भाषा

ENहिગુ
ग्रंथ पाठ

गीतगोविन्द (अन्य संस्करण) · अध्याय 1

1.1

श्री-जयदेव-गोस्वामि-विरचितं
गीत-गोविन्द-काव्यम्
श्री-गीत-गोविन्द-काव्यम्
(1)
प्रथमः सर्गः
सामोद-दामोदरः
मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर् नक्तं भीरुर् अयं त्वम् एव तद् इमं राधे गृहं प्रापय ।
इत्थं नन्द-निदेशतश् चलितयोः प्रत्य्-अध्व-कुञ्ज-द्रुमं राधा-माधवयोर् जयन्ति यमुना-कूले रहः-केलयः

1.2

वाग्-देवता-चरित-चित्रित-चित्त-सद्मा पद्मावती-चरण-चारण-चक्रवर्ती ।
श्री-वासुदेव-रति-केलि-कथा-समेतं एतं करोति जयदेव-कविः प्रबन्धं

1.3

यदि हरि-स्मरणे सरसं मनो यदि विलास-कलासु कुतूहलं ।
मधुर-कोमल-कान्त-पदावलीं शृणु तदा जयदेव-सरस्वतीम्

1.4

वचः पल्लवयत्य् उमापतिधरः सन्दर्भ-शुद्धिं गिरां जानीतेजयदेव एव शरणः श्लाघ्यो दुरूह-द्रुतेः ।
नोते: {दुरूहाद्भुतेः इति नि- पाथान्तरः । }
शृङ्गारोत्तर-सत्-प्रमेय-रचनैर् आचार्य-गोवर्धन-स्पर्धी कोऽपि न विश्रुतः स्रुतिधरो धोयी कवि-क्ष्मापतिः

1.5

॥ प्रथम-प्रबन्धः ॥
मालव-गौड-रागेण रूपक-तलेन गियते । अष्टापदी ।
प्रलय-पयोधिजले धृतवान् असि वेदं विहित-वहित्र-चरित्रम् अखेदम् ।
केशव धृत-मीन-शरीर जय जगदीश हरे [ध्रुव-पदम्]

1.6

(1.1)
क्षितिर् अतिविपुलतरे तव तिष्ठति पृष्ठे धरणी-धरण-किण-चक्र-गरिष्ठे ।
केशव धृत-कच्छप-रूप जय जगदीश हरे

1.7

(1.2)
वसति दशन-शिखरे धरणी तव लग्ना शशिनि कलङ्क-कलेव निमग्ना ।
केशव धृत-सूकर-रूप जय जगदीश हरे

1.8

(1.3)
तव कर-कमल-वरे नखं अद्भुत-शृङ्गं दलित-हिरण्यकशिपु-तनु-भृङ्गं ।
केशव धृत-नर-हरि-रूप जय जगद्-ईश हरे

1.9

(1.4)
छलयसि विक्रमणे बलिम् अद्भुत-वामन पद-नख-नीर-जनित-जन-पावन ।
केशव धृत-वामन-रुप जय जगद्-ईश हरे

1.10

(1.5)
क्षत्रीय-रुधिर-मये जगद् अपगत-पापं स्नपयसि पयसि शमित-भव-तापम् ।
केशव धृत-भृगु-पति-रूप जय जगद्-ईश हरे

1.11

(1.6)
वितरसि दिक्षु रणे दिक्-पति-कमनीयं दश-मुख-मौलि-बलि रमणीयम् ।
केशव धृत-राम-शरीर जय जगद्-ईश हरे

1.12

(1.7)
नोते: {रघुपति-रूपं इति ह-संस्करण-पाठः.}
वहसि वपुषि विशदे वसनं जलदाभं हल-हति-भीति-मिलित-यमुनाभम् ।
केशव धृत-हल-धर-रूप जय जगद्-ईश हरे

1.13

(1.8)
निन्दसि यज्ञ-विधेर् अहह श्रुति-जातम् सदय-हृदय दर्शित-पशु-घातम् ।
केशव धृत-बुद्ध-शरीर जय जगद्-ईश हरे

1.14

(1.9)
म्लेच्छ-निवह-निधने कलयसि करवालं धूम-केतुम् इव किम् अपि करालम् ।
केशव धृत-कल्कि-शरीर जय जगद्-ईश हरे

1.15

(10)
श्री-जयदेव-कवेर् इदम् उदितम् उदारं शृणु सुखदं शुभदं भव-सारम् ।
केशव धृत-दश-विध-रूप जय जगद्-ईश हरे

1.16

(11)
* * * * *
वेदान् उद्धरते जगन्ति वहते भूगोलम् उद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्र-क्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते म्लेच्छान् मूर्च्छयते दशाकृति-कृते कृष्णाय तुभ्यं नमः

1.17

(5)
॥ प्रबन्धः 2 ॥
गुर्जरी-राग-निःसार- तालाभ्यां गीयते ।
श्रित-कमला-कुच-मण्डल धृत-कुण्डल ए
कलित-ललित-वन-माल
जय जय देव हरे

1.18

[ध्रुव-पदम्]
दिन-मणि-मण्डल-मण्डन
भव-खण्डन ए
मुनि-जन-मानस-हंस
जय जय देव हरे

1.19

कालिय-विष-धर-गञ्जन
जन-रञ्जन ए
यदुकुल-नलिन-दिनेश
जय जय देव हरे

1.20

मधु-मुर-नरक-विनाशन
गरुडासन ए ।
सुर-कुल-केलि-निदान
जय जय देव हरे

1.21

अमल-कमल-दल-लोचन
भव-मोचन ए
त्रिभुवन-भुवन-निधान
जय जय देव हरे

1.22

जनक-सुता-कृत-भूषण
जित-दूषण ए
समर-शमित-दश-कण्ठ
जय जय देव हरे

1.23

अभिनव-जल-धर-सुन्दर
धृत-मन्दर ए
श्री-मुख-चन्द्र-चकोर
जय जय देव हरे

1.24

तव चरणं प्रणता वयम्
नोते: {चरणे}
इति भावय ए
कुरु कुशलं प्रणतेषु
जय जय देव हरे

1.25

श्री-जयदेव-कवेर् इदं
कुरुते मुदम् ए
मङ्गलम् उज्ज्वल-गीतं
जय जय देव हरे

1.26

* * * * *
पद्मा-पयोधर-तटी-परिरम्भ-लग्न-काश्मीर-मुद्रितम् उरो मधुसूदनस्य ।
व्यक्तानुरागम् इव खेलद्-अनङ्ग-खेद-स्वेदाम्बु-पूरम् अनुपूरयतु प्रियं वः

1.27

वसन्ते वासन्ती-कुसुम-सुकुमारैर् अवयवैर् भ्रमन्तीं कान्तारे बहु-विहित-कृष्णानुसरणाम् ।
अमन्दं कन्दर्प-ज्वर-जनित-चिन्ताकुलतया वलद्-बाधां राधां सरसम् इदम् ऊचे सहचरी

1.28

नोते: {चलद् इति नि- पाठान्तरः.}
॥ प्रबन्धः 3 ॥
वसन्त-राग-यति-तालाभ्यां गीयते ।
ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय-समीरे ।
मधुकर-निकर-करम्बित-कोकिल-कूजित-कुञ्ज-कुटीरे

1.29

विहरति हरिर् इह सरस-वसन्ते
नृत्यति युवती-जनेन समं सखि विरहि-जनस्य दुरन्ते ॥ध्र्॥
उन्मद-मदन-मनोरथ-पथिक-वधू-जन-जनित-विलापे ।
अलि-कुल-सङ्कुल-कुसुम-समूह-निराकुल-बकुल-कलापे

1.30

मृग-मद-सौरभ-रभस-वशंवद-नव-दल-माल-तमाले ।
युव-जन-हृदय-विदारण मनसिज-नख-रुचि-किंशुक-जाले

1.31

मदन-महीपति-कनक-दण्ड-रुचि-केशर-कुसुम-विकाशे ।
मिलित-शिलि-मुख-पाटल-पटल-कृत-स्मर-तूण-विलासे

1.32

विगलित-लज्जित-जगद्-अवलोकन-तरुण-करुण-कृत-हासे ।
विरहि-निकृन्तन-कुन्त-मुखाकृति-केतक-दन्तुरिताशे

1.33

माधविका-परिमल-ललिते नव-मालति-जाति-सुगन्धौ ।
नोते: {मालिकयातिसुगन्धौ इति नि- पाठान्तरः.}
मुनि-मनसाम् अपि मोहन-कारीणि तरुण॥-करण-बन्धौ

1.34

स्फुरद्-अतिमुक्त-लता-परिरम्भन-मुकुलित-पुलकित-चूते ।
वृन्दावन-वीपिने परीसर-परिगत-यमुना-जल-पूते

1.35

श्री-जयदेव-भणितम् इदम् उदयति हरि-चरण-स्मृति-सारम् ।
सरस-वसन्त-समय-वन-वर्णनम् अनुगत-मदन-विकारम्

1.36

* * * * *
दर-विदलित-मल्ली-वल्लि-चञ्चत्-पराग-प्रकटित-पट-वासैर् वासयन् काननानि ।
इह हि दहति चेतः केतकी-गन्ध-बन्धुः प्रसरद्-असम-बाण-प्राणवद् गन्धवाहः

1.37

नोते: {अत्र हरिदास-दासस्य प्रबोधानन्द-टीका-संवलित-संस्करणे 48-सङ्ख्यक-पद्यं दृश्यते }
उन्मीलन्-मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूताङ्कुर-क्रीडत्-कोकिल-काकली-कलकलैर् उद्गीर्ण-कर्ण-ज्वरः ।
नोते: {कल-रवैर् इति नि- पाठान्तरः.}
नीयन्ते पथिकैः कथं कथम् अपि ध्यानावधान-क्षण प्राप्त-प्राण-समागम-रसोल्लासैर् अमी वासराः

1.38

अनेक-नारी-परिरम्भ-सम्भ्रम-स्फुरण्-मनोहारि-विलास-लालसम् ।
मुरारिम् आराद् उपदर्शयन्त्य् असौ सखी समक्षं पुनर् आह राधिकाम्

1.39

॥ प्रबन्धः 4 ॥
रामकरी-राग-यति-तालाभ्यां गीयते ।
चन्दन-चर्चित-नील-कलेवर-पीत-वसन-वन-माली ।
केलि-चलन्-मणि-कुण्डल-मण्डित-गण्ड-युग-स्मित-शाली

1.40

हरिर् इह मुग्ध-वधू-निकरे विलासिनि विलासति केली-परे ॥ध्र्॥
पीन-पयोधर-भार-भरेण हरिं परिरभ्य सरागम् ।
गोप-वधूर् अनुगायति काचिद् उदञ्चित-पञ्चम-रागम्

1.41

कापि विलास-विलोल-विलोचन-खेलन-जनित-मनोजम् ।
ध्यायति मुग्ध-वधूर् अधिकं मधुसूदन-वदन-सरोजम्

1.42

कापि कपोल-तले मिलिता लपितुं किम् अपि श्रुति-मूले ।
चारु चुचुम्ब नितम्बवती दयितं पुलकैर् अनुकूले

1.43

केलि-कला-कुतुकेन च काचिद् अमुं यमुना-जल-कूले ।
मञ्जुल-वञ्जुल-कुञ्ज-गतं विचकर्ष करेण दुकूले

1.44

कर-तल-ताल-तरल-वलयावलि-कलित-कलस्वन-वंशे ।
रास-रसे सह-नृत्य-परा हरिणा युवती प्रशशंसे

1.45

श्लिष्यति काम् अपि चुम्बति काम् अपि काम् अपि रमयति रामाम् ।
पश्यति स स्मित-चारु-तराम् अपराम् अनुगच्छति वामाम्

1.46

श्री-जयदेव-भणितम् इदम् अद्भुत-केशव-केलि-रहस्यम् ।
वृन्दावन-विपिने ललितं वितनोतु शुभानि यशस्यम्

1.47

नोते: {वलितम् इति च पाठः.}
* * * * *
विश्वेषाम् अनुरञ्जनेन जनयन्न् आनन्दम् इन्दीवर-श्रेणी-श्यामल-कोमलैर् उपनयन्न् अङ्गैर् अनङ्गोत्सवम् ।
स्वच्छन्दं व्रज-सुन्दरीभिर् अभितः प्रत्य्-अङ्गम् आलिङ्गितः शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धो हरिः क्रीडति

1.48

निजोत्सङ्ग-वसद्-भुजङ्ग-कवल-क्लेशाद् इवेशाचलं प्रालेय-प्लवनेच्छयानुसरति श्री-खण्ड-शैलानिलः ।
नोते: {अद्र्योत्सङ्गअद्योत्सङ्ग- इति नि- पाठान्तरः.}
किं च स्निग्ध-रसाल-मौलि-मुकुलान्य् आलोक्य हर्षोदयाद् उन्मीलन्ति कुहूः कुहूर् इति कलोत्तालाः पिकानां गिरः

1.49

नोते: {अयं श्लोकः प्रबोधानन्देन न पठितः }
रासोल्लास-भरेण विभ्रम-भृताम् आभीर-वाम-भ्रुवाम् अभ्यर्णं परिरभ्य निर्भरम् उरः प्रेमान्धया राधया ।
साधु त्वद्-वदनं सुधा-मयम् इति व्याहृत्य गीत-स्तुति-व्याजाद् उद्भट-चुम्बितः स्मित-मनोहारि हरिः पातु वः

मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc