गीतगोविन्द · अध्याय 7
अत्र अन्तरे च कुलटा-कुल-वर्त्म-पात-
संजात-पातकः इव स्फुट-लाञ्छन-श्रीः ।
वृन्दावन-अन्तरम् अदीपयत् अंशु-जालैः
दिक्सुन्दरी-वदन-चन्दन-बिन्दुः इन्दुः ॥
प्रसरति शश-धर-बिम्बे विहित-विलम्बे च माधवे विधुरा ।
विरचित-विविध-विलापम् सा परितापम् चकार उच्चैः ॥
कथित-समये अपि हरिः अहह न ययौ वनम् ।
मम विफलम् इदम् अमल-रूपम् अपि यौवनम् ॥
यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
यत् अनुगमनाय निशि गहनम् अपि शीलितम् ।
तेन मम हृदयम् इदम् असमशर-कीलितम् ॥
यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
मम मरणम् एव वरम् अतिवितथ-केतना ।
किम् इह विषहामि विरह-अनलम् अचेतना ॥
यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
माम् अहह विधुरयति मधुर-मधु-यामिनी ।
कापि हरिम् अनुभवति कृत-सुकृत-कामिनी ॥
यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
अहह कलयामि वलय-आदि-मणि-भूषणम् ।
हरि-विरह-दहन-वहनेन बहु-दूषणम् ॥
यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
कुसुम-सुकुमार-तनुम् अतनु-शर-लीलया ।
स्रक् अपि हृदि हन्ति माम् अतिविषम-शिलया ॥
यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
अहम् इह निवसामि नगणित-वन-वेतसा ।
स्मरति मधुसूदनः माम् अपि न चेतसा ॥
यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
हरि-चरण-शरण-जयदेव-कवि-भारती ।
वसतु हृदि युवतिः इव कोमल-कलावती ॥
यामि हे कम् इह शरणम् सखी-जन-वचन-वञ्चिता ॥
तत् किम् कामपि कामिनीम् अभिसृतः किम् वा कला-केलिभिः
बद्धः बन्धुभिः अन्धकारिणि वन-उपान्ते किम् उ भ्राम्यति ।
कान्तः क्लान्त-मनाः मनाक् अपि पथि प्रस्थातुम् एव अक्षमः
संकेती-कृत-मञ्जु-वञ्जुल-लता-कुञ्जे अपि यत् न आगतः ॥
अथ आगताम् माधवम् अन्तरेण सखीम् इयम् वीक्ष्य विषाद-मूकाम् ।
विशङ्कमाना रमितम् कयापि जनार्दनम् दृष्टवत् एतत् आह ॥
स्मर-समर-उचित-विरचित-वेशा ।
गलित-कुसुम-दर-विलुलित-केशा ॥
कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
हरि-परिरम्भण-वलित-विकारा ।
कुच-कलश-उपरि तरलित-हारा ॥
कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
विचलत्-अलक-ललित-आनन-चन्द्रा ।
तत्-अधर-पान-रभस-कृत-तन्द्रा ॥
कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
चञ्चल-कुण्डल-दलित-कपोला ।
मुखरित-रसन-जघन-गति-लोला ॥
कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
दयित-विलोकित-लज्जित-हसिता ।
बहु-विध-कूजित-रति-रस-रसिता ॥
कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
विपुल-पुलक-पृथु-वेपथु-भङ्गा ।
श्वसित-निमीलित-विकसत्-अनङ्गा ॥
कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
श्रमजल-कण-भर-सुभग-शरीरा ।
परिपतिता उरसि रति-रण-धीरा ॥
कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
श्रीजयदेव-भणित-हरि-रमितम् ।
कलि-कलुषम् जनयतु परिशमितम् ॥
कापि मधुरिपुणा विलसति युवतिः अधिक-गुणा ॥
विरह-पाण्डु-मुरारि-मुख-अम्बुज-द्युतिः इयम् तिरयन् अपि चेतनाम् ।
विधुः अतीव तनोति मनोभुवः सहृदये हृदये मदन-व्यथाम् ॥
समुदित-मदने रमणी-वदने चुम्बन-वलित-अधरे ।
मृगमद-तिलकम् लिखति सपुलकम् मृगम् इव रजनी-करे ॥
रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
घन-चय-रुचिरे रचयति चिकुरे तरलित-तरुण-आनने ।
कुरबक-कुसुमम् चपला-सुषमम् रति-पति-मृग-कानने ॥
रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
घटयति सुघने कुच-युग-गगने मृगमद-रुचि-रूषिते ।
मणि-सरम् अमलम् तारक-पटलम् नख-पद-शशि-भूषिते ॥
रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
जित-बिस-शकले मृदु-भुज-युगले कर-तल-नलिनी-दले ।
मरकत-वलयम् मधु-कर-निचयम् वितरति हिम-शीतले ॥
रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
रति-गृह-जघने विपुल-अपघने मनसिज-कनक-आसने ।
मणि-मय-रसनम् तोरण-हसनम् विकिरति कृत-वासने ॥
रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
चरण-किसलये कमला-निलये नख-मणि-गण-पूजिते ।
बहिः-अपवरणम् यावक-भरणम् जनयति हृदि योजिते ॥
रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
रमयति सुदृशम् कामपि सुभृशम् खल-हलधर-सोदरे ।
किम् अफलम् अवसम् चिरम् इह विरसम् वद सखि विटप-उदरे ॥
रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
इह रस-भणने कृत-हरि-गुणने मधुरिपु-पद-सेवके ।
कलियुग-चरितम् न वसतु दुरितम् कवि-नृप-जयदेवके ॥
रमते यमुना-पुलिन-वने विजयी मुरारिः अधुना ॥
न आयातः सखि निर्दयः यदि शठः त्वम् दूति किम् दूयसे
स्वच्छन्दम् बहु-वल्लभः सः रमते किम् तत्र ते दूषणम् ।
पश्य अद्य प्रिय-संगमाय दयितस्य आकृष्यमाणम् गुणैः
उत्कण्ठ-आर्ति-भरात् इव स्फुटत् इदम् चेतः स्वयम् यास्यामि ॥
अनिल-तरल-कुवलय-नयनेन ।
तपति न सा किसलय-शयनेन ॥
सखि या रमिता वनमालिना ॥
विकसित-सरसिज-ललित-मुखेन ।
स्फुटति न सा मनसिज-विशिखेन ॥
सखि या रमिता वनमालिना ॥
अमृत-मधुर-मृदुतर-वचनेन ।
ज्वलति न सा मलयज-पवनेन ॥
सखि या रमिता वनमालिना ॥
स्थल-जल-रुह-रुचिकर-चरणेन ।
लुठति न सा हिमकर-किरणेन ॥
सखि या रमिता वनमालिना ॥
सजल-जलद-समुदय-रुचिरेण ।
दलति न सा हृदि चिर-विरहेण ॥
सखि या रमिता वनमालिना ॥
कनक-निकष-रुचि-शुचि-वसनेन ।
श्वसिति न सा परिजन-हसनेन ॥
सखि या रमिता वनमालिना ॥
सकल-भुवन-जन-वर-तरुणेन ।
वहति न सा रुजम् अतिकरुणेन ॥
सखि या रमिता वनमालिना ॥
श्रीजयदेव-भणित-वचनेन ।
प्रविशतु हरिः अपि हृदयम् अनेन ॥
सखि या रमिता वनमालिना ॥
मनोभव-आनन्दन चन्दन-अनिल
प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणम् जगत्-प्राण विधाय माधवम्
पुरः मम प्राण-हरः भविष्यसि ॥
रिपुः इव सखी-संवासः अयम् शिखी इव हिम-अनिलः
विषम् इव सुधा-रश्मिः यस्मिन् दुनोति मनः-गते ।
हृदयम् अदये तस्मिन् एवम् पुनः वलते बलात्
कुवलय-दृशाम् वामः कामः निकाम-निरङ्कुशः ॥
बाधाम् विधेहि मलय-अनिल पञ्चबाण
प्राणान् गृहाण न गृहम् पुनः आश्रयिष्ये ।
किम् ते कृत-अन्त-भगिनि क्षमया तरङ्गैः
अङ्गानि सिञ्च मम शाम्यतु देह-दाहः ॥
मूल पाठ: Gītagovinda · Edition: Barbara Stoler-Miller (New York 1977), with occasional amendments. · Data entry Jakub Cejka · GRETIL (Göttingen) · CC BY-NC-SA 4.0