भाषा

ENहिગુ
ग्रंथ पाठ

गीतगोविन्द · अध्याय 10

10.1

अत्र अन्तरे मसृण-रोष-वशाम् असीम-
निःश्वास-निःसह-मुखीम् सुमुखीम् उपेत्य ।
सव्रीडम् ईक्षित-सखी-वदनाम् दिनान्ते
सानन्द-गद्गद-पदम् हरिः इति उवाच ॥

10.2

वदसि यदि किंचित् अपि दन्त-रुचि-कौमुदी
हरति दर-तिमिरम् अतिघोरम् ।
स्फुरत्-अधर-सीधवे तव वदन-चन्द्रमाः
रोचयतु लोचन-चकोरम् ॥
प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
सपदि मदन-अनलः दहति मम मानसम्
देहि मुख-कमल-मधु-पानम् ॥

10.3

सत्यम् एव असि यदि सुदति मयि कोपिनी
देहि खर-नखर-शर-घातम् ।
घटय भुज-बन्धनम् जनय रद-खण्डनम्
येन वा भवति सुख-जातम् ॥
प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
सपदि मदन-अनलः दहति मम मानसम्
देहि मुख-कमल-मधु-पानम् ॥

10.4

त्वम् असि मम भूषणम् त्वम् असि मम जीवनम्
त्वम् असि मम भव-जलधि-रत्नम् ।
भवतु भवती इह मयि सततम् अनुरोधिनी
तत्र मम हृदयम् अतियत्नम् ॥
प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
सपदि मदन-अनलः दहति मम मानसम्
देहि मुख-कमल-मधु-पानम् ॥

10.5

नील-नलिन-आभम् अपि तन्वि तव लोचनम्
धारयति कोक-नद-रूपम् ।
कुसुमशर-बाण-भावेन यदि रञ्जयसि
कृष्णम् इदम् एतत् अनुरूपम् ॥
प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
सपदि मदन-अनलः दहति मम मानसम्
देहि मुख-कमल-मधु-पानम् ॥

10.6

स्फुरतु कुच-कुम्भयोः उपरि मणि-मञ्जरी
रञ्जयतु तव हृदय-देशम् ।
रसतु रशना अपि तव घन-जघन-मण्डले
घोषयतु मन्मथ-निदेशम् ॥
प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
सपदि मदन-अनलः दहति मम मानसम्
देहि मुख-कमल-मधु-पानम् ॥

10.7

स्थल-कमल-गञ्जनम् मम हृदय-रञ्जनम्
जनित-रति-रङ्ग-परभागम् ।
भण मसृण-वाणि करवाणि पद-पङ्कजम्
सरस-लसत्-अलक्तक-रागम् ॥
प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
सपदि मदन-अनलः दहति मम मानसम्
देहि मुख-कमल-मधु-पानम् ॥

10.8

स्मर-गरल-खण्डनम् मम शिरसि मण्डनम्
देहि पद-पल्लवम् उदारम् ।
ज्वलति मयि दारुणः मदन-कदन-अरुणः
हरतु तत्-उपाहित-विकारम् ॥
प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
सपदि मदन-अनलः दहति मम मानसम्
देहि मुख-कमल-मधु-पानम् ॥

10.9

इति चटुल-चाटु-पटु-चारु मुरवैरिणः
राधिकाम् अधि वचन-जातम् ।
जयति पद्मावती-रमण-जयदेव-कवि-
भारती-भणितम् अतिशातम् ॥
प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानम्
सपदि मदन-अनलः दहति मम मानसम्
देहि मुख-कमल-मधु-पानम् ॥

10.10

परिहर कृत-आतङ्के शङ्काम् त्वया सततम् घन-
स्तन-जघनया आक्रान्ते स्वान्ते पर-अनवकाशिनि ।
विशति वितनोः अन्यः धन्यः न कः अपि मम-अन्तरम्
स्तन-भर-परीरम्भ-आरम्भे विधेहि विधेयताम् ॥

10.11

मुग्धे विधेहि मयि निर्दय-दन्त-दंश-
दोः-वल्लि-बन्ध-निबिड-स्तन-पीडनानि ।
चण्डि त्वम् एव मुदम् अञ्च न पञ्चबाण-
चण्डाल-काण्ड-दलनात् असवः प्रयान्तु ॥

10.12

व्यथयति वृथा मौनम् तन्वि प्रपञ्चय पञ्चमम्
तरुणि मधुर-आलापैः तापम् विनोदय दृष्टिभिः ।
सुमुखि विमुखी-भावम् तावत् विमुञ्च न मुञ्च माम्
स्वयम् अतिशय-स्निग्धः मुग्धे प्रियः अहम् उपस्थितः ॥

10.13

बन्धूक-द्युति-बान्धवः अयम् अधरः स्निग्धः मधूक-छविः
गण्डः चण्डि चकास्ति नील-नलिन-श्री-मोचनम् लोचनम् ।
नासा अभ्येति तिल-प्रसून-पदवीम् कुन्द-आभ-दन्ति प्रिये
प्रायः त्वत्-मुख-सेवया विजयते विश्वम् सः पुष्पायुधः ॥

10.14

दृशौ तव मद-आलसे वदनम् इन्दु-संदीपकम्
गतिः जन-मनोरमा विधुत-रम्भम् ऊरु-द्वयम् ।
रतिः तव कलावती रुचिर-चित्र-लेखे भ्रुवौ
अहो विबुध-यौवतम् वहसि तन्वि पृथ्वी-गता ॥

मूल पाठ: Gītagovinda · Edition: Barbara Stoler-Miller (New York 1977), with occasional amendments. · Data entry Jakub Cejka · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc