गीतगोविन्द (अन्य संस्करण) · अध्याय 12
(12)
द्वादशः सर्गः
सुप्रीत-पीताम्बरः
गतवति सखी-वृन्देऽमन्द-त्रपा-भर-निर्भर-स्मर-परवशाकूत-स्फीत-स्मित-स्नपिताधरम् ।
सरस-मनसं दृष्ट्वा राधां मुहुर् नव-पल्लव-प्रसव-शयने निक्षिप्ताक्षीम् उवाच हरिः प्रियाम्
॥ प्रबन्धः 23 ॥
विभास-रागैकतालि-तालाभ्यां गीयते ।
किशलय-शयन-तले कुरु कामिनि चरण-नलिन-विनिवेशम् ।
तव पद-पल्लव-वैरि-पराभवम् इदम् अनुभवतु सुवेशं
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ ध्रुव ॥
कर-कमलेन करोमि चरणम् अहम् आगमितासि विदूरम् ।
क्षणम् उपकुरु शयनोपरि माम् इव नूपुरम् अनुगति-शूरम्
वदन-सुधा-निधि-गलितम् अमृतम् इव रचय वचनम् अनुकूलम् ।
विरहम् इवापनयामि पयोधर-रोधकम् उरसि दुकूलं
प्रिय-परिरम्भण-रभस-वलितम् इव पुलकितम् अतिदुरवापम् ।
मद्-उरसि कुच-कलशं विनिवेशय शोषय मनसिज-तापम्
अधर-सुधा-रसम् उपनय भामिनि जीवय मृतम् इव दासम् ।
त्वयि विनिहित-मनसं विरहानल-दग्ध-वपुषम् अविलासम्
शशि-मुखि मुखरय मणि-रशना-गुणम् अनुगुण-कण्ठ-निनादम् ।
श्रुति-युगले पिक-रुत-विकले मम शमय चिराद् अवसादम्
माम् अतिविफल-रुषा विकली-कृतम् अवलोकितुम् अधुनेदम् ।
लज्जितम् इव नयनं तव विरमति विसृज वृथा रति-खेदम्
नोते: {सृजसि इति नि- पाठः.}
नोते: {मीलितं लज्जितम् इव नयनं तव विरम विसृज रति-खेदम् इति तु हरिदास-दासस्य पाठः.}
श्री-जयदेव-भणितम् इदम् अनुपद-निगदित-मधुरिपु-मोदम् ।
जनयतु रसिक-जनेषु मनोरम-रति-रस-भाव-विनोदम्
* * * * *
प्रत्यूहः पुलकाङ्कुरेण निविड-लेश-निमेषेण च क्रीडाकूत-विलोकितेऽधर-सुधा-पाने कथा-केलिभिः ।
नोते: {नर्मभिः इति हरिदास-दास-पाठः.}
आनन्दाधिगमेन मन्मथ-कला-युद्धेऽपि यस्मिन्न् अभूद् उद्भूतः स तयोर् बभूव सुरतारम्भः प्रियम्भावुकः
दोर्भ्यां संयमितः पयोधर-भरेणापीडितः पाणिजैर् आविद्धो दशनैः क्षताधर-पुटः श्रोणी-तटेनाहतः ।
हस्तेनानमितः कचेऽधर-मधु-स्यन्देन संमोहितः कान्तः काम् अपि तृप्तिम् आप तद् अहो कामस्य वामा गतिः
माराङ्के रति-केलि-सङ्कुल-रणारम्भे तया साहस-प्रायं कान्त-जयाय किंचिद् उपरि प्रारम्भि यत्-सम्भ्रमात् ।
नोते: {वामाङ्गे इति नि- पाठः. }
निष्पन्दा जघन-स्थली शिथिलिता दोर्-वल्लिर् उत्कम्पितं वक्षो मीलितम् अक्षि पौरुष-रसः स्त्रीणां कुतः सिध्यति
तस्याः पाटल-पाणिजाङ्कितम् उरो निद्रा-कषाये दृशौ निर्धौताधर-शोनिमा विलुलित-स्रस्त-स्रजो मूर्ध-जः ।
नोते: {निर्धौतोऽधर इति हरिदासः.}
नोते: {विलुलिताः इति हरिदासः.}
काञ्ची-दाम दर-श्लथाञ्चलम् इति प्रातर् निखातैर् दृशोर् एभिः काम-शरैस् तद् अद्भुतम् अभूत् पत्युर् मनः कीलितं
व्यालोलः केश-पाशस् तरलितम् अलकैः स्वेद-मोक्षौ कपोलौ क्लिष्टा बिम्बाधर-श्रीः कुच-कलश-रुचा हारिता हार-यष्टिः ।
नोते: {व्याकोश इति नि- पाठः.}
नोते: {लोलौ इति हरिदासः.}
नोते: {दष्टा इति च.}
काञ्ची-कान्तिर् हताशा स्तन-जघन-पदं पाणिनाच्छाद्य सद्यः पश्यन्ती सत्रपा सा तद् अपि विलुलिता मुग्ध-कन्तिर् धिनोति
नोते: {काञ्ची काञ्चिद् गताशां इति हरिदासः.}
नोते: {सत्रपं मां इति हरिदासः.}
नोते: {विलुलित-स्रग्-धरेयं इति हरिदासः.}
ईषन्-मीलित-दृष्टि मुग्ध-विलसत्-शीत्कार-धारा-वशाद् अव्यक्ताकुल-केलि-काकु-विकसद्-दन्तांशु-धौताधरम् ।
नोते: {मीलद्-दृष्टि मिलत्-कपोल-पुलकं इति हरिदास-दास-पाठः.}
शान्त-स्तब्ध-पयोधरं भृश-परिष्वङ्गात् कुरङ्गी-दृशो हर्षोत्कर्ष-विमुक्त-निःसह-तनोर् धन्यो धयत्य् आननं
नोते: {श्यामोत्तुङ्ग-पयोधरोपरि परिष्वङ्गी इति हरिदास-दास-पाठः.}
अथ सहसा सुप्रीतं सुरतान्ते सा नितान्त-खिन्नाङ्गि ।
नोते: {इति सहसा निगदन्तं इति हरिदास-धृत-पाठान्तरः.}
राधा जगाद सादरम् इदम् आनन्देन गोविन्दम्
॥ प्रबन्धः 24 ॥
रामकरि-राग-यति-तालाभ्यां गीयते ।
कुरु यदु-नन्दन चन्दन-शिशिरतरेण करेण पयोधरे ।
मृग-मद-पत्रकम् अत्र मनो-भव-मङ्गल-कलश-सहोदरे
निजगाद सा यदु-नन्दने क्रीडति हृदय-नन्दने ॥ध्रुव॥॥
अलि-कुल-गञ्जनम् अञ्जनकं रति-नायक-सायक-मोचने ।
नोते: {गञ्जन-सञ्जनकं इति हरिदासस्य पाठः.}
त्वद्-अधर-चुम्बन-लम्बित-कज्जलम् उज्ज्वलय प्रिय लोचने
नयन-कुरङ्ग-तरङ्ग-विकस-निरास-करे श्रुति-मण्डले ।
मनसिज-पाश-विलास-धरे शुभ-वेश निवेशय कुण्डले
भ्रमर-चयं रचयन्तम् उपरि रुचिरं सुचिरं मम सम्मुखे ।
जित-कमले विमले परिकर्मय नर्म-जनकम् अलकं मुखे
मृग-मद-रस-वलितं ललितं कुरु तिलकम् अलिक-रजनि-करे ।
विहित-कलङ्क-कलं कमलानन विश्रमित-श्रम-सीकरे
मम रुचिरे चिकुरे कुरु मानद मनसिज-ध्वज-चामरे ।
रति-गलिते ललिते कुसुमानि शिखण्डि-शिखण्डक-डामरे
सरस-घने जघने मम शम्बर-दारण-वारण-कन्दरे ।
मणि-रशना-वसनाभरणानि शुभाशय वासय सुन्दरे
श्री-जयदेव-वचसि रुचिरे सदयं हृदयं कुरु मण्डने ।
हरि-चरण-स्मरणामृत-निर्मित-कलि-कलुष-ज्वर-खण्डने
* * * * *
रचय कुचयोश् चित्रं पत्रं कुरुष्व कपोलयोर् घटय जघने काञ्चीं मुग्ध-स्रजा कवरी-भरं ।
नोते: {पत्रं चित्रं इति हरिदासः.}
नोते: {काञ्चीम् अञ्च स्रजा इति हरिदासः.}
कलय वलय-श्रेणीं पाणौ पदे मणि-नूपुराव् इति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत्
पर्यङ्की-कृत-नाग-नायक-फणा-श्रेणी-मणीनां गणे सङ्क्रान्त-प्रतिबिम्ब-संवलनया बिभ्रद्-विभु-प्रक्रियाम् ।
पादाम्भो-रुह-धारि-वारिधि-सुताम् अक्ष्णां दिदृक्षुः शतैः काय-व्यूहम् इव-चरन्न् अपचितौ भूयो हरिः पातु वः
नोते: {उपचिती-भूतो इति हरिदासः.}
त्वाम् अप्राप्य मयि स्वयंवर-परां क्षीरोद-तीरोदरे शङ्के सुन्दरि कालकूटम् अपिबन् मूढो मृडानी-पतिः ।
इत्थं पूर्व-कथाभिर् अन्य-मनसा विक्षिप्य वक्षोऽञ्चलं राधायाः स्तन-कोरकोपरि-मिलन्-नेत्रो हरिः पातु वः
नोते: {पद्मायाः इति हरिदासः.}
यद् गान्धर्व-कलासु कौशलम् अनुध्यानं च यद् वैष्णवं यच् छृङ्गार-विवेक-तत्त्व-रचना-काव्येषु लीलायितम् ।
तत् सर्वं जयदेव-पण्डित-कवेः कृष्णैक-तानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्री-गीत-गोविन्दतः
नोते: {थिस् वेर्से अप्पेअर्स् अस् नुम्बेर् 26 इन् थे हरिदास एदितिओन्.}
साधूनां स्वत एव संमतिर् इह स्याद् एव भक्त्यार्थिनाम् आलोच्य ग्रथन-श्रमं च विदुसाम् अस्मिन् भवेद् आदरः ।
ये केचित् पर-कृत्य्-उपश्रुति-परास् तान् अर्थये मत्-कृतिं भूयो वीक्ष्य वदन्तो अवद्यम् इह चेत् सा वासना स्थास्यति
श्री-भोजदेव-प्रभवस्य रामादेवी-सुत-श्री-जयदेवकस्य ।
पराशरादि-प्रिय-वर्ग-कण्ठे श्री-गीत-गोविन्द-कवित्वम् अस्तु
नोते: {बन्धु इति ह-पाठः.}
नोते: {थिस् वेर्से इस् थे लस्त् इन् सोमे एदितिओन्स्. }
साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि द्राक्षे द्रक्ष्यन्ति के त्वाम् अमृत मृतम् असि क्षीर नीरं रसस्ते ।
माकन्द क्रन्द कान्ताधर धर न तुलां गच्छ यच्छन्ति भावं यावच् छृङ्गार-सारं शुभम् इव जयदेवस्य वैदग्ध्य-वाचः
नोते: {थिस् वेर्से इस् नोत् fओउन्द् इन् नरयन महरजऽस् एदितिओन् ओf गीत-गोविन्द, एवेन् थोउघ् थेरे इस् अ बाल-बोधिनी टीका fओर् इत्.}
इत्थं केलि-ततिर् विहृत्य यमुना-कूले समं राधया तद्-रोमावलि-मौक्तिकावलि-युगे वेणी-भ्रमं बिभ्रति ।
तत्राह्लादि-कुच-प्रयाग-फलयोर् लिप्सावतोर् हस्तयोर् व्यापाराः पुरुषोत्तमस्य ददतु स्फीतां मुदं सम्पदं
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0