गीतगोविन्द (अन्य संस्करण) · अध्याय 11
नोते: {यत्र स्विद्यति मीलति क्षणम् अथ क्षिप्ते द्विपे तत्-क्षणात् कंसस्यालम् अभूज् जितं जितं जितम् इति व्यामोह-कोलाहलः ॥ इति हरिदास-संस्करण-पाठः.}
(11)
एकादशः सर्गः
सानन्द-दामोदरः
नोते: {सामोद- इति क्वचित्, सानन्द-गोविन्द इति हरिदास-संस्करणे.}
सुचिरम् अनुनयेन प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्ज-शय्याम् ।
रचित-रुचिर-भूषां दृष्टि-मोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद
॥ प्रबन्धः 20 ॥
वसन्त-राग-यति-तालाभ्यां गीयते ।
विरचित-चाटु-वचन-रचनं चरणे रचित-प्रणिपातम् ।
सम्प्रति मञ्जुल-वञ्जुल-सीमनि केलि-शयनम् अनुयातं
मुग्धे मधु-मथनम् अनुगतम् अनुसर राधिके ॥ध्रुव॥॥
घन-जघन-स्तन-भार-भरे दर-मन्थर-चरण-विहारम् ।
मुखरित-मणि-मञ्जीरम् उपैहि विधेहि मराल-विकारम्
नोते: {निकारम् इति.}
शृणु रमणीयतरं तरुणी-जन-मोहन-मधुप-विरावम् ।
नोते: {रमणी-}
नोते: {मधुरिपु-रावम्}
कुसुम-शरासन-शासन-वन्दिनि पिक-निकरे भज भावम्
अनिल-तरल-किशलय-निकरेण करेण लता-निकुरम्बम् ।
प्रेरणम् इव करभोरु करोति गतिं प्रति मुञ्च विलम्बम्
स्फुरितम् अनङ्ग-तरङ्ग-वशाद् इव सूचित-हरि-परिरम्भम् ।
पृच्छ मनोहर-हार-विमल-जल-धारम् अमुं कुच-कुम्भम्
अधिगतम् अखिल-सखीभिर् इदं तव वपुर् अपि रति-रण-सज्जम् ।
चण्डि रसित-रशना-रव-डिण्डिमम् अभिसर सरसम् अलज्जम्
स्मर-शर-सुभग-नखेन सखीम् अवलम्ब्य करेण सलीलम् ।
चल वलय-क्वणितैर् अवबोधय हरिम् अपि निज-गति-शीलं
नोते: {निगदित इति.}
श्री-जयदेव-भणितम् अधरीकृत-हारम् उदासित-वामम् ।
हरि-विनिहित-मनसाम् अधितिष्ठतु कण्ठ-तटीम् अविरामम्
* * * * *
सा मां द्रक्ष्यति वक्ष्यति स्मर-कथां प्रत्य्-अङ्गम् आलिङ्गनैः प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः ।
नोते: {सञ्चिन्तयन् इति हरिदास-पाठः.}
स त्वां पश्यति वेपते पुलकयत्य् आनन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिर-तमह्-पुञ्जे निकुञ्जे प्रीयः
अक्ष्णोर् निक्षिपद् अञ्जनं श्रवणयोस् तापिञ्छ-गुच्छावलीं मूर्ध्नि श्याम-सरोज-दाम कुचयोः कस्तूरिका-पत्रकम् ।
धूर्तानाम् अभिसार-सम्भ्रम-जूषां विष्वङ्-निकुञ्जे सखि ध्वान्तं नील-निचोल-चारु सुदृशां प्रत्य्-अङ्गम् अलिङ्गति
नोते: {अभिसार-सत्वर-हृदां इति हरिदास-संस्करण-पाथः.}
काश्मीर-गौर-वपुषाम् अभिसारिकाणां आबद्ध-रेखम् अभितो रुचि-मञ्जरीभिः ।
एतत् तमाल-दल-नीलतमं तमिस्रं तत्-प्रेम-हेम-निकषोपलतां तनोति
हारावली-तरल-काञ्चन-काञ्चि-दाम-केयूर-कङ्कण-मणि-द्युति-दीपितस्य ।
नोते: {मञ्जीर इति हरिदासस्य पाठः.}
द्वारे निकुञ्ज-निलयस्य हरिं निरीक्ष्य व्रीडावतीम् अथ सखीं ईयम् इत्य् उवच
॥ प्रबन्धः 21 ॥
वराडि-राग-रूपक-तालाभ्यां गीयते ।
मञ्जुतर-कुञ्ज-तल-केलि-सदने ।
विलस रति-रभस-हसित-वदने
प्रविश राधे माधव-समीपम् इह ॥ ध्रुव-पदं ॥
नोते: {हरिदासस्य संस्करणे, ःप्रविश राधेः इत्य्-आदि ध्रुव-पदं प्रतिश्लोकस्य प्रथम-द्वितीय-चरणयोर् मध्ये गीयते.}
नव-लसद्-अशोक-दल-शयन-सारे ।
नोते: {भवद्- इति नि- पाठः.}
विलस कुच-कलश-तरल-हारे
कुसुम-चय-रचित-शुचि-वास-गेहे ।
विलस कुसुम-सुकुमार-देहे
मृदु-चल-मलय-पवन-सुरभि-शीते ।
नोते: {मृदु-चल-मलय- इति हरिदास-पाठान्तरः.}
विलस मदन-शर-निकर-भीते
नोते: {कुसुम-शर इति, मदन-रस इति वा नि- पाठान्तरः.}
नोते: {विलस रति-वलित-ललित-गीते इति हरिदास-पाठः. तत्र पाथान्तरे रस -वलित- इति च. }
वितत-बहु-वल्लि-नव-पल्लव-घने ।
विलस चिरम् अलस-पीन-जघने
मधु-मुदित-मधुप-कुल-कलित-रावे ।
विलस मदन-रस-सरस-भावे
नोते: {रभस-रस- हरिदासस्य पाठः.}
मधुरतर-पिक-निकर-निनद-मुखरे ।
विलस दशन-रुचि-रुचिर-शिखरे
विहित-पद्मावती-सुख-समाजे ।
कुरु मुरारे मङ्गल-शतानि ।
भणति जयदेव-कवि-राज-राजे
* * * * *
त्वां चित्तेन चिरं वहन्न् अयम् अतिश्रान्तो भृशं तापितः कन्दर्पेण च पातुम् इच्छति सुधा-सम्बाध-बिम्बाधरम् ।
अस्याङ्कं तद् अलङ्कुरु क्षणम् इह भ्रू-क्षेप-लक्ष्मी-लव-क्रीते दास इवोपसेवित-पदाम्भोजे कुतः सम्भ्रमः
सा स-साध्वस-सानन्दं गोविन्दे लोल-लोचना ।
सिञ्जाना मञ्जु-मञ्जीरं प्रविवेश निवेशनम्
नोते: {प्रविवेशाभिवेशनम् इति हरिदासस्य पाठः.}
॥ प्रबन्धः 22 ॥
वराडि-राग-यति-तालाभ्यां गीयते ।
राधा-वदन-विलोकन-विकसित-विविध-विकार-विभङ्गम् ।
जल-निधिम् इव विधु-मण्डल-दर्शन-तरलित-तुङ्ग-तरङ्गम्
हरिम् एक-रसं चिरम् अभिलषित-विलासम् ।
सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासं ॥ [ध्रु.]
हारम् अमलतर-तारम् उरसि दधतं परिलम्ब्य विदूरम् ।
नोते: {परिरभ्य इति नि- पाठान्तरः.}
स्फुटतर-फेन-कदम्ब-करम्बितम् इव यमुना-जल-पूरम्
श्यामल-मृदुल-कलेवर-मण्डलम् अधिगत-गौर-दुकूलम् ।
नील-नलिनम् इव पित-पराग-पटल-भर-वलयित-मूलम्
तरल-दृग्-अञ्चल-चलन-मनोहर-वदन-जनित-रति-रागम् ।
स्फुट-कमलोदर-खेलित-खञ्जन-युगम् इव शरदि तडागम्
वदन-कमल-परिशीलन-मिलित-मिहिर-सम-कुण्डल-शोभम् ।
स्मित-रुचि-रुचिर-समुल्लसिताधर-पल्लव-कृत-रति-लोभम्
शशि-किरण-च्छुरितोदर-जलधर-सुन्दर-सकुसुम-केशम् ।
तिमिरोदित-विधु-मण्डल-निर्मल-मलयज-तिलक-निवेशम्
वीपुल-पुलक-भर-दन्तुरितं रति-केलि-कलाभिर् अधीरं ।
मणि-गण-किरण-समूह-समुज्ज्वल-भूषण-सुभग-शरीरम्
श्री-जयदेव-भणित-विभव-द्विगुणीकृत-भूषण-भारम् ।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदय-सारम्
* * * * *
अतिक्रम्यापाङ्गं श्रवण-पथ-पर्यन्त-गमन-प्रयासेनेवाक्ष्णोस् तरलतर-तारं गमितयोः ।
नोते: {पतितयोः इति हरिदास-दासस्य पाठः.}
इदानीं राधायाः प्रियतम-समालोक-समये पपात स्वेदाम्बु-प्रसर इव हर्षाश्रु-निकरः
नोते: {समायात- इति नि- पाठः.}
भजन्त्यास् तल्पान्तं कृत-कपट-कण्डूति-पिहित-स्मितं याते गेहाद् बहिर् अवहिताली-परिजने ।
प्रियास्यं पश्यन्त्याः स्मर-परवशाकूत-सुभगं सलज्जा लज्जापि व्यगमद् इव दूरं मृग-दृशः
सानन्दं नन्द-सूनुर् दिशतु मितपरं संमदं मन्द-मन्दं राधाम् आधाय बाह्वोर् विवरम् अनु द्र्ढं पीडयन् प्रीति-योगात् ।
नोते: {हरिदास-दास-संस्करणे अयं श्लोको नास्ति.}
तुङ्गौ तस्या उरोजाव् अतनु-वरतनोर् निर्गतौ मा स्म भूतां पृष्ठं निर्भिद्य तस्माद् बहिर् इति वलित-ग्रीवम् आलोकयन् वः
जय-श्री-विन्यस्तैर् महित इव मन्दार-कुसुमैः स्वयं सिन्दूरेण द्विप-रण-मुदा मुद्रित इव ।
भुजापीड-क्रीडा-हत-कुवलयापीड-करिणः प्रकीर्णासृग्-बिन्दुर् जयति भुज-दण्डो मुरजितः
सौन्दर्यैक-निधेर् अनङ्ग-ललना-लावण्य-लीला-जुषो राधाया हृदि पल्वले मनसिज-क्रीडैक-रङ्ग-स्थले ।
नोते: {हरिदास-दास-संस्करणे अयं श्लोको नास्ति.}
रम्योरोज-सरोज-खेलन-रसित्वाद् आत्मनः ख्यापयन् ध्यातुर् मानस-राज-हंस-निभतां देयान् मुकुन्दो मुदम्
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0