्दं व्रज-सुन्दरी-गण-वृतं पश्यामि हृष्यामि च
दुरालोक-स्तोक-स्तवक-नवकाशोक-लतिका-विकासः कासारोपवन-पवनोऽपि व्यथयति ।
अपि भ्राम्यद्-भृङ्गी-रणित-रमणीया न मुकुल-प्रसूतिश् चूतानां सखि शिखरिणीयं सुखयति
सकूत-स्मितम् आकुलाकुल-गलद्-धम्मिल्लम् उल्लासित-भ्रू-वल्लीकम् अलीक-दर्शित-भुजा-मूलार्ध-हस्त-स्तनम् ।
गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश् चिरं चिन्तयन्न् अन्तर् मुग्ध-मनोहरं हरतु वः क्लेशं नवः केशवः
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0